ॐ कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्याम् ॐ
८. कृतात्ययाधिकरणम्
सूत्रभाष्यं
कृतस्य कर्मणो भोगेन क्षयान्मुक्तिरित्यत आह —
॥ ॐ कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्याम् ॐ ॥ ८ ॥
‘ततः शेषेणेमं लोकमायाति पुनः कर्म कुरुते पुनर्गच्छति पुनरागच्छति’ इति श्रुतेः–
‘भुक्तशेषानुशयवानिमां प्राप्य भुवं पुनः ।
कर्म कृत्वा पुनर्गच्छेत्पुनरायाति नित्यशः ॥
आचतुर्दशमाद्वर्षात्कर्माणि नियमेन तु ।
दशावराणां देहानां कारणानि करोत्ययम् ।
अतः कर्मक्षयान्मुक्तिः कुत एव भविष्यति’
इत्यादिस्मृतेश्च शेषवानेवाऽऽयाति ।
तत्त्वप्रदीपिका
ननु कृतस्य कर्मणो भोगेन क्षयान्मुक्तिः । यत्पूर्वकृतं सुकृतं तद्भुक्त्वा क्षपयति । दुष्कृतं निष्कृत्या भुक्त्या वा । पुनश्च न करोति स्वर्गी स्थानादिराहित्यात् । अतः संसृतिहेत्वभावान्मुच्यत एवेत्यत आह । ॐ कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्याम् ॐ ॥ कृतानां मध्ये कतिपयात्ययेऽपि कर्मशेषवानेव भवति । तत आयाति । न ह्यनादितः कृतानां कर्मणां भोगेन क्षपणं मनसाऽपि शक्यते । न च भोगस्थाने स्थितिरपि नियन्तुं शक्यते । परतन्त्रस्यानन्तजन्मचीर्णस्य पापसञ्चयस्य क्षपणार्थं द्राघिष्ठं कालमतिदारुणेषु नरकेषु विवशं निवासाच्चामुक्तिरेव चतुरचेतसां रोचते ।
तत्त्वप्रकाशिका
अत्रापि भगवत्प्राप्त्यर्थं वैराग्यादिसाधनस्यावश्यानुष्ठेयत्वसाधनादस्ति शास्त्रादिसङ्गतिः । वैराग्यदेर्मुमुक्षूणामनपेक्षितत्वे शास्त्रवैयर्थ्यापत्तेस्तस्यावश्यानुष्ठेयत्वं साधनीयमेव । वैराग्यादिकं विषयः । मुमुक्षुणाऽवश्यमनुष्ठेयं न वेति सन्देहः । उक्तन्यायस्तदनपेक्षफलनिष्पत्तिदर्शनं च सन्देह-बीजम् । पूर्वपक्षयति ॥ कृतस्येति ॥ कर्मनिबन्धनो हि बन्धः । कर्मणा बध्यते जन्तुरित्यादेः । कर्मणश्च क्षयो भोगेन भवति । न च भोगकाले कर्मान्तरापादनेनासमाप्तिः । स्वर्गादिष्वेव कर्मणां सहागतत्वेन क्षेप्तुं शक्यत्वात् । तत्र कर्मान्तरापादनस्याभावात् । कर्मणां च क्षये तन्मूलस्य संसारस्योच्छेदः स्वयमेव भवतीति किं वैराग्यादिना । अतो व्यर्थमिदं शास्त्रमिति भावः ।
सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ कृतस्य कर्मणः सहागतत्वेन भोगेन क्षयः स्वत एवेति न युक्तम् । ‘ततः शेषेण इति’ श्रुत्या ‘भुक्तशेषानुशयवान्’ इति स्मृत्या च स्वर्गं गतस्य यथायोग्यं कर्म सहागतमपि किंचिद्भुक्तवतः कर्मशेषयुक्ततयैवागमनस्योक्तत्वात् । एवं द्वित्रा वर्तनेष्वशेषकर्मसमाप्तिः स्यादिति चेन्न । ‘पुनः कर्म कुरुते’ इति श्रुतौ ‘कर्म कृत्वा’ इति स्मृतौ चागतस्य पुनः कर्मसम्पादनोक्तेरिति भावः । अल्पापादने कर्मसमाप्तिः स्यादिति शङ्कानिरासायाह ॥ आचतुर्दशमादिति ॥ चतुर्दशमवर्षमारभ्येत्यर्थः । दशावरा येषु ते तथा । अतो वैराग्यादि-साधनमन्तरेण मोक्षाभावात्तदर्थं वैराग्यादिविधायकशास्त्रस्य न वैयर्थ्यमिति सिद्धम् ।
गुर्वर्थदीपिका
फलनिष्पत्तिदर्शनमित्यत्र तदनपेक्षे कृषीवलादौ सस्यादिफलनिष्पत्तिदर्शनमित्यर्थः । फलत्वा-विशेषान्मोक्षोऽपि वैराग्यं विनैव भवतीति शङ्कितुरभिप्रायः । कर्मान्तरापादनाभावादित्यत्र कर्मान्तररूपापादनं सम्पादनमित्यर्थः । भारतवर्षस्यैव कर्मभूमित्वादिति भावः । अनु अनन्तरमपि येन संसार एव शेत इति व्युत्पत्त्या सूत्रेऽनुशयपदं कर्मशेषवाचकमिति भावेनोक्तं शेषवानिति ।
भावबोधः
अत्रापीति ॥ पूर्वाधिकरणे ‘भाक्तम्’ इत्यनेन कर्मणो ‘यावदिन्द्रो यावन्मनुः’ इत्यादि-श्रुत्यनुसारेण पुनरावृत्तिस्वर्गफलकत्वोक्तावेव पुनरागच्छन् जीवः किं स्वर्ग एव सर्वं कर्म क्षपयित्वा गच्छति, उत कर्मशेषवानिति जिज्ञासोदयादेतधिकरणप्रवृत्तिरित्यनन्तरसङ्गतिरिति भावः ॥ मुमुक्षुणाऽवश्यमिति ॥ अत्र वैराग्यादिकं मुमुक्षुणाऽवश्यमननुष्ठेयमुतानुष्ठेयमिति चिन्ता । तदर्थं स्वर्गादौ सहागतस्य कृत्स्नस्य बन्धककर्मणः किं भोगेन क्षय उत नेति । तदर्थं पुनः कर्म न करोत्युत करोतीति । तथा च पुनः पुनः कर्माकरणे द्वित्रावर्तनेन पूर्वं संपादितस्य सर्वस्यापि कर्मणः स्वर्ग एव भोगेन क्षेप्तुं शक्यत्वान् न मोक्षार्थं वैराग्याद्यनुष्ठेयमिति पूर्वपक्षे पुनः, पुनः कर्मकरणे बहुत्वात् स्वर्ग एव भोगेन क्षेप्तुमशक्यत्वात् तदर्थं वैराग्यादिकमनुष्ठेयमिति सिद्धान्ते च फलफलिभावो ज्ञातव्यः ।
ननु भोगेन कर्मणां क्षयेऽपि बन्धनिवृत्तिलक्षणा मुक्तिः कथमित्यत आह– कर्मनिबन्धन इति ॥ अनुशयस्यापि सहभावात् स्वर्ग एव फलदत्वमिति न्यायविवरणं संयोजयितुं तन्निवर्तनीयामाशङ्कां प्रतिषेधति– न च भोगकाल इति ॥ इदानीमुदाहृतं न्यायविवरणं योजयति– स्वर्गादिष्विति ॥
ननु स्वर्गादावपि कर्मान्तरापादनसम्भवात् कथं भोगेन सर्वकर्मक्षय इत्यत आह– तत्रेति ॥ तस्य भोगमात्रस्थानत्वादिति भावः । ततः शेषेणेति । अनेन मुक्तशेषानुशयवानित्यादि-वचनाद्यथायोग्यमेव फलदानोपपत्तेरिति न्यायविवरणमप्युक्ततात्पर्यकं भवति । अत्र आङो मर्यादार्थत्वभ्रमनिरासायाह– चतुर्दशमेति ॥ मर्यादार्थत्वस्य ‘जीवंश्चतुर्दशादूर्ध्वम्’ इत्यादिप्रमाण-विरुद्धत्वादिति भावः । दशभ्योऽवरा इत्यल्पार्थत्वप्रतीतिनिरासार्थमाह– दशावरा येष्विति ॥
भावदीपः
फलोक्त्याऽन्तर्भावसङ्गतिमाह ॥ अत्रापीति ॥ अवश्यमिति ॥ जीवस्य भोगावशिष्ट-कर्माविभागाद्युक्त्येति योज्यम् । तेन पूर्वस्माद्भेदः । यद्यन्ततः क्षीयत इति महतोऽपि कर्मणोऽल्पकालीनाभोगदानेन क्षयस्तर्हि तत एव बन्धकनिवृत्त्या मुक्तिरपि सेत्स्यतीति शङ्कोत्थानात्सङ्गतिश्च सूचितेति बोध्यम् । आवश्यकत्वस्य साधितत्वात्कथं सन्देह इत्यतो बीजमाह ॥ उक्तन्याय इति ॥ मृतिमात्रेण वा कर्ममात्रेण वा मोक्षाभावादित्युक्तन्यायः । कर्मक्षयकृतवैराग्याद्यनपेक्षमोक्षरूपफलनिष्पत्तिदर्शनमित्यर्थः । कर्मणः क्षयान्मुक्तिरिति भाष्योक्त-हेतोरप्रयोजकत्वं निराह ॥ कर्मेति ॥ इत्यादेरिति ॥ गीतायामसिद्धिनिरासकं भोगेनेत्येत-दित्युपेत्याह ॥ कर्मणश्चेति ॥ भाष्ये कृतस्येति सौत्रपदानुवादेन कर्मण इति व्याख्येति भावः ॥ भोगेनेति ॥ ‘नाभुक्तं क्षीयते कर्म’ इत्यादेरिति भावः । एतच्च प्रायिकत्वाशयेन । दुष्कृतकर्मणो निष्कृत्यापि क्षयसम्भवात् । अनुशयस्य सहभावात्स्वर्ग एव फलदत्वमित्यन्यत्रोक्तं शङ्कापूर्वं व्यनक्ति ॥ न चेत्यादिना ॥ भाष्योक्तहेतुहेतुमद्भावमुपपादयति ॥ कर्मणां चेति ॥ फलमाह ॥ किमिति ॥ इदमिति ॥ वैरोग्यादिप्रतिपादकमित्यर्थः ॥ शेषवानेवायातीति प्रतिज्ञाभाष्यस्थैवकारव्यावर्त्यमाह ॥ कृतस्येति ॥ भुक्तशेषानुशयवानित्यादिवचनाद्यथायोग्यमेव फलदानोपपत्तेरित्यन्यत्रोक्तयथा-योग्यपदान्वयं दर्शयन्नेव कृत्स्नभाष्यभावार्थमाह ॥ ततः शेषेणेति ॥ स्वर्गं गतस्येत्यर्थलब्धोऽर्थः । श्रुतिस्मृत्योश्शेषोक्तेरुपयोगमाह ॥ एवमिति ॥ स्मृतौ शेषान्तरोक्तेः फलमाह ॥ अल्पेति ॥ एतेन सूत्रादौ स्मृत्युक्तिरप्यर्थवतीति सूचितम् । जन्मारभ्य चतुर्दशवर्षपर्यन्तमित्यर्थभ्रमं निराह ॥ चतुर्दशमेति ॥ ‘जीवंश्चतुर्दशादूर्ध्वं पुरुषो नियमेन तु । स्त्री वाप्यनूनदशकं देहं मानुषमार्जत’ इत्यादेरिति भावः । दशभ्योऽवरा इति भ्रमनिरासायाह ॥ दशेति ॥ सप्तदशावरो सत्र-मासीरन्नित्यादाविवेति भावः ॥ अत इति ॥ जीवस्य भूतावियोगवत्कर्मणोऽप्यर्वियोगादित्यर्थः ।
अभिनवचन्द्रिका
स्वर्गादिष्वेवेति ॥ ननु कर्माणि नानाविधानि । कानिचिदिह लोके कालविशेषभोगसाधनानि । कानिचित्स्वर्गे कालविशेषे । कानिचिन्नरके । यान्यपि इह लोके फलसाधनानि न तान्येक-देशैककालावच्छेदेन । किंनाम प्रदेशभेदन, कालभेदेनैव । न हि यो हि भवति स्रुघ्ने राजा स भवति पाटलिपुत्रे । नापि य इदानीं भवति राजा स भवति कालान्तरे इति अवश्यं देशकाल-विशेषसहकृतानामेव कर्मणां भोगहेतुत्वमभ्युपेयम् । सति चैवं न स्वर्गादावेव सर्वकर्मक्षयः सहकारिविरहात् । ततश्चेह लोके भोगकाले पुनरनन्तकर्मानुष्ठानेनाऽसमाप्तिरेव कर्मण इति स्वर्गादौ भोगेन क्षयाभिधानमयुक्तमिति चेत्, सत्यं भिन्नदेशकालविपाकान्येव कर्माणि, तथापि कर्मणाऽऽराधितो भगवान् भिन्नदेशकालविपाकान्यपि कर्माणि स्वर्गादावेव युगपदेव फलोन्मुखानि कुर्यात्, । तद्यथा महाराजः पाटलिपुत्र एव ब्राह्मणान् संस्थाप्य, अन्नपानादिकं दद्यामिति सङ्कल्पयितापि, ब्राह्मणैराशिषांऽऽराधितस् त्वया दीयमानमेव अन्नपानादिकं काश्यादिसुक्षेत्रेषु देहि । तत्र स्थित्वा भगवन्तमाराधयाम इति प्रार्थितस् तथैव करोति । उक्तं विशिष्टोद्गातृलाभे कामित-लाभः । ‘तस्मादु तेषु वरं वृणीय यं कामं कामयेत तं स एष एवं विदुद्गाता आत्मने, यजमानाय वा यं कामं कामयते तमगायत’ इति एवं च स्वर्गादावेव सर्वकर्मभोगोऽस्त्विति कामनायां सोऽपि भवेदिति युक्तं स्वर्गादौ भोगेन क्षयाभिधानमिति ॥ कर्मशेषयुततयैवेति ॥ स्वर्गापादकस्यैव कर्मणो न सामस्त्येन क्षयः । किमु सर्वेषां कर्मणां क्षयो न भवतीति वक्तव्यमिति भावः । ब्रह्मपदयोग्या अपि उद्गातारो यजमानस्य योग्यमेव कामं प्रापयन्ति वैराग्यादिसाधनशून्यस्य यजमानस्य सर्वकर्मक्षयोऽयोग्य एवेति तं कामं न ते पूरयन्तीति बोध्यम् । तथेश्वरोऽपि अयोग्यानामाराधनेन प्रसन्नो न भवतीति ज्ञेयम् ।
पूर्वपक्षस्तु न वैराग्यादिकमावश्यकं, कृतस्य कर्मणो भोगेनैव क्षये बीजाभावेन संसाराऽ-भावसम्भवात् । न च भोगकाले पुनः कर्मान्तरानुष्ठानसम्भवेन संसारानिवृत्तिरिति वाच्यम् । इह लोके भोगसमये कर्मानुष्ठाननियमेऽपि स्वर्गादौ तदभावात् । तत्रैव सर्वकर्मणां भोगेन क्षये संसारनिवृत्तिसम्भवात् । कर्मणां भिन्नदेशकालविपाकत्वेऽपि यज्ञाद्याराधितभगवत्प्रसादेन भवन्मते सौभर्यादिवत् स्वर्गादावेव सर्वकर्मक्षयो नाऽनुपपन्नः । ततश्च वैराग्यादेरनावश्यकत्वाद् व्यर्थमिदं शास्त्रमिति ।
सिद्धान्तस्तु अपेक्षितमेव वैराग्यादि । ‘ततःशेषेणेमं लोकमायाति’ इति श्रुतेः । ‘भुक्त-शेषानुशयवान्’ इति स्मृतेश्च स्वर्गाद्यापादककर्मण एव सामस्त्येन क्षयाभावेन सुतरां सर्वक्षयाऽ-सम्भवात् । न च द्वित्राऽऽवर्तनेषु सर्वक्षयो भविष्यतीति वाच्यम् । एकस्य कर्मणो भोगावसरे पुनरनन्तकर्मानुष्ठानेन भोगेनाऽसमाप्तेः । तदुक्तम् ‘आचतुर्दशमाद्वर्षात् कर्माणि नियमेन तु । दशावराणां देहानां कारणानि करोत्ययम्’, अतः कर्मक्षयान्मुक्तिः कुत एव भविष्यति’ इति । अतो वैराग्यादिसाधनमन्तरेण मोक्षाभावाद् वैराग्यादिविधायकशास्त्रस्य न वैयर्थ्यमिति सिद्धम् ।
वाक्यार्थमुक्तावली
पूर्वाधिकरणे तदमृतत्वं काम्यकर्मसाध्यममृतत्वं किञ्चित्कालीनमिति यदुक्तं तदयुक्तम् । स्वर्गसम्बन्धस्य किञ्चित्कालीनत्वेऽपि सर्वस्यापि कर्मणः सह गतत्वेन भोगेन क्षये बन्धकाभावेन संसाराभावस्य सार्वकालिकत्वोपपत्तेः । वैराग्येण किं प्रयोजनमित्याक्षेपेणोत्थानादनन्तरसङ्गतिः । अत्र वैराग्याद्यवश्यं नानुष्ठेयमुतानुष्ठेयमिति चिन्ता । तदर्थं स्वर्गे सर्वेषां सह गतानां कर्मणां भोगोऽस्ति न वेति ॥ उक्तन्यायेति ॥ स एनमविदितो न भुनक्तीति दृष्टान्तपूर्वं पूर्वाधि-करणोपात्तश्रुत्युक्तन्याय इत्यर्थः ॥ तदनपेक्षेति ॥ ‘कर्मणा बध्यते जन्तुः’ । ‘नाभुक्तं क्षीयते’ कर्म कल्पकोटिशतैरपीति कर्मणां बन्धकत्वस्य भोगेन क्षयस्य चोक्तेः । वैराग्याद्यनपेक्षमेव फलनिष्पत्ति-दर्शनं चेत्यर्थः । न च भोगकाल इति । ‘न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्’ । तत्तत्कर्मभोगकाले कर्मान्तरापादनवैय्यर्थ्याद् भोगेनासमाप्तिरक्षय इति न च वाच्यमित्यर्थः । कुतो न वाच्यमित्यतो भाष्ये कृतस्येत्यधिकोक्त्या कृतस्य संचितस्य सहगतस्यैव कर्मणो भोगेन तत्र कर्माजननमिति सूचितं सहभाव इत्युक्तन्यायं व्यनक्ति ॥ स्वर्गादिष्वेवेति ॥ स्वर्गादिषु भोगभूमिष्वेव कर्मणः सहगतत्वेन क्षेप्तुं शक्यत्वात् । कथं शक्यत्वमित्यत उक्तं तत्रेति ॥ साधनभूमिष्वेव कर्मान्तरापादनाद् भोगभूमिषु कर्मान्तराभावादित्यर्थः ।
स्यादेतद्यदि कर्मणां मानुष्ये भोगेन क्षयं ब्रूमः । येन पुनरार्जनेनासमाप्तिस्स्यात् । किन्तु स्वर्गादौ पुण्यलोके सहागतस्य पुण्यकर्मणो भोगेन क्षयः, नरके पापस्य भोगेन क्षय इति । तत्र च भोगस्थाने न कर्मान्तरापादनमिति भावः । ननु स्वर्गादौ येन कर्मणा भोगः प्राप्यस् तस्यैव कर्मणो भोगेन क्षयः । न सर्वेषां कर्मणाम् । अनियतदेशकालविपाकत्वात् । तथा च न तत्र सर्वकर्मक्षय इत्यतः कृतस्य यद्यत् कृतं तस्य सर्वस्यापि जीवेन सहागतस्य भोगेन क्षय इति भाष्येण सूचितं सहभावन्यायं प्रकारान्तरेण व्यनक्ति ॥ स्वर्गादिष्वेवेति ॥ भोगभूतस्वर्गादावेव सर्वस्यापि कर्मणस्सहगतत्वेन लोकमहिम्ना क्षेप्तुं शक्यत्वादित्यर्थः । अनुशयवान् भुक्तशेषकर्मानुसरणवा-नित्यनेन सूचितं योग्यतेत्युक्तसिद्धान्तन्यायं व्यञ्जयन्नर्थमाह ॥ कृतस्येत्यादिना ॥ सहागतमपि कर्म यथायोग्यं किञ्चिद्भुक्तवत इत्यन्वयः । यस्य कर्मणोऽस्मिन् देशे काले च भोगयोग्यता तस्यैव भोगः न त्वनियतदेशकालविपाकस्यान्यकर्मणः । एकस्यापि कर्मणो यत्फलं तस्य न सर्वस्य भोगः । ब्राह्मणादिदेहस्य स्वर्गस्य च एकयागादिफलत्वेन स्वर्गे समग्रभोगासम्भवेन भोगान् भुक्त्वा देहापादककर्मशेषेण अवश्यमागमनस्य वक्तव्यत्वादिति भावः । कृतमिति कर्मोच्यते । तदर्थं वा कृतस्य कर्मण इत्युक्तम् । कर्मण इति प्रसिद्धं विहाय कृतग्रहणं तु भोगदेहलक्षणफलद्वयार्थम् । कृतस्य भोगमात्रं प्रदाय चारितार्थ्यायोगात् तदनुशय आवश्यक इति सूचयितुम् । सूत्रे जीव इत्यस्ति । अनुशयवानित्यावर्तते । तत्रैकस्य संसारीत्यर्थः । ‘कर्मानुशयनाच्चैव संसार्यनुशयी स्मृतः’ इति वचनात् । अपरस्य भुक्तशेषकर्मसङ्ग्रहवानित्यर्थः । रंहतीत्यनुवर्तते । आगच्छतीत्यर्थः । अत्यये भोगेन क्षपणे दृष्टश्रुतिः, पुनः कर्म कुरुते कर्म कृत्वेति श्रुतिस्मृत्यधिकांशव्यावर्त्यं वदन् दृष्टस्मृतिभ्यामिति सूत्रखण्डं रीत्यन्तरेण व्याचष्टे ॥ एवमिति ॥ दशभ्योऽवरा इत्यल्पार्थत्व-प्रतीतिनिरासायार्थमाह ॥ दशावरा येष्विति ॥ दशसङ्ख्याका देहा अवरपक्षा येषु ते एकादशादयो दशावरा इत्यर्थः । एकादशादिदेहानां कारणानि करोति । दशदेहान् नार्जित इत्यवरोऽयं पक्षः । तदूनार्जनं नास्त्येव । अनूनं दशकं देही देहं मानुषमार्जयेत्’ इत्यन्यत्रोक्तेः । अन्यथा तद्विरोधः ।
तत्त्वसुबोधिनी
अत्रापीति ॥ पूर्वाधिकरणे भाक्तमित्यनेन कर्मणो यावदिन्द्रो यावन्मनुरिति श्रुत्यनुसारेण पुनरावृत्तिस्वर्गफलत्वोक्तावेव पुनरागच्छन् जीवः किं स्वर्ग एव सर्वं कर्म क्षपयित्वाऽऽगच्छति उत कर्मशेषवानिति जिज्ञासोदयाद् एतदधिकरणप्रवृत्तिरित्यनन्तरसङ्गतिरिति भावः । तदनपेक्षफल-निष्पत्तिदर्शनं चेति ॥ वैराग्याद्यनपेक्षमोक्षरूपफलनिष्पत्तिदर्शनमित्यर्थः । ननु भोगेन कर्मणां क्षयेऽपि बन्धनिवृत्तिलक्षणा मुक्तिः कथमित्यत आह ॥ कर्मनिबन्धनेति ॥ किमत्र प्रमाणमित्यत आह ॥ कर्मणेति ॥ ततः किमित्यत आह ॥ कर्मणश्चेति ॥ ननु स्वर्गादावपि स्वकर्मान्तरा-पादनसम्भवात् कथं भोगेन सर्वकर्मक्षय इत्यत आह ॥ तत्रेति ॥ तस्य भोगमात्रस्थानत्वादिति भावः । अस्तु कर्मान्तरापादनात्कर्मक्षयः । ततः किमित्यत आह ॥ कर्मणां चेति ॥ आङो मर्यादार्थत्वभ्रमनिरासायाह ॥ चतुर्दशमेति ॥ मर्यादार्थत्वस्य जीवंश्चतुर्दशादूर्ध्वम् इत्यादिप्रमाण-विरुद्धत्वादिति भावः । दशभ्योऽवरा इत्यन्यथाप्रतीतिनिरासायाह । दशावरा येष्विति ।
वाक्यार्थविवरणम्
आवश्यकत्वस्य साधितत्वात् कथं सन्देह इत्यतो बीजमाह ॥ उक्तन्याय इति ॥ मृतिमात्रेण वा कर्ममात्रेण वा मोक्षाभावादित्युक्तन्यायः । कर्मक्षयकृतवैराग्याद्यनपेक्षरूपमोक्षफलनिष्पत्तिदर्शन-मित्यर्थः ॥ तदनपेक्षेति ॥ भोगेनेति शेषः ॥ अभावात् ॥ तस्य भोगस्थानत्वादिति भावः । स्वर्गं गतस्यागमनस्योक्तत्वादित्यन्वयः । भुञ्जेः सकर्मकत्वेन कर्मापेक्षायां यथायोग्यमित्याद्युक्तम् । तत्र यथायोग्यं किञ्चिद् भुक्तवत इत्यन्वयो न तु यथायोग्यं सहागतमिति । सर्वकर्मणामपि जीवेनैव सह सत्त्वात् । अतोऽपि यद्यपि सहागतं कर्म यथेष्टमस्ति तथापि तन्मध्ये यथायोग्यं किञ्चिदेव भुज्यत इति व्याख्येयम् । अनुशयशब्दः कर्मवाची । न्यायविवरणे अनुशयस्यापि सहभावादित्युक्तेः । टीकायां च न्यायविवरणस्थानुशयपदस्य स्वर्गादिष्वेव कर्मणः सहागतत्वेनेति कर्मवाचकत्वेन व्याख्यानात् । तथा च सूत्रे कृतस्य कर्मणो भोगेनात्ययेऽनुशयवान् भोगविशिष्ट-कर्मवानेवायातीत्यर्थः । भाष्ये भुक्तशेषेत्यत्र भुक्तं भोगः भावे क्तः । शेषशब्दः शिष्टार्थकः । तथा च भोगशिष्टकर्मवानित्यर्थः । शेषवानेवेति भाष्यस्यापि भोगावशिष्टकर्मशेषवानित्यर्थः ।
वाक्यार्थमञ्जरी
उक्तन्याय इति ॥ वैराग्यादेरवश्यानुष्ठेयत्वसाधकतत्तदधिकरणोक्तं प्रमाणमित्यर्थः । फलं धनादि । ननु भोगेन कर्मणां क्षयेऽपि बन्धनिवृत्तिलक्षणमुक्तिः कथमित्यत आह ॥ कर्मनिबन्धन इति ॥ क्षेप्तुं भोगेन नाशयितुम् । ननु स्वर्गादावपि कर्मान्तरापादनसम्भवात्कथं भोगेन सर्वकर्मक्षय इत्यत आह ॥ तत्रेति ॥ तस्य भोगमात्रस्थानत्वादिति भावः ॥ ॐ कृतात्ययेऽनुशयवा-न्दृष्टस्मृतिभ्याम् ॐ ॥ कृतस्य कर्मणोऽत्यये स्वर्गादिभोगेन क्षये अनुशयवान् भुक्तकर्मशेष-वानेवायाति । कुतः? दृष्टस्मृतिभ्यां ततःशेषेणेमं लोकं भुक्तशेषानुशयवानिति श्रुतिस्मृतिभ्या-मित्यर्थः । देवदैत्यानामपि जीवकृतकर्मभागित्वाद्यथायोग्यमित्युक्तम् । जन्मारभ्य चतुर्दश-वर्षपर्यन्तमित्यर्थप्रतीतिनिरासायाह ॥ चतुर्दशमेति ॥ मर्यादार्थत्वस्य, जीवंश्चतुर्दशादूर्ध्वं पुरुषो नियमेन तु । स्त्री वाप्यनूनदशकं देहं मानुषमार्जयेदित्यादिविरुद्धत्वादिति भावः । दशभ्योऽवरा इत्यल्पत्वप्रतीतिनिरासायाह ॥ दशाऽवरा येष्विति ॥
॥ इति कृतात्ययाधिकरणम् ॥ ८ ॥