०७ भाक्ताधिकरणम्

ॐ भाक्तं वाऽनात्मवित्त्वात्तथा हि दर्शयति ॐ

७. भाक्ताधिकरणम्

सूत्रभाष्यम्

‘अपाम सोमममृता अभूम’ (ऋ. सं. ८-४-३) इत्यादिश्रुतिविरोध इत्यतो वक्ति –

॥ ॐ भाक्तं वाऽनात्मवित्त्वात्तथा हि दर्शयति ॐ ॥ ७ ॥

भागतस्तदमृतत्वम् । ‘नान्यः पन्था अयनाय विद्यत’ (तै.आ.३-१३) इति श्रुतेरात्मविद एव हि मुख्यम् । वाशब्दात्पारम्पर्येणाऽऽत्मविदपेक्षया वा । तथा हि श्रुतिः– ‘स एनमविदितो न भुनक्ति यथा वेदो वाऽऽननूक्तोऽन्यद्वा कर्माकृतं यदि ह वा अप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एवाऽऽत्मानमेव लोकमुपासीत स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयतेऽस्माद्ध्येवाऽऽत्मनो यद्यत्कामयते तत्तत्सृजते’ (बृ.उ.३-४-१५) ‘अमृतो वाव सोमपो भवति यावदिन्द्रो यावन्मनुर्यावदादित्यः’ । ‘कर्मणा ज्ञानमातनोति ज्ञानेनामृती-भवति अथामृतानि कर्माणि यत एनममृतं (एनममृतत्वं) नयन्ति’ इति च ।

तत्त्वप्रदीपिका

यद्येवमिष्टादिकारिणां धूमादिमार्गेण स्वर्गं गतानां पुनरावृत्तिरिष्यते, ‘अपाम सोमममृता अभूम’ ‘अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतम्’ इत्यादि श्रुतिविरोधः स्यात् । अत्र हि कर्मणैव मोक्षो ज्ञायते । युज्यते च नित्यनैमित्तिककर्मानुष्ठानेन क्षपितकल्मषाणामभूतप्रत्यवायानां काम्यप्रतिषिद्धवर्जनेनासञ्जातप्रजननहेतूनाम् । यथाऽऽहुः केचिदित्यत आह– भाक्तं वेत्यादि सूत्रम् ॥ कालभागतस्तस्यां श्रुतावुक्तममृतत्वमल्पकालीनम् । ‘तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते’ ‘तमेव विदित्वा अतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ ‘न चेदिहावेदीन्महती विनष्टिः’ इत्यादिश्रुतेरात्मविद एव ह्यनन्तकालीनममृतत्वम् । पारम्पर्येणाऽत्म-विदपेक्षया वा तदमृतत्वम् । तथाचायमर्थः स्यात् । सोममपाम, देवानविदाम, ज्योतिरगन्म, अमृता अभूमेति । ज्योतिर्ब्रह्मेत्युदितम् । न भुनक्ति न पालयति । अन्ततः स्वल्पफलदानान्ततः । ‘महानपि कृतो धर्मो ह्यज्ञानान्निष्फलो भवेत्’ इति हि भारते । ‘निष्फल’ इति स्वल्पफलापेक्षया । य आत्मानमेव आश्रयमुपास्ते दर्शनपर्यन्तं न हास्य कर्म क्षीयते । वाशब्दादित्यादेरन्योऽर्थः । वाशब्दा-त्पारम्पर्येण कर्मणाऽमृतत्वं ज्ञानोत्पत्तिद्वारेण । तथाहि दर्शयति ‘कर्मणा ज्ञानमातनोति’त्यादि । आत्मविदपेक्षया वा तदमृतत्वम् आत्मविदां कर्मापेक्षयेत्यर्थः । तथा हि दर्शयति ‘स य आत्मानम्’ इत्यादि । न च कर्मणैव सर्वकर्मक्षयः प्रमातुं शक्यते । प्रमाणाभावात् । न च काम्यप्रतिषिद्धवर्जनं सर्वात्मना शक्यते । अमात्यादिना प्रसङ्गात् । न च पुण्यानां प्रायश्चित्तविधिः । न च पापाना-मनन्तानां निष्कृतिः शक्या । अतो न कर्मणा मोक्षः ।

तत्त्वप्रकाशिका

अत्र भगवत्प्राप्त्यर्थं वैराग्यादेरेवावश्यकसाधनत्वसमर्थनादस्ति शास्त्रादिसङ्गतिः । यदि वैराग्यादेर्नावश्यानुष्ठेयत्वं तर्हि नास्य शास्त्रस्यावश्यमारम्भणीयत्वं स्यादतस्तत्साधनीयम् । वैराग्यादिसाधनमेव विषयः । किं मुमुक्षुणावश्यमनुष्ठेयमुत नेति सन्देहः । उभयविधसाधनदर्शनं सन्देहबीजम् । पूर्वपक्षयति ॥ अपामेति ॥ न मुमुक्षुणावश्यमनुष्ठेयं वैराग्यादि । तद्विनापि कर्मणैव मोक्षसम्भवात् । ‘अपाम सोमममृता अभूम’ इत्यादिश्रुतेः । अन्यथैतच्छ्रुतिविरोधात् । अतो ‘र्ओ चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत्’ । इति न्यायेन सुशकेन कर्मणा मोक्षसिद्धौ वैराग्यादिना कृत्याभावाद्व्यर्थमिदं शास्त्रमिति भावः ।

सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ अवश्यानुष्ठेयमेव मुमुक्षुणा वैराग्यादि । तद्विना मोक्षासिद्धेः । न चैवं श्रुतिविरोधः । तस्या अन्यार्थत्वात् । तथा हि । कर्म द्विविधम् । काम्यमकाम्यं च । तत्र यद्यस्यां श्रुतौ सोमयागः काम्यो भवेत् तदा तत्साध्यममृतत्वं नाम किंचित्कालीनमिति गौणार्थतया श्रुतिरुपपन्नेति भावः । मुख्यामृतत्वमेव श्रुत्यर्थः किं न स्यादित्यत आह ॥ नान्य इति ॥ न कर्मणा मुख्यामृतत्वं लभ्यं येन तत् श्रुत्यर्थः स्यात् । काम्यकर्मिणामनात्मवित्त्वात् । ‘तमेवं विद्वान्’ इति श्रुत्याऽऽत्मविदो मुख्यामृतत्वस्यान्येषां तदभावस्यैवोक्तत्वादिति भावः । काम्यकर्मणा तत्फलस्यैव हि सिद्धिः । अथाकाम्यकर्म विवक्षितं तदप्युभयथा । जिज्ञासूनां ज्ञानिनां चेति । द्विविधमपि न मोक्षसाधनं साक्षादित्याह ॥ वाशब्दादिति ॥ इति सूचितमिति शेषः । यद्यत्र जिज्ञासूनामकाम्यं कर्म विवक्षितं तदामृतपदेन मुख्यामृतत्वमेव । किं नाम तच्च कर्मणा न साक्षाद्भवति । कर्मभिः शुद्धान्तःकरणस्य वैराग्यादि तद्वतो जिज्ञासा तस्य ज्ञानं तस्य मोक्ष इति पारम्पर्येणैव ‘अगन्म ज्योतिः’ इति । अथ ज्ञानिनोऽकाम्यं कर्म तथापि न तेन मोक्षः किं त्वात्म-विदमपेक्ष्यैव । आत्मज्ञानलब्धे मोक्षेऽकाम्यकर्मणा अतिशयो भवति । सर्वथा न कर्मणा संसार-निवृत्तिरिति भावः । एवमस्याः श्रुतेरुक्तार्थत्रयसमर्थनाय श्रुतीरुदाहरति ॥ तथा हीति ॥ आत्मविदामेव मुख्यामृतत्वं नानात्मविदामित्यर्थे ‘स एनम्’ इति श्रुतिः प्रमाणम् । ‘आत्मानमेव लोकमुपासीत’ इत्यादि श्रुत्यैवाऽऽत्मविदपेक्षयेत्यर्थसिद्धिः । न भुनक्ति नामृतत्वं भोजयति । उपास्ते जानाति च स मुक्तो यद्यत्कामयते तत्तत्परमात्मप्रसादद्वारा कर्म सृजतीत्यर्थः । भागतस्तदमृतत्व-मित्यस्मिन्नर्थेऽमृत इति श्रुतिः । पारम्पर्येणेत्यत्र कर्मणेति श्रुतिः । अतो वैराग्याद्यनुष्ठानमन्तरेण मोक्षासिद्धेर्न तत्प्रतिपादकशास्त्रवैयर्थ्यमिति सिद्धम् ।

गुर्वर्थदीपिका

किञ्चित्कालीनमिति वदता भागत इति भाष्यकारीयभागशब्दस्य मुक्तिकालापेक्षया अल्पकालभाग एवार्थ इति सूचितम् । न च वाच्यं ‘तमेवं विद्वानमृत’ इति श्रुतावप्यमृत इत्येवोक्तेः कथं मुख्यामृतत्वलाभ इति । ‘यावदिन्द्र’ इत्यादिवदवध्यनुक्तेः । ‘मुख्यामुख्ययोर्मुख्ये सम्प्रत्ययः’ इति वचनादमृतपदेन मुख्यामृतमेव लभ्यते । ‘नान्यः पन्था अयनाय विद्यते’ इति श्रुतिशेषेऽयन-पदेन मुख्यामृतत्वरूपमोक्षस्यैव प्रस्ताव्यमानत्वाच्च । ‘श्रेयो निःश्रेयसामृतम्’ इति मुख्यामृत एवामृतशब्दानुशासनात् । सर्वथा मृतिराहित्यरूपार्थस्य तत्रैव सम्भवाच्च । अगन्म ज्योतिरित्यस्य ज्योतिर् ज्योतीरूपपरमात्मानम् अगन्म गत्यर्थानां ज्ञानार्थत्वाद् अजानीम देवानप्यविदाम । तारतम्येनाविदाम अजानीमेत्यर्थः । अविदितस्तु परमात्मा एनं कर्मकर्तारं न भुनक्तीति यथाश्रुतक्रियाया असङ्गतेरर्थमाह न भुनक्ति न भोजयतीति ।

भावबोधः

वैराग्यादेरावश्यकसाधनत्वसमर्थनादिति ॥ तथा चात्र प्रथमाधिकरणे ‘सम्परिष्वक्त’ इत्यनेन न मरणमात्रे भूतवियोगः । किं तु मुक्तिरूपमरण एवेत्यत्र ज्ञानसदसद्भावे एव नियामक इति यत्सूचितं तदयुक्तम् । मोक्षस्य कर्मसाध्यत्वोक्तेरिति शङ्कापरिहारादनन्तरसङ्गतिरिति भावः । न चैवं तदानन्तर्यं स्यादिति वाच्यम् । प्रश्ननिरूपणरूपहेतुसमर्थनपराधिकरणपञ्चकस्यावश्यकत्वेन तदनन्तरमेवावसरप्राप्तत्वादिति भावः । किं मुमुक्षुणावश्यमनुष्ठेयं न वेति सन्देह इति । अत्र वैराग्यादि किं मुमुक्षुणा अवश्यमनुष्ठेयमुत नेति चिन्ता । तदर्थं मोक्षः कर्मसाध्यो न वेति । तदर्थं ‘अपामसोमम्’ इत्याद्यर्थवादः कर्मणो मोक्षसाधनत्वप्रतिपादक उत नेति । तदर्थममृतशब्दः साक्षात्कर्मसाध्यमोक्षरूपमुख्यार्थपर उत गौण्यादिनार्थान्तरपर इति ॥ उभयविधसाधनेति ॥ यत्र कार्येऽनेकेषां साधनता तत्रैकैकस्यावश्यानुष्ठेयत्वाभावः । यत्र त्वेकमेव साधनं तस्यावश्यमनुष्ठेयत्व-मिति भावः । कर्मैवैतत्साधनमिति न्यायविवरणस्याभिप्रायमाह ॥ तद्विनेति ॥ कुत इत्यत आह ॥ अपामेति ॥ अनेन ‘अपाम सोमममृता अभूम’ इति विशेषत एव मोक्षफलस्याप्युक्तेरिति न्यायविवरणमुक्ततात्पर्यकं भवति । इत्यादिश्रुतिविरोध इत्यादिभाष्यं न्यायविवरणैकवाक्यतया योजयति ॥ अन्यथेति ॥

नन्वेवमपि कर्मवद्वैराग्यादिसाध्यज्ञानस्यापि मोक्षसाधनत्वाद्यथारुचि तस्याप्यनुष्ठानसम्भवान्न वैराग्यादेर्वैयर्थ्यमित्यत आह ॥ अत इति ॥ तत्र यद्यस्यामिति भागतस्तदमृतत्वमिति भाष्य-व्याख्यानपरेणानेनामृतशब्दस्य यथायोग्यमेवार्थकल्पनोपपत्तेरिति न्यायविवरणं तावदेकेन प्रकारेण व्याख्यातं भवति ॥ किञ्चित्कालीनमिति ॥ मन्वन्तराद्यवच्छिन्नकालेषु मरणरहितत्वरूपगुण-योगेनामृता इवामृता इति गौणार्थतयेत्यर्थः । काम्यकर्मिणामनात्मवित्त्वादिति । तथा चात्मविद एव हि मुख्यमिति भाष्येण ‘अनात्मवित्त्वात्’ इति सौत्रो हेतुः ‘भाक्तम्’ इत्यत्रैव योजित इति भावः ॥ तमेवं विद्वानितीति ॥ अनेन ‘नान्यः पन्था अयनाय विद्यते’ इति न्यायविवरण-मप्युक्तार्थं भवति । कुतोऽन्येषां तदभावस्योक्तिरित्यत आह ॥ काम्यकर्मणेति ॥ ‘हि’शब्दो यस्मादित्यर्थे ॥ मुख्यामृतत्वमिति ॥ अमृतशब्दस्य मोक्षे योगरूढिलक्षणमुख्यवृत्तेः सद्भावादिति भावः । कर्मनिर्णयटीकायां तु तत्साधनज्ञानलक्षणयेत्यस्मिन्नेव पक्षे प्रकारान्तरमुक्तमित्यवधेयम् ।

यद्यमृतपदेन मुख्यामृतत्वमेवोच्यते तर्ह्यङ्गीकृतं कर्मणो मोक्षसाधनत्वमित्यभिप्रेत्य पृच्छति ॥ किं नामेति ॥ तच्चेति ॥ अनेनामृतशब्दस्य यथायोग्यमेवार्थकल्पनोपपत्तेरिति न्यायविवरणं प्रकारान्तरेण व्याख्यातं भवति ॥ तथा हि वाक्यशेष इति ॥ तथा चायं श्रुत्यर्थः ‘सोममपामामृता अभूम’ इति कर्ममोक्षयोः कार्यकारणभाव उक्तः । स न साक्षात् किं तु परम्परयेत्युच्यते । अगन्म ज्येतिरिति प्रकाशरूपं ब्रह्मागन्म जानीमः । ज्योतिर् ज्ञानमगन्म प्राप्नुम इति वा । ततः किमित्यत उच्यते ॥ अविदामेति ॥ मार्गरूपानर्चिरादि देवानविदाम प्राप्नुम इति । न चैवं सत्याद्यान्तिमपक्षयोरेतद्वाक्यशेषविरोधेन कथं पूर्वश्रुतिस्तदर्थपरेति वाच्यम् । अत्राद्ये पक्षे– कथं कर्मणा स्वर्ग इत्यत उच्यते ॥ अगन्मेति ॥ चन्द्रमसं ज्योतिरगन्म मार्गरूपान् धूमादि-देवानविदामेत्यस्य तृतीये च सोमयागेन (पानेन) कथमानन्दातिशय इत्यत उच्यते ॥ अगन्मेति ॥ यतः पूर्वं ज्योतिरपरोक्षज्ञानमगन्म ततो देवान् यथायोग्यं देवादित्वमविदामेत्यर्थस्य सम्भवेन तद्विरोधाभावादिति भावः ॥ आत्मज्ञानलब्ध इति ॥ तथा च मोक्षलक्षणमुख्यामृतवाचकस्यामृत-शब्दस्य तदेकदेशानन्दातिशये लक्षणया प्रवृत्तिरिति भावः । अनेनामृतशब्दस्य यथायोग्यमेवार्थ-कल्पनोपपत्तेरिति न्यायविवरणं प्रकारान्तरेण व्याख्यातं भवति ।

ननु यदि कर्मण आनन्दातिशयहेतुत्वं तर्ह्यङ्गीकृतमेव मोक्षसाधनत्वम् । तस्यैव मोक्षत्वात् । तद्व्यतिरिक्तस्य कर्मासाध्यस्य ज्ञानमात्रसाध्यस्य मोक्षस्याश्रवणात् । तथा च न तेन मोक्ष इति । आत्मज्ञानलब्धमोक्ष इति च कथमुक्तमित्यत आह ॥ सर्वथेति ॥

यच्चोक्तम्–

‘सर्वदुःखनिवृत्तिस्तु ज्ञानिनो निश्चितैव हि ।

उपासया कर्मभिश्च भक्त्याद्यानन्दचित्रता’ ॥ इति ।

इत्यादिश्रुत्यैवेति । आत्मविदामेव मुख्यामृतत्वमित्यर्थान्तरप्रतिपादनायोदाहृतयैवैत्यर्थः । आदिपदेन तत्तदसृजत इत्येतस्य ग्रहणम् । अविदितोऽपि परमात्मा स्वर्गादि भोजयत्येवेत्यतो न भुनक्तीत्येतस्य तात्पर्यमाह ॥ नामृतत्वमिति ॥ ननूपासककर्मणो ज्ञानहेतुत्वात् कथमात्मविद-पेक्षयेत्यत्रार्थे ‘आत्मानमेव’ इति श्रुतिः प्रमाणमित्यत आह ॥ ज्ञानाति चेति ॥ परमात्मनः सकाशाद्यद्यत् प्राप्तुमिच्छति तत्सर्वं कर्म स्वयं सृजतीत्यन्यथाप्रतीतिनिरासाय व्याचष्टे ॥ स मुक्तो यद्यदिति ॥ ‘आत्मविदपेक्षया’ इति, ‘भागतस्तदमृतत्वमित्यस्मिन्नर्थः’ इति ‘पारम्पर्येणेत्यत्र’ इति वाक्यत्रयेण न्यायविवरणोदाहृतयोः ‘स य आत्मानमेव लोकमुपास्ते’ ‘यावदिन्द्रो यावन्मनुः’ इति श्रुत्योरादिपदोपात्तायाः ‘कर्मणा ज्ञानमातनोति’ इत्यादिश्रुतेश्च तत्तदर्थपरत्वमप्युक्तं भवति ।

भावदीपः

वैराग्यादेरिति ॥ आदिपदेन भक्तिजिज्ञासाज्ञानानां ग्रहः । कर्मणामस्थिरफलकत्वोक्त्येति योज्यम् । एतेनातीतनयैर्जीवस्यामुक्तिभूतपरिष्वंगभावान्न मृतिमात्रेण मुक्तिरिति तदर्थं वैरोग्यादिकमपेक्षितमित्युक्तम् । इदानीमस्तु आमुक्ति भूतबन्धस्तथापि तन्निवृत्तिः कर्मणैवास्तु किं वैराग्यादिनेत्याशङ्कानिरासेन वैराग्यादेरेवावश्यकत्वं न तु कर्मण इति अत्र समर्थनादनन्तर-सङ्गतिरगतार्थत्वं चेति सूचितम् । तत्त्वप्रदीपे तु यदीष्टादिकारिणां भूतबन्धेन पुनरागमनं तर्हि ‘अपामसोमममृता अभूम’ ‘अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतम्’ इत्यादिश्रुतिविरोध इत्युक्तम् । तद्रीत्या पूर्वाक्षेपात् सङ्गतिः स्पष्टैव । यद्वा इष्टापूर्तादिकारिणो भूतपरिष्वङ्गेन गतिश्रवणवन्मोक्ष-स्यापि श्रवणाक्तिं वैराग्यादिनेत्याक्षेपात्सङ्गतिः । तदुक्तं न्यायविवरणे मोक्षफलस्याप्युक्तेरिति ॥ उभयविधेति ॥ लोके तृप्त्यर्थं भोजनादिसाधनमवश्यानुष्ठेयं दृश्यते । रसायनसेवनादिरूपं तु अवश्याननुष्ठेयं दृष्टं तथेहापि पूर्वोक्तरीत्या वैराग्यादिकमनुष्ठेयं किं वाऽपामेत्यादिश्रुत्याऽवश्या-ननुष्ठेयमिति भवति सन्देह इत्यर्थः । ‘सङ्गम्यन्ते गुरोर्गिर’ इति प्रतिज्ञानुरोधाद्भाष्यवाक्यमन्यत्रोक्त-वाक्येन सङ्गमयितुं ‘अपाम सोमममृता अभूम’ इति विशेषत एव मोक्षफलस्याप्युक्तेः कर्मैव तत्साधनमित्यन्यत्रोक्तमत्र फलोक्तिपूर्वमर्थतो योजयति ॥ न मुमुक्षुणेत्यादिना ॥ नन्वनादि-प्रतिबन्धकदुरितस्य जन्महेतुकर्मणां च भावात्कथं सोमयागादिकर्ममात्रेण मोक्षः । कथं च ‘अथ हैनं यजमानं किं न जहाति’ इति भूतावियोगश्रुतिश्चेत्यतो विपक्षे बाधकोक्तिपरतया भाष्यं तत्सङ्ग-तत्वेन योजयति ॥ अन्यथेति ॥ कर्मणा मोक्षानङ्गीकार इत्यर्थः । नित्यनैमित्तिककर्मानुष्ठानेन क्षपितकलुषाणामभूतप्रत्यवायानां काम्यप्रतिषिद्धवर्जनेनासञ्जातजन्महेतूनामिष्टापूर्तादिकारिणां कर्मणैव मोक्षोपपत्तेः । अत एव प्राक्कर्मणैवेत्येवकारः । प्राचीनश्रुतिस्तु प्रतिबन्धकवदिष्टादिकारिपरा वा अप्रमाणं वेति भावः । कोऽत्र विशेषः । येन वैराग्यादित्यागः कर्मण्यादरश्चेत्यत आह ॥ अत इति ॥ कर्मणो मुक्तिहेतुत्वस्य श्रौतत्वादित्यर्थः । र्ओ अर्कतरौ । इष्टस्यार्थस्य संसिद्धौ को विद्वान्यत्नमाचरेदित्युत्तरार्धंशः ॥ वैराग्यादिनेति ॥ अनेनाध्यायाक्षेपोऽपि सूचितः । तदर्थं वैराग्यभक्तिजिज्ञासाज्ञानार्थमित्यर्थः । अस्य शास्त्राद्यारम्भप्रयोजकत्वेऽपि पूर्वषडधिकरणीव वैराग्यप्रयोजकत्वमप्यस्तीत्यत्र पादे निवेश इति भावः । यद्यपि शास्त्रं न वैराग्यभक्त्यर्थं ‘ब्राह्मणो निर्वेदमायात्,’ ‘यमेवैष वृणुते,’ ‘भक्तिमान्परमे विष्णौ’ इत्यादिजिज्ञासासूत्रभाष्योक्त-श्रुतिस्मृतिभिः, ऊर्ध्वरेतस्सु चशब्दे हि । अध्ययनमात्रवतः । अनुबन्धादिभ्यः । भूयस्त्वात्त्वनुबन्ध इत्यादिसूत्रैश्च वैराग्यभक्त्यादेः शास्त्राधिकारिविशेषणत्वोक्त्या तस्य शास्त्रात्पूर्वमेवौपदेशिक-वाक्यार्थज्ञानरूपश्रवणादिनैव सिद्धेः । अन्यथा अन्योन्याश्रयात् । तथा न्यायनिबन्धनात्मक-शास्त्रस्य न्यायानुसन्धानरूपमननार्थत्वेन तदनन्तरभाविनिदिध्यासनार्थत्वस्य तद्द्वारा वा ‘सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी । ध्यानरूपा परा च’ इत्युक्तदिशा चित्तनिरोधद्वारा साक्षादेव वा कथञ्चिदपरोक्षज्ञानार्थत्वसम्भवेऽपि न श्रवणार्थत्वम् । तस्योपनिषद्भाष्यादिरूपोपदेश-जन्यवाक्यार्थज्ञानरूपत्वेन न्यायशास्त्रात्पूर्वभावित्वात् । विवक्षितं च जिज्ञासापदेन त्रितयम् एतत्पादसङ्गतिटीकायां श्रवणमनननिदिध्यासनरूपा जिज्ञासैवेत्युक्तेः । तथापि यत्त्वादौ श्रद्धया सिद्धं पुनर्न्यायेन साधितमिति न्यायेन प्राक्सिद्धस्यापि न्यायैरुपपादनेन दार्ढ्यार्थतया वैराग्य-भक्त्यर्थत्वोपपत्तेः । श्रवणेन विना मननायोगेन मननार्थस्य शास्त्रस्यार्थात्तदंगश्रवणाद्यर्थत्वमप्यस्तीति भावेन तदर्थं शास्त्रमित्युक्तमनवद्यमिति । यद्वा तदर्थं वैराग्यादिप्रतिपादकमित्यर्थः । श्रुत्यर्थोक्तिपरतया सूत्रभाष्ये व्याकरिष्यन् श्रुत्यर्थोक्तेरसांगत्यव्युदासाय परिष्करोति ॥ अवश्येति ॥ इत्यादिश्रुतिबलादमृतशब्दस्य यथायोग्यमेवार्थकल्पनोपपत्तेरित्यन्यत्रोक्तिविवरणपरतया कर्म-विभागोक्तिपूर्वं भाष्यार्थमाह ॥ कर्मेति ॥ ‘प्रवृत्तं च निवृत्तं च द्विविधं कर्म चोच्यते’ इत्यादेरिति भावः । काम्यो भवेत् स्वर्गरूपफलोद्देशेन कृतो भवेदित्यर्थः ॥ तत्साध्यमिति ॥ एतेन भाष्ये तदमृतत्वमिति तच्छब्दस्य तस्यां श्रुतौ श्रुतकाम्यसोमयागसाध्यमित्यर्थो दर्शितः । भागतः कालभागत इत्युपेत्यार्थमाह ॥ किञ्चिदिति ॥ गौणार्थतया अमुख्यार्थतया । नान्य इत्यादिभाष्योक्तहेतुसाध्ययोरसांगत्यव्युदासाय श्रुतिपूर्वांशोक्त्या अर्थं वदन् सूत्रार्थं चाह ॥ न कर्मणेति ॥ सूत्रे तदमृतत्वमिति शेषः । तदमृतत्वं भाक्तममुख्यमित्यंशस्य भावार्थो न कर्मणा मुख्यानृतत्वं लभ्यमिति । तथा हि दर्शयतीत्यस्यार्थस् तमेवमिति ॥ भाष्यस्थैवकाराशयमाह ॥ अन्येषामिति ॥ उक्तत्वादिति ॥ अनेन हिर्हेताविति सूचितम् । भाष्यस्थहिशब्दसूचितमाह ॥ काम्येति ॥ पारम्पर्येणेति भाष्ये तदमृतत्वमित्यस्यानुवृत्त्यान्वयलब्धममृतत्वस्वरूपं वदन् तद्वाक्यं व्याचष्टे ॥ यद्यत्रेत्यादिना ॥ अत्र श्रुतौ । यत्तु कर्मनिर्णयटीकायाम् अमृता इति वा मृता इति गौण्या वृत्त्या मन्वन्तरापेक्षयाऽमृतशब्दस्य तत्साधनज्ञानलक्षणया तदेकदेशलक्षणया चेत्यमृत-शब्दस्य त्रेधाऽप्यमुख्यत्वरूपं भाक्तत्वमुक्तं तत्तु प्रशंसादीनां च तात्पर्यं वाचनिकार्थात्यागेनैव कथितं स्वयं भगवतेत्याचार्योक्तेर् वाचनिकपदेन मुख्यार्थ एव नाभिमत इति द्योतनाय ॥ न साक्षादिति ॥ सर्वापेक्षा च यज्ञादिश्रुतेरश्ववदिति वक्ष्यमाणन्यायादिति भावः । पारंपर्येणात्मविद-पेक्षयेत्यात्मज्ञानजननेऽपि कर्मणः सूचितं पारंपर्यं व्यनक्ति ॥ कर्मभिरिति ॥ वैराग्यादीत्यादिपदेन भक्तिशमदमादिग्रहः । प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्य इत्याद्युक्तदिशेति भावः ॥ तद्वत इति ॥ ऊर्ध्वरेतस्सु चशब्दे हि अध्ययनमात्रवत इत्यादिवक्ष्यमाणदिशेति भावः ॥ तस्येति ॥ श्रवणादि-रूपजिज्ञासावत इत्यर्थः । प्रकाशश्च कर्मण्यभ्यासात् । तन्निर्धारणार्थनियमस्तद्दृष्टेः पृथग्ध्य-प्रतिबन्धः फलमित्यत्र ज्ञानार्थं श्रवणादित्रितयकर्तव्यत्वस्य वक्ष्यमाणत्वादिति भावः ॥ तस्येति ॥ ज्ञानवत इत्यर्थः । विद्यैव तु निर्धारणादिति न्यायादिति भावः । विस्तृतमेतत्तृतीये गीताभाष्ये कर्मणैव हि संसिद्धिमित्यत्र । कर्म कृत्वैव ततो ज्ञानं प्राप्य वेत्यादिना कर्म तु तत्साधनमेवेत्यन्तेन ।

ननु सामान्यवाक्यस्य किं बलादेवं निर्णय इत्यत आह ॥ तथा हीति ॥ बह्वृचाः पठन्ति । ‘अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान्’ इति । तस्यार्थः । सोममपाम । तेन अमृता अभूम । कथं यस्माद्देवानविदाम व्यज्ञासिष्म । ज्योतिश्चरणाभिधानादित्याद्युक्तदिशा ज्योति-श्शब्दितं ब्रह्म अगन्म अगमाम । अद्राक्ष्मेत्यर्थः । गत्यर्थस्य ज्ञानार्थत्वात् । तथा च याजुष-शाखायां पाठः । ‘अपाम सोमममृता अभूम अदर्श्म ज्योतिरविदाम देवान्’ इति । तदुक्तं तत्वप्रदीपे । तथा चायमर्थः स्यात् । सोममपाम देवान् अविदाम । ज्योतिरदर्श्म अमृता अभूमेति ज्योतिर्ब्रह्मेत्युदितमिति च । तथा लोके द्वारपालदर्शनानन्तरं राजदर्शनवदतस्तद्व्यपेक्षयेति अन्तरनयोक्तदिशा वाक्यशेषे पूर्ववदिति देवताप्रसादोपचितेश्वरज्ञानस्योक्त्या तद्द्वारैव कर्म मुक्तिहेतुरिति ज्ञायते । उक्तश्चायं वाक्यशेषाधीनो निर्णयः सन्दिग्धे तु वाक्यशेषादिति जैमिनिसूत्रे । अत्राप्युक्तः पूर्वं प्राणादयो वाक्यशेषाद् धर्मान्तरेण वाक्यशेषादिति । तथा प्रथमे श्रवणादित्यत्रापि चरमानुरोधेन पूर्वश्रद्धाशब्दस्यास्वारस्यमुक्तं यदा तदा किमु वाच्यम् ‘अपाम सोमममृता अभूम’ इति वाक्यास्वारस्यमिति भावः । एतेन सूत्रे वा अथवा जिज्ञासोस्तदमृतत्वमकाम्यकर्मणा श्रुतममृतत्वं भाक्तं ज्ञानद्वारकत्वरूपं गौणम् । कुतस् तथा हि दर्शयति । अगन्म ज्योतिरिति वाक्यशेषे यतो ज्ञानप्राप्तिमाहेति च योजना सूचिता । अत एव तथा हीति सूत्रांशानुकृतिरिति आत्मानमेवेत्यादिश्रुत्यनुसाराच्च । आत्मविदपेक्षयेत्यस्यार्थान्तरमाह ॥ अथ ज्ञानिन इति ॥ यद्वा भाष्ये पारम्पर्येण वा आत्मविदपेक्षया वेति वाशब्दस्य प्रत्येकमन्वयमुपेत्य पारंपर्येणेत्यंशं व्याख्यायात्मविदपेक्षयेत्येतद्व्याचष्टे ॥ अथ ज्ञानिन इति ॥ अतिशय इति ॥ शमदमाद्युपेतस्स्या-त्तथापि त्विति अग्निहोत्रादि तु तत्कार्यायैवेत्यादौ च वक्ष्यमाणदिशेति भावः । नन्वेवं सति कर्मणो मुक्तिहेतुता प्राप्तैवेत्यत आह ॥ सर्वथेति ॥ तथा च वक्ष्यति । अत एवाग्नीन्धनाद्यनपेक्षेति सूत्रकार इति भावः ॥ श्रुतीरिति ॥ भाष्योक्तवाक्यानामनेकश्रुतित्वद्योतनाय बहुवचनम् । आत्मानमेवेति वाक्योक्तेरुपयोगाप्रतीतेराह ॥ आत्मानमेवेति ॥ उपासककर्मणोऽक्षय्य फलकत्वपरतया प्रतीतयैव श्रुत्येत्यर्थः । कथमित्यतोऽर्थोक्त्या व्यनक्ति ॥ न भुनक्तीति ॥ न पालयतीत्यर्थः । भुजोनवन इति अभ्यवहारार्थ एवात्मनेपदस्मृतेः । तस्य फलितार्थमाह ॥ नामृतत्वमिति ॥ जानाति चेति ॥ यदि ह वा इति पूर्ववाक्ये अज्ञकर्मणोऽन्ततः स्वल्पफलदानात्पश्चात्क्षीयत एवेति निन्दानुसारात् । उपास्त इत्युपलक्षणम् । अन्यथाऽसङ्गतिः स्यात् । ज्ञानिकर्मस्तुत्यर्थमेवाज्ञकर्मनिन्दारम्भादिति भावः । श्रुतौ लोकमाश्रयमित्यर्थः । तदुक्तं बृहद्भाष्ये प्रथमेऽध्याये चतुर्थब्राह्मणे । अग्निविप्रार्च-कोऽप्येवं यो न वेद हरिं परम् । आश्रयं सर्वजीवानां हरिस्तं नैव भोजयेत्’ इत्यादिना ब्रह्माण्ड इत्यन्तेन । श्रुतिः प्रमाणमित्यनुषङ्ग । एतेष्वर्थेषु सूत्रयोजना तन्त्रदीपिकायां व्यक्ता । श्रुतावधेत्यस्य तस्मादित्यर्थः । नन्वेवं श्रुत्यादिबलादपामेत्यादिवाक्यस्य त्रेधा स्वार्थपरत्वोक्तौ, यानि तीर्थादि-वाक्यानि कर्मादिविषयाणि च । तावकान्येव तानि स्युरज्ञानां मोहकानि चेत्यादिगीता-भाष्योक्तिविरोध इति चेन्न । अल्पाधिकार्यपेक्षया तथोक्त्युपपत्तेः । स्तुतिवाक्यानामपि स्वार्थ-परत्वस्य कर्मनिर्णये प्रतिपादनात् । उक्तं तत्रैव प्रशंसादीनां तात्पर्यं वाचनिकार्थात्यागेनैवोक्तं स्वयं भगवता भाक्तं वानात्मवित्त्वात्तथा हि दर्शयतीति ॥ अत इति ॥ कर्मणः साक्षान्मोक्षाहेतुत्वा-

द्वैराग्यभक्तिजिज्ञासाज्ञानद्वारैव मोक्षहेतुत्वादित्यर्थः । अस्य विद्यैव त्वित्यतोऽगतार्थत्वं तत्रैव वक्ष्यते ।

अभिनवचन्द्रिका

ननु सोमयागवद् वैराग्यादेरपि साधनत्वात्, तत्र यस्य रुचिस् तं प्रति तच्छास्त्रमत्युपादेयमेव । न हि सर्वाधिकारिकं किमपि शास्त्रमस्तीत्यत आह– अत इति ॥ वैराग्यादिना कृत्याभावादिति ॥ तत्फलस्याऽन्यत एव सिद्धत्वेन कृत्याभावादिति भावः । व्यर्थमिदं तदर्थं शास्त्रमिति ॥ पिपासितं प्रति गीर्वाणतरङ्गिणीसमीपे कूपखननप्रकारोपदेशवद् व्यर्थमित्यर्थः । ननु ‘अपामसोम’ इति श्रुतेरन्यार्थत्वाभिधानमयुक्तं सोमयागस्यापि मुख्यामृतत्वसाधनत्वात् । मुख्यासम्भवेऽमुख्यस्य ग्राह्यत्वादित्यत आह– कर्मेति ॥ ननु ‘भाक्तम्’ इति भाक्तार्थत्वमुक्त्वा, ‘वा’ इति मुख्यार्थत्व-कथनमयुक्तं, वस्तुनो द्वैरूप्याऽसम्भवदित्यतो वा आह– कर्मेति ॥

पूर्वपक्षस्तु न मुमुक्षुणाऽनुष्ठेयं वैराग्यादि । कर्मणैव मोक्षसिद्धेः । अपामसोमममृता अभूम’ इति श्रवणात् । न च उभयोरपि साधनत्वाद् वैराग्यादिकमनुष्ठेयमिति वाच्यम् । सति हि लघीयस्युपाये गुरूपायस्याऽनादर्तव्यत्वात् । अतः सुशकेन कर्मणा मोक्षसिद्धौ वैराग्यादिना कृत्याभावाद् व्यर्थमिदं तदर्थं शास्त्रमिति ।

सिद्धान्तस्तु अवश्यानुष्ठेयमेव मुमुक्षुणा वैराग्यादि । तद्विना मोक्षाऽसिद्धेः । न चैवं श्रुतिविरोधः । द्विविधं हि कर्म । काम्यमकाम्यञ्च । अकाम्यमपि द्विविधं ज्ञानात्पूर्वभावि, पश्चाद्भावि चेति । तत्सर्वमपि श्रुत्यर्थ एव अधिकारिभेदात् । तद्यदा काम्यकर्मपरा श्रुतिः, न तदा मुख्यामृतत्वमाह किंतु बहुकालजीवनरूपं भाक्तमर्थमाह । यदा तु ज्ञानात् पूर्वभाव्यकाम्यकर्मपरा तदा मुख्याऽमृतत्वसाधनत्वमेवाह, किंनाम न साक्षात् किंतु कर्मणा शुद्धसत्वस्य वैराग्यादिद्वारा मोक्षसाधनत्वमाह । यदा तु ज्ञानोत्तरकर्मपरा तदा ज्ञानेन सिध्यति मोक्षेऽतिशयाधायकत्व मेवाऽऽहेति कथमपि कर्मणां साक्षान्मुख्यमोक्षसाधनत्वाऽनभिधायकत्वात् । अतो वैराग्याद्यनुष्ठान-मन्तरेण मोक्षाऽसिद्धेर् न तत्प्रतिपादकशास्त्रवैयर्थ्यमिति सिद्धम् ।

वाक्यार्थमुक्तावली

अत्र पुनरिति । इह कर्मफलस्वर्गस्य पुरुषार्थत्वोक्त्या वैराग्योत्पादनादनन्तरसङ्गतिरवसेया । यद्येवमिष्टादिकारिणां स्वर्गं गतानामपि भूतापरित्यागेन बन्धस्तर्हि ‘अपाम सोमममृता अभूम’ अक्षय्यं ह वै चातुर्मास्ययाजिनस्सुकृतम्’ इत्यादिश्रुतिविरोध इति तत्त्वप्रदीपोक्तरीत्या पूर्वाक्षेपेण प्रवृत्तेरनन्तरसङ्गतिः । भावबोधे तु रीत्यन्तरेणोक्ता । अत्र वैराग्यादिकं किमनुष्ठेयमुताननुष्ठेयमिति चिन्ता । तदर्थं किं मोक्षः कर्मसाध्यो न वेति । तदर्थमपाम सोमम्’ इति श्रुतिः किं मुख्यामृतत्व-विषयिण्युत गौणार्थेति । विशेष इत्युक्तन्यायप्रदर्शकं पूर्वपक्षभाष्यं व्याचष्टे । न मुमुक्षुणेत्यादिना ॥ श्रुतेरिति ॥ विशेषश्रुतेरित्यर्थः । नन्वेवमपि कर्मवद् वैराग्यादेरपि ज्ञानद्वारा मोक्षसाधनत्वाद् यथारुचि तस्याप्यनुष्ठानसम्भवान्न वैराग्यादेर्वैय्यर्थ्यमित्यत आह ॥ अत इति ॥ र्ओ स्वगृह-समीपस्थेऽर्कवृक्षे । ओ चेदिति क्वचित्पाठः । अत्राक्कशब्देन गृहे भाण्डनिधानार्थो दीर्घदारु-रित्याहुः । ननु श्रुतेरन्यार्थकथनमयुक्तं सोमयागस्यापि मुख्यामृतत्ववाचकत्वात् । अन्यथा वाशब्देन मुख्यार्थकथनविरोधादित्यत आह ॥ कर्मेति ॥ पूर्वसूत्रे इष्टादिकारिणामिति सोमयागस्य प्रकृतत्वा-दमृतत्वमित्यत्र लभ्यते । अतश्च तदमृतत्वं तत्साध्यममृतत्वं सार्वकालिकं न भवति किन्तु भाक्तं कालैकदेशनिष्ठतयैव मुख्यमिति सूत्रार्थं मत्वा योग्यतेत्युक्तन्यायप्रदर्शकं भागतस्तदमृतत्वमिति भाष्यं व्याचष्टे ॥ तदा तत्साध्यममृतत्वमिति ॥ गौणार्थत्वमिति ॥ मन्वन्तराद्यवच्छिन्नकाले मरण-रहितत्वगुणयोगेन मृता इव मृता इति यथायोग्यार्थतया श्रुतिरुपपन्नेत्यर्थः । तथा च सोमं सोमरसमपाम धूमादिमार्गदेवान् विदाम । चान्द्रमसं ज्योतिरगन्म । किञ्चित्कालममृता अभूम इति श्रुत्यर्थः ॥ इत्यत आहेति ॥ इत्यत आत्मविदिति सूत्रखण्डं च व्याचष्ट इत्यर्थः । आत्मविद एव हि यस्मान्मुख्यं न त्वनात्मनो मुख्यमिति भाष्यलब्धमर्थमाह ॥ काम्यकर्मणामनात्मवित्त्वा-दिति ॥ एतेनेष्टादिकारिणामनात्मवित्त्वादमृतत्वं भाक्तमिति सूत्रार्थ उक्तो भवति ।

तथा हि दर्शयतीत्येतद्विवरणपरं नान्यःपन्थेति भाष्यं व्याचष्टे ॥ तमेवमिति ॥ अन्येषां काम्यकर्मिणां मोक्षाय कर्मणो मार्गत्वविधानादिति भावः । ननु ज्ञानं मोक्षैकफलकमिति अयनाय ज्ञानादन्योऽसाधारणहेतुर्नास्तीति तदर्थः । काम्यं कर्म तु मोक्षं तदतिरिक्तं च साधयतीत्यविरोध इत्यत आह ॥ काम्यकर्मणेति ॥ तत्फलस्यैव क्षयिष्णुफलस्यैव न कदाचिन्मुक्तिफलस्येत्यर्थः । न मोक्षसाधनं साक्षादिति । जिज्ञासुः कर्मणः परम्पराया मोक्षसाधनत्वाज्ज्ञानिकर्मणोऽमृतैकदेशानन्द- साधकत्वात् साक्षान्मोक्षसाधनं नेत्यर्थः । वाशब्दात्पारंपर्येणेत्युक्तसूचनाप्रकारमाह ॥ अत्रेति ॥ वाशब्दो व्यवस्थित विकल्पे । यदि जिज्ञासूनामकाम्यं कर्म विवक्षितं तदा तदमृतत्वं वा अभाक्तं वा मुख्यमेवेति सूचयतीत्यर्थः । तर्ह्यङ्गीकृतं कर्मणो मोक्षसाधनत्वमिति पृच्छति ॥ किन्नामेति ॥ तदुत्तरत्वेन पारम्पर्येणेत्येतद् योग्यतेत्युक्तन्यायं रीत्यन्तरेण सूत्रभाष्यारूढं कुर्वन् योजयति ॥ तच्चेति ॥ अत्रामृतशब्दस्य मुख्यामृतत्वमभ्युपेत्याप्यस्य पक्षस्य वापक्षत्वग्रहणेन सोमयागस्य मुख्यामृतवाचित्वमभ्युपेत्य हेतुत्वमात्रं पारंपरिकत्वादमुख्यमिति सूचितमिति भावः । पारंपरिकत्वं श्रुत्यभिप्रेतं चेत्याह ॥ तथा हीति ॥ तथा च सोममपाम । अन्तःकरणशुद्धिद्वारा ज्योति-र्ब्रह्मापरोक्षतः परोक्षतश्चागन्म जानीमः । अर्चिरादिदेवान् अविदाम । अमृता अभूमेति श्रुत्यर्थः । कर्मनिर्णयटीकायां त्वमृतशब्दस्य तत्साधनज्ञानसाधनलक्षकत्वमुक्तम् । व्याख्यानान्तरत्वादविरोधः । वाशब्दादात्मविदपेक्षयेति सूचयतीत्युक्तं सूचनाप्रकारमेवाह ॥ अथ ज्ञानिन इति ॥ आत्म-विदपेक्षयेत्यस्य प्रतिपदं दत्वार्थमाह ॥ किन्त्विति ॥ एतेन भाक्तं वेत्यस्य तदमृतत्वं वा प्रकारान्तरेण भाक्तम् । आद्यपक्षे किञ्चित्कालीनमृत्यभावरूपपरत्वेन तृतीये अस्मिन्पक्षे यावदनिष्ट-निवृत्तिविशिष्टप्रचुरानन्दानुभवात्मको यो मोक्षस् तद्गतानन्दातिशयरूपत्वेन मुख्यमपि भाग-तस्तदमृतत्वमिति योजनोक्ता भवति ॥ सर्वथेति ॥ आद्ये क्षयिष्णुफलत्वेन संसाररूपस्वर्ग-फलकत्वेन, द्वितीये कर्मणा साक्षात्तदभावेन, तृतीये मुक्तिगतातिशयहेतुत्वेन पक्षत्रयेऽपि न कर्मणा संसारनिवृत्तिरिति भावः । एतेन देवान् तारतम्येन अविदाम । ज्योतिरगन्म । सोममपाम । अमृता आनन्दातिशयवन्तोऽभूमेति श्रुत्यर्थ उक्तो भवति । योग्यतान्यायोऽपि यथायोग्यफलान्तरकल्पनया प्रकारान्तरेण विवृता भवति ॥ एनमिति ॥ श्रुतिरिति ॥ तत्तत्सृजतेत्यन्तेति भावः । इत्यादिश्रुत्यैवेति । आत्मविदामेव मुख्यामृतत्वमित्यर्थान्तरप्रतिपादनाय उदाहृतश्रुत्यैवेत्यर्थः । आदिपदेन तत्तत्सृजत इत्यन्तस्य ग्रहणम् । यथा वेदेनानुक्तः यथाविध्यपठितः फलप्रदो न, अन्यद्वा दृष्टान्तः, यथा वा अकृतं कर्म न फलप्रदं तथा विष्णुरविदित एनं जीवममृतत्वं न भोक्षयतीत्यर्थः । उपासकस्य कर्मक्षयवचनाज्ज्ञानिकर्मणो क्षयफलकत्वे किमायातमित्यत आह ॥ जानाति चेति ॥ परमात्मनस्सकाशाद् यद्यत्प्राप्तुमिच्छति तत्सर्वं कर्म स्वयं सृजतीत्यन्यथा-प्रतीतिनिरासाय व्याचष्टे ॥ मुक्तो यद्यदिति ॥

तत्त्वसुबोधिनी

वैराग्यादेरावश्यकेति । तथा चात्र प्रथमाधिकरणे सम्परिष्वक्त इत्यनेन न मरणमात्रे भूतवियोगः, किन्तु मुक्तिरूपमरण एवेत्यत्र ज्ञानसदसद्भावो नियामक इति यत्सूचितं तदयुक्तम् । मोक्षस्य कर्मसाध्यत्वोक्तेरिति शङ्कापरिहारादनन्तरसङ्गतिरिति भावः । न च तदानन्तर्यमेव स्यादिति वाच्यम् । प्रश्ननिरूपणरूपहेतुसमर्थनपराधिकरणपञ्चकस्यावश्यकत्वेन तदन्तरमेवावसर-प्राप्तत्वादिति भावः ॥ उभयविधेति ॥ यत्र कार्येऽनेकेषां साधनता तत्रैकैकस्यावश्यानुष्ठेयत्वाभावः । यत्र त्वेकमेव साधनं तस्यावश्यानुष्ठेयत्वमिति भावः । कुतो नावश्यं वैराग्याद्यनुष्ठेयमित्यत आह ॥ अपामेति ॥ अन्यथेति ॥ कर्मणो मोक्षसाधनत्वानङ्गीकार इत्यर्थः । नन्वेवं कर्मवद् वैराग्यादिसाध्यज्ञानस्यापि मोक्षसाधनत्वाद् यथारुचि तस्याप्यनुष्ठानसम्भवान् न वैराग्यादे-र्वैय्यर्थ्यमित्यत आह ॥ अत इति ॥ कुत इत्यत आह ॥ तद्विनेति ॥ वैराग्यादि विनेत्यर्थः ।

नन्वेवं कर्मणो मोक्षसाधनत्वप्रतिपादकापामेति श्रुतिविरोध इत्याशङ्क्य निषेधति ॥ न चेति ॥ कथमन्यार्थत्वमित्यतस्तद्दर्शयति ॥ तथा हीति ॥ किञ्चित्कालीनमिति ॥ मन्वन्तराद्यवच्छिन्न-कालेषु मरणरहितत्वरूपगुणयोगेनामृत इवामृत इति गौणार्थतयेत्यर्थः । कुतो न कर्मणा मुख्या-मृतत्वमिति तत्राह ॥ काम्यकर्मिणामनात्मवित्त्वादिति ॥ तथा चात्मविदामेव हि मुख्यमिति भाष्येणानात्मवित्त्वादिति सौत्रो हेतुर् भाक्तमित्यत्रैव योजित इति भावः । काम्यकर्मिणामनात्म-त्त्वेऽपि कुतो न मुख्यामृतत्वमित्यत आह ॥ तमेवमिति ॥ कुतोऽन्येषां तदभावस्योक्तिरित्यत आह ॥ काम्यकर्मणेति ॥ हिशब्दो यस्मादित्यर्थे ॥ मुख्यामृतत्वमिति ॥ अमृतशब्दस्य मोक्षे योगरूढिलक्षणमुख्यवृत्तेः सद्भावादिति भावः । यद्यमृतपदेन मुख्यामृतत्वमेवोच्येत तर्ह्यङ्गीकृतं कर्मणो मोक्षसाधनत्वमित्यभिप्रेत्य पृच्छति ॥ किन्नामेति ॥ तथा हि वाक्यशेष इति ।

तथा चायं श्रुत्यर्थः । सोममपाम अमृता अभूमेति कर्ममोक्षयोः कार्यकारणभाव उक्तः । स न साक्षात् किन्तु परम्परयेत्युच्यते ॥ अगन्म ज्योतिरिति ॥ प्रकाशरूपं ब्रह्म अगन्म जानीमः । ज्योतिर्ज्ञानमगन्म प्राप्नुम इति वा । ततःकिमित्यत उच्यतेऽविदामेति । मार्गरूपानार्चिरादिदेवान-विदाम प्राप्नुम इति । न चैवं सत्याद्यान्तिमपक्षयोरेतद्वाक्यविशेषविरोधेन कथं पूर्वश्रुतेस्तदर्थ-परत्वमिति वाच्यम् । अत्राद्ये पक्षे कथं कर्मणा स्वर्ग इत्यत उच्यतेऽगन्मेति । चन्द्रमसं ज्योति-रगन्म मार्गरूपान् धूमादिदेवानविदामेत्यर्थस्य, तृतीये सोमयागेन कथम् आनन्दातिशय इत्यत उच्यतेऽगन्मेति । यतः पूर्वं ज्योतिरपरोक्षज्ञानमगन्म ततः देवान् यथायोग्यं देवादिमत्वम-विदामेत्यर्थस्य सम्भवेन तद्विरोधाभावादिति भावः ॥ आत्मज्ञानलब्ध इति ॥ तथा च मोक्षलक्षणमुख्यामृतवाचकस्यामृतशब्दस्य तदेकदेशानन्दातिशये लक्षणया प्रवृत्तिरिति भावः । ननु यदि कर्मण आनन्दातिशयहेतुत्वं तर्ह्यङ्गीकृतमेव मोक्षसाधनत्वम् । तस्यैव मोक्षत्वात् । तद्व्यतिरिक्तस्य च कर्मासाध्यस्य ज्ञानमात्रसाध्यस्य मोक्षस्याश्रवणात् । तथा च न तेन मोक्ष इति आत्मज्ञानलब्धे मोक्ष इति च कथमुक्तमित्यत आह ॥ सर्वथेति ॥ तच्चोक्तं ‘सर्वदुःखनिवृत्तिश्च ब्रह्मणो निश्चितैव हि । उपासया कर्मभिश्च भक्त्या चानन्दचित्रता’ इत्यादि श्रुत्यैवेति । आत्मविदामेव मुख्यामृतत्वमित्यर्थान्तरप्रतिपादनायोदाहृतयैवेत्यर्थः । आदिपदेन तत्तत्सृजत इत्येतस्य ग्रहणम् । अविदितोऽपि परमात्मा स्वर्गादिकं भोजयत्येवेत्यतो न भुनक्तीत्यस्य तात्पर्यमाह ॥ नामृतत्वमिति ॥ ननूपासककर्मणो ज्ञानहेतुत्वात् कथमात्मविदपेक्षयेत्यत्रार्थे आत्मानमेवेति श्रुतिः प्रमाणमित्यत आह ॥ जानाति चेति ॥ परमात्मनः सकाशाद् यत्प्राप्तु-मिच्छति तत्सर्वं कर्म स्वयं सृजति इत्यन्यथा प्रतीतिनिरासाय व्याचष्टे ॥ स मुक्तो यद्यदिति ॥

वाक्यार्थविवरणम्

भोजनादिसाधनमवश्यानुष्ठेयं दृश्यते । रसायनादिसेवनादि त्ववश्याननुष्ठेयं दृष्टम् । तथेहापि पूर्वोक्तरीत्या वैराग्यादिकमनुष्ठेयं वाऽपामेत्यादिश्रुत्याऽननुष्ठेयं वेति भवति सन्देह इति भावः । अन्येषाम् अनात्मविदां कर्मिणाम् । नन्वत्र कथं तदभावोक्तिरित्यत आह ॥ काम्येति ॥ कर्मणा काम्यकर्मणा तत्फलस्य स्वर्गादेरेव सिद्धिर्हि यस्मात् प्रसिद्धा न मोक्षस्य । अतो ज्ञानिनां ‘तमेवम्’ इति मोक्षोक्तावन्येषां तदभावोऽर्थादुक्त एवेति भावः ॥ साक्षादितीति ॥ तत्र ज्ञानिकृतस्य साक्षान्मोक्षसाधनत्वाभावो नामेतरासहकृतस्य केवलस्य तदभाव इति व्याख्येयम् । तर्हि जितं मया, कर्मणो मोक्षसाधनत्वप्राप्तेरित्याशयेन शङ्कते ॥ किन्नामेति ॥ उत्तरयति ॥ तच्च ॥ अमृतत्वमिति ॥ जिज्ञासा ॥ श्रवणादिरूपा ॥ ज्योतिः ॥ अपरोक्षज्ञानम् । तथा च सोममपाम पश्चाज्ज्योतिरगमन्म पश्चादर्चिरादिदेवानविदाम प्राप्ताः स्मः पश्चादमृता अभूमेति वाक्यार्थो द्रष्टव्यः ॥ न तेनेति ॥ इतरासहकृतेन केवलेन तेनानन्दाभिवृद्धिरूपो मोक्षो नेत्यर्थः ॥ आत्म-विदाम् ॥ भगवदपरोक्षज्ञानमपेक्ष्य सहकारीकृत्य तदंशे समुच्चयसाध्यत्वाङ्गीकारादिति द्रष्टव्यम् । संसारनिवृत्तिर् लिङ्गदेहभङ्गरूपमोक्षः । तस्य ज्ञानमात्रसाध्यत्वादिति ध्येयम् । अस्मिन्पक्षे ज्योतिरगन्म पश्चात् सोममपाम पश्चादमृता आनन्दाभिवृद्धिरूपमुक्तिमन्तोऽभूमेति श्रुत्यर्थो द्रष्टव्यः ॥ भोजयति ॥ अनुभावयति ।

वाक्यार्थमञ्जरी

उभयविधसाधनेति ॥ यत्र कार्येऽनेकसाधनानि तत्रैकस्यावश्यानुष्ठेयत्वाभावः । यत्र त्वेकमेव साधनं तत्र तस्यानुष्ठेयत्वमिति भावः । र्ओ प्राङ्गणे ॥ ॐ भाक्तं वानात्मवित्त्वात्तथाहि दर्शयति ॐ ॥ कर्मसाध्यममृतत्वं भाक्तं भागविषयं गौणं किंचित्कालीनमिति यावत् । कुतः ? अनात्म-वित्त्वात् कर्मिण आत्माज्ञानित्वात् । हि यस्मात्तमेवं विद्वानिति श्रुतिर् आत्मज्ञानिन एव मुख्यामृतत्वम् अन्यस्य त्वमुख्यमिति दर्शयतीत्यर्थः ॥ किञ्चित्कालीनमिति ॥ मन्वन्तराद्य-वच्छिन्नकालेषु मरणरहितत्वरूपगुणयोगेनामृता इवामृता इति गौणार्थतयेत्यर्थः । कुतोऽन्येषां तदभावस्योक्तिरित्यत आह ॥ काम्यकर्मणेति ॥ हि यस्मात्काम्यकर्मणस् तत्फलस्य स्वर्गादेरेव सिद्धिस् तस्मात्कर्मिणां मुख्यामृतत्वमेवोच्येत तर्ह्यङ्गीकृतकर्मणो मोक्षसाधनत्वमित्यभिप्रेत्य पृच्छति ॥ किं नामेति ॥ अगन्मेति ॥ तथा च सोममपाम तेन ज्योतिर्ज्ञानमगन्म प्राप्नुमः । ततो मार्गस्थानर्चिरादिदेवानविदाम आप्नुमः । ततोऽमृता मुक्ताऽभूमेत्यर्थः । काम्यकर्मपक्षे चान्द्रमसं ज्योतिरगन्म । ततो मार्गस्थान्धूमादिदेवानविदामेत्यर्थः ॥ आत्मज्ञानलब्ध इति ॥ आत्मज्ञानेना-विद्यावरणाद्यनिष्टनिवृत्तिर्भवति । स्वरूपानन्दस्यापि कतिपयस्याभिव्यक्तिः । ज्ञानोत्तरकर्मादिना तत्कालविषयभोगेन यावत्स्वरूपानन्दो व्यज्यते अयमेवातिशयवृद्ध्यादिशब्दार्थः । ‘सर्वदुःख-निवृत्तिस्तु ज्ञानिनो निश्चितैव हि । उपासया कर्मभिश्च भक्त्या चानन्दचित्रता’ इत्युक्तेः । उक्तं च प्रमेयदीपिकायां, ननु मुक्तः किमर्थं विषयानिच्छेत् । न तावत्सुखार्थं ज्ञानेनावरणरूपाविद्यानिवृत्ता वात्मस्वरूपसुखस्याभिव्यक्तत्वात् । पृथक्सुखस्यानङ्गीकारात् । नापि दुःखनिवृत्त्यर्थम् अविद्या-निवृत्त्यैव तत्सिद्धिरिति । मैवम् । नाविद्यैवात्मस्वरूपावरणं किं त्वीश्वरेच्छापि । तथा च वक्ष्यति तथा चाविद्यायां निवृत्तायामशेषानिष्टनिवृत्तिर्भवति । स्वरूपसुखं च बहुतरं व्यज्यते न तु सर्वम् । ज्ञानोत्तरमनुष्ठितेन कर्मणा प्रसन्नपरमेश्वरः मुक्तौ विषयानुत्पाद्य तद्भोगेन ज्ञानानभिव्यक्तमपि स्वरूपसुखं व्यक्तीकरोति । अत्र भाष्यकृतैव प्रमाणान्युक्तानि । अनेनैवाभिप्रायेण श्रुत्यादिषु मुक्तेर्ज्ञानमात्रसाध्यत्वं ज्ञानकर्मसमुच्चयसाध्यत्वं चोच्यत इति । अत एवातिशयातिरिक्तमोक्ष-साधनसूचनाय संसारनिवृत्तिरित्युक्तम् । बन्धनिवृत्तिरूपमोक्ष इत्यर्थः । अस्मिन्पक्षे पूर्वं ज्योतिरगन्म ततः सोममपाम ततोऽमृताऽभूमेत्यर्थः ॥ इत्यादिश्रुत्यैवेति ॥ आत्मविदामेव मुख्यामृतत्व-मित्यर्थान्तरप्रतिपादनायोदाहृतमेवेत्यर्थः । आदिपदेन तत्तत्सृजतेत्येतस्य ग्रहणम् । अविदितस्यापि स्वर्गादिभोजकत्वादाह ॥ नामृतत्वमिति ॥ ननूपासनाकर्मणो ज्ञानहेतुत्वात्कथमात्म-विदपेक्षयेत्यत्रात्मानमेवेति श्रुतिः प्रमाणमित्यत आह ॥ जानातीति ॥ परमात्मनः सकाशाद् यत्प्राप्तुमिच्छति तत्सर्वं स्वयं सृजतीति निरासायाह ॥ स मुक्त इति ॥

॥ इति भाक्ताधिकरणम् ॥ ७ ॥