०६ अश्रुतत्वाधिकरणम्

ॐ अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॐ

६. अश्रुतत्वाधिकरणम्

सूत्रभाष्यम्

॥ ॐ अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॐ ॥ ६ ॥

अग्न्यादिगतिः प्रत्यक्षतः श्रूयते । अतः प्रत्यक्षाश्रवणान्न युक्तमिति चेन्न । ‘अथैनं यजमानं किं न जहाति भूतान्येव भूतैरेव गच्छति भूतैर्भुङ्क्ते भूतैरुत्पद्यते भूतैश्चरति भूतैर्विचरति’ इति कौण्ठरव्य (कौण्डिन्य) श्रुतौ प्रतीतेः ।

तत्त्वप्रदीपिका

इष्टापूर्तादिकारिणां भूतैः सहैव प्रत्यक्षतः श्रुत्या गतिप्रतीतेर्नाश्रुतत्वम् ॥

तत्त्वप्रकाशिका

अत्र पुनर्भगवत्प्राप्तिसाधनवैराग्याय जीवस्य भूतैः सह गतिसमर्थनादस्ति शास्त्रादिसङ्गतिः । मरणमात्रं न मुक्तिरित्युक्तम् । भूतानां जीवेन सह गत्यभावेऽयुक्तं स्यादतोऽसौ समर्थनीया । प्रकृतभूतान्येव विषयः । जीवेन सह गच्छन्ति न वेति सन्देहः । पूर्वोक्तमेव सन्देहबीजम् । पृथक् पृथग्विचारत्वात्सन्देहानुत्पादो न मन्तव्यः । पूर्वपक्षस्य सूत्र एवोक्तत्वात्तदुपन्यस्य पूर्वपक्षांशं तावद् व्याचष्टे ॥ अश्रुतत्वादिति ॥ न भूतानां जीवेन सह गमनं युक्तम् । तथा श्रुत्यभावात् । न च वाच्यमपां प्राणानां च श्रूयते सहगतिरतोऽर्थाद् भूतानामप्यस्तीति । यथा खलु प्राणानामग्न्यादिगतिः साक्षात् श्रूयते यथा श्रुत्यभावात् । आर्थिकश्रवणादपि नियमेन प्रत्यक्षश्रुत्यभावस्य बलवत्त्वात् । सति हि विशेषश्रवणे वैदिकार्थे युक्तयोऽपि प्रवर्तन्ते । अतोऽत्र प्राणानामग्न्यादिगतिवद्भूतानां जीवेन सह गतेः प्रत्यक्षाश्रवणादभावस्ततो मरणस्यैव मुक्तित्वान्न वैराग्यादिना कृत्यमिति भावः । अतः शब्दस्तथार्थे । तेन यथेत्यादौ सिद्ध्यति । हेत्वर्थे च । ‘अतःशब्दस्तु हेत्वर्थे तथेत्यर्थे च वर्तते । उभयार्थे च भवति यथा शब्दविदो विदुः’ । इति वचनात् ।

सिद्धान्तांशं व्याचष्टे ॥ नेति ॥ न प्रत्यक्षाश्रवणादसहगतिर्भूतानाम् । आर्थिकश्रवण-स्याप्यश्रवणबाधकत्वात् । न हि कदन्नभुजोऽनशित्वं भवति । युक्तेरपि व्याप्तिलिङ्गग्राहकप्रमाणेनैव भवितव्यं तच्चास्ति । यदा चैवमार्थिकश्रवणमश्रवणबाधेनाभीष्टसिद्ध्यै भवति तदा सुतरामथैन-मित्यादिविशेषश्रवणमिति भावः । अतोऽस्त्येव भूतानां जीवेन सह गतिरिति मरणे मोक्षाभावा-दनुष्ठेयमेव तदर्थं वैराग्यादिसाधनमिति सिद्धम् ।

गुर्वर्थदीपिका

पृथक्पृथग्विचारत्वादित्यस्य पूर्वोक्तविचारादभ्यधिकाशङ्कया प्राप्तस्योत्तरोत्तराधिकरणस्य पृथक्पृथग्विचारत्वात् प्रत्येकं प्रत्येकमभिनवपूर्वपक्षे सिद्धान्तरूपत्वादित्यर्थः । सन्देहानुत्पाद इत्यस्य ‘तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम्’ इत्यधिकरणे भूतैस्सहगतत्वस्य निर्णीतत्वादुत्तराधिकरणेषु सह गच्छन्ति न वेति सन्देहानुत्पादो न मन्तव्य इत्यर्थः । यद्यपि ‘अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात्’ इति सूत्रे भाष्ये च भागतो जीवगतेरार्थिकत्वेनाभि-प्रेतत्वेऽपि साक्षाद्भागतोऽग्न्यादिप्राप्तेरेवोक्तत्वात्पुनराशङ्का । स्मृतौ भागतो जीवेन सहगतेस्स्पष्ट-मुक्तत्वेऽपि श्रुतावनुक्तत्वाच्च श्रुतिमीमांसायां प्रवृत्तस्य सूत्रकारस्य पुनरारम्भ इति भावेनोक्तं प्रत्यक्षाश्रवणादिति ।

ननु ‘अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः’ इति साक्षाद्भूतानां जीवेन सह गतिप्रतिपादकमिदमेवाधिकरणमादावुदाहर्तव्यं समस्ताशङ्कापरिहारकत्वात् । किमधिकरणान्तरेणेति चेत्सत्यम् । युक्त्या श्रुतिविचारात्मकमीमांसायां प्रवृत्तस्सूत्रकारः युक्तिरसिकत्वाद्युक्त्या ‘इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इति श्रुतेः पूर्वोत्तराविरोधं परिहृत्यार्थसमर्थनाय ‘तदन्तर-प्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम्’ ‘त्र्यात्मकत्वात्तु भूयस्त्वात्’ ‘प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः’ इति त्रिसूत्रीमसूत्रयत् । तत्सहगन्तृप्राणाविनाभूतत्वादिति श्रौतयुक्त्या च भूतानां विनैव जीवेन सहगतिसमर्थनार्थं ‘प्राणगतेश्च’ ‘अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात्’ इत्यधिकरणद्वयं मध्ये निबबन्ध । एवं च स्वस्य यौक्तिकशिरोमणित्वप्रदर्शनायाऽऽदावधिकरण-पञ्चकं प्रपञ्चितवानिति समाधानसम्भवान्न कश्चित्क्षुद्रोपद्रवः । इष्टादिकारिणामित्यत्रादिपदेन दानपूर्तादीनि काम्यकर्माणि सङ्गृह्यन्ते । इदं च यज्ञकर्तृमात्रे प्रसिद्धश्रौतयजमानपदस्य ‘यजदेव-पूजासङ्गतिकरणदानेषु’ इत्यनुशासनेन बह्वर्थकत्वसूचनार्थम् । अन्यथाऽल्पाक्षरत्वाद्यजमान-स्येत्यवक्ष्यदिति ज्ञेयम् ।

भावबोधः

अत्र पुनरिति ॥ मूलभूतोपपत्तिरूपविशेषप्रमाणसहितार्थिककल्पनाक्षेपसमाधानादनन्त रसङ्गतिरिति भावः ॥ जीवेन सहेति ॥ अत्र भूतानां जीवेन सहगतिर्नास्त्युतास्तीति चिन्ता । तदर्थं प्राणगतिरूपोपपत्त्युपोद्बलितमार्थिकश्रवणमसाधकं साधकं वेति । तदर्थं भूतानि जीवेन सह गच्छन्तीति विशेषतः साक्षाच्छ्रवणं नास्त्युतास्तीति ।

ननु ‘तदन्तरप्रतिपत्तौ’ इत्यनेनैव भूतानां जीवेन सहगतेः समर्थितत्वेन भूतानि गच्छन्ति न वेति सन्देहस्यैवानुदयात् कथमेषामधिकरणानामुत्थानमित्यत आह ॥ पृथक् पृथग्विचार-त्वादिति ॥ अयं भावः । अत्राद्येऽधिकरणे भूतसंपरिष्वक्तो रंहतीति प्रतिज्ञाय तत्र प्रमाण-त्वेनोदाहृतयोः प्रश्ननिरूपणयोरप्शब्दस्यैव श्रवणात् कथं ताभ्यां सकलभूतानां जीवेन सहगति-सिद्धिरित्याशङ्कानिरासाय तयोः श्रूयमाणाप्शब्दः किमम्मात्रपर उत सकलभूतपर इति सन्देहे नायमप्शब्दोऽम्मात्रपरः किं त्वपां त्र्यात्मकत्वात् सकलभूतपरः । अप् शब्दप्रयोगाय भूयस्त्व-निमित्तत्वादिति प्रवृत्तस्य द्वितीयाधिकरणस्य पृथग्विचारपरत्वम् । नन्वपां त्र्यात्मकत्वेन तासां जीवेन सहगत्या सकलभूतानां सहगतिकल्पना तदा भवेत्, यदि भूतानां जीवेन सहगतौ विशेषप्रमाणं स्यात् । आर्थिककल्पनाया विशेषप्रमाणानुरोधित्वादित्याशङ्कानिरासाय किमार्थिक-कल्पनामूलभूतविशेषप्रमाणमस्ति न वेति सन्देहे न विशेषप्रमाणाभावः, किं तु भूतानि जीवेन सह गच्छन्ति तत्सहगन्तृप्राणाविनाभूतत्वादित्युपपत्तिरूपविशेषप्रमाणमस्ति । ततश्च निर्णयोपपत्तिरिति प्रवृत्तस्य तृतीयाधिकरणस्य पृथग्विचारपरत्वम् ।

नन्वेवं सत्येतदुपपत्तिबलादेव प्रश्नव्याख्यानगताप्शब्दस्य सकलभूतपरत्वसम्भवे द्वितीयाधिकरणं व्यर्थमिति चेत्, न; उपपत्तिबलादपि सम्भावितमेव कल्पनीयमित्यपां त्र्यात्मकत्वभूयस्त्वाभ्याम-प्शब्दस्य सकलभूतपरत्वसम्भावकतया तत्सार्थक्योपपत्तेरिति । ननु ‘यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति’ इत्यादिश्रुत्या वागादिप्राणानां स्वमूलरूपाग्न्यादीन् प्रति गमनप्रतीत्या जीवेन सह गत्यभावात्तत्सहगन्तृप्राणाविनाभूतत्वरूपहेतुरसिद्ध इत्याशङ्कानिरासाय प्रवृत्तस्य चतुर्थाधिकरणस्य स्पष्टं पृथग्विचारपरत्वम् । ननूक्तोपपत्तिबलादपि भूतत्रयात्मिकानामपां जीवेन सहगत्यार्थात् सकलभूतानामपि सहगमनमिति कल्पना तदा स्यात्, यद्यपामेव जीवेन सहगतिः स्यात् । नैतदस्ति । ‘तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति’ इत्युपक्रमे प्रथमाग्नौ होम्यतयापामश्रवणादिति शङ्कानिरासायोपक्रमगतश्रद्धाशब्दः किं स्वार्थमात्रपर उतोपसंहारानुसारेणापामप्युपलक्षक इति सन्देहे न स्वार्थमात्रपरः किं तूपसंहारमात्रस्योपक्रमव्याख्यानपरत्वेन प्राबल्यात् । तदनुसारेणोप-क्रमस्य नेतव्यत्वात्तद्गतश्रद्धाशब्दस्यापामुपलक्षकत्वमप्यस्तीति प्रतिपादयितुं प्रवृत्तस्य पञ्चमाधि-करणस्य पृथग्विचारपरत्वम् । ननूक्तोपपत्त्यार्थिककल्पनाभ्यां सर्वभूतानां जीवेन सहगतिर्न सिद्ध्यति । ‘अग्निं वागप्येति’ इतिवत् ‘भूतानि जीवेन सह गच्छन्ति’ इति विशेषरूपप्रत्यक्षश्रुत्य-भावादित्याशङ्कानिरासाय भूतानां जीवेन सह गमनस्य प्रतिपादिका श्रुतिर्नास्त्युतास्तीति सन्देहे न नास्ति; किं त्वस्ति । ‘अथैनं यजमानं किं न जहाति भूतान्येव भूतैरवगच्छन्ति’ इति विशेषश्रुतेः प्रत्यक्षतः श्रवणादिति प्रतिपादयितुं प्रवृत्तस्य षष्ठाधिकरणस्य पृथग्विचारपरत्वमिति ।

नन्वेवं सन्देहादिनैषामधिकरणानां पृथक्पृथग्विचारपरत्वे ‘अग्न्यादिगतिश्रुतेः’ इत्यधिकरण-व्यतिरिक्तेषु चतुर्ष्वधिकरणेषु भूतानि जीवेन सह गच्छन्ति न वेति सन्देहः कथं टीकायामेव प्रदर्शित इति चेत् । सत्यम् । अपामेव सहगतिर् भूतानि सहगच्छन्तीति सहैवानुक्तेस्तदभावो भूता-नामसहगतिरिति न्यायविवरणानुसारेण तस्या मूलसन्देहप्रदर्शनपरत्वादिति ज्ञातव्यम् । अतीताधिकरणेषु प्रथमद्वितीयपञ्चमैर्भूतानां जीवेन सहगतावार्थिकश्रवणं युक्तितयोक्तम् । तृतीयचतुर्थाभ्यां प्राणगतिस्तत्र युक्तितयोक्ता । तदुभयोपमर्दनेनेहाधिकरणे पूर्वपक्षोऽभिप्रेत इत्याह ॥ न च वाच्यमिति ॥ न्यायविवरणानुसारेणार्थिकश्रवणोपमर्दनायापामित्युक्तम् । अग्न्यादिगतिरिति भाष्यानुसारेण प्राणगत्युपमर्दनाय प्राणानां चेत्युक्तमिति ज्ञेयम् । भाष्यगतप्रत्यक्षपदाभिप्रायमाह ॥ साक्षादिति ॥ विशेषाश्रवणनियम एव बलवानिति न्यायविवरणाभिप्रायमाह ॥ आर्थिक-श्रवणादिति ॥

ननु प्राणगतिरूपोपपत्तिमूलकत्वेनार्थिकश्रवणमपि बलवदित्यत आह ॥ सति हीति ॥ वैदिक इत्यनेन प्रत्यक्षामूलकत्वमुक्तम् । तथा चोपाधिप्रतिपक्षनिरासकप्रत्यक्षागममूलकत्वाभावादुपपत्तिरपि न साधिकेत्यर्थः । अग्न्यादिगतिरित्यादिभाष्यस्य यथा खल्वित्यादिव्याख्यानमुपपादयति ॥ अतःशब्द इत्यादिना ॥ उभयार्थे चेति ॥ एकत्रोच्चारणे उभयार्थे इत्यर्थः । अक्षादिशब्द-वन्नानार्थत्वस्य पूर्वार्धेनैव सिद्धत्वात् । एतावन्मात्रस्यैव प्रकृतोपयोगेऽप्यतः शब्दस्योत्तरार्धेऽश्रवणात् पूर्वार्धोदाहरणमिति द्रष्टव्यम् । आर्थिकश्रवणमप्यनुक्तिं बाधत एवेति न्यायविवरणोक्तां युक्तिमाह ॥ आर्थिकश्रवणस्यापीति ॥ यत्किञ्चिद्विशेषवति सामान्याभावसम्भवे दृष्टान्तमाह ॥ न हीति ॥ प्रत्यक्षागमसमानार्थत्वाभावेऽपि युक्तेर्व्याप्त्यादिग्राहिप्रत्यक्षागममूलकत्वमात्रेण साधकत्वमित्याह ॥ युक्तेरपीति ॥ तच्चास्तीति ॥ ‘यत्र वा व भूतानि तत्र करणानि’ इति व्याप्तिग्राहकं ‘करणैर्वा व न वियुज्यत’ इति पक्षधर्मताग्राहकं च प्रमाणमस्तीत्यर्थः । स्थानान्तरश्रवणस्याप्येतदनुरूपत्वा-दार्थिकश्रवणमप्यनुक्तिं बाधत एव किमुत स्थानान्तरगतं स्पष्टश्रवणमिति कैमुत्यार्थमेव ‘नेष्टादि-कारिणां प्रतीतेः’ इति परिहारान्तरमुक्तमिति न्यायविवरणोक्तं सूत्रसिद्धान्तांशतात्पर्यमाह ॥ यदा चैवमिति ॥

भावदीपः

गतिसमर्थनादिति ॥ प्रत्यक्षश्रुत्युक्त्येति योज्यम् । तेन न पूर्वाभेद इति बोध्यम् । तेनैव पूर्वं चरमानुरोधेन पूर्वाश्रवणस्यास्वारस्येऽपि न बहिरङ्गप्रबलप्रत्यक्षाश्रवणस्येति शङ्कनाद्वा चरमानुरोधेन प्रथमस्यास्वारस्यमयुक्तं चरमस्यैव प्रत्यक्षाश्रवणविरोधेन भूतगतिपरत्वायोगादिति शङ्कनाद्वाऽनन्तर-सङ्गतिरपि सूचितेति ध्येयम् ॥ पूर्वोक्तमिति ॥ उभयविधवस्तुदर्शनमित्यर्थः । नन्वपां प्राणानां च गत्युक्त्या भूतगतेः सिद्धत्वाल्लोकदृष्टिमात्रेण कथं सन्देहोत्पाद इत्यत आह ॥ पृथगिति ॥ पूर्वमबादिगत्युक्त्या भूतानां गतिरुक्ता प्रत्यक्षश्रवणं च भूतगतौ नास्तीति जानतो विशेषमजानतो लोकदृष्टिवशाद्भवति संशय इति भावः । सूत्रे जीवो भूतै रंहति सम्परिष्वक्त इति प्रकृतस्यानु-वृत्तिर्नञ आवृत्तिरित्युपेत्य अतः प्रत्यक्षश्रवणान्न युक्तमिति भाष्यस्थप्रतिज्ञाहेत्वोरर्थमाह ॥ न भूतानामिति ॥ अत इत्यस्यार्थस्तथेति । तथाशब्दार्थं विवृण्वन् अग्न्यादीत्यादिभाष्यवाक्यस्य सार्थक्याय तस्य पूर्वाक्षेपकत्वरूपफलं दर्शयन् शङ्कापूर्वं भाष्यं व्याचष्टे ॥ न च वाच्यमिति ॥ श्रूयत इति ॥ पञ्चम्यामाहुतावाप इति करणैर्वाव न वियुज्यते इति च श्रूयत इत्यर्थः । आप इति वाक्यस्य न चागमनमात्रविषयत्वमित्यादिना गतिविषयत्वसमर्थनादिति भावः ॥ अर्थादिति ॥ अपामनेकभूतात्मकत्वात्प्राणानां भूताविनाभावाच्चेति भावः ॥ यथेति ॥ अत इत्यस्य तथेत्यर्था-द्यथेति लाभादित्यग्रे व्यक्तम् । श्रूयतेऽग्निं वागप्येतीत्यादिनेत्यर्थः । तथा प्रत्यक्षत इत्यर्थः । ततश्च किमित्यतः विशेषाश्रवणनियम एव बलीयानित्यन्यत्रोक्तं संयोजयति ॥ आर्थिकेति ॥ प्राणानां चेत्युक्तमपि प्रत्याह ॥ सति हीति ॥ वैदिकार्थ इति ॥ शास्त्रयोनिसूत्रे कामाच्चेति सूत्रे श्रुतेस्त्विति सूत्रादौ च तथोक्तेरिति भावः ॥ अत इति ॥ आर्थिकश्रवणादपि प्रत्यक्षाश्रवणस्य बलवत्त्वाद् अश्रुते वैदिकार्थे युक्त्यप्रवृत्तेश्चेत्यर्थः । यद्वा भाष्यस्थमतःपदं तथेत्यर्थं व्याख्याय हेत्वर्थक-तयाऽप्यनूद्य व्याचष्टे ॥ अत इत्यादिना ॥ न युक्तमित्यस्य तात्पर्यमभाव इति । भूतानां जीवेन सहगतेरित्यन्वयः । फलमाह ॥ तत इति ॥ भूतगत्यभावादित्यर्थः । स्वकृतव्याख्यानस्योद्भाष्यत्व-भ्रमनिरासायाह ॥ अतश्शब्द इति ॥ हेत्वर्थे चेति ॥ भाष्येऽत इत्यस्य व्याख्यानं प्रत्यक्षाश्रवणा-दितीति भावः । श्रुतिगीतातात्पर्योक्तवचनमाह ॥ अतश्शब्दस्त्विति ॥ उभयार्थे सकृदुच्चरितो हेत्वर्थं तथेत्यर्थं च वक्तीत्यर्थः । भाष्ये नञः प्रत्यक्षेत्यादिप्राचीनवाक्यार्थस्य प्रतियोगितयान्वयमाह ॥ न प्रत्यक्षेति ॥ तत्र हेत्वाकाङ्क्षायामार्थिकश्रवणमप्यनुक्तिं बाधत एव किमुत स्थानान्तरगतं स्पष्टश्रवणमिति कैमुत्यार्थमेव नेष्टादिकारिणां प्रतीतेरिति परिहारान्तरमुक्तमित्यन्यत्रोक्त्यनुरोधेन भाष्यभावं वक्तुमार्थिकश्रवणपदेनापां गत्युक्त्या प्राणगत्युक्त्या च प्राप्तमार्थिकश्रवणं ग्राह्यमिति भावेनान्यत्रोक्तं संयोजयति ॥ आर्थिकेति ॥ द्वेधापि लब्धस्येत्यर्थः । ननूक्तं वैदिकेऽर्थे युक्तप्रवृत्तिरिति तत्राह ॥ युक्तेरपीति ॥ तच्चेति ॥ ‘यत्र वाव भूतानि’ इति ‘करणैर्वाव न वियुज्यत’ इति च व्याप्तिलिङ्गग्राहकं प्रमाणमस्तीत्यर्थः । श्रुत्याद्यनुपजीवियुक्तेरेवादृष्टेऽर्थे प्रवृत्त्य-भावः प्रागुक्त इति भावः । इदानीं भाष्यभावमाह ॥ यदा चेत्यादिना ॥ अत इति ॥ प्रत्यक्षश्रवणस्यापि भावादित्यर्थः । साधनमित्युपलक्षणं शास्त्रं चेत्यपि ग्राह्यम् ।

अभिनवचन्द्रिका

ननु ‘तदन्तरप्रतिपत्तौ’ इत्यनेनैव भूतानां जीवेन सहगतेस्समर्थितत्वेन भूतानि गच्छन्ति न वेति सन्देहस्यैवाऽनुत्पादात् कथं सन्देहोद्धाटनमित्यत आह– पृथक्पृथग्विचारत्वादिति ॥ अस्य विचारस्य पृथक्पृथगधिकारिकत्वात् सन्देहानुत्पादो न मन्तव्य इत्यर्थः । एकस्यैव संशयस्य निरासाय बहूनि समाधानानि इति सन्देहानुत्पादो न मन्तव्य इति वाऽर्थः । अयं भावो ऽस्त्वेक एवाऽधिकारी सर्वेष्वधिकरणेषु तथापि पूर्वपक्षरूपमिथ्याज्ञानबाहुल्यात् तन्निरासाय प्रवृत्तान्येता-न्यधिकरणानि प्रथमाधिकरणनिवृत्तसंशयस्यापि विरोधित्वान्निवर्त्तकानीति दर्शयितुमेव अस्माभिः प्रत्यधिकरणं सन्देहः प्रदर्श्यते, न तु पूर्वाधिकरणप्रवृत्त्युत्तरकालमपि सन्देहो भवतीत्याशयेन । दृश्यन्ते हि पर्वते वह्निसन्देहनिवृत्तये धूमवत्वात्प्रकाशविशेषवत्वाच्चेति हेतुद्वय माचक्षाणा लौकिकाः परीक्षकाश्च । तत्र यथा लिङ्गद्वयमपि एकस्यैव संशयस्य निवर्त्तकं भवति, एवमिहापि इमान्यधि-करणानि एकस्यैव संशयस्य निवर्त्तकानि भवन्तीति । अस्तु तथाश्रुत्यभावः । आर्थिकश्रवणात्तु भूतगतिसिद्धिरित्यत आह ॥ आर्थिकश्रवणादपीति ॥ स एव हि श्रुतेरार्थिकोऽर्थः यो नियमेन क्वचित्प्रत्यक्षश्रुतिबोधितः, यस्तु क्कापि न प्रत्यक्षश्रुतिबोधितः नाऽसौ श्रुतेरार्थिकोऽर्थ इति भावः । मा भूद् आर्थिकश्रवणाद्भूतगतिसिद्धिः प्राणगतियुक्त्या तु सिध्द्यतीत्यत आह– सति हीति ॥ वैदिकेऽर्थे युक्तयोऽपि प्रवर्तन्ते, यदि सोऽर्थः यत्र क्कचिद् विशेषेण श्रुतः स्यात् । नाऽन्यथेति भावः । भाष्यस्थाऽतःशब्दं व्याचष्टे अतःशब्द इति ॥ उभयार्थे चेति ॥ पुष्पवंतावित्यादिशब्दवद् एकयोक्त्या अर्थद्वयोपस्थापको भवतीत्यर्थः ॥ न प्रत्यक्षेति ॥ प्रत्यक्षाऽ श्रवणादश्रवणमेवाऽङ्गी-कृत्य भूतानामसहगतिर्न वक्तव्येत्यर्थः ॥ आर्थिक श्रवणस्येति ॥ आर्थिकश्रवणसद्भावे श्रवण-सामान्याभावायोगादिति भावः ॥ तदेवोपपादयति ॥ न हीति ॥ न हि केनापि सदशनाभावं दृष्ट्वा कदशनमेवापोद्यते येनेहाऽऽर्थिकश्रवणाऽपवादः स्यात् । किंतु प्रतीतंकदशनत्वमङ्गीकृत्य अनशनत्वमेवाऽपोद्यते इति भावः । युक्त्याप्येतमर्थं साधयति– युक्तेरपीति ॥ नन्वार्थिकश्रवणेन सिद्धान्तकरणमयुक्तं सूत्रकृता विशेषश्रुतेरेवाभिहितत्वेन तदनभिप्रेतत्वादित्यत आह– यदा चैवमिति ॥

पूर्वपक्षस्तु न भूतानि जीवेन सहगच्छन्ति तथा श्रुत्यभावात् । न चाऽपां प्राणानां च सहगतिः श्रूयतेऽतोऽर्थाद्भूतगतिरपि श्रुता भवतीति वाच्यम् । साक्षाच्छ्रवणाभावेनाऽऽर्थिकश्रुतेरपालनीय-त्वात् । वैदिकेऽर्थे साक्षाच्छ्रवणसद्भाव एव युक्तीनां प्रवृत्तेर्युक्त्यापि न तत्सिद्धिः । ततश्च मरणस्यैव त्वन्मते मोक्षत्वप्रसङ्गादननुष्ठेयमेव वैराग्यादीति ।

सिद्धान्तस्तु न प्रत्यक्षश्रुत्यभावेनाश्रवणमङ्गीकृत्य भूतानामसहगतिर्मन्तव्या । आर्थिकश्रवण-स्याप्यश्रवणबाधकत्वाद् यजमानमरणे भूतानां सहगतेर् विस्पष्टमभिहितत्वेन तद्दृष्टान्तेन सर्वत्रापि भूतगतिसिद्धेश्च । अतोऽस्त्येव भूतानां जीवेन सह गतिरिति मरणे मोक्षाभावाद् अनुष्ठेयमेव वैराग्यादीति सिद्धम् ।

वाक्यार्थमुक्तावली

अत्र पुनरिति ॥ त्र्यात्मकत्वात् प्राणगतेश्चेत्युक्तार्थिककल्पनातन्मूलोपपत्याऽक्षेपपरिहारा-दनन्तरसङ्गतिरिति भावः । भूतानां जीवेन सह गतिर्नास्त्युतास्तीति चिन्ता । तदर्थं प्राणगतिरूपोपपत्त्युपोद्बलितमार्थिकश्रवणं न साधकमुत साधकं वेति । तदर्थं भूतानि गच्छन्तीति विशेषतः साक्षात् श्रवणं नास्त्युतास्तीति । ननु तदन्तरप्रतिपत्तावित्यनेनैव भूतानां जीवेन सह गतेः समर्थितत्वेन भूतानि जीवेन सह गच्छन्ति न वेति नाधिकरणेष्वेतेषु सन्देहावकाश इत्यत आह ॥ पृथक्पृथगिति ॥ आद्येऽधिकरणे प्रश्नव्याख्यानबलाद् भूतसम्परिष्वक्तो गच्छतीति साधिते द्वितीये किम् अप्शब्दः सकलभूतपरः किमम्मात्रपर इति सन्दिह्य विचारः । तृतीये किमार्थिक-कल्पनामूलभूतं विशेषप्रमाणमस्ति न वेति सन्दिह्य विचारः । चतुर्थे विशेषप्रमाणतयोपन्यस्त-प्रमाणानां जीवेन सह गमनाख्यमनुमानमसिद्धमुत सिद्धमिति सन्दिह्य अग्न्यादिगतेर्भाक्तत्वोक्त्या विचारः । पञ्चमे अनुमानस्य यदि भूतानि सह गच्छन्ति तर्ह्युपक्रमे श्रूयेत न च श्रूयतेऽतो भूतानि न गच्छन्तीति तर्कविरोधोऽस्ति न वेति सन्दिह्य श्रद्धाशब्दस्य अबाद्युपलक्षकत्वविचारः । षष्ठे चात्र भूतानां जीवेन सह गमनपराप्रत्यक्षश्रुतिरस्ति न वेति सन्दिह्य विचार इति पृथक्पृथगवान्तरसन्देहपूर्वं विचारत्वात् सर्वत्र तात्पर्यावसन्नप्रधाने सन्देहसम्भवात्तदनुत्पादो न मन्तव्य इत्यर्थः । एतेनाश्रुतत्वादित्येकमेवाधिकरणं कर्तुं शक्यत इति निरस्तम् । अवान्तर-बहुविचारसम्बद्धत्वेन पूर्वपक्षसिद्धान्तन्यायभेदादिति प्रागेव प्रत्यभाणि ।

सूत्रे नेत्यावर्तते । तत्रैकस्य रंहति सम्परिष्वक्त इत्यनुवृत्तेनान्वय इति भावेन प्रवृत्तं न युक्तमिति भाष्यांशं व्याचष्टे ॥ न भूतानामिति ॥ तत्र हेत्वाकाङ्क्षायामश्रुतत्वादित्यंशं व्याकुर्वदतोऽ-श्रवणादिति भाष्यं व्याचष्टे ॥ तथा श्रुत्यभावादिति ॥ अत्रातःशब्दार्थस्तथाशब्दः प्रकारार्थः । भूतानि जीवेन सह गच्छन्तीत्येवमर्थकश्रुत्यभावादित्यर्थः । द्वितीयतृतीयाभ्यां गतार्थतामाशङ्क्य परिहरति ॥ न चेति ॥ आद्ये अपां त्र्यात्मकत्वादित्यर्थवद् द्वितीये प्राणगत्यन्यथानुपपत्तिरूपा-दनुमानादित्यर्थः । कुतो नेत्यतस्तत्परिहारकत्वेनाविशेष इत्युक्तन्यायप्रदर्शकं सूत्रखण्डं प्रकारान्तरेण व्याकुर्वदग्न्यादिगतिरित्यादिभाष्यं व्याचष्टे ॥ यथा खल्विति ॥ आर्थिकश्रवणादिति ॥ अगतिश्रवणरूपात् प्राणगतिश्रवणरूपाच्चेत्यर्थः । नियमेन बलवत्वाद् बलवत्वनियमादित्यर्थः । यद्वा नियमेन प्रत्यक्षश्रुत्यभावस्य प्रत्यक्षश्रुत्यभावनियमस्य सर्वथा तदभावस्येत्यर्थः । ननु सार्वज्ञादौ सर्वकर्तृत्वादिहेतवः सर्वैरभ्युपेयन्ते । तद्वत् प्रकृतेऽपि युक्तिभिः प्रमेयसिद्धिः किं न स्यादित्यत आह ॥ सति हीति ॥ ‘यः सर्वज्ञ’ इत्यादिविशेषश्रवणे सतीत्यर्थः । वैदिकार्थ इति प्रत्यक्षामूलकत्व-मुक्तम् । तथा चोपाधिप्रतिपक्षनिरासकप्रत्यक्षागममूलकत्वाभावादुपपत्तिरपि न साधिकेत्यर्थः । यथा तथेति व्याख्यानमुद्भाष्यमित्यत आह ॥ अतश्शब्द इति ॥ आर्थिकश्रवणादपि नियमेन प्रत्यक्षश्रुत्यभावस्य बलवत्वादिति हेतूपन्यास उद्भाष्य इत्यत आह ॥ हेत्वर्थे चेति ॥ उभयार्थे चेति ॥ उभयार्थविवक्षायामैक्योक्त्यार्थद्वयोपस्थापको भवतीत्यर्थः । नानार्थत्वस्य पूर्वार्धेनैव सिद्धत्वात् । तथा चात्र उभयार्थत्वमिति भावः ॥ यथाशब्दविद इति ॥ यथाशब्दस्वरूपविद इत्यर्थः । नेत्यंशं व्याचष्टे ॥ न प्रत्यक्षेति ॥ कुतो नेत्यतः प्रतीतेरित्यंशं व्याकुर्वत् श्रुतौ प्रतीतेरिति भाष्यखण्डं व्याचष्टे ॥ आर्थिकेति ॥ एतेनापः पुरुषवचस इति श्रुतावपां त्र्यात्मकत्वाद् अर्थाद् भूतानां गतिप्रतीतेः । ‘करणैर्वाव न वियुज्यते’ इति श्रुतौ करणगत्युक्त्या अर्थाद् भूतानां गति-प्रतीतेरित्यर्थ उक्तो भवति । ननु युक्तेः सजातीयप्रमाणासंवादाभावात् कथं वैदिकेऽर्थे युक्त्युपन्यास इत्याशङ्कापरिहारकत्वेनापि श्रुतौ प्रतीतेरिति भाष्यं व्याचष्टे ॥ युक्तेरपीति ॥ न तु स्वविषय-विषयकश्रुतिसंवादेन भाव्यमिति नियम इत्येवार्थः । ‘यत्र वाव भूतानि’ इति श्रुतौ ‘करणैर्वाव न वियुज्यत’ इति च श्रुतौ व्याप्तिपक्षधर्मतयोः प्रतीतेरिति भाष्यार्थ उक्तो भवति । नन्वेवं प्रतीतेरित्यंशसूचितार्थिकश्रवणेनैव सिद्धान्तस्थापनसम्भवाद् इष्टादिकारिणां प्रतीतेरिति परिहारान्तरं व्यर्थमित्याशङ्कां परिहरन् अनुरूपतेत्युक्तन्यायप्रदर्शकं समग्रभाष्यं व्याचष्टे ॥ यदा चैवमिति ॥ तदुक्तं न्यायविवरणे । स्थानान्तरश्रवणस्याप्येतदनुरूपत्वादार्थिकश्रवणमप्यनुक्तिं बाधते एव । किमुत स्थानान्तरगतस्पष्टश्रवणमिति कैमुत्यार्थमेव नेष्टादिकारिणां प्रतीतेरिति परिहारान्तरमुक्तमिति ॥ अथैनमिति ॥ स्थानान्तरगतैतदनुरूपश्रुताविष्टादिकारिणां यागादिकारिणां भूतैस्सह गति-प्रतीतेरिति सूत्रखण्डार्थः । पापकारिणां मरणे भूतवियोगः सुतरां सिद्ध इति भावः ।

तत्त्वसुबोधिनी

अत्र पुनरिति ॥ मूलभूतोपपत्तिरूपविशेषप्रमाणसहितार्थिककल्पनाक्षेपसमाधानादनन्तरसङ्गति-रिति भावः । ननु तदन्तरप्रतिपत्तावित्यनेनैव भूतानां जीवेन सह गतेः समर्थितत्वेन भूतानि गच्छन्ति न वेति सन्देहस्यैवानुदयात् कथमेषामधिकरणानामुत्थानमित्यत आह ॥ पृथक्पृथ-ग्विचारत्वादिति ॥ अयं भावः । आद्येऽधिकरणे ‘भूतसम्परिष्वक्तो रंहति’ति प्रतिज्ञाय प्रमाणत्वेनोदाहृतयोः प्रश्ननिरूपणयोरप्शब्दस्यैव श्रवणात् कथं ताभ्यां सकलभूतानां जीवेन सहगतिसिद्धिरित्याशङ्कानिरासाय तयोः श्रूयमाणोऽप्शब्दः किमम्मात्रपर उत सकलभूतपर इति सन्देहे नायमप्शब्दोऽम्मात्रपरः, किन्तु अपां त्र्यात्मकत्वात् सकलभूतपरः । अप्शब्दप्रयोगस्य भूयस्त्वनिमित्तत्वादिति द्वितीयाधिकरणस्य पृथग्विचारपरत्वम् । नन्वपां त्र्यात्मकत्वेन तासां जीवेन सह गत्या सकलभूतानां सह गतिकल्पना तदा भवेत् । यदि भूतानां जीवेन सह गतौ विशेषप्रमाणं स्यात् । आर्थिककल्पनाया विशेषप्रमाणानुरोधित्वादित्याशङ्कानिरासाय किमार्थिककल्पनायां मूलभूतविशेषप्रमाणमस्ति न वेति सन्देहे न विशेषप्रमाणाभावः, किन्तु भूतानि जीवेन सह गच्छन्ति तत्सहगन्तृप्राणाविनाभूतत्वादित्युपपत्तिरूपविशेषप्रमाणमस्ति । ततश्च निर्णयोपपत्तिरिति प्रवृत्तस्य तृतीयाधिकरणस्य पृथग्विचारपरत्वम् । न चैवं सत्येतदुपपत्तिबलादेव प्रश्नव्याख्यानगता-प्शब्दस्य सकलभूतपरत्वसम्भवे द्वितीयाधिकरणं व्यर्थमिति वाच्यम् । उपपत्तिबलादपि सम्भावितमेव कल्पनीयमिति अपां त्र्यात्मकत्वभूयस्त्वाभ्यामप्शब्दस्य सकलभूतपरत्वसम्भावकतया तत्पार्थक्यो-पपत्तिरिति ।

ननु यत्रास्य पुरुषस्याग्निं वागप्येतीत्यादिश्रुत्या वागादिप्राणानां स्वमूलरूपाग्न्यादीन् प्रति गमनप्रतीत्या जीवेन सह गत्यभावात् तत्सहगन्तृप्राणाविनाभूतत्वरूपहेतुरसिद्ध इत्याशङ्कानिरासाय प्रवृत्तस्य चतुर्थाधिकरणस्य स्पष्टं पृथग्विचारपरत्वम् । ननूक्तोपपत्तिबलादपि भूतत्रयात्मकानामपां जीवेन सह गत्यर्थात् सकलभूतानामपि सहगमनमिति कल्पना तदा स्याद् यद्यपामेव जीवेन सह गतिस्स्यात् । नैतदस्ति । ‘तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति’ इत्युपक्रमे प्रथमाग्नौ होम्यतया श्रवणादिति शङ्कानिरासायोपक्रमस्थः श्रद्धाशब्दः किं स्वार्थमात्रपर उतोपसंहारानुसारेणा-पामप्युपलक्षक इति सन्देहे न स्वार्थमात्रपरः, किन्तूपसंहारस्योपक्रमव्याख्यानरूपत्वेन प्राबल्यात् तदनुसारेणोपक्रमस्य नेतव्यत्वात् तद्गतश्रद्धाशब्दस्योपलक्षकत्वमस्तीति प्रतिपादयितुं प्रवृत्तस्य पञ्चमस्य पृथग्विचारपरत्वम् ।

ननूक्तोपपत्त्याऽर्थिककल्पनाभ्यां सर्वभूतानां जीवेन सह गतिर्न सिद्ध्यति । अग्निं वागप्येतीति-वद् भूतानि सहगच्छन्तीति विशेषरूपप्रत्यक्षश्रुत्यभावाद् इत्याशङ्कानिरासाय भूतानां जीवेन सहगमनस्य प्रतिपादिका श्रुतिरस्त्युत नास्तीति सन्देहे न नास्ति, किन्त्वस्ति । ‘अथैनं यजमानं किं न जहाति भूतान्येव भूतैरेव गच्छन्तीति विशेषश्रुतेः प्रत्यक्षतः श्रवणादिति प्रतिपादयितुं प्रवृत्तस्य षष्ठस्य पृथग्विचारपरत्वमिति । न चैवं सन्देहादिना एषामधिकरणानां पृथग्विचारपरत्वे अग्न्यादीत्येतद्व्यतिरिक्तेषु चतुर्ष्वप्यधिकरणेषु टीकायां कथं भूतानि जीवेन सह गच्छन्ति न वेति सन्देहः प्रदर्शित इति वाच्यम् । तस्या भूतसन्देहमात्रपरत्वादिति भावः ।

अतीताधिकरणेषु प्रथमद्वितीयपञ्चमैर् भूतानां जीवेन सह गतावार्थिकश्रवणं युक्तितयोक्तम् । तृतीयचतुर्थाभ्यां प्राणगतिस्तत्र युक्तितयोक्ता । तदुभयोपमर्देनेहाश्रवणपूर्वपक्षोभिप्रेत इत्याह ॥ न च वाच्यमिति ॥ आर्थिकश्रवणोपमर्दनायापामित्युक्तम् । प्राणगत्युपमर्दनाय प्राणानां चेत्युक्तमिति ज्ञेयम् । भाष्यगतप्रत्यक्षपदाभिप्रायमाह ॥ साक्षादिति ॥ नन्वार्थिकश्रवणात् सहगतिः किं न स्यादित्यत आह ॥ आर्थिकेति ॥ ननु प्राणगतिरूपोपपत्तिमूलत्वेनार्थिकश्रवणमपि बलवदित्यत आह ॥ सति हीति ॥ वैदिकेत्यनेन प्रत्यक्षामूलकत्वमुक्तम् । तथा चोपाधिप्रतिपक्षनिरासक-प्रत्यक्षागममूलकत्वाभावादुपपत्तिरपि न साधिकेत्यर्थः । अग्न्यादिरिति भाष्यस्य यथा खल्वित्यादि-व्याख्यानमुपपादयति ॥ अतः शब्द इत्यादिना ॥ उभयार्थे चेति ॥ एकत्रोच्चारणे उभयार्थ इत्यर्थः । अक्षादिशब्दवन् नानार्थत्वस्य पूर्वार्धेनैव सिद्धत्वात् । एतावन्मात्रस्य प्रकृतोपयोगेऽपि अतः-शब्दस्योत्तरार्धेऽश्रवणात्पूर्वोदाहरणमिति द्रष्टव्यम् । कुतो नेत्यतो युक्तिमाह ॥ आर्थिकेति ॥ यत्किञ्चिद्विशेषवति सामान्याभावसम्भवे दृष्टान्तमाह ॥ न हीति ॥ किञ्च युक्तियुक्तत्वेनापि आर्थिकश्रवणस्य बलवत्वम् । प्रत्यक्षागमसमानार्थत्वाभावेऽपि युक्तेः प्रत्यक्षागममूलत्वमात्रेण साधकत्वमित्याह ॥ युक्तेरपीति ॥ तच्चास्तीति ॥ ‘यत्र वाव भूतानि तत्र कारणानि’ इति व्याप्तिग्राहकं, ‘करणैर्वा व न वियुज्यत’ इति पक्षधर्मता ग्राहकं च प्रमाणवाक्यमस्तीत्यर्थः । सूत्रसिद्धान्तांशतात्पर्यमाह ॥ यदा चैवमिति ॥

वाक्यार्थविवरणं

नन्वेषां प्राणानां च गत्युक्त्या भूतगतेः सिद्धत्वाद् लोकदृष्टिमात्रेण कथमयं निर्णय इत्यत आह ॥ पृथगिति ॥ पूर्वमबादिगत्युक्त्या भूतानां गतिरुक्ता । प्रत्यक्षश्रवणं च भूतगतौ नास्तीति जानतो विशेषमजानतो लोकदृष्टिवशाद्भवति सन्देह इत्यर्थः । भावबोधे तु कृतं व्याख्यानान्तरमिति न तद्विरोधः ॥ अर्थादिति ॥ अपां पृथिव्यादिभूतात्मकत्वात् प्राणाविनाभूतत्वाद्भूतानामतोऽपां प्राणानां गतौ भूतानामपि गतिरर्थात्प्राप्तैवेति भावः । आर्थिकश्रवणस्यापि प्राणगतिरूपयुक्ति-युक्तत्वेन बलवत्त्वमेवेत्यत आह ॥ सति हीति ॥ विशेषश्रवणम् ॥ प्रत्यक्षतः श्रवणम् ॥ तथार्थ इति ॥ एवं चाग्न्यादिगतिर्यथा प्रत्यक्षतः श्रूयते । अतस्तथा भूतानां जीवेन यादृशतादृशसहगतिः प्रत्यक्षतो न श्रूयत इति शेषः । अतस्तस्मात् प्रत्यक्षाश्रवणान्न युक्तमिति भाष्ययोजना द्रष्टव्या ॥ न हीति ॥ यत्किञ्चिद्विशेषसद्भावे सामान्यभावायोग इति सामान्यमात्रेऽयं दृष्टान्त इति ज्ञेयम् । प्रत्यक्षश्रवणस्यैव मृष्टान्नस्थानीयतया आर्थिकश्रवणस्य कदन्नस्थानीयत्वमिति द्रष्टव्यम् । भाष्ये भूतैरित्यनन्तरं सम्बन्ध इति शेषः ।

वाक्यार्थमञ्जरी

पूर्वोक्तमुभयविधवस्तुदर्शनम् । ननु तदन्तरप्रतिपत्तावित्यनेनैव भूतानां जीवेन सहगतेः समर्थितत्वेन पुनर्भूतानि गच्छन्ति न वेति संदेहस्यैवानुदयात्कथमेतेषामधिकणानामुत्थानमित्यत आह ॥ पृथक्पृथग्विचारत्वादिति ॥ तत्प्रकारश्चतत्तदधिकरणे एव व्यक्त इति भावः ॥ ॐ अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॐ ॥ अश्रुतत्वाद्विशिष्य जीवेन सह भूतगतेर-श्रवणान्न तस्य तैः सहागमनमिति चेन्न । इष्टादिकारिणामिष्टापूर्तादिकारिणां भूतैरेव गच्छतीति श्रुत्या भूतैःसहगतिप्रतीतेरित्यर्थः ॥ अर्थादिति ॥ अपां त्र्यात्मकत्वेन प्राणानां भूताविनाभूतत्वेन तदुभयगमने तेषामपि गमनप्राप्तेरिति भावः । प्रत्यक्षशब्दार्थः ॥ साक्षादिति ॥ ननु प्राणगति-रूपोपपत्तिमूलकत्वेनार्थिकश्रवणमपि बलवदित्यत आह ॥ सति हीति ॥ अन्यथा प्रतिपक्षसम्भवेन प्रामाण्यानिश्चयादिति भावः । यथार्थ इत्यादियोजनाप्रकारश्च यथा खल्वित्यादिना प्रागेव दर्शित इति भावः ॥ उभयार्थे चेति ॥ एकत्रोच्चारणे उभयार्थ इत्यर्थः । यत्किञ्चिद्विशेषवति सामान्याभावासम्भवे दृष्टान्तमाह ॥ न हीति ॥ तच्चास्तीति ॥ ‘यत्र वाव भूतानि तत्र करणानि’ इति व्याप्तिग्राहकं ‘करणैर्वाव न युज्यत’ इति पक्षधर्मताग्राहकं च प्रमाणमस्तीत्यर्थः । तथा चार्थिकश्रवणस्य युक्तिमूलत्वेन प्राबल्यमिति भावः ।

॥ इति अश्रुतत्वाधिकरणम् ॥ ६ ॥