ॐ प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॐ
५. प्रथमश्रवणाधिकरणम्
सूत्रभाष्यम्
॥ ॐ प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॐ ॥ ५ ॥
‘तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति’ (छां.उ.५-४-२) इति प्रथमाऽग्नौ श्रूयते न भूतानि जुह्वतीति । अतो नेति चेन्न । ता एव प्रस्तुता आपः श्रद्धारूपेण हूयन्ते । ‘इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ (छां.उ.५-९-१) इत्युपसंहारोपपत्तेः ।
तत्त्वप्रदीपिका
प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॥ ‘असौ वाव लोको गौतमाग्निः’ इत्युक्त्वा ‘तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति’ इति श्रुतेः प्रथमाग्नौ श्रद्धा हूयते, भूतगतिपक्षे भूतानि जुह्वतीति भाव्यम् । ततो भूतैरनुपक्रमणान्नात्र भूतगतिरिति चेन्न । ता एव ‘आपः पुरुषवचसो भवन्ति’ इति प्रस्तुता आपः श्रद्धावदिष्टादिकारिसंयुक्ताः श्रद्धाशब्देनोच्यन्ते । अत्यन्ताविविक्तत्वात्, अयो दहतीत्यादिवत् । अत एव च सम्परिष्वक्त इत्याह । तथोक्तिः श्रद्धाप्रधानत्वं पुण्यानां शंसति । ‘श्रद्वया हूयते हविः’ इति हि श्रुतिः ।
‘अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह’ ॥ इति च भगवद्गीतासु ।
‘श्रद्धामयोऽयं पुरुषः यो यच्छ्रद्धस्स एव स’ इति च ॥
‘श्रद्धा स्वरूपं जीवस्य तस्माच्छ्रद्धाविभेदतः ।
उत्तमाधममध्यास्तु जीवा ज्ञेयाः पृथक्पृथक्’ ॥ इति ब्रह्मवैवर्ते ।
अतः श्रद्धामयः पुण्यकर्ता प्रधानैर् भूतैः सम्परिष्वक्तः स्वर्गं नीयत इति श्रद्धां जुह्वतीत्याह । स्वर्गादीनामग्नित्वं देवानां भोगस्थानत्वात् । श्रद्धादीनां होम्यत्वं देवभोग्यत्वात् । तं चन्द्रलोकस्थं ज्योतिर्मयाह्लादकरदेहं सोमशब्दवाच्यं पुण्यभोगावसाने क्षीयमाणदेहं पर्जन्ये क्षिपन्ति । ततो वर्षेण सह पृथिवीं नयन्ति । तं च व्रीह्यादिशरीरस्थं पुरुषे क्षिपन्ति । ततो रेतस्स्थं योषायाम् । एवं पञ्चाहुतयः । इमास्त्वापादपरिसमाप्तेस्सप्रमाणं प्रपञ्चयति ।
‘नारायणादयः पञ्च क्रमात्पञ्चाग्नयः स्मृताः ।
अदनादगनेतृत्वान्नितरामचलत्वतः ॥
असौ लोकः प्रकाशत्वात्प्राणस्थत्वाच्च केशवः ।
पर्जन्यो जनको यस्मात्पृथिवी प्रथितत्वतः ॥
पुरुषः पुरु यस्मात्स योषा जोष्यत्वतोऽखिलैः’ ॥ इति च साम्यसंहितायाम् ।
‘पञ्च पञ्च स्वरूपेण सूर्यादौ संस्थितो हरिः ।
स्वर्गादौ चापि तन्नामा तद्योगान्नामिनः परे’ ॥ इति च ।
तत्त्वप्रकाशिका
अत्र पुनर्भगवत्प्राप्तिसाधनवैराग्याय भूतानां जीवेन सह गतिसमर्थनादस्ति शास्त्रादिसङ्गतिः । भूतानां जीवेन सह गत्यभावे मरणस्योक्तो मोक्षत्वाभावो न स्यादतस्तत्समर्थनमावश्यकम् । भूतान्येव विषयः । किं जीवेन सह गच्छन्ति न वेति सन्देहः । उभयविधवस्तुदर्शनं सन्देहबीजम् । पूर्वपक्षस्य सूत्र एवोक्तत्वात्तत्पठित्वा पूर्वपक्षांशं तावद् व्याचष्टे ॥ प्रथम इति ॥ न जीवेन सह गतिर्भूतानाम् । ‘तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति’ इत्युत्क्रान्तस्य श्रद्धयेष्टवतः श्रद्धासहितस्यैव द्व्याख्ये प्रथमाग्नौ होमश्रवणात् । भूतानामपि सहगतावुपक्रमे तथोक्तिप्रसङ्गात् । अतो भूतानां सहगत्यभावेन मरणस्यैव मोक्षत्वाद् व्यर्थं वैराग्यादीति भावः ।
सिद्धान्तांशं व्याचष्टे ॥ नेति ॥ प्रथमाग्नौ भूतसहितस्य होमाश्रवणान्न भूतानामसहगतिः कल्पनीया । यतः प्रथमाग्नावप्यापो होम्यतया श्रूयन्ते श्रद्धाशब्दार्थरूपतया । अयं खलु शब्दोऽजहल्लक्षणया श्रद्धयाऽद्भिश्च युक्तं जीवमाह । तत्कुतः । उपसंहारेऽपां जीवेन सह गतिश्रवणात् । तदनुसारेणैवमुपक्रमार्थकल्पने तदुपपत्तेः । अन्यथा विरोधेनाप्रामाण्यप्रसङ्गादिति भावः । न चागमनमात्रविषयत्वमुपसंहारस्य वाच्यम् । भूतानि त्यजन्तीत्यनुक्त्वा सोमो राजा सम्भवतीत्यादिवदापो भवन्तीति चानुक्त्वापः पुरुषवचस इत्यनुवादात् । तथाप्युपसंहारानुसारित्व-मुपक्रमस्य कुतः । उपसंहारस्योपक्रमव्याख्यानरूपत्वेन प्राबल्यादुपक्रमप्रामाण्योपपत्त्यर्थमुपसंहारानु-सारित्वस्य आवश्यकत्वात् । १व्याख्यानाननुसारिव्याख्येयस्य तदर्थेऽप्रामाण्यदर्शनात् । न च वाच्यमुपक्रमपूर्वकत्वादुपसंहारस्य न प्राबल्यमिति स्वरूपेणोपसंहारस्योपक्रमसापेक्षत्वेऽप्यर्थप्रतीतौ वैपरीत्यादिति । अतो भूतानां जीवेन सह गतिसद्भावान्मरणस्य मुक्तित्वाभावेनापेक्षितं वैराग्यादिसाधनमिति सिद्धम् ।
गुर्वर्थदीपिका
यद्यपि ‘वेत्थ यथा’ इति प्रश्नवाक्ये आप इति भूतानि श्रूयन्ते । तथाऽपि होमोपक्रमवाक्ये नास्तीति भावेनाऽऽह– उपक्रम इति ॥ उपक्रमे होमोपक्रमवाक्ये । न चागमनमात्रविषयत्वमित्यत्र आगमनमप्सु प्राप्तिः । ‘सोमो राजा सम्भवति’ इति वाक्ये सोमं राजानं स्वर्गतः पुरुषः प्राप्नोतीति यथाऽर्थः कथ्यते । एवमत्रापि आपः पुरुषवचसो भवन्ति’ इति वाक्ये अप्शब्दोपलक्षितपञ्चभूतानि जीवः प्राप्नोतीत्यर्थोऽस्तु । तथा चाप्सु आगमनमात्रविषयमुपसंहारवाक्यमिति भावः । प्रश्नवाक्ये परिहारवाक्ये चेति स्थलद्वयेऽपि विसदृशप्रयोगादर्थभेदोऽप्यस्तीति दर्शयितुम् अनुवादादित्युक्तम् । यद्वा ‘पुरुषवचसो भवन्ति’ इति शरीरसंज्ञाविधानाय आप इति प्राक्सिद्धानामनुवादान्न नूतनतया तत्प्राप्तिरित्यर्थः ।
भावबोधः
अत्र पुनरिति । ‘त्र्यात्मकत्वात्’ इत्युक्तार्थिककल्पनायाः कल्पनामूलभूतविशेषप्रमाणं विना स्वरूपं न निर्वहतीति ‘प्राणगतेश्च’ इत्याद्यधिकरणद्वयेन स्वरूपनिर्वाहकोपपत्तिरूपविशेष-प्रमाणोक्त्यनन्तरमवसरप्राप्तमब्गतिरूपं कल्पकं विचार्यत इत्यनन्तरसङ्गतिरिति भावः ॥ किं जीवेनेति ॥ अत्र भूतानां जीवेन सहगमनं नास्त्युतास्तीति चिन्ता । तदर्थमुपपत्तिमूलकतयोक्तं भूतगमनकल्पकमपां जीवेन सहगमनं नास्त्युतास्तीति । तदर्थमुपक्रमे श्रुतः श्रद्धाशब्दः किं स्वार्थमात्रपर उतोपसंहारानुसारेणाबाद्युपलक्षक इति । तदर्थमुपक्रमादुपसंहारो दुर्बलः प्रबलो वेति । एवं च ‘अपः पुरुषवचसः’ इत्युपसंहारस्य दौर्बल्ये बाधकाभावेनोपक्रमगतश्रद्धाशब्दस्य स्वार्थ-मात्रपरत्वे अब्गत्यसिद्धौ कल्पकाभावेन भूतगत्यसिद्धिरिति पूर्वपक्षे उपसंहारस्याधिक्ये तदनुसारे-णोपक्रमगतश्रद्धाशब्दस्याब्लक्षकतयाऽपां जीवेन सहगतिरूपकल्पकसिद्धौ भूतगतिसिद्धिरिति सिद्धान्ते च फलफलिभावो ज्ञातव्यः ॥ न जीवेनेति ॥ एतेन भूतानामसहगतिरिति न्याय-विवरणगतसाध्यप्रतिपादकांशो व्याख्यातः ॥ प्रथमाग्नौ होमश्रवणादिति ॥ अनेन ‘प्रथमेऽ-श्रवणात्’ इति सूत्रांशो ऽकारप्रश्लेषं विना प्रथमाग्नौ श्रूयत इति भाष्येण व्याख्यात इत्युक्तं भवति ॥ भूतानामपीति ॥ ‘न भूतानि जुह्वति’ इति भाष्य आख्यानपरेणानेन प्रथमतो न भूतानि जुह्वतीति विशेषानुक्तेरिति न्यायविवरणमप्युक्ततात्पर्यं भवति । तथोक्तिप्रसङ्गादित्यनेन प्रथमे श्रवणादिति सूत्रांश अकारप्रश्लेषेण प्रथमे उपक्रमे तथा प्रथमे अग्नौ भूतानि जुह्वतीति विशेषश्रवणादिति न भूतानि जुह्वतीति भाष्येण विशेषानुक्तेरिति न्यायविवरणेन च व्याख्यात इत्युक्तं भवति । अत एव वक्ष्यति ॥ प्रथमाग्नौ भूतसहितस्य होमाश्रवणादिति ॥
नन्वश्रवणमात्रस्य ‘प्राणगतेः’ इत्युक्तयुक्तिबाधकत्वायोगात् कथं ‘प्राणगतेश्च’ इत्येतदनन्तर-मेतदधिकरणोत्थानमिति चेन्न । यस्यामार्थिककल्पनायां प्राणगतिरूपोपपत्तिर्मूलत्वेनोच्यते । साऽनुपपन्ना । प्रथमे श्रवणे नाबादिरूपं कल्पकासिद्धेरित्याक्षेपसमाधानार्थस्यास्य तदनन्तर-मप्युत्थानसम्भवादिति । नन्वपां श्रद्धारूपत्वाभावात् कथं श्रद्धारूपेणेत्युक्तमित्यतः श्रद्धाशब्दस्यापि ता एवार्थ इति न्यायविवरणं मनसि निधाय तदर्थमाह– श्रद्धाशब्दार्थरूपतयेति ॥ ननु श्रद्धा-शब्दस्याप्सु योगरूढ्योरभावात् कथं तदर्थत्वमित्यत आह ॥ अयं खल्विति ॥ यथा श्रद्धामात्रस्य होम्यत्वाभावात् श्रद्धाशब्दस्य तन्मात्रार्थत्वानुपपत्त्या श्रद्धायुक्तजीवोपलक्षकत्वं तथोपसंहारान्यथानु-पपत्त्यावुपलक्षकत्वमप्यङ्गीकार्यमिति भावः ॥ उपसंहार इति ॥ अनेनोपसंहारोपपत्तेरिति भाष्यव्याख्यानपरेण भूतानि जुह्वतीत्युपक्रमादपि ‘इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इत्युपसंहारस्याधिक्यात् तदनुसारेणोपक्रमोक्तश्रद्धाशब्दस्यापि ता एवार्थ इत्युपपत्तेरिति न्यायविवरणमप्युक्तार्थं भवति । अन्यथा विरोधेनेत्यनेनोपक्रमविरोधेनोपसंहारानुपपत्तेरुपक्रम-प्रामाण्यार्थमेवोपसंहारानुसारित्वमङ्गीकर्तव्यमिति न्यायविवरणं व्याख्यातं भवति ।
ननु स्यादियमुपसंहारानुसारेणोपक्रमार्थकल्पना । यद्युपसंहारेऽपां जीवेन सहगतिश्रवणमेव स्यात् । न चैवम् । आप इति सामान्योक्तेरागमनमात्रविषयत्वोपपत्तेरित्याशङ्क्य प्रतिषेधति ॥ न चेति ॥ कुत इत्यत आह ॥ भूतानीति ॥ यद्युपसंहारस्य आगमनमात्रविषयत्वं तर्हि मरणानन्तरं भूतानां जीवेन सहगमनाभावसिद्ध्यर्थमुत्क्रान्तो भूतानि त्यजतीति वक्तव्यं स्यात् । आगमनकाले जीवस्याद्भिः साहित्यसिद्ध्यर्थं तस्या आहुतेः ‘सोमो राजा सम्भवति, वर्षः सम्भवति, अन्नं सम्भवति, रेतः सम्भवति’ इतिवद् आपः सम्भवन्तीत्यपि वक्तव्यं स्यात् । न चैवमुक्तिरस्ति । तथा चाप्राप्तस्यानुवादायोगादाप इत्यनुवादबलान्मरणानन्तरं सहगतानामेवापां पुनरागमनमिति ज्ञायत इति भावः ।
ननु रेतः सम्भवतीत्यत्र रेतःशब्दस्यापदत्वसम्भवेनापां प्रकृतत्वादाप इत्यनुवादोपपत्तिरिति चेन्न । तस्याहुते रेतः सम्भवतीति रेतसोऽन्नकार्यत्वोक्तेः । न ह्यपामन्नकार्यत्वमस्ति । एवं चेत्यनेन प्रकरणे रेतोरूपायां पञ्चम्यामाहुतौ योषाग्नौ हुतायां मरणानन्तरं जीवेन सहागताः पुनः भूतत्रयात्मिका आपः पुरुषवचसो भवन्तीत्यर्थः सम्पद्यत इति ज्ञातव्यम् । व्याख्यानस्य पश्चात्तनत्व- नियमादिति न्यायविवरणं व्याख्यातुं तन्निवर्तनीयामाशङ्कामाह ॥ तथापीति ॥ वैपरीत्यस्यापि सम्भवादिति भावः । उदाहृतन्यायविवरणाभिप्रायमाह ॥ उपसंहारस्येत्यादिना ॥ उपक्रमानु-सारित्वनियमेऽप्युपसंहारस्योपसंहारेणैवोपक्रमार्थो ज्ञायत इति न्यायविवरणं व्याख्याति ॥ न च वाच्यमिति ॥
भावदीपः
फलिताभिप्रायेणाह ॥ भूतानामिति ॥ फलितोक्तिरपि सङ्गत्युक्तिसौकर्याय । एवमग्रेऽपि । श्रद्धाशब्दस्य सर्वभूतात्मकाबुपलक्षकत्वकथनेनेति योज्यम् । तेन न प्राणगतेश्चेत्यादिना पौनरुक्त्यमिति ध्येयम् । एतेन ‘अग्निं वाक्’ इत्यादिश्रुतेर्भाक्तत्वोक्तिप्रसङ्गात् श्रद्धाशब्दस्याप्य-मुख्यत्वरूपभाक्तत्ववर्णनाद्वा श्रद्धाशब्दस्य श्रद्धावज्जीवविषयत्वस्येव जीवेनात्यन्ताविविक्ततया जीवभागवज्जीवसंश्लिष्टभूतविषयत्वस्यापि वर्णनाद्वा अनन्तरसङ्गतिरपि सूचिता । यथोक्तं तत्त्वप्रदीपे श्रद्धावदिष्टादिकारिसंयुक्ता आपः श्रद्धाशब्देनोच्यन्ते अत्यन्ताविविक्तत्वाद् अयो दहतीतिवत् । अत एव सम्परिष्वक्त इत्याहेत्यादि । यद्वा एवं त्रिभिर्नयैराद्यसूत्रोक्तप्रश्नादिस्थाप्शब्दस्य त्र्यात्मकत्वादिनोपसंहारस्य सर्वभूतगतिपरत्वमुक्त्वा इदानीमुपक्रमस्य तदुच्यत इति सङ्गतिः ॥ उभयविधेति ॥ लोके राजादिना सहगन्तृवस्तूनामसहगन्तृवस्तूनां च दर्शनमित्यर्थः । ननु प्राणगत्यादिरूपविशेषप्रमाणस्योक्तत्वाद् लोकदृष्टिमात्रेण कथं सन्देह इति चेन्न । तदनिर्णय-दशायामेवास्य सन्देहबीजत्वाशयात् । तन्निर्णयेऽपि प्राणगत्यादिना भूतान्यपि सह गच्छन्त्युत प्रथमे श्रवणाभावान्न गच्छन्ति लोके द्विविधवस्तूनामपि दर्शनादिति तात्पर्यात् । भूतानामसहगतिरित्य-न्यत्रोक्त्यनुरोधेन नेति चेदिति प्रतिज्ञाभाष्यं व्याचष्टे ॥ न जीवेनेति ॥ सूत्रे नञावर्तते । प्रकृतत्वा-ज्जीवो भूतैः सम्परिष्वक्त इति चानुवर्तत इति भावः । हेतुपरात इतिपदान्वयेन श्रूयत इत्यन्तभाष्यार्थमाह ॥ तस्मिन्निति ॥ ‘वेत्थ यथेमाः प्रजा प्रयत्यो विप्रतिपद्यन्त’ इति श्वेतकेतुं प्रति प्रवाहणकृतप्रश्नवाक्यानुरोधादाह ॥ उत्क्रान्तस्येति ॥ अथ ‘ये यज्ञेन दानेन तपसा लोकान् जयन्ति’ इति पञ्चाग्निविद्यागतोपरितनवाक्यं मनसि निधायाऽऽह ॥ श्रद्धयेष्टवत इति ॥ एतेन श्रद्धापदेन यज्ञादिकृज्जीवस्योक्त्या क्रियमाणयज्ञादेः श्रद्धापूर्वकत्वशंसनं फलमिति दर्शितम् । यथोक्तं तत्त्वप्रदीपे । तथोक्तिः श्रद्धाप्रधानत्वं पुण्यानां शंसतीत्यादि । श्रद्धामित्यस्यार्थः श्रद्धासहितस्येति । ‘श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः’ इति जीवस्य श्रद्धामय-त्वोक्तेरिति भावः । तस्मिन्नेतस्मिन्नग्नावित्यस्यार्थमाह ॥ द्व्याख्य इति ॥ ‘असौ वाव लोको गौतमाग्निः’ इति द्युलोकस्य पूर्वं प्रकृतत्वादिति भावः ॥ प्रथमेति ॥ द्युपर्जन्यपृथिवीपुरुषयोषिद्रूपेषु पञ्चाग्निषु प्रथमाग्नावित्यर्थः । स्वर्गादीनामग्नित्वं देवानां भोगस्थानत्वात् । श्रद्धादीनां भोग्यत्वं देवभोग्यत्वादिति तत्त्वप्रदीपोक्तं बोध्यम् । श्रवणादित्यनेन सूत्रे प्रथमे श्रद्धायुक्तजीवहोमश्रवणा-दित्यर्थ उक्तः । न भूतानि जुह्वतीत्यत इत्यस्य भाष्यस्य भूतानां होमाश्रवणादित्यर्थकस्य भूतहोमाश्रवणं श्रुतौ निमित्तान्तरप्रयुक्तमस्तु न भूतानामसहभावप्रयुक्तम् । येनादावश्रवणमात्रेण गत्यभावो ज्ञायेतेत्याशङ्कानिवृत्त्यर्थं भूतहोमानुक्तौ निमित्तान्तराभावसूचनाय व्यतिरेकमुखेनार्थमाह ॥ भूतानामपीति ॥ एतेन प्रथमतो भूतानि जुह्वतीति विशेषानुक्तेरित्यन्यत्राप्युक्तहेतोरप्रयोजकत्वं निरस्तं बोध्यम् । एतेन सूत्रे प्रथमे उपक्रमे भूतानां होमाश्रवणादित्यप्यर्थ उक्तो भवति । फलोक्त्योपसंहरति ॥ अत इति ॥ प्रथमे उपक्रमे, श्रद्धासहितस्यैव होमश्रवणाद्भूतयुक्तस्या-श्रवणादित्यर्थः । प्राणगत्या भूतगत्यनुमानम् आपः पुरुषवचस इति पञ्चमाग्नावुक्त्या अर्थादपां सहगतिकल्पनं तासां त्र्यात्मकत्वेनार्थात्सर्वभूतगतिकल्पनं चानन्यनिमित्तकश्रौतोपक्रमविरोधाद-युक्तमिति भावः । भाष्ये नेति नञः प्रथमाग्नौ श्रूयते न भूतानीत्यादिप्राचीनवाक्यार्थः प्रतियोगितया अन्वेतीति भावेन अर्थमाह ॥ प्रथमेति ॥ तत्र हेतुतया ता एवेत्यादिभाष्यं व्याचष्टे ॥ यत इति ॥ सूत्रे हिर्हेताविति भावः । हूयन्त इत्यस्य व्याख्या होम्यतयेत्यादि । उपक्रमोक्तश्रद्धाशब्दस्यापि ता एवार्थ इत्यन्यत्रोक्त्यनुरोधेन श्रद्धारूपतयेत्यस्यार्थमाह ॥ श्रद्धेति ॥ तद्व्यनक्ति ॥ अयमिति ॥ अजहती स्वार्थमत्यजन्ती या लक्षणा तयेत्यर्थः । काकेभ्यो दधि रक्ष्यतामित्यत्र काकशब्द इवेति भावः । इति त्वित्यादिभाष्यमवतार्य व्यनक्ति ॥ तत्कुत इति ॥ गतिश्रवणादिति ॥ अर्थादिति भावः । उपक्रमविरोधेनोपसंहारानुपपत्तेरित्यन्यत्रोक्तिमनुरुध्य भावमाह ॥ अन्यथेति ॥ उपसंहारानुरोधेनोपक्रमस्यार्थकल्पने प्रक्रमविरोधेनोपसंहारस्याप्रामाण्यप्रसङ्गादित्यर्थः । तच्चानिष्टम् । वक्ष्यमाणादिशा तस्य प्राबल्यादिति भावः ।
ननूपसंहारस्यान्यपरत्वान्न तदनुसारित्वं प्रक्रमस्य येन लक्षणाश्रीयेतेति भावेनाशङ्कते ॥ न चेति ॥ द्युपर्जन्यपृथिवीपुरुषयोषिद्रूपपञ्चाग्निषु प्रथमाग्न्यादिहोमानन्तरं यथाक्रमं ‘तस्या आहुतेः सोमो राजा भवति तस्या आहुतेर् वर्षं भवति अन्नं भवति रेतो भवति’ इति स्वर्गादिषु भोगावसाने योनिं प्राप्तुमागन्तुप्रस्थितस्य जीवस्य मध्ये सोमवर्षादिष्ववस्थानबोधकतया तस्यागमनद्वारविषयाणि श्रुतानि चत्वारि वाक्यानि । एवं ‘आपः पुरुषवचसो भवन्ति’ इति वाक्यस्यापि रेतोद्वारा योषिदाख्यपञ्चमाग्निं प्राप्तस्य पुनरन्यत्प्रत्यागच्छतोऽपां द्वारत्वबोधनपरत्वमेव न तु जीवेन सहापां गतिविषयत्वमित्यर्थः । यद्वा जीवस्य स्वर्गादागमनदशायामेव चन्द्रवर्षादिसाहित्योक्तिवदापः पुरुषवचस इति वाक्येऽप्साहित्यमुच्यते न त्वितः प्रेत्य स्वर्गं गच्छतस् तद्गमनदशायाम् । अतो जीवस्यागमन एवाप्साहित्यपरत्वमुपसंहारस्य न तु गमनेऽप्यप्साहित्यपरत्वमिति न वाच्यमित्यर्थः । आगमनमात्रविषयत्वे कल्पकाभावोक्तिपूर्वं गतिविषयत्वे कल्पकमाह ॥ भूतानीति ॥ एवं कल्पनायां हि कल्पकं भवद् द्विविधं भवति । आदौ गतिकाले भूतानि त्यजतीत्युक्तिर्वा मध्ये सोमादिसायुज्यभवनोक्तिवद् आपो भवन्तीत्यप्साहित्यभवनोक्तिर्वा नोभयथोक्तिरस्ति । प्रत्युत या आपः योऽद्भिरुपेत इति यावत् । पुरुषवचसः पुरुषशब्दवाच्यो भवतीत्यनुवादेन देहत्यागानन्तरमपि जीवेन सहैव स्थित इत्यवगमाद् गतिविषयत्वमप्यवश्यं वाच्यमिति भावः । ‘सोमो राजा सम्भवति’ इत्यादि तु तत्स्वाभाव्यापत्तिरित्यत्र व्याख्यास्यते । उपक्रमप्रामाण्यार्थमेवोपसंहारानुसारित्व-मङ्गीकर्तव्यं व्याख्यानस्य पश्चात्तनत्वनियमादित्यन्यत्रोक्तं शङ्कापूर्वं व्यनक्ति ॥ तथापीति ॥ उपसंहारस्य भूतगतिविषयत्वेऽपीत्यर्थः । व्याख्यानत्वोक्तेरुपयोगमाह ॥ उपसंहारस्येति ॥ विवृतमेतत्समन्वयसूत्रचन्द्रिकायाम् । प्रपञ्चितं च गुरुपादकृतोपसंहारविजये ॥ अप्रामाण्येति ॥ ‘तनूर्वर्षिष्ठा गह्वरेष्ठोग्रं वचो अपोवधीन्त्वेषं वचो अपोवधीस्वाहा’ इति मन्त्रव्याख्येयस्य उग्रं वच इत्यस्य क्रूरं वचनमित्यर्थे ‘अशनापिपासे ह वा उग्रं वच’ इति व्याख्यानाननुसारिण्य-प्रामाण्यदर्शनात् । तथा तत्सत्यमिति व्याख्येयस्य सत्यशब्दस्य सदिति प्राणेऽस्तीत्यन्नमित्यादि-व्याख्यानाननुसारिणि पारमार्थिकत्वादिरूपेऽर्थे अप्रामाण्यदर्शनादुपसंहारानुसारित्वमावश्यकमिति पूर्वेणान्वयः । उपक्रमानुसारित्वनियमेऽपि उपसंहारस्य उपसंहारेणैव उपक्रमार्थो ज्ञायत इति अन्यत्रोक्तं शङ्कागर्भं वाक्यं बीजोक्तिपूर्वं व्यनक्ति ॥ न च वाच्यमित्यादिना ॥ यत्तु मीमांसकैरुपक्रमस्य प्राबल्यमुक्तम् । यच्च नवीनोपक्रमपराक्रमे स्वकृतग्रन्थे उपक्रमप्राबल्यं प्रपञ्चितं तत्तु तर्कताण्डवे गुरुपादकृतोपसंहारविजये च निपुणतरं निराकृतमिति नेहास्माभिः प्रपञ्च्यते ॥ अत इति ॥ उक्तदिशा प्रथमेऽपि त्र्यात्मिकानामपां गतिश्रवणादित्यर्थः ।
अभिनवचन्द्रिका
उभयविधवस्तुदर्शनमिति ॥ संयुक्तेषु अनेकेषु धूमाग्निपाषाणेषु अग्निगतौ धूमस्य गतिः पाषाणस्यागतिरिति उभयविधवस्तुदर्शनं सन्देहबीजमित्यर्थः । यद्यपि पूर्वाधिकरणोक्तमत्र यथासम्भवादिकमेवेहापि सन्देहबीजं सम्भवतीति तदेव वक्तव्यम्, तथापि अधिकारिभेदेनेमान्यधि-करणानि प्रवृत्तानीति ज्ञापनाय सन्देहबीजान्तरमुक्तम् । अत एव पूर्वाधिकरणेषु निर्णायकाना-मुक्तत्वेन सन्देहानुत्पादो न मन्तव्यः ॥ मरणस्यैव मोक्षत्वादिति ॥ ननु भूतानां सहगत्यभावेऽपि न मरणमात्रस्य मोक्षत्वं युज्यते । ‘तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धा जुह्वति’ इति सृष्ट्यर्थं होमश्रवणात् । ‘आपः पुरुषवचसो भवन्ति’ इति सृष्टिश्रवणाच्च, तदन्यथानु पपत्यैव भूतगत्य-भावेऽपि मुक्तत्वाभावसिद्धेः । ततश्च कर्तव्यमेव वैराग्यादीति चेन् न ब्रूमो वयं वस्तुतः मरणमेव मुक्तिरिति । येनोक्तदोषः स्यात्, किंनाम ‘भूतबन्धो हि बन्धः । स्यान् मुक्तिस्तेभ्यो विमोचनम्’ इति वदतः सिद्धान्ततो मरणमेव मोक्षः स्यात् । ततश्च व्यर्थं वैराग्यादीति ॥ सोमो राजा सम्भवतीति ॥ जीवः सोमो राजा चन्द्रस् तदन्तर्गतो भवतीति यावत् ।
पूर्वपक्षस्तु भूतानि न जीवेन सहगच्छन्ति । ‘तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति’ इत्युपक्रमे श्रद्धासहितस्यैव होमाभिधानात् । भूतानामपि सहगतौ उपक्रमे तथोक्तिप्रसङ्गात् । अतो भूतानां सहगत्यभावेन भूतानां विनिवृत्तिरेव मोक्ष इति वदतो मरणस्यैव मोक्षत्वप्रसङ्गाद् व्यर्थं वैराग्यादीति ।
सिद्धान्तस्तु प्रथमाग्नौ भूतसहितस्य होमाश्रवणान् न भूतानामसहगतिर्वक्तव्या श्रद्धाशब्द-स्याऽजहत्स्वार्थलक्षणयाऽप्श्रद्धाविशिष्टजीववाचित्वात् । उपसंहारे अपां जीवेन सह गतिश्रवणाद् उपसंहारानुसारेणैव उपक्रमस्य नेयत्वात् । न चाऽऽगमनमात्रविषयत्वमुपसंहारस्येति वाच्यम् । मरणकाले तत्परित्यागानुक्तेः । मध्ये संयोगमनभिधाय ‘आपः पुरुषवचसो भवन्ति’ इत्यनुवादेन सहगमनस्यैव कल्प्यत्वात् । अतो भूतानां जीवेन सहगतिसद्भावान् मरणस्य मुक्तित्वा-भावेनाऽपेक्षितं वैराग्यादिसाधनमिति सिद्धम् ।
वाक्यार्थमुक्तावली
अत्र पुनरिति ॥ त्र्यात्मकत्वादित्यार्थिककल्पनाया मूलभूतमनुमानं तृतीये निरूपितम् । तदसिद्धमिति शङ्का तृतीये निरस्ता । इदानीमनुमानस्य तर्कबाधनिरासादनन्तरसङ्गतिरिति भावः । अत्र भूतानि जीवेन सह न गच्छन्त्युत गच्छन्तीति चिन्ता । तदर्थं प्राणगतेरित्यनुमानं भूतानां यदि सहगतिः स्यात्तर्हि प्रथमाग्नौ श्रूयत इति तर्कबाधितं न वेति । तदर्थमुपक्रमस्थः श्रद्धाशब्दः किं स्वार्थमात्रपर उतोपसंहारानुसारेणाबाद्युपलक्षक इति ॥ उभयविधेति ॥ तत्पूर्वकर्मादेः सहगमनात् स्थूलशरीरादेरसहगमनादिति । सूत्रे नेत्यावर्तते । रंहति सम्परिष्वक्त इत्यनुवर्तते । श्रवणा-दश्रवणादिति द्वेधा पदच्छेदः । होमस्येति शेषः । प्रथम इत्यस्य प्रथमाग्नौ उपक्रमवाक्ये चेत्यर्थ इति भावेनाविशेष इत्युक्तपूर्वपक्षन्यायं भाष्यारूढं कुर्वन् व्याचष्टे ॥ न जीवेनेत्यादिना ॥ श्रद्धामित्यस्यार्थद्वयम् ॥ श्रद्धयेष्टवतः श्रद्धासहितस्येति ॥ अत इति ॥ भूतानि जुह्वतीति विशेषानुक्तेरित्यर्थः । न च वाच्यमपामागतिश्रवणाद्गतिरप्यर्थात् कल्प्यत इति । उपक्रमाश्रवण-विरोधेन कल्पनाया निर्मूलत्वेन तस्यागमनमात्रविषयत्वात् । न च मृतिकाले ‘जहात्येनं प्राणा भूतानि पञ्च च’ इति प्राणभूतानां गतिरुक्तेति वाच्यम् । प्राणा भूतानीत्ययं समुदायो मृतिकाले भूताख्यभागतस्त्यजति । प्राणाख्यभागतोऽनुगच्छतीत्यपि तदर्थोपपत्तेः । विशेषाश्रवणविरोधाच्च । अनुमानं तु तर्कविरुद्धमिति भावः । यद्यपि श्रद्धां जुह्वतीति सृष्ट्यर्थं होमश्रवणात् ‘आपः पुरुषवचसः’ इति सृष्टिश्रवणाच्च न मरणमात्रस्य मोक्षत्वं युज्यत इति पूर्वपक्षे फलाभावः । तथापि ‘भूतबन्धो हि बन्धःस्यान्मुक्तिस्तेभ्यो विमोचनम्’ इति वदतः सिद्धान्तिनो मरणमेव मोक्षः स्यात् । ततश्च ‘व्यर्थं वैराग्यादि स्यात्’ इति परन्यायेन परदूषणान्न दोष इति ज्ञेयम् ।
नेति नञर्थमाह ॥ प्रथमाग्नाविति ॥ कुतो नेत्यतः श्रूयन्त इत्यतः परं नञो न कल्पनीये-त्यन्वयो बोध्यः । हिशब्दस्य यत इत्यर्थत्वं प्रथम इत्यस्यानुवृत्तिं होमाश्रवणादिति होम्यतया श्रूयन्त इति तात्पर्यतोऽनुवृत्तिं च मत्वा व्याचष्टे ॥ यतः प्रथमाग्नाविति ॥ श्रूयन्त इत्यतः परमतो न कल्पनीयेत्यन्वयो बोध्यः । अपां श्रद्धारूपत्वाभावाच्छ्रद्धाशब्दस्यापि ‘ता एवार्थ’ इति न्याय-विवरणानुरोधेनाह ॥ श्रद्धाशब्दार्थेति ॥ योगरूढ्योरभावात् कथमपां श्रद्धाशब्दार्थत्वमित्यत आह ॥ अयं खल्विति ॥ यथा श्रद्धामात्रस्य होम्यत्वाभावात् श्रद्धाशब्दार्थस्य तन्मात्रत्वानुपपत्त्या श्रद्धायुक्तजीवोपलक्षकत्वं तथोपलक्षकत्वमिति भावः ॥ तत्कुत इति ॥ अपामुपलक्षणत्वं कुतः मुख्यार्थानुपपत्त्यभावादित्यर्थः । तदुत्तरत्वेनोपपत्तेरित्यंशम् उपसंहाराख्योपपत्तेर्युक्तेरिति व्याकुर्वद्भाष्यं व्याचष्टे ॥ उपसंहार इति ॥ उपसंहारे तथा श्रवणेऽप्युपक्रमे उपलक्षणं कुत इत्यत उपसंहारानु-सारेणोपक्रमार्थकल्पने उपक्रमोपपत्तेरिति प्रकारान्तरेण व्याकुर्वद्भाष्यार्थमाह ॥ तदनुसारेणेति ॥ तेनोपपत्तेरित्यन्वयमभिप्रेत्यानुपपत्तेरित्यर्थमाह ॥ अन्यथेति ॥ ननूपक्रमस्य गमनकाले भूतत्याग-विषयत्वादुपसंहारस्यागमनकालेऽद्भिस्सह गमनविषयत्वाद्भिन्नविषययोर्न विरोध इत्याशङ्क्य परिहरति ॥ न चेति ॥ स्यादेतद्भिन्नविषयं यदि भूतानि त्यजतीत्यादावुक्तिस्स्यात् । अन्ते वा यथा जीवः सोमराजान्तर्गतो भवतीति प्रागभूतभवनमुच्यते तथा जीव आपो भवतीत्युक्तिः स्यात् । न चैवमुभयत्र ज्ञापकमस्ति । येनोपक्रमस्य भूतत्यागविषयत्वं प्रत्येमः । प्रत्युतोपसंहारे ‘आपः पुरुषवचसो भवन्ति’ इत्यद्भिः सम्परिष्वक्तो जीव इत्यनूद्य पुरुषनामकत्वं विधीयते । अनुवादश्च सिद्धस्यैवेति गमनकालेऽद्भिः सह गमनमेव सिद्ध्यतीति भावः । एतेनानुवादरूपोपसंहारो-पपत्तेर्नोपसंहारस्य आगमनमात्रविषयत्वमिति प्रकारान्तरेण व्याख्यातं भवति । ननूपक्रमविरोधेनोप-संहाराप्रामाण्यं किं न स्यादित्यत आधिक्यमित्युक्त न्यायप्रदर्शकमुपसंहारोपपत्तेरिति भाष्यम् उपसंहारस्योपपत्तिसिद्धत्वादित्याशयेन व्याचष्टे ॥ तथापीत्यादिना ॥ एषा चावृत्त्या योजना श्रीमद्भिष् टीकाकारैर्न्यायविवरणानुसारेण कृता बोध्या ।
तत्त्वसुबोधिनी
अत्र पुनरिति ॥ त्र्यात्मकत्वादित्युक्तार्थिककल्पनायाः कल्पनामूलभूतविशेषप्रमाणं विना स्वरूपं न निर्वहतीति प्राणगतेश्चेत्याद्यधिकरणद्वयेन स्वरूपनिर्वाहकोपपत्तिरूपविशेषप्रमाणोक्त्य-नन्तरम् अवसरप्राप्तमब्गतिरूपं कल्पकं विचार्यत इत्यनन्तरसङ्गतिरिति भावः ॥ प्रथमाग्नौ होमश्रवणादिति ॥ अनेन प्रथमे श्रवणादिति सूत्रांशोऽकारप्रश्लेषं विना प्रथमाग्नौ श्रूयते इति भाष्येण व्याख्यात इत्युक्तं भवति ॥ तथोक्तिप्रसङ्गादिति ॥ भूतानि जुह्वतीत्युक्तिप्रसङ्गादित्यर्थः । न चाश्रवणमात्रस्य प्राणगतेरित्युक्तयुक्तिबाधकत्वायोगात् कथं प्राणगतेरित्यनन्तरमेतदुत्थानमिति वाच्यम् । यस्यामार्थिककल्पनायां प्राणगतिरूपोपपत्तिर्मूलत्वेनोच्यते सानुपपन्ना । प्रथमेऽ-श्रवणेनाब्गतिरूपकल्पकासिद्धेरित्याक्षेपसमाधानार्थं तस्य तदनन्तरमप्युत्थानसम्भवादिति । नन्वपां श्रद्धारूपत्वाभावात्कथं श्रद्धारूपेणेत्यतस्तदर्थमाह ॥ श्रद्धाशब्दार्थरूपतयेति ॥ ननु श्रद्धाशब्द-स्याप्सु योगरूढ्योरभावात् कथं तदर्थत्वमित्यत आह ॥ अयं खल्विति ॥ तथा च यथा श्रद्धामात्रस्य होम्यत्वाभावात् श्रद्धाशब्दस्य तन्मात्रत्वानुपपत्त्या श्रद्धायुक्तजीवोपलक्षकत्वं तथोप-संहारानुपपत्त्याप्युपलक्षकत्वमप्यङ्गीकार्यमिति भावः ॥ तदुपपत्तेः ॥ उपक्रमोपपत्तेः । अन्यथेति ॥ उपसंहारानुसारेणोपक्रमार्थकल्पनाभावे उपसंहारविरोधेनाप्रामाण्यं स्यादित्यर्थः ।
ननु स्यादियमुपसंहारानुसारेणोपक्रमार्थकल्पना यद्युपसंहारेऽपां जीवेन सहगतिश्रवणमेव स्यात् । न चैवम् । आप इति सामान्योक्तेरागमनमात्रविषयत्वोपपत्तेरित्याशङ्क्य निषेधति ॥ न चेति ॥ कुत इत्यत आह ॥ भूतानीति ॥ यद्युपसंहारस्यागमनमात्रविषयत्वं तर्हि मरणानन्तरं भूतानां जीवेन सह गमनाभावसिद्ध्यर्थम् उत्क्रान्तो भूतानि त्यजतीति वक्तव्यं स्यात् । आगमनकाले जीवस्याद्भिस्साहित्यसिद्ध्यर्थं च तस्या आहुतेः सोमो राजा सम्भवति वर्षस्सम्भवति रेतः सम्भवतीतिवद् आपस्सम्भवन्तीति वक्तव्यं स्यात् । नैतदस्ति, प्रत्युतापः पुरुषवचस इत्यनु-वादोऽस्ति । अप्राप्तस्यानुवादायोगाद् आप इत्यनुवादबलान् मरणानन्तरं सहगतानामेवापां पुनरागमनमिति विज्ञायत इति भावः । न च रेतः सम्भवतीत्यत्र रेतःशब्दस्याप्परत्वसम्भवेनापां प्रकृतत्वाद् आप इत्यनुवादोपपत्तिरिति वाच्यम् । तस्या आहुते रेतःसम्भवतीति रेतसोऽन्न-कार्यत्वोक्तेः । न ह्यपामन्नकार्यत्वमस्ति । एवमित्यनेन प्रकारान्तरेण रेतोरूपायां पञ्चम्यामाहुतौ योषाग्नौ हुतायां मरणानन्तरं जीवेन सह गता भूतत्रयात्मिका आपः पुरुषवचसो भवन्तीत्यर्थ-स्सम्पद्यत इति भावः । शङ्कते ॥ तथापीति ॥ वैपरीत्यस्यापि सम्भवादिति भावः । अस्तूपक्रम-व्याख्यानरूपत्वमुपसंहारस्य, तथाप्युपक्रमस्य तदनुसारित्वं कुत इत्यत आह ॥ व्याख्यानेति ॥ ननूपक्रमस्यानुपसञ्जातविरोधित्वेन प्रबलत्वादुपक्रमानुसारेणैवोसंहारो व्याख्यातव्य इत्याशङ्क्य निषेधति ॥ न चेति ॥
वाक्यार्थविवरणं
तदर्थे व्याख्यातार्थे ॥ पूर्वकत्वादिति ॥ उपक्रान्तस्यैवोपसंहार इति भावः ॥ अर्थप्रतीतौ अर्थबोधकत्वविषये ॥ वैपरीत्यादिति ॥ उपसंहारप्रवृत्तेरुपक्रमसापेक्षत्वेन । उपसंहारसापेक्ष-स्यैवोक्रमस्यार्थबोधकत्वम् । उपक्रमव्याख्यानरूपत्वादुपसंहारस्य । अन्यथा व्याख्यानरूपोपसंहार-विरुद्धत्वेन तद्व्याख्येयरूपोपक्रमस्याप्रामाण्यप्राप्तेरिति भावः ।
वाक्यार्थमञ्जरी
उभयविधेति ॥ मृतसहासहगन्तृकर्मधनदर्शनमित्यर्थः ॥ ॐ प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॐ ॥ अत्र प्रथम इत्यस्यावृत्तिः श्रवणादश्रवणादित्युभयथापि पदच्छेदः । तथा च प्रथमेऽग्नौ श्रवणात् श्रद्धां जुह्वतीति श्रद्धाविशिष्टजीवस्य होमश्रवणान्निमित्तात् प्रथमे उदाहृतोपक्रम- वाक्येऽश्रवणाद् भूतसाहित्यस्याश्रवणाज् जीवस्य भूतैःसहागमनमिति चेन्न हि यस्मात्ता एव प्रस्तुता आप एव श्रद्धाशब्देनोच्यन्ते । कुतः? उपपत्तेः । तथात्वे आपः पुरुषवचसो भवन्तीत्युपसंहारो-पपत्तेर् अन्यथा तद्विरुद्धत्वेनोपक्रमाप्रामाण्योपपत्तेरित्यर्थः ॥ तस्मिन्निति ॥ ‘तस्मिन्नसौ वाव लोको गौतमाग्निस्तस्यादित्य एव समिद्रश्मयो धूमोऽहरर्चिश्चन्द्रमाङ्गारानक्षत्राणि विष्फुलिङ्गाः’ इत्यनेनोक्त एतस्मिन्द्युस्थनारायणाख्ये अग्नौ देवा द्युलोकाधिपतयः श्रद्धां श्रद्धयेष्टवन्तम् उत्क्रान्तयजमानं जुह्वतीत्यर्थः ॥ प्रथमाग्नाविति ॥ द्युपर्जन्यपृथिवीपुरुषयोषिदाख्यपञ्चाग्निषु प्रथमाग्नावित्यर्थः । अपां श्रद्धारूपत्वाभावादाह ॥ श्रद्धाशब्दार्थरूपतयेति ॥
ननु श्रद्धाशब्दस्याप्सु योगरूढयोरभावात्कथं तदर्थत्वमित्यत आह ॥ अयं खल्विति ॥ अजहदिति स्वार्थमजहदित्यर्थः । यथा श्रद्धामात्रस्य होम्यत्वाभावात् श्रद्धाशब्दस्य श्रद्धायुक्तजीव-लक्षकत्वं तथोपसंहारान्यथानुपपत्त्यांबूपलक्षकत्वं चाङ्गीकार्यमिति भावः ॥ आगमनमात्रेति ॥ आप इति सामान्येनोक्तत्वादिति भावः ॥ भूतानीति ॥ यद्युपसंहारस्यागमनमात्रविषयत्वं तर्हि मरणानन्तरं भूतानां जीवेन सह गमनाभावसिद्ध्यर्थमुत्क्रान्तो भूतानि त्यजतीति वक्तव्यं स्यात् । तथा ‘तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति । तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति तस्या आहुतेर्वर्षः सम्भवति । तस्मिन्नेतस्मिन्नग्नौ देवा वर्षं जुह्वति तस्या आहुतेरन्नं सम्भवति । तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुते रेतः सम्भवति । तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेर्गर्भः सम्भवति’ इति वद्गमनकाले जीवस्याद्भिः साहित्यसिद्ध्यर्थं तस्मिन्नेतस्मिन्नग्नौ देवा आपो जुह्वति तस्या आहुतेरापो भवन्तीति वक्तव्यत्वात् । अन्यथा आपः पुरुषवचसो भवन्तीत्यनुवादायोगात् । न चैवमस्ति । तथा चाप इत्यनुवादबलान्मरणानन्तरं सहगतानामेवापो पुनरागमनमिति ज्ञायत इति भावः । एवं द्युलोके देवैर्निक्षिप्तो यजमानः स्वपुण्यावसाने मर्त्यलोकोन्मुखस्तस्या आहुतेः सकाशात्सोमो राजा सोमलोकान्तर्गतः सम्भवति । वर्षं वृष्ट्यन्तर्गतमन्नमन्नान्तर्गन्तं रेतस्तदंतर्गतो गर्भो गर्भस्थ इत्युदाहृतवाक्यशेषार्थः । तदर्थे व्याख्यातार्थे ॥ दर्शनादिति ॥ यत्क्षौममित्युप-संहारानुसारेण वासः परिधत्त इत्युपक्रमस्य पीताम्बररूपार्थे प्रामाण्यदर्शनादित्यर्थः । स्वरूपेण स्वरूपलाभाय ।
॥ इति प्रथमश्रवणाधिकरणम् ॥ ५ ॥