ॐ अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॐ
४. अग्न्याद्यधिकरणम्
सूत्रभाष्यम्
॥ ॐ अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॐ ॥ ४ ॥
‘यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राण’ (बृ.उ.५-२-१३) इत्यादि श्रुतेर्न प्राणानां जीवेन सह गतिरिति चेन्न भागतोऽग्न्यादिप्राप्तेः ।
‘पुरुषस्य मृतौ ब्रह्मन्प्राणा भागत एव तु ।
अधिदैवं प्राप्नुवन्ति भागतोऽनुव्रजन्ति तम् ।
पुनः शरीरसम्प्राप्तौ तमेवानुविशन्ति च’ ॥ इति ब्राह्मे ।
ब्रह्माण्डे च—
‘मृतिकाले जहत्येनं प्राणा भूतानि पञ्च च ।
भागतो भागतस्त्वेनमनुगच्छन्ति सर्वश’ ॥ इति ।
तत्त्वप्रकाशिका
अत्र भगवत्प्राप्तिसाधनवैराग्याय प्राणानां जीवेन सह गतिसमर्थनादस्ति शास्त्रादिसङ्गतिः । प्राणगत्या समर्थिता भूतगतिः प्राणगत्यभावे न स्यादतः सा समर्थनीया । प्रकृतप्राणा एव विषयः । जीवेन सह गच्छन्ति न वेति सन्देहः । अनिर्णयः सन्देहबीजम् । सूत्र एव पूर्वपक्षस्योक्तत्वा-त्तदुपन्यस्य पूर्वपक्षांशं तावद् व्याचष्टे ॥ अग्नीति ॥ न प्राणा जीवेन सह गच्छन्ति । ‘यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यं मनश्चन्द्रमसं दिशः श्रोत्रम्’ इति प्राणा-नामग्न्यादीन्प्रति गतिश्रुतेः । तथा च प्राणानां जीवेन सह गत्यभावे भूतानामपि तदभावान्मरणमेव मोक्षोऽतः साधनवैयर्थ्यमिति भावः ।
सिद्धान्तांशं व्याचष्टे ॥ नेति ॥ नैतच्छ्रुतिबलेन प्राणानां जीवेन सह गतिर्वक्तव्या । प्राणानां भागेनाग्न्यादीन्प्रति गतेर्विद्यमानत्वेन श्रुतेस्तद्विषयत्वादिति भावः । कुतोऽयं विशेष इत्यत आह ॥ पुरुषस्येति ॥ एवं प्रतिमरणं भागापगमे कालतः सर्वापगमः स्यात्तथा च सर्वभूतापगम इत्यत आह ॥ पुनरिति ॥ ननु भागतोऽग्न््यादीन्प्रति गच्छद्भिः प्राणैः सह भूतानां गतिरस्ति न वा । अस्ति चेन्न जीवेन सह गतिः । न चेदविनाभाव इत्यत आह ॥ ब्रह्माण्डे चेति ॥ अनेन भूतानां विनिवृत्तिरिति वाक्यं च व्याख्यातं भवति । अतोऽस्ति प्राणानां जीवेन सह गतिस्ततो भूतानामपीति न मरणमेव मोक्षोऽतोऽनुष्ठेयं साधनमिति सिद्धम् ।
गुर्वर्थदीपिका
वातं प्राण इत्यत्रेन्द्रियपङ्क्तौ पठितत्वात्प्राणपदेन त्वगिन्द्रियमुच्यते ।
भावबोधः
प्राणगत्येति ॥ तथा च पूर्वोक्तप्राणगतिसमर्थनादन्तरसङ्गतिरिति भावः ॥ जीवेन सहेति ॥ अत्र प्राणानां जीवेन सहगतिर्नास्त्युतास्तीति चिन्ता । तदर्थं ‘अग्निं वागप्येति’ इत्यादिश्रुतिः कार्त्स्नेन प्राणानामग्न्यादीन् प्रति गतिं प्रतिपादयति उत भागत इति ॥ यत्रास्येति ॥ भाष्य-व्याख्यानपरेणानेनाग्निं वागप्येतीत्यन्यथोक्तेः प्राणानां च न सहगतिरिति न्यायविवरणमप्युक्तार्थं भवति ॥ प्राणानां भागेनेति ॥ अनेन प्राणानां द्विरूपत्वादिति न्यायविवरणं व्याख्यातं भवति ॥ अनेनेति ॥ भूतनिवृत्तिर्नामाग्न्यादिमूलरूपाणि प्रति गच्छद्भिः प्राणभागैः सह भूतानामेव गमनम् । न तु सर्वेषां भूतानाम् । तत्संप्रयोगो नाम पुनस्तैः सह तेषां शरीरे प्रवेश एवेति व्याख्यातं भवतीत्यर्थः ।
भावदीपः
समर्थनफलमाह ॥ प्राणगत्येति ॥ अनिर्णय इति ॥ करणैर्वावेत्यवियोगश्रुतेर् अग्निं वागप्येतीति वियोगश्रुतेश्च निर्णायकादृष्टिप्रयुक्तनिर्णयाभाव इत्यर्थः । यद्वा पूर्वत्र प्राणानां जीवेन सह गतौ श्रुतेरनुक्तेः प्राणा जीवेन सह गच्छन्तीत्यत्र वा नेत्यत्र वा निर्णायकादर्शनकालीनो निर्णयाभावः । भाष्यमाकाङ्क्षाक्रमेण व्याचष्टे ॥ न प्राणा इति ॥ सूत्रे नेत्यावर्तते । पूर्वस्मा-द्विपरिणामेन प्राणगतिपदानुवृत्तिः । प्रकृतत्वाज्जीवेनेत्यन्वेतीति भावः । एतेन प्रागुक्तहेतौ तत्सह-गन्तृत्वरूपविशेषणाक्षेपेण पूर्वपक्षकरणादाक्षेपिकी सङ्गतिः सूचिता । आदिपदार्थं व्यनक्ति ॥ चक्षुरिति ॥ अग्निं वागप्येतीत्याद्यन्यथोक्तेः प्राणानां च न सहगतिरित्यन्यत्रोक्त्यनुरोधेनान्यथा शब्दार्थं वदन्नेव शेषोक्त्या भाष्यस्य सूत्रव्याख्यानपरतां व्यनक्ति ॥ इति प्राणानामिति ॥ करणैर्वावेति श्रुतिस्तु यावद्देहपातं तदवियोगपरेति भावः । किं चात इत्यतः पूर्वाक्षेपद्वारा फलमाह ॥ तथा चेति ॥ अग्न्यादीन् प्रतिगतौ सत्यामित्यर्थः । भाष्ये चेन्नेति नञः प्रतियोगितया प्राचीनभाष्यं कृत्स्नमन्वेतीति भावेनाह ॥ नैतच्छ्रुतीति ॥ भागत इत्यादि व्याचष्टे ॥ प्राणानामिति ॥ तद्विषयत्वादिति ॥ एतेन सूत्रे भागवाचिभक्तिशब्दात्तस्येदमिति सम्बन्धमात्रेऽण्प्रत्ययमुपेत्य भाक्तत्वाद्भागविषयत्वादित्यर्थो दर्शितः । अयं भागविषयत्वरूपः ॥ सर्वभूतेति ॥ प्राणव्याप्तत्वा-त्तेषामिति भावः ॥ अनेनेति ॥ पञ्चापि भूतानि भागतो भागैरेनं जीवं जहति त्यजन्तीति कथनेन भागविषयं व्याख्यातमित्यर्थः ॥ अत इति ॥ अग्न्यादिगतिश्रुतेर्भागविषयत्वात्करणैर्वावेति श्रुतेरविरोधादित्यर्थः ।
अभिनवचन्द्रिका
अनिर्णय इति ॥ ‘प्राणैर्वाव न वियुज्यत’ इति श्रुत्यर्थानिर्णयः सन्देह बीजमित्यर्थः । जीवनदशायां प्राणैर्न वियुज्यत इत्यप्यर्थसम्भवात् श्रुत्यर्थानिर्णय इति भावः । अतोऽस्ति प्राणानामिति ॥ ननु न प्राणगत्या भूतगतिसमर्थनं युज्यते । मुक्तावपि प्राणगतिसद्भावेन भूतगति-प्रसङ्गात् । न च मुक्तौ न प्राणगतिरिति शक्यते वक्तुम् । मुक्तावपीन्द्रियसद्भावश्रवणाद् अन्यथा दर्शनाद्यभावप्रसङ्गेन मुक्तेरपुरुषार्थत्वप्रसङ्ग इति चेत्, सत्यं सत्येव मुक्तावपीन्द्रियाणि । किंनाम चित्स्वरूपाण्येव तानीन्द्रियाणि । अस्माभिस्तु प्राकृतेन्द्रियाणामेव भूतैर्व्याप्तिरुक्तेति न कश्चिद्दोषः । ननु प्रलयकाले भूतानि जीवसम्बद्धानि न वा । नेति पक्षे तस्यैव मुक्तित्वप्राप्त्या वैराग्यादिवैयर्थ्यम् । आद्ये प्रलयत्वव्याघातः । भूतभौतिकादिविलयस्य प्रलयशब्दार्थत्वादिति चेत् । न जीवबन्धक भूतेन्द्रियव्यतिरिक्तानामेव लयः न तु तद्बन्धकानामित्यङ्गीकारात् । तदुक्तं ब्रह्मतर्के ‘सर्वसंहारकं विष्णुं देवीं जीवांस्तथैव च । कालं त्रिगुणसाम्यं च कर्माणि प्राणमिन्द्रियम् । संस्कारं चैव वेदांश्च नर्ते किञ्चिल्लये त्वभूत्’ इति । न च प्राणे भूतसद्भावानुक्तिः । इन्द्रियाणां सद्भावोक्त्या तदविनाभावबलेन तस्यापि सिद्धेः ।
पूर्वपक्षस्तु न प्राणा जीवेन सह गच्छन्ति’ तत्रास्य पुरुषस्य मृतस्य अग्निं वागप्येति’ इत्यादिना प्राणानामग्न्यादौ गतिश्रवणात् । तथा च प्राणानां गत्यभावेन साधकाभावाद् भूतानामपि न सहगतिरिति मरणमेव मोक्ष इति व्यर्थं वैराग्यादीति ।
सिद्धान्तस्तु प्राणा जीवेन सह गच्छन्ति ‘एतैर्वाव न वियुज्यत’ इति श्रुतेः । न चा‘ऽग्निं वागप्येति’ इति विशेषश्रुतिविरोधः प्राणानां भागेन अग्न्यादौ गत्यङ्गीकारेण श्रुतेस्तत्परत्वात् । तदुक्तं पुरुषस्य मृतौ ब्रह्मन् प्राणा भागत एव तु । अधिदैवं प्राप्नुवन्ति भागतोऽनुव्रजन्ति तम्’ इति । ननु प्रतिमरणं भागापगमे कालतः सर्वापगमः स्यादिति चेन्न । पुनः शरीरसम्प्राप्तिसमये अग्न्यादौ प्रविष्टानां भागानां जीवसहगतभागेषु प्रवेशाङ्गीकारात् । एवं भूतानामपि मरणकाले भागेन जीवेन सह गतिर् भागेन अग्न्यादिगतिर्भवति । पुनः शरीरप्राप्तौ जीवेन सहगतेषु भूतभागेषु अग्न्यादीन्प्रति गतानां भूतभागानां प्रवेशो भवतीति बोध्यम् । अतोऽस्ति प्राणानां सहगतिः । ततो भूतानामपीति न मरणमात्रेण मोक्षः । अतोऽनुष्ठेयं साधनमिति सिद्धम् ।
वाक्यार्थमुक्तावली
अत्र प्राणानां जीवेन सह गतिर्नास्त्युतास्तीति चिन्ता । तदर्थम् अग्निं वागप्येतीत्यादिश्रुतिः कार्त्स्न्येन प्राणानामग्न्यादिगतिं प्रतिपादयत्युत भागत इति ॥ अनिर्णय इति ॥ निर्णायक-प्रमाणादर्शनमित्यर्थः । ननु पूर्वटीकायां ‘प्राणैर्वाव न वियुज्यत’ इति प्राणानां सहगमने प्रमाण-स्योपन्यस्तत्वात्कथं तदभाव इति चेन्न । प्रतिपक्षश्रुतिसद्भावेन तस्यानिर्णायकत्वादित्यर्थः । यद्वैतदधिकरणं मनसि निधाय तत्र शिष्यहितार्थमसिद्धिः परिहृतेति ज्ञेयम् । सूत्रे नेत्यावर्तते । प्राणगतेरित्येतद्विभक्तिविपरिणामेन प्राणगतिरित्यन्वीयते । प्राणानामिति बुद्ध्या विवेकेनानुषज्यते । जीवेन सह प्राणगतिः प्राणानाम् अग्न्यादिश्रुतेरिति पूर्वपक्षखण्डार्थं मनसि निधायान्यथोक्तिरिति न्यायप्रदर्शकं भाष्यं व्याचष्टे ॥ न प्राणेनेत्यादिना ॥ यत्र यस्यामवस्थायाम् । अस्य पुरुषस्य मृतस्य म्रियमाणस्य सत इत्यर्थः ॥ द्विरूपत्वमिति ॥ सिद्धान्तन्यायप्रदर्शकं न भाक्तत्वादिति सूत्रं प्राणानां भाक्तत्वादिति तदनुवृत्तिमभिप्रेत्य व्याकुर्वद्भाष्यं व्याचष्टे ॥ प्राणानामिति ॥ अग्न्यादि-गतिश्रुतेर्भाक्तत्वाद् भागतोऽग्न्यादिविषयत्वादित्यप्यनुवृत्तिमभिप्रेत्य व्याचष्टे ॥ श्रुतेस्तद्विषय-त्वादिति ॥ अस्मिन्पक्षे भागतोऽग्न्यादिप्राप्तेरिति भाष्यस्य प्राप्तिविषयत्वादित्यर्थः ॥ अनेनेति ॥ भूतनिवृत्तिर्नामाग्न्यादिमूलरूपाणि प्रति गच्छद्भिः प्राणभागैस्सह भूतभागानामेव गतिर्न सर्वेषाम् । तत्संप्रयोगो नाम पुनस्तैस्सह तेषां देहे प्रवेश एवेति भारतवाक्यं व्याख्यातं भवतीत्यर्थः ।
तत्त्वसुबोधिनी
प्राणगत्येति ॥ तथा च पूर्वोक्तप्राणगतिसमर्थनादनन्तरसङ्गतिरिति भावः । कुतो नेत्यत आह ॥ यत्रास्येति ॥ तर्हि यत्रास्येति श्रुतेः का गतिरित्यत आह ॥ प्राणानामिति ॥ अनेनेति ॥ भूतनिवृत्तिर्नामाग्न्यादिमूलरूपाणि प्रति गच्छद्भिः प्राणभागैः सह भूतभागानामेव गमनम् । न तु सर्वेषां भूतानाम् । तत्संप्रयोगो नाम पुनस्तैस्सह तेषां शरीरे प्रवेश एवेति व्याख्यातं भवतीत्यर्थः ।
वाक्यार्थविवरणम्
भाष्ये ‘तमेवानुविशन्ति’ इत्यत्र येऽधिदैवं प्राप्ता भागास्त इति शेषः ॥ न चेदिति ॥ भूतानां प्राणैर्विनाभाव एव प्राप्त इत्यर्थः ।
वाक्यार्थमञ्जरी
अनिर्णयः निर्णायकाभावः ॥ अग्निं वागप्येतीत्यादिना प्राणानामग्न्यादीन् प्रति गमनश्रवणान्न जीवेन सह तेषां गतिरिति चेन्न । अग्न्यादीन् प्रति गतिश्रुतेर्भाक्तत्वाद् भागेनाग्निगतिविषयत्वाद् भागान्तरेण जीवेन सहगतिरुपपन्नेत्यर्थः । दिशो दिग्देवताः ॥ अनेनेति ॥ भूतनिवृत्तिर्नामाग्न्यादि-मूलरूपाणि प्रति गच्छद्भिः प्राणभागैः सहभूतभागगमनमेव गमनं न तु सर्वेषां भूतानाम् । तत्संयोगो नाम पुनस्तैःसह तेषां शरीरप्रवेश एवेति व्याख्यातं भवतीत्यर्थः ।
॥ इति अग्न्याद्यधिकरणम् ॥ ४ ॥