ॐ प्राणगतेश्च ॐ
३. प्राणगत्यधिकरणम्
सूत्रभाष्यम्
॥ ॐ प्राणगतेश्च ॐ ॥ ३ ॥
‘यत्र वाव भूतानि तत्र करणानि नित्यानि ह वा एतानि भूतानि करणानि च । नैतानि कदाचिद्वियुज्यन्ते न च विलीयन्त’ इति भाल्लवेयश्रुतेः प्राणगतेर्भूतान्यपि सह गच्छन्तीति’ सिद्धम् ।
तत्त्वप्रदीपिका
‘प्राणा अनूत्क्रामन्ति’ इत्यादिश्रुतेर्लोकतश्च प्राणगतिः प्रसिद्धा ।
तत्त्वप्रकाशिका
अत्र पुनः परमात्मप्राप्तिसाधनवैराग्यसिद्ध्यर्थं जीवस्य भूतैः सह गतिसमर्थनादस्ति शास्त्रादिसङ्गतिः । भूतानां जीवेन सह गत्यसमर्थने मरणस्यैव मुक्तित्त्वप्राप्तेः सा समर्थनीया । प्रकृतभूतान्येव विषयः । किं जीवेन सह गच्छन्ति न वेति सन्देहः । उभयथा सम्भवः सन्देहबीजम् । न गच्छन्तीति पूर्वः पक्षः । भूतानि जीवेन सहगच्छन्तीति विशेषप्रमाणाभावात् । न च प्रश्नव्याख्याने विशेषप्रमाणम् । तयोरपि भूतैः सह गमनस्यानुक्तत्वात् । आर्थिककल्पनायाश्च विशेषप्रमाणमन्तरेणासम्भवात् । एवं च स्वाभाविकमरणमेव मुक्तिरिति कृतं वैराग्यादिभिरिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ प्राणेति ॥
गच्छन्त्येव भूतानि सह जीवेन विशेषप्रमाणस्यानुमानस्य विद्यमानत्वात् । अस्ति तावद् भूतानामिन्द्रियाणां चाविनाभावः । ‘यत्र वाव भूतानि’ इति श्रुतेः । प्राणानां चास्ति जीवेन सह गतिः । ‘करणैर्वाव न वियुज्यत’ इति श्रुतेः । अतः प्राणगतेस्तदविनाभूतभूतानां चास्ति जीवेन सह गतिरिति ज्ञायत इति भावः । चशब्दो भूताविनाभावार्थः । अत्रैवं प्रयोगो भवति ‘भूतानि जीवेन सह गमनवन्ति तत्सहगन्तृप्राणाविनाभूतत्वात् । यद्येन सह गन्त्रविनाभूतं तत्तेन सह गच्छति । यथा राज्ञा सह गन्त्रमात्याविनाभूतो भृत्यः’ इति । अतः समस्तभूतानां जीवपरिष्वङ्गसिद्धेर्न मरणमात्रेण मोक्षोऽतोऽपेक्षितं वैराग्यादीति सिद्धम् ।
गुर्वर्थदीपिका
‘उभयथा सम्भवस्सन्देहबीजम्’ इत्यत्र लोके करितुरगादीनां राज्ञा कदाचित्सहगमनस्य कदाचिदसहगमनस्य च दर्शनादिति भावः । ‘यत्र वाव भूतानि’ इति श्रुतौ यत्रतत्रपदयोर्यत्र करणानि तत्र भूतानीति व्यत्यासेनान्वयः । अन्यथा घटादौ व्यभिचारप्रसङ्गः । प्राणानां चास्ति जीवेन सहगतिरिति टीकावचनं शिष्यमनस्समाधानायोत्तराधिकरणप्रमेयमाकृष्योक्तम् । सूत्रभाष्य-कारयोस्तु प्राणानां जीवेन सहगमनात्तदविनाभूतभूतानामपि सहगमनमित्येतावत्येव तात्पर्यम् । प्राणानां जीवेन सहगमनं तूत्तराधिकरण एव प्रतिपाद्यमिति विवेक्तव्यम् । अन्यथोत्तराधिकरणा-नामनारम्भप्रसङ्गात् ।
भावबोधः
अत्र पुनरिति ॥ आर्थिककल्पनायां कृतायामेव तन्मूलभूतविशेषप्रमाणजिज्ञासोदयादनन्तर-सङ्गतिरिति भावः ॥ किं जीवेनेति ॥ अत्र भूतानां जीवेन सह गतिर्नास्त्युतास्तीति चिन्ता । तदर्थं प्रश्नव्याख्यानयोः प्रतीतानामपां गमनेन सर्वभूतानि गच्छन्तीत्यार्थिककल्पनायां विशेषप्रमाणं नास्त्युतास्तीति । तदर्थं भूतानां प्राणैरविनाभावो नास्त्युतास्तीति । एवं च भूतानां प्राणैरविनाभावाभावे तत्सहगन्तृप्राणाविनाभूतत्वरूपहेतोरसिद्ध्या विशेषप्रमाणाभावान्निर्मूल-कार्थिककल्पनाया अयोगेन सर्वभूतानां जीवेन न सहगतिरिति पूर्वपक्षे, अविनाभावसत्त्वे उक्तहेतु-सिद्धावुपपत्तिरूपविशेषप्रमाणमूलकार्थिककल्पनाया युक्तत्वात् सर्वभूतानां जीवेन सहगतिरिति सिद्धान्ते च फलफलिभावो ज्ञातव्यः ॥ न गच्छन्तीति ॥ अनेन तदभाव इति न्यायविवरणांशो व्याख्यातः ॥ भूतानीति ॥ अनेन भूतानि गच्छन्तीति सहैवानुक्तेरिति न्यायविवरणांशो व्याख्यातः ॥ तयोरपीति ॥ अनेन तयोरपीति शेषपूरणेन पूर्वोदाहृत एव न्यायविवरणभागः प्रकारान्तरेण व्याख्यातः ।
ननु पूर्वाधिकरणे सहगमने तासां त्र्यात्मकत्वेन भूतानामपि सहगमनसिद्धिरित्युक्तत्वात् कथमनुक्तिरित्यत आह– आर्थिककल्पनाया इति ॥ नन्वत्र ‘भूतयुक्तः परं लोकमिमं लोकं च गच्छति’ इति विशेषप्रमाणस्योक्तत्वात् कथमेतच्छङ्कावकाश इति चेत्, न; सूत्रकारेण तस्यानुक्त-त्वात् । भाष्यकारैस्तु शिष्यहितैषणया न्यायविवरणे तदुदाहृतमिति । अनुमानं दर्शयितुं हेतुसिद्ध्यर्थमाह ॥ अस्तीति ॥ अतः प्राणगतेरित्यनेन ‘प्राणगतेरुपपत्तेर् उक्तत्वात्’ इति न्यायविवरणं व्याख्यातं भवति । ननु प्राणगतिरित्यनेन तत्सहगन्तृप्राणेत्यस्य विशेषणस्योक्तत्वेऽपि तदविनाभूतत्वरूपं विशेष्यं नोक्तमित्यत आह ॥ चशब्द इति ॥
भावदीपः
गतिसमर्थनादिति ॥ अनुमानरूपप्रमाणोक्त्येति भावः । तेन न पूर्वेणास्य ऐकार्थ्यम् । पूर्वोक्तसमस्तभूतगतौ विशेषप्रमाणनिरूपणादनन्तरसङ्गतिश्चेति ध्येयम् ॥ उभयथा सम्भव इति ॥ उक्तदिशा अपां गतिश्रवणेऽपि तासां त्र्यात्मकत्वेनार्थात्सर्वभूतगतिसिद्धिरिति कल्पनायां विशेष-प्रमाणाभावेनेति भावः । तेनार्थिकगतेरुक्तत्वाद् उभयथा सम्भवशङ्कानुदय इति न शङ्क्यम् । भूतानि गच्छन्तीति सहैवानुक्तेस्तदभाव इत्यन्यत्रोक्तपूर्वपक्षं हेतुसाध्यव्युत्क्रमेण व्यनक्ति ॥ न गच्छन्तीत्यादिना ॥ तत्र सहैवेत्यस्याध्याहृतजीवपदेनान्वयः । अनुक्तेरित्येतद्विशेषप्रमाणा-भावमात्रोपलक्षणं चोपेत्यैकमर्थमुक्त्वाऽर्थान्तरं वक्तुमाह ॥ न चेति ॥ भूतानीति पदमेव सहेत्यत्र भूतैरिति विपरिणम्यानुवर्त्य गच्छन्तीति प्रकृतं गमनमेव गमनस्येत्यन्वेति । अनुक्तेरिति च यथाश्रुतमेवेत्युपेत्यार्थमाह ॥ तयोरपीति ॥ प्रश्नव्याख्यानयोरपीत्यर्थः । भूतैस्सह गमनस्येत्युक्त्यैव ‘भूतयुक्तः परं लोकम्’ इत्यत्र तथोक्तिरस्तीत्यपि निरस्तम् । भूतयुक्त इत्यत्र भूतेन भूतैरिति वा इत्युभयथापि सम्भवात् । मानाभावेनैव मेयाभावो न तूक्त्यभावमात्रेणेति शङ्काव्युदासाय पूर्वमुपलक्षणव्याख्यानोक्तिः । एतेन तदन्तरेत्यनेनागतत्वं दर्शितम् । तस्यैवाक्षेपात् । उक्त्यभावेऽपि आर्थिकसिद्धेरुक्तत्वाद् व्यर्थमेवेदमित्यतोऽनुक्तेरित्युक्तिपदस्वारस्यसूचितं पूर्वसूत्रोक्ताक्षेपं च दर्शयति ॥ आर्थिकेति ॥ एतेन भूतयुक्त इत्यत्र भूतेन युक्त इति विग्रहेणैकभूतयुक्तत्वोक्त्याप्यर्था-त्सर्वभूतगतिः सिद्धेत्यपि प्रत्युक्तम् । अत एवार्थिककल्पनाया इति सामान्योक्तिः । अन्यथा अपां गतिरार्थिकेत्याद्येव ब्रूयात् । यद्वा प्रश्नव्याख्यानयोरापः पुरुषवचसो भवन्तीत्येव श्रूयते न तु गमनं गच्छन्तीति गमनस्यानुक्तेरिति पूर्ववाक्यार्थः । अबुपलक्षितजीवस्याऽऽप इत्युक्तेरपां सहगत्यभावे अयोगात्तासां त्र्यात्मकत्वाच्चार्थादबादिभूतगतिस्सिद्धेत्यत आह ॥ आर्थिकेति ॥ भूतगत्य-प्रतिपादकस्यापि प्रश्नादिरूपवाक्यस्याद्यसूत्रे साक्षित्वेनोपादानं तु त्र्यात्मकत्वप्राणगत्यादिना सर्वभूतगतिपरत्वरूपमर्थं वक्तुमिति भावः ॥ एवमिति ॥ एवं सति भूतानां जीवेन सह गतौ विशेषप्रमाणाभावे सतीत्यर्थः । यद्वा एवं प्राप्त इत्यन्वयः । यद्वा एवं मृतस्य भूतपरिष्वङ्गाभावादिति पूर्वोक्तरीत्येत्यर्थः । सूत्रे रंहति संपरिष्वक्त इत्यनुवृत्तस्य भावार्थमाह ॥ गच्छन्त्येवेति ॥ यत्र वावेति व्याप्त्युक्तेरुपयोगाय प्राणगतेरुपपत्तित उक्तत्वादित्यन्यत्रोक्त्यनुरोधेन सूत्रादिभावमाह ॥ विशेषेति ॥ यत्रेत्यादिभाष्यार्थमाह ॥ अस्तीति ॥ किं चात इत्यत आह ॥ प्राणानां चेति ॥ तस्य च नित्यत्वादित्यत्र भाष्योक्तां श्रुतिमाह ॥ करणैर्वावेति ॥ तत्वप्रदीपे तु ‘प्राणा अनूत्क्रामन्ति’ इति श्रुतेर् लोकतश्च प्राणगतिः प्रसिद्धेत्युक्तम् । एवं परिष्कृत्य प्राणगते-रित्यादिभाष्यं व्याचष्टे ॥ अत इत्यादि ॥ श्रुतिबलादित्यर्थः । यत्र वावेति भाष्यमुत्सूत्रमिति भ्रमं निराह ॥ चशब्द इति ॥ ननु भूतानि जीवेन सह गच्छन्ति तेन सह प्राणानां गतेरिति प्रयोगे वैयधिकरण्यमप्रयोजकत्वं च । यत्र प्राणगतिस्तत्र भूतगतिरिति व्याप्तौ दृष्टान्ताभावश्चेत्यत आह ॥ अत्रैवमिति ॥ रंहति संपरिष्वक्त इत्यनुवृत्तस्य तात्पर्यं भूतानीत्यादि । तस्य च नित्यत्वादिति प्रागुक्तसूत्रलब्धार्थः ॥ तत्सहेति ॥ प्राणगतेरित्यस्यार्थः गन्तृप्राणेति । चशब्दार्थो ऽविनाभूतत्वादिति । अत्र सामान्यव्याप्तिरेवाभिमता न विशेषव्याप्तिरिति भावेनाह ॥ यदिति ॥ भाष्योक्तश्रुतौ नित्यानि ह वा इत्यादिशेषोक्तेरुपयोगं सूचयन् प्राणगतेरिति सौत्रपञ्चम्या रंहति संपरिष्वक्त इत्यनेनान्वयं च सूचयन् फलोक्त्योपसंहरति ॥ अत इति ॥ भूताविनाभूतप्राण-गत्याख्यानुमानरूपविशेषप्रमाणभावादित्यर्थः । पूर्वत्र सिद्धस्य अनुवादः समस्तेति । यद्वा ‘यत्र वाव भूतान्ति’ इति बहुवचनेन सर्वभूतानां प्राणव्याप्तत्वोक्तेः प्राणगत्या सर्वभूतगतिरपि सिद्धेति भावेन समस्तेत्युक्तिः । तेन भूतगतिश्च द्वयमपि न केवलमार्थिकं किं तु विशेषप्रमाणवदेवेति दर्शितम् । परिष्वंग इत्युक्त्या नित्यानि ह वा इत्यादिश्रुत्या भूतकरणसम्बन्धस्य नित्यत्वा-त्करणैर्वावेति श्रुत्या करणजीवसम्बन्धस्यापि नित्यत्वात् । आमोक्षं जीवस्य भूतैः सम्बन्ध एव न कदाचित्तद्वियोग इति सूचितम् । यथोक्तं तत्त्वप्रदीपे तदन्तरप्रतिपत्ताविति सूत्रे सम्परिष्वक्त इति वचनान् मुक्तिपर्यन्तं परिष्वक्त एवेति ।
अभिनवचन्द्रिका
अत्र पुनरिति ॥ ननु शास्त्रादिसङ्गतिव्युत्पादनं व्यर्थम् । पूर्वाधिकरण एव निरूपितत्वाद् अस्याऽधिकरणस्य प्राक्समर्थितसमर्थनार्थं प्रवृत्तत्वात् । न ह्यभ्यधिकाशङ्कया पुनरधिकरणप्रवृत्तौ अनन्तर्भावशङ्काऽस्ति । येन तद्वचनं सार्थकं स्यादिति चेत्, सत्यम्, पूर्वनिरूपितसङ्गत्यैव चारितार्थ्थमिति । तथापि इमान्यधिकरणानि प्रत्येकमनेकवेदवाक्यविचाररूपत्वादवान्तर ब्रह्मविद्या इति सूचयितुं पुनः सङ्गतिनिरूपणम् । एवमन्यत्रापि द्रष्टव्यम् ॥ विशेषप्रमाणाभावादिति ॥ विस्पष्टप्रमाणाभावादित्यर्थः ॥ विशेषप्रमाणस्येति ॥ निरवकाशस्याऽनुमानस्य सत्त्वादित्यर्थः । ननु प्राणगत्या भूतगतिसाधनमयुक्तं, व्याप्त्यभावादित्यत आह– अस्ति तावदिति ॥ परस्परमिति शेषः । दृष्टान्ताभावात्कथं व्याप्तिग्रह इत्यत आह ॥ यत्र वावेति ॥ ‘नैतानि कदाचिद्वियुज्यन्ते’ इति परस्परमविनाभावस्य श्रुतिसिद्धत्वान् न तत्र दृष्टान्ताऽपेक्षेति भावः ॥ तदविनाभूतेति ॥ ते प्राणाः, अविनाभूताः, यैस् तानि तदविना भूतानि । तेषां जीवेन सह गतिर्ज्ञायत इत्यर्थः । एतेन प्राणगत्या भूतगतिं साधयता प्राणानामेव भूतव्याप्यत्वस्य वक्तव्यत्वाद् भूतानां प्राणव्यापकत्वकथनमयुक्तमिति परास्तम् ॥ चशब्द इति ॥ प्राणानां भूतैरविनाभावार्थ इत्यर्थः ॥ तत्सहगन्त्रिति ॥ तत्सहगन्तृप्राणा अविना भूताः, यैस्तानि तेषां भावस् तस्मात् तत्सहगन्तृ-प्राणव्यापकत्वादिति यावत् ॥ अमात्याविनाभूतेति ॥ अमात्यव्यापकभृत्य इत्यर्थः ।
पूर्वपक्षस्तु न भूतानि सहगच्छन्ति प्रमाणाभावात् । न च प्रश्नव्याख्याने प्रमाणम् । तयोरपि भूतैः सह गमनाऽप्रतीतेः । आर्थिककल्पनायाश्च विशेषप्रमाणमन्तरेणाऽसम्भवात् । अतः स्वभाविकमरणमेव मुक्तिरिति अलं वैराग्यादिभिरिति ।
सिद्धान्तस्तु गच्छन्त्येव भूतानि जीवेन सह । भूतानि जीवेन सहगतिमन्ति, तत्सहगन्तृ-प्राणव्यापकत्वादिति अनुमानसद्भावात् । न च व्याप्त्यभावः । ‘यत्र वाव भूतानि’ इति श्रुत्या भूतानां प्राणानां च परस्परं व्याप्यव्यापकभावाभिधानात् । अतः समस्तभूतानां जीव परिष्वङ्ग-सिद्धेर्न मरणमात्रेण मोक्षः । अतोऽपेक्षितं वैराग्यादीति सिद्धम् ।
वाक्यार्थमुक्तावली
अत्र पुनरिति ॥ आर्थिककल्पनायां मूलप्रमाणाकाङ्क्षायां पुनर्विशेषप्रमाणेन समर्थनादित्य-नेनान्तरसङ्गतिरुक्ता ज्ञेया ॥ किं जीवेनेति ॥ भूतानां जीवेन सह गतिर्नास्त्युतास्तीति । ननु प्राणगतेश्चेति सूत्रं भूतानां जीवेन सह गमने प्रमाणान्तरोपन्यासपरमिति पूर्वेणैकाधिकरण्यं युक्तम् । अन्यथा हेत्वन्तरपरसूत्राणां सर्वत्रैकाधिकरणत्वप्रसङ्गः । चतुर्थमप्यधिकरणं हेत्वसिद्धिमाशङ्क्य परिहारकतयैकाधिकरणं भविष्यतीति चेन्न एतेषाम् अधिकरणानां पृथक्पृथक् न्यायसूचकत्वात् । पृथक् पृथक् वाक्यविचाररूपत्वाच्च अधिकरणान्तरत्वोपपत्तेः । पूर्वतन्त्रे हेतुदर्शनाच्चेति सूत्रस्य शेषत्वदर्शनादिति प्रागेव प्रत्यपादि । वक्ष्यते च टीकाकारैः । पृथक्पृथक् विचारत्वात्सन्देहानुत्पादो न मन्तव्य इति । अत्र सहभावेति पूर्वपक्षन्यायस्य सहगमने प्रमाणाभाव इत्यर्थं मनसि निधाय पूर्वपक्षयति ॥ न गच्छतीत्यादिना ॥ प्रथमाधिकरणेन गतार्थतामाशङ्क्य परिहरति ॥ न चेति ॥ भूतैरिति ॥ आप इति वचनेऽपि भूतैरित्यनुक्तत्वादागतिकाले अद्भिः परिष्वङ्गस्य श्रुतत्वेऽपि सहगमनस्याश्रुतत्वादित्यर्थः । द्वितीयाधिकरणेन गतार्थतां परिहरति ॥ आर्थिकेति ॥ अपां सहगमने तासां त्र्यात्मकत्वेन भूतानामपि सहगमनसिद्धिरित्यार्थिककल्पनाया इत्यर्थः । आगमने सहभावेन गतावपि सहभाव इत्यार्थिककल्पनाया इत्यर्थः । भूतयुक्तः परं लोकमिति सहगतिः स्पष्टं श्रूयत इति चेन्न । भूतयुक्तस्य गमने स्पष्टप्रमाणत्वेऽपि भूतेन युक्तो भूतयुक्त इत्यर्थसम्भवेन सर्वभूतगमने विशेषप्रमाणभावादिति भावः ।
प्राणगतेः सम्परिष्वक्तो रंहतीति सूत्रार्थं हृदि निधाय प्रवृत्तं प्राणगतेर्भूतानामपीति भाष्यभावमाह ॥ गच्छन्त्येवेति ॥ विशेषप्रमाणेति ॥ एतेन प्राणगतेरित्येतदुपपत्तिरित्युक्त न्यायप्रदर्शकमित्युक्तं भवति ॥ श्रुतिरिति ॥ एतेन व्याप्तेरागमिकत्वान्न दृष्टान्तापेक्षेत्युक्तं भवति । ‘यत्र वाव भूतानि’ इति श्रुतौ यत्रैव भूतानि तत्र करणानीत्यर्थः । तेन वह्निमत एव धूमवत्वमिति-वद्भूतानां व्यापकत्वं सिद्ध्यति । अनेन दैशिकी व्याप्तिरुक्ता । नित्यानि वा एतानीति कालिका । आद्यस्योपपादनं नैतानीति । वियुज्यन्ते परस्परपरिहारेण भिन्नदेशे वर्तन्त इत्यर्थः । द्वितीयोपपादनं न च विलीयन्त इति । असिद्धिं परिहरति ॥ प्राणानां चेति ॥ तदविनाभूतेति ॥ ते प्राणा अविनाभूता यैस्तानि तदविनाभूतानि । तदविनाभूतानि च तानि भूतानि च । तेषां तद्व्यापकानां भूतानां चेत्यर्थः । हेत्वन्तरत्वाभावाच्चशब्दवैय्यर्थ्यम् । प्राणानां भूताविनाभावश्चोत्सूत्रित इत्यत आह ॥ चशब्द इति ॥ तत्सहगन्त्रिति ॥ तत्सहगन्तृप्राणा अविनाभूता यैस्तानि तेषां भावस्तस्मात् तत्सहगन्तृप्राणाव्यापकत्वादिति यावत् । यद्वा समस्तव्याप्त्यविवक्षया भूतानां प्राणाविनाभावोक्तिः । अत एव भूताविनाभावार्थ इति प्राणाविनाभूतत्वादित्यादि द्वेधोक्तिः ॥ अमात्याविनाभूत इति ॥ अमात्यव्यापको भृत्यो राज्ञा सह गच्छतीत्यर्थः ।
तत्त्वसुबोधिनी
अत्र पुनरिति ॥ आर्थिककल्पनायां कृतायामेव तन्मूलभूतविशेषप्रमाणजिज्ञासोदयादनन्तर-सङ्गतिरिति भावः । कुतो नेत्यत आह ॥ भूतानीति ॥ ननु वेत्थ यथा पञ्चम्येत्यादि-प्रश्नव्याख्यानयोर् भूतानां जीवेन सह गतेस्समर्थितत्वात् कथं विशेषप्रमाणाभाव इत्यत आह ॥ न चेति ॥ ननु पूर्वाधिकरणेऽपां सह गमने तासां त्र्यात्मकत्वेन भूतानां सहगमनसिद्धिरित्युक्तत्वा-त्कथमनुक्तिरित्यत आह ॥ आर्थिककल्पनाया इति ॥ न च भूतयुक्तः परं लोकमिति विशेषप्रमाणस्योक्तत्वात् कथमेतदिति वाच्यम् । सूत्रकारेण तस्यानुक्तत्वात् । भाष्यकारादिभिस्तु शिष्यहितैषणयोक्तत्वादिति भावः । अनुमानं प्रदर्शयितुं हेतुसिद्ध्यर्थमाह ॥ अस्तीति ॥ कुत इत्यतस्तत्र प्रमाणमाह ॥ यथेति ॥ किञ्चात इत्यत आह ॥ प्राणानां चेति ॥ ननु प्राण-गतेरित्यनेन तत्सहगन्तृप्राणेत्यस्य विशेषणस्योक्तत्वेऽपि तदविनाभूतत्वरूपविशेष्यं केनोक्तमित्यत आह ॥ चशब्द इति ॥ एवं सिद्धमनुमानमाह ॥ अत्रैवमिति ॥
वाक्यार्थविवरणं
तयोः ॥ प्रश्नव्याख्यानयोः । भृत्यः राज्ञा सह गत इति शेषः ।
वाक्यार्थमञ्जरी
ननु पूर्वनयेऽपां सहगमने तासां त्र्यात्मकत्वेन भूतानामपि सहगमनसिद्धिरित्युक्तत्वात् कथमनुक्तिरित्यत आह ॥ आर्थिककल्पनाया इति ॥ ॐ प्राणगतेश्च ॐ ॥ प्राणानामिन्द्रियाणां जीवेन सहगतिश्रुतेस्तदविनाभूतभूतानामपि तेन सह गतिसिद्धिरित्यर्थः । भृत्य इत्यनन्तरं राज्ञा सह गच्छतीति शेषः ।
॥ इति प्राणगत्यधिकरणम् ॥ ३ ॥