०२ त्र्यात्मकत्वाधिकरणम्

ॐ त्र्यात्मकत्वात्तु भूयस्त्वात् ॐ

२. त्र्यात्मकत्वाधिकरणम्

सूत्रभाष्यम्

॥ ॐ त्र्यात्मकत्वात्तु भूयस्त्वात् ॐ ॥ २ ॥

अप्शब्दस्तु त्र्यात्मकत्वाद्युज्यते । भूयस्त्वाच्चापाम् । ‘तापापनोदो भूयस्त्वमम्भसो वृत्तयस्त्विमा’ इति च भागवते ।

तत्त्वप्रदीपिका

अपां भूयस्त्वमनाप्यशरीरेष्वपि प्रधानादन्यत्रेत्युक्तम् ।

तत्त्वप्रकाशिका

अत्र भगवत्प्राप्तिसाधनवैराग्यार्थं जीवस्य समस्तभूतसम्परिष्वक्तस्य गतिसमर्थनादस्ति शास्त्रादि-सङ्गतिः । यदुक्तं न मरणमात्रेण मोक्ष इति समस्तभूतानां जीवेन सह गतावसाधितायां तदयुक्तं स्यादतः सा समर्थनीयैव । प्रकृतभूतान्येव विषयः । किं सर्वाणि जीवं परिष्वज्य गच्छन्ति उत नेति सन्देहः । भूतसम्परिष्वक्तो रंहतीति साधारणवचनं सन्देहबीजम् । आप एव गच्छन्ति न सर्वाणीति पूर्वः पक्षः । आपः पुरुषवचसो भवन्तीति प्रश्नव्याख्यानयोरपामेव गतिश्रवणात् । अन्यथा भूतानीति सामान्यप्रयोगः स्यान् न त्वाप इति विशेषप्रयोगः । अतो मृतस्य समस्तभूत-परिष्वङ्गाभावादेकभूतस्य च शरीरानारम्भकत्वान्मरण एव मोक्षसिद्धेर्व्यर्थं वैराग्यादीति ।

एवं प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ त्र्यात्मकत्वादिति ॥ सर्वभूतपरिष्वक्त एव जीवो गच्छति नाद्भिरेव । न चैवं विशेषनामविरोधः । अपां क्षितिसलिलानलात्मकत्वेन तद्ग्रहणे-नान्यभूतानामपि प्राप्तेः । ‘तासां त्रिवृतं त्रिवृतमेकैकामकरोत् । मिश्राणि हि भूतानि’ इति श्रुतेरिति भावः । ननु यद्यापो भूतत्रयात्मिकाः कथं तर्हि तत्राप्शब्द इत्यत आह ॥ भूयस्त्वादिति ॥ अप्शब्दो युज्यत इति सम्बन्धः । मिश्रत्वेऽपि तत्तद्भूतस्याधिक्येन तत्तद्व्यवहार इति भावः । नन्व-पामिव भूतान्तरस्यापि सर्वभूतात्मकत्वादपां ग्रहणे को विशेषहेतुरित्यतो वाऽऽह ॥ भूयस्त्वा-दिति ॥ सर्वदेहेषु सम्भूय भूतेजसोरप्यपां भूयस्त्वात्तद्ग्रहणं युज्यत इति भावः । अपां भूयस्त्वमेव कुत इत्यत आह ॥ तापेति ॥ यथा च सम्भूय शरीरेष्वपां भूयस्त्वं तथोक्तमध्यायान्ते । अतोऽस्ति

समस्तभूतानां जीवं परिष्वज्य गमनमिति स्वाभाविकमरणेन मुक्त्यभावादनुष्ठेयं वैराग्यादीति सिद्धम् ।

भावबोधः

समस्तभूतसंपरिष्वक्तस्येति ॥ पूर्वाधिकरणे भूतपरिष्वक्त इति सामान्यतो भूतपरिष्वङ्गोक्तावेव समस्तभूतपरिष्वङ्गविचारोत्थानादनन्तरसङ्गतिरिति भावः । अत्र किं सर्वाणि भूतानि जीवेन सह न गच्छन्त्युत गच्छन्तीति चिन्ता । तदर्थं प्रश्नव्याख्यानयोराप इत्युक्तिरयुक्तोत युक्तेति । तदर्थ-मपामम्मात्ररूपत्वमुत भूतत्रयात्मकत्वमिति । तदर्थं भूतत्रयात्मिकास्वप्सु अप्शब्दप्रयोगो न युज्यत उत युज्यत इति । ‘इति पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इत्यत्र भूतानीति सामान्य-नामानुक्त्वा आप इति विशेषनामकथनादपामेव सहगतिरिति न्यायविवरणं मनसि निधाय पूर्वपक्षमाह– आप एवेति ॥ अनेनापामेव सहगतिरिति साध्यप्रतिपादकांशो व्याख्यातः । सर्वाणीत्यनेनैवकारव्यावृत्त्यांशकथनम् । ‘आप’ इत्यनेन तु ‘पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इत्यत्राप इति विशेषनामकथनादित्येतद्व्याख्यातम् । अन्यथेत्यनेन भूतानीति सामान्य-नामानुक्त्वेत्यस्य तात्पर्यमुक्तं भवति ॥ अपां क्षितिसलिलानलात्मत्वेनेति ॥ अनेन त्र्यात्मकत्वा-दपामर्थतः सर्वभूतानां गतिप्राप्तिरिति न्यायविवरणमुक्तार्थं भवति । अपामिति विशिष्योक्ति-स्वारस्यादाह– नन्वपामिति ॥ अध्यायान्त इति ॥ ‘पार्थिवानां शरीराणामर्धेन पृथिवी स्मृता’ इत्यादिप्रमाणानुसारेण पार्थिवशरीरे पृथिव्या भागचतुष्टयमपां भागत्रयं, तेजस एको भागः । स्वर्गस्थतैजसशरीरे तेजसो भागचतुष्टयम्, अपां भागत्रयं, पृथिव्या एको भागः । आप्यशरीरे अपां भागचतुष्टयं पृथिव्या भागत्रयं तेजस एको भाग इति कथनेन त्रिविधशरीरेषु सम्भूयापां भागदशकं पृथिव्या भागाष्टकं तेजसो भागषट्कसिद्धेरित्यर्थः ।

भावदीपः

पूर्वेणास्यागतत्वमाह ॥ समस्तेत्यादि ॥ पञ्चभूतेत्यर्थः । समर्थनाद् विशेषशङ्कानिरासेन समर्थनादित्यर्थः । भूतैः सह रंहतीत्ययुक्तम् । श्रुतावपामेव गतिश्रवणादित्याक्षेपादनन्तरसङ्गतिरिति भावः । चिन्ताफलमाह ॥ यदुक्तमिति ॥ तात्पर्यत इति भावः ॥ भूतानामिति ॥ एकस्य तदन्तरेत्युक्तदेहान्तरानारम्भकत्वादिति भावः ॥ इति साधारणं वचनमिति ॥ तस्योभयथापि सम्भवादिति भावः । यद्यपि तदन्तरप्रतिपत्तावित्युक्तेरेकस्यानारम्भकत्वादनेकैर्भूतैः परिष्वक्तो रंहतीति लाभाद् विशेषवचनमेवेदम् । अत एव प्राग्भूतानां शरीरभोगान्प्रदायेति बहुवचनान्त-भूतपदप्रयोगः । मांसादि भौममित्यत्रानेकेषामेव प्रकृतत्वाच्च । तथापि भूतैः संपरिष्वक्तो रंहतीति सामान्यवचनम् आहुतावाप इति श्रुतौ भूतानीति साधारणवचनसहकृतं संदेहबीजमित्यत्र तात्पर्यम् । भाष्ये पूर्वपक्षानुक्तावपि सङ्गम्यन्ते गुरोर्गिर इति स्वप्रतिज्ञानुरोधेन इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीत्यत्र भूतानीति सामान्यनामान्युक्त्वा आप इति विशेषनामकथनाद् अपामेव सहगतिरित्यन्यत्रोक्तं विवृणोति ॥ आप एवेति ॥ गतीति ॥ यद्यप्यागतिरेव श्रूयते न त्वितः स्वर्गादिलोकं गच्छता जीवेन सहगतिः । अत एव प्राग्भूतयुक्तः परं लोकमिति वाक्यान्तरोक्तिः । तथापि गतेरभावे तेन सहागतेरयोगाद् गतिरार्थिकीति भावेन गतिश्रवणादित्युक्तम् । यद्वा पूर्वत्र रंहतीत्यनेन स्वर्गादिपरलोकगमनमेव न विवक्षितम् । किं तु शरीरप्राप्तिपर्यन्तं गमनमिति गतिश्रवणादित्युक्तम् ॥ अत इति ॥ अपामेव गतिश्रवणादित्यर्थः । एकस्य भूतस्यापि निवृत्त्यर्थं स्यादेव साधनानुष्ठानमित्यत आह ॥ एकभूतस्येति ॥ ननु कथमपामेकभूतत्वम् । पूर्वत्र यथाशब्दमित्यनेनोपात्तया विमिश्राणि हि भूतानीति श्रुत्यैव तासां मिश्रत्वसिद्धेः । तथात्वे श्रुतौ विशिष्याप इत्युक्तिरपि वैशेष्यात्त्वित्युक्तन्यायेन समाहितेति चेत्सत्यम् । तथाप्यत्र पार्थिवादिशरीरेषु पृथिव्यादीनामर्धार्धभागतः समत्वेन प्रतिशरीरमपां वैशेष्याभावात् श्रुतावाप इति विशेषोक्तेर-योगादिति तात्पर्यात् । अत एव वक्ष्यति सम्भूय शरीरेष्वित्यादि । वैराग्यादीत्यादिपदेन भक्त्यादि-साधनं शास्त्रं च गृह्यते । एवमग्रेऽपि । पूर्वस्माद्रंहति सम्परिष्वक्त इत्यनुवर्त्य त्र्यात्मकत्वादपामर्थतः सर्वभूतानां गतिप्राप्तेरित्यन्यत्रोक्त्यनुरोधेन भाष्ये अपां त्र्यात्मकत्वादित्यन्वयमुपेत्य शङ्कानिवर्तकतया सूत्रभाष्ययोरर्थमाह ॥ सर्वेति ॥ तेन सूत्रे त्र्यात्मकत्वादिति प्राधान्यादुक्तं भूतान्तरात्मकत्वोप-लक्षणमिति भावेन न्यायविवरणोक्तसर्वपदानुवादः कृतः ॥ विशेषेति ॥ श्रुतावित्यर्थः । प्राप्तेर् गतिप्राप्तेरित्यर्थः । भूतानां त्र्यात्मकत्वे श्रुतिस् तासामिति । ता इमास्तिस्रो देवता इति देवताशब्दनिर्दिष्टानां सदैव तत्तेजोऽबन्नतत्त्वानामित्यर्थः । पाञ्चभौतिकत्वेऽपि प्राधान्यात्सूत्रादौ त्र्यात्मकत्वोक्तिरिति भावेन सामान्यश्रुतिं चाह ॥ मिश्राणीति ॥ अत एव प्राक् तद्ग्रहणेऽन्य-भूतानामिति बहुवचनोक्तिर् अन्यथाऽन्यभूतयोरित्युक्तिः स्यात् । भूतत्रयात्मिका इति बहुव्रीहिः । तेन टाबन्तत्वोपपत्तिः । भाष्ये न्यायविवरण इव त्र्यात्मकत्वादपामित्यनुक्त्या भूतानां त्र्यात्म-कत्वादपां गत्यैव सर्वभूतगतिप्राप्तेरित्यर्थलाभात् । तदनुरोधेन भूयस्त्वादपामित्यस्यार्थमाह ॥ नन्वपामित्यादिना ॥ एतेन सूत्रे अपामेव त्र्यात्मकत्वमुक्तं न तु भूतानामिति निरस्तम् । पूर्वसूत्रे अपामिव भूतानामपि प्रकृतत्वात् ॥ सर्वभूतेति ॥ मिश्राणीति श्रुतेरिति भावः । सूत्रे त्र्यात्मकत्व-मुपलक्षणमिति सूचितम् । प्रत्येकमभावादाह ॥ सम्भूयेति ॥ भूतेजसोरप्यपेक्षयेत्यर्थः ॥ अध्यायान्त इति ॥ पार्थिवानामित्यादिस्मृतिव्याख्यावसरे पार्थिवशरीरे अपां भागत्रयम् एको भागस्तेजोऽर्धं पृथिवी । आप्यशरीरे भागचतुष्टयमापः भागत्रयं पृथिवी तेज एको भागः । तैजसशरीरे भागचतुष्टयं तेजो भागत्रयमाप एकभागः पृथिवी इत्युक्त्या अपां भागदशकं पृथिव्या भागाष्टकं तेजसो भागषट्कमित्युक्तमिति लाभादिति भावः ॥ अत इति ॥ अपां भूतान्तरमिश्रत्वेन श्रुतावपां गमनोक्तावन्येषामपि गमनसिद्धेरित्यर्थः ॥ समस्तेति ॥ पञ्चानामपि भूतानामित्यर्थः ।

अभिनवचन्द्रिका

समस्तभूतानामिति ॥ ननु ‘आपः पुरुषवचसो भवन्ति’ इति अपां देहारम्भकत्वं श्रूयते । यदि केवलाभ्योऽद्भ्यः सृष्टिरनुपपन्ना तर्हि तदन्यथानुपपत्त्यैव भूतान्तरगमनमपि सिध्येदेव । अथोपपन्ना, तथापि मरणमात्रस्य मुक्तित्वाभावान् मुक्त्यर्थं वैराग्याद्यनुष्ठानसम्भवाद् व्यर्थमेवेद-मधिकरणमिति चेत्, उच्यते भूतानां परिष्वङ्गो हि बन्धो न भूतस्य परिष्वङ्गः । ततश्च यदि मृतस्य न सर्वभूतैः परिष्वङ्गः, तर्ह्यसौ मुक्त एव । एकभूतपरिष्वङ्गेऽपि सर्वभूतपरिष्वङ्गाभावात् । न च मुक्तस्य पुनः संसारो युज्यत इत्युपचरितार्थम् ‘आपः पुरुषवचसो भवन्ति’ इति वाक्यमिति मन्यमानस्य शङ्कापरिहाराय सर्वभूतपरिष्वङ्गसाधनाय सार्थकमेवेदमधिकरणमिति । एकभूतस्य शरीरानारम्भकत्वादिति ॥ ननु मास्तु एकस्य भूतस्य शरीरारम्भकत्वं भूतान्तरसहकृतस्य तु स्यादेव शरीरारम्भकत्वम् । न हि सहकारिणा सहैव गन्तव्यमिति नियमोऽस्ति । अतथाभूतानामपि दण्डचक्रादीनां घटोत्पत्तौ मृत्सहकारित्वदर्शनात् । ततश्चाऽम्मात्रस्य सहगमनेऽपि देहोत्पत्तिसमये कर्मवशात् सहकारिसमवधानेन देहारम्भसम्भवात् । न मरणमात्रेण मोक्ष इति कर्तव्यमेव वैराग्यादीति चेत्, न ब्रूमो वयं सहकारिविरहाद् एकस्य भूतस्याऽऽरम्भकत्वाऽसम्भव इति, येनाऽ-दृष्टवशात्सहकारिसमवधानेन देहोत्पादः स्यात् । न चैवं किं नाम त्वन्मते एकस्यैव भूतस्य मोक्षविरोधित्वाभावेन मृतस्य मुक्तत्वान् मुक्तस्य च संसारायोगाद् आरम्भकत्वाभावं ब्रूमः । ततश्च न वैराग्यादिकमनुष्ठेयमिति ॥ अपां क्षितीति ॥ क्षितिसलिलाऽनलेति त्रिवृत्कृतभूतत्रये अपां प्रविष्टत्वेन शक्यसम्बन्धसद्भावेनाऽब्ग्रहणेन लक्षणया भूतत्रयप्राप्तेरित्यर्थः । ‘तासां त्रिवृतं त्रिवृतम्’ इति श्रुत्यप्रामाण्यं शङ्कते नन्विति ॥ यद्यपां भूतत्रयजन्यत्वं स्यात् तर्हि कार्यस्य चित्रद्रव्यत्व-प्रसङ्गेनाऽप्शब्दवाच्यत्वं न स्यात् । अस्ति चैतत् । ततो नाऽपां भूतत्रयकार्यत्वं ततश्चाऽप्रामाण्यमेव श्रुतेरित्यतः परिहारमाहाऽऽचार्यो भाष्यकार इत्यर्थः ॥ मिश्रत्वेऽपीति ॥ सजातीयपरमाणूनामेव आरम्भकत्वमिति तार्किकप्रक्रियाया अप्रामाणिकत्वाद् उपादानेषु पृथिव्यप्तेजस्सु यस्याऽऽधिक्यं तज्जातीयत्वमेव कार्यस्येति भावः ॥ नन्वपामिवेति ॥ अपामिव भूतोजसोरपि त्रिवृत्कृत-भूतत्रयकारणत्वेन तत्र प्रविष्टत्वात् पृथिव्यादिशब्देनापि सर्वग्रहणसम्भवात् किं विशिष्याऽपामेव ग्रहणेनेत्यतो वाऽऽहेत्यर्थः ।

पूर्वपक्षस्तु जीवेन सह आप एव गच्छन्ति न सर्वाणि । ‘आपः पुरुषवचसो भवन्ति’ इति श्रुतेः । अन्यथा भूतानीति श्रुतिः स्यात् । अतो मृतस्य समस्तभूतबन्धाभावान् मरणमेव मोक्ष इति व्यर्थमेव वैराग्यादीति ।

सिद्धान्तस्तु सर्वभूतपरिष्वक्त एव रंहति जीवः । ‘आपःपुरुषवचसो भवन्ति’ इति पुनरुत्पत्तिश्रवणात् । न च सर्वभूतपरिष्वङ्गाभावे पुनरुत्पत्तिर्युज्यते भूतबन्धस्यैव संसारत्वेन तदभावे मुक्तत्वापातात् । एकभूतस्य चाऽबन्धकत्वात् । न च विशेषश्रुतिविरोधः । अपां त्रिवृत्कृत-पृथिव्यप्तेजोहेतुत्वेन अब्ग्रहणेनैव सर्वेषां प्राप्तेः । न च अपामिव भूतेजसोरपि त्रिवृत्कृतभूतत्रय-काराणत्वात् शब्दान्तरमपहायाऽप्शब्दस्यैव ग्रहणे कारणाभाव इति वाच्यम् । सर्वशरीरेषु सम्भूय अपां बहुत्वस्यैव नियामकत्वात् । ‘तापापनोदो भूयस्त्वमंभसो वृत्तयस्त्विमाः’ इति वचनात् । अतोऽस्ति समस्तभूतानां जीवं परिष्वज्य गमनमिति स्वाभाविकमरणेन मुक्त्यभावाद् अनुष्ठेयं वैराग्यादि इति सिद्धम् ।

वाक्यार्थमुक्तावली

अनन्तरसङ्गतिमेवाह ॥ यदुक्तमिति ॥ अत्र सर्वाणि भूतानि जीवं परिष्वज्य गच्छन्त्युत न गच्छन्तीति चिन्ता । तदर्थमापः पुरुषवचसो भवन्तीत्युक्तोऽप्शब्दस्तन्मात्रपर उतापां त्रितयात्म-कत्वेन त्रितयपर इति । अप्शब्द इति सिद्धान्तभाष्यसूचितमनामेत्युक्तन्यायं विशदयन् पूर्वपक्षयति ॥ आप एवेति ॥ विशेषप्रयोग इति ॥ विशेषनामेत्यर्थः । नाप्यं शरीरमिह विवक्षितं पुरुषवच इति श्रवणात् । येन वैशेष्यादित्युक्तन्यायावसर इति भावः । एकभूतस्य च शरीरानारम्भकत्वादिति । एकेन भूतेन परिष्वक्ततया गमनस्यौत्तरिकशरीरारम्भकं प्रत्यप्रयोजकत्वादित्यर्थः । तेन पञ्चानामपि भूतानां लिङ्गशरीरावयवत्वेन स्थितानां स्थूलशरीरोपादनत्वाभावादेकस्यानारम्भकत्वादित्ययुक्तमिति निरस्तम् । सूत्रे जीवः सर्वैर्भूतैरेव सम्परिष्वक्तो रंहतीत्यनुवर्तते । तुशब्दोऽध्याहृतेनाप्शब्द इत्यनेनान्वेति । चशब्दार्थस्सन् भूयस्त्वाच्चेत्यप्यन्वेति । अपामिति च शेषः । तथा च जीवः सर्वैर्भूतैरेव सम्परिष्वक्तो गच्छति । अप्शब्दस्तु अपां त्र्यात्मकत्वाद्भूयस्त्वाच्च युज्यत इति वाक्यविन्यासमभिप्रेत्य व्याचष्टे ॥ सर्वभूतेत्यादिना ॥ त्र्यात्मकत्वादित्यनेन सूचितमर्थतो भव इत्युक्तन्यायं दर्शयति अपां हीति ॥ सलिलेति ॥ यद्यपि जीवेन सह गतिमतीनामपां न त्र्यात्मकत्वम् । नित्यतया त्रिवृत्करणशून्यत्वात् । तथापि तज्जातीयत्वादुत्तरत्र लिङ्गशरीरोपचयकाले त्रिवृत्कृतभूतैरुपचयाच्चैवमुक्तिः ॥ भूतान्तरस्येति ॥ जीवेन सह गम्यतयाभिमतस्येति ग्राह्यम् । सर्वभूतात्मकत्वादित्यनन्तरं मिश्रत्वेऽपि तत्तद्भूतस्याधिक्यात् पृथिव्यादिशब्देन भूतान्तरग्रहणं विहायेति वाक्यशेषः ॥ यथा च सम्भूयेति ॥ पार्थिवशरीरे त्रिभागिन्य आपः । आप्य-शरीरेऽर्धमापः । तैजसशरीरे त्रिभागिन्य आप इति मिलित्वा त्रिविधशरीरे अब्भागानामाधिक्य-मिति पार्थिवानां शरीराणामित्यादिना द्वितीयाध्यायान्ते उक्तमित्यर्थः ।

तत्त्वसुबोधिनी

समस्तभूतपरिष्वक्तस्येति ॥ पूर्वाधिकरणे भूतपरिष्वक्त इति सामान्यतो भूतपरिष्वङ्गोक्तावेव समस्तभूतपरिष्वङ्गविचारोत्थानादनन्तरसङ्गतिरिति भावः । न प्रतिज्ञामात्रेणार्थसिद्धिरित्यतस्तत्र हेतुमाह ॥ आप इति ॥ अन्यथेति ॥ अपामेव सह गमनाभावे । साध्यप्रतिपादकानुक्तेराह ॥ सर्वेति ॥ अपां त्र्यात्मकत्वमयुक्तम् । प्रमाणाभावादित्यत आह ॥ तासामिति ॥ अपामिति विशिष्योक्तिस्वारस्यादाह ॥ नन्विति ॥ कथमनेन शङ्का परिहृतेत्यत आह ॥ मिश्रस्यापीति ॥ ननु शरीरे कथमपां भूयस्त्वमित्यत आह ॥ यथा चेति ॥ ‘पार्थिवानां शरीराणामर्धेन पृथिवी स्मृता’ इत्यादिप्रमाणानुसारेण पार्थिवशरीरे पृथिव्या भागचतुष्टयं, अपां भागत्रयं, तेजस एको भागः, स्वर्गस्थतैजसशरीरे तेजसो भागचतुष्टयं, अपां भागत्रयं, पृथिव्या एको भाग आप्यशरीरे अपां भागचतुष्टयं, पृथिव्या भागत्रयं, तेजस एको भाग इति कथनेन त्रिविधशरीरेषु सम्भूयापां दशकं, पृथिव्या भागाष्टकं, तेजसो भागषट्कमिति सिद्धेरित्यर्थः ।

वाक्यार्थविवरणं

तदयुक्तं स्यादिति ॥ इदं च ‘अतो मृतस्य’ इत्युत्तरत्र पूर्वपक्षोपसंहारे स्पष्टम् । किमनेन प्रयोगे निमित्तमुक्तमित्यत आह ॥ मिश्रत्वेऽपीति ॥ भूतेजसोः सकाशात् पार्थिवशरीरे पृथिव्या भागचतुष्टयम् अपां भागत्रयं तेजस एको भागः । आप्यशरीरेऽपां भागचतुष्टयं पृथिव्या भागत्रयं तेजस एको भागः । स्वर्गस्थतैजसशरीरे तेजसो भागचतुष्टयम् अपां भागत्रयं पृथिव्या एको भाग इति विवेकः । तथा च त्रिविधशरीरेषु सम्भूय अपां भागदशकं पृथिव्या भागाष्टकं तेजसो भागषट्कं द्रष्टव्यम् । एवमब्भागानां भूयस्त्वं द्रष्टव्यम् ।

वाक्यार्थमञ्जरी

अपां त्र्यात्मकत्वाद् भूजलाग्न्यात्मकत्वात् सर्वत्रापामेव भूतेजोऽपेक्षया बाहुल्यादाप इति विशेषोक्तिसम्भवेन सर्वभूतसम्बद्ध एव जीवो गच्छतीत्यर्थः । तत्र प्रश्नपरिहारयोः ॥ सर्वदेहे-ष्विति ॥ पार्थिवशरीरे पृथिव्या भागचतुष्टयम् अपां भागत्रयं तेजस एको भागः । आप्यशरीरे अपां भागचतुष्टयं पृथिव्या भागत्रयं तेजस एको भागः । तैजसशरीरे तेजसो भागचतुष्टयम् अपां भागत्रयं पृथिव्या एको भाग इति । त्रिविधशरीरेषु सम्भूय मिलित्वा अपां भागदशकं पृथिव्या भागाष्टकं तेजसो भागषट्कमित्यपामेव भूयस्त्वादित्यर्थः ।

॥ इति त्र्यात्मकत्वाधिकरणम् ॥ २ ॥