०१ तदन्तराधिकरणम्

ॐ तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॐ

ब्रह्मसूत्रभाष्यम्

अथ तृतीयाध्यायस्य प्रथमः पादः

१. तदन्तराधिकरणम्

सूत्रभाष्यम्

॥ श्रीगुरुभ्यो नमः ॥ हरिः ॐ । साधनविचारोऽयमध्यायः । वैराग्याय गत्यादिनिरूपणा प्रथमपादे । भूतबन्धो हि बन्धः ।

‘भूतबन्धस्तु संसारो मुक्तिस्तेभ्यो विमोचनम्’ इति च वाराहे ।

तच्च मरणे भवति ।

‘भूतानां विनिवृत्तिस्तु मरणं समुदाहृतम् ।

भूतानां सम्प्रयोगश्च जनिरित्येव पण्डितैः’ इति च भारते ॥

अतः किं साधनैरित्यत आह—

॥ ॐ तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॐ ॥ १ ॥

शरीरान्तरप्रतिपत्तौ भूतसम्परिष्वक्त एव गच्छति ।

‘वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ ।

‘इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ (छां.उ.५-३-९) इति प्रश्नपरिहाराभ्याम् ॥

श्री त्रिविक्रमपण्डिताचार्यविरचिता

तत्त्वप्रदीपिका

साधनविचारोऽयमध्यायः । अयमुपक्रम्यमाणोऽध्यायो मोक्षसाधनविचारात्मकः । वेदसमन्वय-सिद्वः सर्वकर्ता समानाभ्यधिकरहितो नारायण इति प्रतिपादितम् । तत्प्राप्तिश्च मोक्षो विवक्षितः । अतस्तत्साधनं विचार्यतेऽस्मिन्नध्याये । नन्वेवमादित एवाऽदरतः साधनमीमांसा कर्तव्या । मोक्षप्रयोजनापेक्षिणोऽधिकारिणो मोक्षफलेऽस्मिञ्च्छास्त्रे साधनायत्तत्वात्तस्य । स्यादेतदेवं, यदि साधनानुष्ठानमात्रान्मोक्षोऽभिप्रेयते । यथा कर्ममीमांसकमन्यैः । वयं तु नारायणप्रसादादेव हि मोक्षं तत्साधनानुष्ठानं वा ब्रूमः । तथा च भगवानतःशब्दार्थं विवृण्वान आह– यतो नारायणप्रसादमृते न मोक्ष इत्यादि ।

‘परस्य ब्रह्मणो विष्णोः प्रसादादिति वा भवेत् ।

स हि सर्वमनोवृत्तिप्रेरकः समुदाहृत’ इति च ॥

विधित्सितानां च भक्तिश्रवणादीनां साधनानां स एव विषयः । अतो यत्प्राप्तिरूपो मोक्षः, यद्विषयाणि च साधनान्यनुष्ठेयानि विधीयन्ते, यद्दर्शनं च साक्षान्मोक्षसाधनं सत्तत्स्वरूपनिर्धारणायत्तं, यदिच्छया च सर्वं स एव नारायणः प्रथमविचार्यः । तद्गुणपूर्तिविरोधे च परिह्रियमाणे प्राणस्वरूपपरीक्षायां प्राप्तायां तद्याथार्थ्यसंवेदनेन तद्देवताप्रसादमापाद्य तदायत्तो वैराग्यादिस्तत्प्राप्त्युपायश्चिन्त्यत इत्यतिसुन्दरम् ।

तच्च साधनं साक्षादपरोक्षज्ञानम् । ‘दृष्ट्वैव तं मुच्यते नापरेण’ ‘तमेवं विदित्वा अतिमृत्युमेति’ ‘तमेवं विद्वानमृत इह भवति’ ‘यस्य प्रसादात्’ ‘न तादृशी प्रीतिरीड््यस्य विष्णोः’ इत्यादिश्रुतेः । ‘विद्यैव तु निर्धारणात्’ इत्यादेश्च लोकन्यायसिद्धत्वाच्च सादरदृष्ट्या प्रसन्नात्प्रभोरभिमतलाभस्य । तत्साधनमुपासना । ‘आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ ‘प्रकाशश्च कर्मण्यभ्यासात्’ इत्यादेः । निरन्तरचिन्तनमन्तरेणानन्तदर्शन-प्रतिबन्धकस्य सन्ततस्य कर्मणोऽनुप-मर्दनीयत्वाच्च । सा च भक्त्यायत्ता । ‘भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्वेन प्रवेष्टुं च परन्तप ॥’ ‘अनुबन्धादिभ्यः’ ‘भूयस्त्वात्त्वनुबन्धः’ ‘अम्बुवदग्रहणात्तु न तथात्वम्’ इत्यादेः । विना च तया निरन्तरस्मृतिरूपस्योपासनस्यानाप्यत्वात् । अभक्तध्यानस्य दृष्ट्यनापाद-कत्वाच्च । सा चैकान्तिकी विना संसारवैराग्यान्न परिपच्यते । आनुभाविकानुभवपरिचितसांसारिक-विषयानुषक्ते मनसि तत्संस्काराणां दृढीयस्तया भक्तेः पदविन्यासावसरासम्भवात् । ‘अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते’ ‘इन्द्रियार्थेषु वैराग्यं’ ‘विज्ञाय ज्ञातवैराग्यो विष्णुपादैकसंश्रयः’ इत्यादिवचनात् । ‘ऊर्ध्वरेतस्तु’ इत्यादेश्च । तस्मादेतानि चत्वारि चतुर्षु पादेषु साधयितव्यानि ।

तत्र वैराग्योत्पादनार्थं स्वर्गनरकगतिभुक्त्यागतीनां तमोगतेर्गर्भवासस्य च निरूपणा क्रियते प्रथमपादे । संसारविरक्ते मनसि संसारमोचके भगवति भक्तिस्सुप्रतिपादेति भक्तिर्द्वितीये प्रतिपाद्यते । न ह्यविरक्तस्य विषयाभिलाषकलुषीकृतेऽन्तःकरणे भक्तिरकृशा भवति । यया भगवद्रुणश्रवणादि-परिबृंहितया तदुपास्तिमेवाऽपरोक्ष्यफलामभिवाञ्छेत् । भक्तस्य चाधिकारिणो गुरुशुश्रूषोः श्रवणमननवत उपास्तिश्शक्येति सा तृतीये प्रदर्श्यते । न ह्यभक्तस्य बलवद्रुणस्मृतिवासनाविहीनस्य गाढोपास्तिस्समस्ति । तस्यां च परिपच्यमानायां वैशद्येनोत्पद्यमानं दर्शनं चतुर्थे सामर्थ्यतो वर्ण्यते । न हि विजातीयप्रत्ययानन्तरितसजातीयप्रत्ययप्रवाहात्मिकामुपास्तिमन्तरेण तदापरोक्ष्यं लभ्यत इति साधनाक्षेपपरिहाररूपतयाऽवतारयन्नत्र सूत्रमैकान्तिकतयाऽवश्यं सम्पादनीयत्वं साधनानां प्रकाश-यति । अतो न मरणमात्रेण मुच्यते पुरुषः । किन्तु भूतसम्परिष्वक्तो मरणानन्तरं गच्छतीत्युक्त्वा मोक्षस्य मरणातिरिक्तकारणायत्तत्वं प्रदर्श्य साधनविचारस्य प्रयोजकत्वप्रतिपादनात्मकमिदमधि-करणं, स्वर्गादिगतिनिरूपणया वैराग्याख्यप्रथमसाधनप्रतिपादनारम्भात्मकं च भवति ।

ॐ तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॐ । तच्छब्दः शरीरपरामर्शी, तस्यानन्तरातीताधिकरणेऽवयवशः प्रस्तुतत्वात् । ऐहिकशरीरान्निष्क्रम्य शरीरान्तरं यदा प्रतिपत्स्यते तदा सम्परिष्वक्तो धावति । कैः? भूतैः । तेषामपि शरीरारम्भकत्वेन प्रस्तुतत्वात् । सम्परिष्वक्त इति वचनान्मुक्तिपर्यन्तं परिष्वक्त एव । ‘वेत्थ यथा’ इत्यादि प्रवाहणस्य राज्ञः पण्डितम्मन्यं श्वेतकेतुं प्रति परीक्षार्थं प्रश्नः । अनुशिक्षितश्चेदसि कुमार तथा वेत्थ किम्? यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति पृष्टे तदुत्तरापरिज्ञानाद् व्रीडयाऽपसृत्यानुशोचतः श्वेतकेतोः सिद्ध्यर्थं प्रस्थितेन तत्पित्रोद्दालकेन पृष्टस्य तस्यैव राज्ञः प्रतिवचनपरिसमाप्तिः ‘इति तु पञ्चम्यामाहुतावाप’ इत्यादिः । अत्र हि ‘असौ वाव लोको गौतमाग्निस्तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति’ इत्यादिना द्युपर्जन्यपृथिवीपुरुषयोषासु पञ्चसु हुतस्थानत्वेनाग्निशब्दभाक्षु स्वकृतभोगप्रतित्सयोत्क्रामितेष्टादिकृत्पुरुषपरिष्वङ्गिण्य आपः क्रमेण हूयन्ते प्रक्षिप्यन्त इत्यर्थः । श्रद्धासोमवर्षान्न रेतस्सम्पर्कात्तत्तच्छब्दोदितास्ता आपः । पञ्चम्यामाहुतौ शुक्रशोणितसंयोगारब्ध-पुरुषशरीरोपचिताः पुरुषशब्दवाच्या भवन्ति ।

श्रीजयतीर्थविरचिता

तत्त्वप्रकाशिका

एतदध्यायप्रतिपाद्यं दर्शयति ॥ साधनेति ॥ अथातो ब्रह्मजिज्ञासेति सूत्रे सङ्क्षेपेण शास्त्रार्थे सूचिते किं तद्ब्रह्मेति शङ्कायां तत्स्वरूपं द्वितीयसूत्रे निगदितं तदध्यायशेषेण समर्थितम् । तत्र विरोधाश्च द्वितीये परिहृताः । एवं चेक्तिं मया कार्यमित्याशङ्कायाम् अथब्रह्मजिज्ञासापदाभ्यां मोक्षसाधनानि विहितानि । तेषां साधनानाम् अस्मिन्नध्याये विचारो वर्तिष्यत इति भावः । प्रथमपादार्थं दर्शयति ॥ वैराग्येति ॥ भगवत्प्रसादस्तावन्मोक्षसाधनम् । स च तदपरोक्षज्ञानाद्भवति । न च तदुभयं विधातुं शक्यम् । पुरुषप्रयत्नागोचरत्वात् । अतो ज्ञानसाधनं विधेयम् । तच्च श्रवणमनननिधिध्यासनरूपा जिज्ञासैव । जिज्ञासायां च भगवद्भक्त एवाधिकारी । अन्यस्य तदसम्भवात् । भगवद्भक्तिश्च माहात्म्यश्रवणेन सम्भवत्यपि अन्यत्र वैराग्येण दृढा भवत्यतः साधनेषु वैराग्यमेवादावपेक्षितम् । तदपि न पुरुषप्रयत्नविषयोऽतस्तदर्थं गत्यागतिस्वर्गनरकगर्भवा-सादिस्वरूपमत्र निरूप्यते । गत्यादेः खलु दुःखस्वरूपतां श्रुत्वा भावयतोऽधिकारिणः स्वर्गादावपि रागो विच्छिद्यत इति भावः ।

अत्र भगवत्प्राप्तिसाधनवैराग्याय जीवस्य भूतावियोगसमर्थनादस्ति शास्त्रादिसङ्गतिः । यदाद्यसूत्रे मोक्षसाधनं भगवत्प्रसादादिवैराग्यान्तं सूचितं तदयुक्तं स्याद् यदि जीवस्य भूतावियोगो न साध्येतातः स साधनीय एव । तत्साधनमेव विषयः मुमुक्षुणाऽनुष्ठेयं न वेति सन्देहः । प्राचीनोक्ति-रन्वयव्यतिरेकादर्शनं च सन्देहबीजम् । पूर्वपक्षयति ॥ भूतेति ॥ बन्धनिवृत्त्यर्थं हि वैराग्यादि-साधनमिष्यते । बन्धो नाम भूतसम्बन्धः । तद्विमोक्ष एव बन्धनिवृत्तिरित्यर्थः । कुत इत्यत आह ॥ भूतेति ॥ ततश्च किमित्यत आह ॥ तच्चेति ॥ भूतविमोचनं मरणे भवतीत्येतत्कुत इत्यत आह ॥ भूतानामिति ॥ किं चात इत्यत आह ॥ अत इति ॥ यतो मरणमेव मोक्षः । तच्च नियतत्वान्न साधनसापेक्षम् अतो न वैराग्यादिसाधनेन कृत्यम् । तथा चोक्तमयुक्तं शास्त्रं चेदं व्यर्थमिति भावः ।

सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ अपेक्षितमेव मोक्षार्थं साधनं ‘आत्मा वा ओ द्रष्टव्यः’ इत्यादौ तद्विधानात् । न चोक्तदोषः । भूतविमोचनस्य मोक्षत्वेऽपि पूर्वशरीरं परित्यज्य भूतसम्परिष्वक्तस्यैव गतेर्मरणे भूतवियोगस्यैवाभावात् । न च वाच्यं भूतानां शरीरे भोगान्प्रदाय चरितार्थत्वाद् व्यर्थं जीवेन सह गमनमिति । शरीरान्तरप्राप्त्यर्थत्वादिति भावः । कुत एतदित्यत आह ॥ वेत्थेति ॥ यथा येन क्रमेण येन प्रकारेण च पञ्चम्यामाहुतौ हुतायामद्भिः सम्परिष्वक्तो जीवो लब्धदेहः पुरुषनामवान्भवति किं तं क्रमं प्रकारं च वेत्थेति श्वेतकेतुं प्रति प्रवाहणस्य प्रश्नात् तथा श्वेतकेतोः परिहारासामर्थ्ये तत्पित्रा पृष्टस्य प्रवाहणस्यैव परिहाराच्च जीवो भूतपरिष्वक्त एव गच्छतीति ज्ञायत इति भावः । ‘भूतयुक्तः परं लोकमिमं लोकं च गच्छति’ इति च । अतो मरण-मात्रेण मोक्षायोगादनुष्ठेयमेव साधनमिति सार्थकमेव शास्त्रमिति सिद्धम् ।

श्री वादिराजतीर्थविरचिता

गुर्वर्थदीपिका

अथब्रह्मजिज्ञासापदाभ्यामित्यत्र अथपदं ब्रह्मजिज्ञासापदं चाथब्रह्मजिज्ञासापदे ताभ्यामिति समासः । अथपदेनाधिकारिविशेषणीभूतविरक्तिभक्त्याख्यसाधनद्वयसम्पत्त्यनन्तरमित्यर्थलाभात् पादद्वयोक्तसाधनद्वयं विहितम् । ब्रह्मजिज्ञासापदेन मननध्यानरूपोपासना तृतीयपादोक्ता विहिता । उद्देश्यतया तज्जन्यं धातुप्रकृत्यर्थभूतमपरोक्षज्ञानाख्यं चतुर्थपादोक्तसाधनं च विहितमित्यर्थः । ज्ञानसाधनं विधेयमित्यत्र ज्ञानसाधनत्वेनाभिमतश्रवणादीनां परोक्षज्ञानतया ज्ञानरूपत्वेऽपि गुरूपसत्तियुक्त्यनुसन्धानचित्तैकाग्य्रतादिपुरुषप्रयत्नसाध्यत्वाद्विधिदर्शनादेव विधेयत्वमिति भावः । उत्पत्तिक्रममपेक्ष्यैव वैराग्यस्य प्राथमिकत्वेऽपि साक्षान्मोक्षाङ्गत्वविवक्षायां प्रसादस्यैव प्राधान्यमिति भावेनोक्तं भगवत्प्रसादादीति ॥ मरणानन्तरं सूक्ष्मलिङ्गदेहाकारेणापि भूतानां जीवेन सह गमनाभावेऽपि मुक्तजीववदनावृत्तचैतन्यरूपस्य तस्य पुनश्शरीराम्भप्राप्तेरेवायोगात् तदेष्टव्यमिति भावेनोक्तं शरीरान्तरेति ॥ येन क्रमेण चेत्यत्र स्वर्गगमने ततोऽर्वाग्गमने च यः क्रमो यश्च प्रकारस्तेनेत्यर्थः । येन क्रमेणोर्ध्वगमनं, येन प्रकारेण ततोऽर्वाग्गमनं, येन प्रकारेण पितुरुदरप्रवेशो, येन प्रकारेण मातुरुदरप्रवेशो, येन प्रकारेण च शरीरारम्भ इति भावः । यद्यप्यापो ऽद्भिस्सम्परि-ष्वक्ता जीवाश्शरीरान्तरं प्राप्य पुरुषवचसो लोके पुरुष इति वचो येषां ते पुरुषवचसो यथा भवन्ति तं क्रमं प्रकारं च वेत्थेत्येव श्रुतेः पदार्थः । उपरि प्रतिवचनबलात्प्रश्नार्थककिंयोगेन वेत्थ किमिति श्रुतेः पर्यवसितोऽर्थः । तथापि जातावेकवचनविवक्षया प्रवृत्तसूत्रमनुसृत्य अद्भिस्सम्परिष्वक्तो जीव इत्यादिव्याख्यानं च युक्तमिति ज्ञेयम् । पञ्चम्यामाहुतावित्यत्र ‘असौ वाव लोको गौतमाग्निः’ ‘पर्जन्यो वाव गौतमाग्निः’ ‘अयं वाव लोको गौतमाग्निः’ ‘पिता वाव गौतमाग्निः’ ‘योषा वाव गौतमाग्निः’ इति पञ्चभिर्वाक्यैः स्वर्गलोकादीनां योषिदन्तानां पञ्चानां पञ्चाग्नित्वं वर्णयित्वा तत्र तत्र देवैर्जीवस्य प्रापणमाहुतित्वेन वर्णयित्वा स्वर्गादर्वाक्क्रमेणाऽऽगतस्य जीवस्य योषिदाख्यपरमाग्नौ रेतोरूपेण जीवप्रापणरूपायां पञ्चम्यामाहुतौ कृतायां सत्यामित्यर्थः ।

श्री रघूत्तमतीर्थविरचितस् तत्त्वप्रकाशिका

भावबोधः

समन्वयाविरोधप्रतिपादनानन्तरं साधनविचारस्यानन्तर्यलक्षणां सङ्गतिं प्रतिपादयितुं भाष्ये अयं तृतीयाध्याय इत्युक्तमित्यभिप्रेत्य–

‘समन्वयाविरोधाभ्यां सञ्जाते वस्तुनिर्णये ।

किं मया कार्यमित्येव स्याद् बुद्धिरधिकारिणः ॥’

इत्यनुव्याख्यानानुसारेण भाष्याभिप्रायमाह– अथातो ब्रह्मजिज्ञासेत्यादिना ॥ अथब्रह्म-जिज्ञासापदाभ्यामिति ॥ अधिकारानन्तर्यार्थकाथशब्देन तद्विशेषणतया वैराग्यभक्त्यादेर् ब्रह्म-जिज्ञासापदेनापरोक्षज्ञानजनकश्रवणादिरूपोपासनायाश्च प्रतिपादनमिति मोक्षसाधनज्ञानस्य पदद्वयेन प्रतिपादनादिति भावः ।

वैराग्यतो भक्तिदाढर्््यं तेनोपासा यदा भवेत् ।

आपरोक्ष्यं ततो विष्णोरिति पादक्रमो भवेत् ॥

इत्यनुव्याख्यानं मनसि निधाय प्रथमपाद इति भाष्याभिप्रायमाह भगवत्प्रसाद इत्यादिना ॥ भूतावियोगसमर्थनादिति ॥ पूर्वसूत्रे येषां भूतानां वैशेष्येण विशेषव्यवहारः समर्थितः, तेषामत्र संपरिष्वक्त इति जीवावियोगसमर्थनादनन्तरसङ्गतिरिति भावः । यद्वा पूर्वाधिकरणे प्रकृतशरीरस्य ‘तदन्तरा’ इति तच्छब्देन परामर्शाद्वाऽनन्तरसङ्गतिर्द्रष्टव्या ॥ मुमुक्षुणेति ॥ अत्र जिज्ञासा-सूत्रोक्तवैराग्यादिकमननुष्ठेयमुतानुष्ठेयमिति चिन्ता । तदर्थं प्रसिद्धमरणस्य मोक्षत्वं युक्तमयुक्तं वेति । तदर्थं प्रसिद्धमरणे जीवस्य भूतवियोगोऽस्त्युत नास्तीति । तदर्थं भूतानि जीवेन सह न गच्छन्त्युत गच्छन्तीति ॥ नियतत्वादिति ॥ अनेन स्वाभाविकं मरणमेव मुक्तिरिति न्यायविवरणगत-स्वाभाविकपदतात्पर्यमुक्तं भवति । ‘मुक्तिसाधनत्वेन ज्ञानादिगुणाधिक्योपदेशात्’ इति न्यायविवरणं व्याचष्टे– आत्मा वेति ॥ ‘भूतविमोचनस्य मोक्षत्वेऽपि’ इत्यादिना ‘भूतवियोगस्यैवाभावात्’ इत्यन्तेन शरीरान्तरप्रतिपत्तौ भूतपरिष्वक्त एव गच्छतीति भाष्यस्य, मरणे भूतवियोगस्यैवा-भावादिति न्यायविवरणस्य च हेतुहेतुमद्भावापन्नार्थप्रतिपादकतयाऽर्थ उक्तो भवति ॥ शरीरान्तर-प्राप्त्यर्थत्वादिति ॥ अनेन सूत्रे तच्छब्दः पूर्वाधिकरणप्राप्तशरीरपरामर्शकः । सप्तमी च तादर्थ्य इत्युक्तं भवति ॥ अद्भिः संपरिष्वक्त इति ॥ अनेनापामेव पुरुषनामवत्वाभावात् श्रुतावप्शब्दो तद्युक्तजीवोपलक्षक इत्युक्तं भवति । स्पष्टं चात्र न्यायविवरणोदाहृतप्रमाणमाह– भूतयुक्त इति ॥

श्रीराघवेन्द्रतीर्थविरचितः

भावदीपः

अत्यादरेण यत्पादौ त्यक्तेतरसुखस्पृहाः ।

प्राज्ञा उपासते नित्यं तमुपासे श्रियः पतिम् ॥ १ ॥

वैराग्यवत्फलत्वभ्रान्तिं निराह ॥ प्रतिपाद्यमिति ॥ नन्वत्र साधनविचारे का पूर्वसङ्गतिः । मोक्षफलापेक्षित्वादधिकारिणो मोक्षफलेऽस्मिन् शास्त्रे तत्साधनविचारस्यादावेव कार्यत्वेनात्र करणे हेत्वभावाच्चेत्यतः ‘समन्वयाविरोधाभ्यां सञ्जाते वस्तुनिर्णये । किं मया कार्यमित्येव स्याद् बुद्धिरधिकारिणः’ इत्याद्युपासनापादीयाणुभाष्यदिशा तात्पर्यमाह ॥ अथात इति ॥ शास्त्रार्थे साधनफलब्रह्मरूपैतच्छास्त्रार्थ इत्यर्थः ॥ अध्यायशेषेणेति ॥ अध्यायश्च शेषश्च सर्वो द्वन्द्वो विभाषयैकवद्भवतीत्युक्तेः । यद्वा अध्यायसहितशेषेणेत्यर्थः । शास्त्रयोनित्वाद्यधिकरणत्रयेणानन्दमय इत्याद्यध्यायेन चेति यावत् । यद्वा तत्तु समन्वयावित्यारभ्याध्याय इति पक्षे आनन्दमय इत्याद्यध्यायशेषेणेत्यर्थः ॥ इत्याशङ्कायामिति ॥ तथा चात्रैवाकाङ्क्षोदयेन प्रथमं वस्तुस्वरूपस्यैवा-निर्धारणादिति भावः । अथब्रह्मजिज्ञासापदाभ्याम् उक्तानीति शेषः । अध्याहृतकर्तव्यपदेन विहितानीत्यर्थः । जिज्ञासापदोक्तश्रवणाद्यपेक्षया एतदुक्तिः । यद्वा अथपदोक्तवैराग्यभक्त्यादि-रूपाधिकारानन्तरं जिज्ञासा कार्येत्युक्ते विशिष्टकर्मविधिस्थल इव विशेषणेऽपि विधिसंस्पर्शा-द्विहितानीत्युक्तम् । वैराग्यादेर्विहितत्वं च स्वसाधनद्वारेत्यग्रे व्यक्तम् । एतेन भाष्ये प्रथमं प्रतिपाद्य प्रदर्शनं व्यर्थमिति प्रत्युक्तम् । वृत्तवर्तिष्यमाण सङ्गत्यर्थत्वादिति । कतिचिन्नयार्थत्वभ्रान्तिं निराह ॥ प्रथमपादार्थमिति ॥

ननु कथं वैराग्यस्य प्राथम्यं येन गत्यादिनिरूपणमादौ सङ्गतं स्यात् । कथं च वैराग्यस्य मोक्षसाधनत्वं कथं च गत्याद्युक्तेर्वैराग्यार्थत्वम् इत्यतो ‘वैराग्यतो भक्तिदाढर्््यं तेनोपासा यदा भवेत् । आपरोक्ष्यं ततो विष्णोरिति पादक्रमो भवेत्’ इत्युपासनापादीयानुभाष्यदिशाऽभिप्रायं वक्तुमाह ॥ भगवत्प्रसाद इति ॥ यतो नारायणप्रसादमृते न मोक्षस् तदभिध्यानादेव तु तल्लिङ्गादित्याद्युक्तेर्यस्य प्रसादादित्यादेश्चेति भावः ॥ स चेति ॥ प्रियो हि ज्ञानिनोऽत्यर्थं ज्ञानसंपत्त्या प्रसादस्तूत्तमो मतः न तादृशी प्रीतिरीड््यस्य विष्णोर्गुणोत्कर्षज्ञातरि यादृशी स्यादित्यादेः । तथा च चतुर्थपादे तद्विचार इति भावः । तर्हि तेनैवालमित्यत आह ॥ न च तदिति ॥ तच्चेति ॥ ‘आत्मा वा ओ द्रष्टव्यः श्रोतव्यो मन्तव्यः’ इत्यादेः प्रकाशश्च कर्मण्यभ्यासादिति वक्ष्यमाणत्वाच्च । तथा च तस्य तृतीयपादे चिन्तेति भावः ॥ भगवद्भक्त एवेति ॥ कुत इत्यतोऽध्ययनमात्रवत इत्यत्र भक्तेर्जिज्ञासाहेतुत्वस्यास्फुटत्वात्स्वयं युक्तिमाह ॥ अन्यस्येति ॥ भक्तिहीनस्येतरप्रहाणेन तदेकप्रावण्यरूपजिज्ञासानुपपत्तेरित्यर्थः । तथा च भक्तेर्द्वितीये चिन्तेति भावः । यद्यपि प्रसाद इव भक्तिर्मोक्षेऽपि हेतुः । अम्बुवदग्रहणात्तु न तथात्वम् । परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्ध इति च वक्ष्यमाणत्वात् । तथाऽनुबन्धादिभ्य इति वक्ष्यमाणदिशा अपरोक्षज्ञानेऽपि हेतुरेव । तथा चान्त्यपादे वा तृतीयपादे वा भक्तिविचारः प्रसक्तः । तथापि मोक्षे ज्ञाने जिज्ञासापर-पर्यायोपासनायां च हेतुरिति तत्त्रितयचिन्तातः पूर्वं द्वितीय एव तच्चिन्ता युक्ता । अन्यथा हि जिज्ञासायामहेतुरिति शङ्का स्यादिति भावः ॥ वैराग्येणेति ॥ अन्यत्र स्वर्गादौ । ‘अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते’ इत्यादेः । विज्ञाय जातवैराग्यो विष्णुपादैकसंश्रयः । ऊर्ध्वरेतस्सु च शब्दे हीत्यादेश्चेति भावः ॥ तदपि न पुरुषेति ॥ विषयसौन्दर्यासौन्दर्यज्ञानाधीनत्वाद्रागविराग-योरिति भावः ॥ शास्त्रादिसङ्गतिरिति ॥ एतत्सूत्राभावे वैराग्यादिकृत्स्नसाधनानामप्यननुष्ठानप्राप्त्या तदनुष्ठानसमर्थनद्वारा एतत्साधनाध्यायस्य वैराग्यादिप्रतिपादकैतच्छास्त्रस्य वैराग्यपरैतत्पादस्य चारम्भे प्रयोजकत्वादस्य नयस्य जिज्ञासासूत्रस्य शास्त्रेणेव शास्त्राध्यायपादैरौपोद्धातिकी सङ्गति-रित्यर्थः । यद्वा साधनाध्यायोपयुक्तकृत्स्नसाधनावश्यकत्वसाधकत्वात् तत्परशास्त्राध्यायपादान्तर्भाव-सङ्गतिरित्यर्थः । एवमग्रेऽपि कृतात्यय इति सूत्रपर्यन्तं शास्त्रादिसङ्गतिरित्यस्य द्वेधार्थो द्रष्टव्यः । भगवदिति शास्त्रे साधनेत्यध्याये वैराग्यायेति पादे सङ्गत्युपपादनम् । एवमग्रेऽपि ॥ प्राप्ति-साधनेति ॥ परम्परयेति भावः । एवमग्रेऽपि बोध्यम् । वैराग्याय वैराग्याद्यर्थमित्यर्थः । प्रसादादि-वैराग्यान्तमित्याद्युत्तरवाक्यात् । पूर्वेण सङ्गतत्वं चिन्ताफलं च व्यनक्ति ॥ यदाद्येति ॥ एवमग्रेऽपि । किं साधनैरिति भाष्यानुरोधादाह ॥ भगवत्प्रसादादीति ॥ प्रसादापरोक्षज्ञानजिज्ञासा-भक्तिवैराग्यान्तमित्यर्थः ।

नन्वेवं वैराग्यादिसर्वसाधनविचारारम्भप्रयोजकतया साधनाध्यायान्तर्भावेऽपि जिज्ञासासूत्रस्य नामपादानन्तर्भाववदस्य नयस्य वैराग्यपादानन्तर्भावः स्यादिति चेन्न । अध्यायाद्यारम्भप्रयो जकत्वेऽपि एकदेशवैराग्यप्रयोजकस्य भूतादियोगेन स्वर्गादिगतिप्रतिपादनपरत्वस्यापि सत्त्वेन स्मृतिनयवत्पादान्तर्भावसम्भवात् । अतः वैराग्यान्तमित्युक्तिः ॥ प्राचीनेति ॥ जिज्ञासासूत्रे अथब्रह्मजिज्ञासापदाभ्यामुक्तिरित्यर्थः ॥ किं चात इति ॥ अतश्च किमित्यर्थः । ननु मृत्यर्थमपि साधनमनुष्ठेयमेवेत्यतः स्वाभाविकं मरणमेव मुक्तिरित्यन्यत्रोक्तस्वाभाविकपदभावमाह ॥ नियतत्वादिति ॥ अत इति ॥ स्वाभाविकमृतेरेव मुक्तित्वादित्यर्थः । पादान्तर्भावद्योतनायोक्तम् ॥ वैराग्येति ॥ उक्तमिति ॥ जिज्ञासासूत्रोक्तमित्यर्थः ॥ शास्त्रं चेदमिति ॥ मोक्षार्थं प्रवृत्तमित्यर्थः । मुक्तेरनायासलभ्यत्वादिति भावः । नन्वेवमेतत्सूत्रस्याभावे शास्त्रारम्भासिद्ध्या जिज्ञासासूत्रस्येवा-स्यापि शास्त्रारम्भप्रयोजकत्वेन शास्त्रादावेव निवेशः स्यादिति चेन्न । साधनाक्षेपसमाधिद्वारैव शास्त्राक्षेपसमाधिप्रयोजकत्वादस्य जिज्ञासा सूत्रस्येव साक्षाच्छास्त्रारम्भाप्रयोजकत्वात् । अत एवास्य साधनाध्यायादौ निवेश इति ।

मुक्तिसाधनत्वेन ज्ञानादिगुणाधिक्योपदेशादित्यन्यत्रोक्त्यनुरोधेन परिष्कारपूर्वम् उक्तशङ्का-निवर्तकतया सूत्रभाष्ये व्याचष्टे ॥ अपेक्षितमेवेति ॥ उक्तेति ॥ यतो मरणमेवेत्यादिनोक्तेत्यर्थः । मरणे भूतवियोगस्यैवाभावादित्यन्यत्रोक्तं संयोजयति ॥ मरण इति ॥ तदन्तरप्रतिपत्तावित्यंश-स्योपयोगं व्यनक्ति ॥ न च वाच्यमिति ॥ भूतानामिति ॥ एतेन भाष्ये भूतैस्संपरिष्वक्त इति विग्रहः सूत्रे च भूतैरिति चान्वेति । तेषां पूर्वत्र प्रकृतत्वात् । अन्यथा एकस्यानारम्भकत्वेन शरीरान्तरप्रतिपत्तावित्यस्यायोगादिति सूचितम् । एतद्भूतैः सह गमनम् । यथेत्यस्यार्थद्वयमाह ॥ येन क्रमेणेति ॥ व्यक्तमेतद् बृहदारण्यकेऽष्टमेऽध्याये च्छान्दोग्ये च पञ्चमे । श्रौताप्शब्दार्थमाह ॥ अद्भिरिति ॥ ननु भाष्योक्तश्रुतौ स्वर्गादिलोकाद्योषिद्रूपपञ्चमाग्निं प्रत्यागमन एव भूतपरिष्वङ्गो जीवस्य गम्यते न तु इतः स्वर्गादिलोकं प्रति गतौ । अत्र हि असौ वाव लोको गोतमाग्नि-स्तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वतीत्यादिना द्युपर्जन्यपृथिवीपुरुषयोषासु पञ्चसु आहुति-स्थानत्वेनाग्निशब्दितासु स्वकृतभोगप्रदित्सयोत्क्रामितेष्टादिकृत्पुरुषपरिष्वङ्गिन्य आपः क्रमेण श्रद्धा-सोमवर्षान्नरेतः सम्पर्कात्तच्छब्दोदितस्याबुपलक्षितजीवस्य होमशब्दितस्थापनं श्रूयते । तथा च कथं भूतपरिष्वक्त एव गच्छतीत्यर्थे साक्षिणीयं श्रुतिरित्यतो न्यायविवरणोक्तस्पष्टवचनमाह ॥ भूतयुक्त इति ॥ भूतानां विनिवृत्तिस्त्विति स्मृतिस्तु भागविषयेत्यग्रे व्यक्तमिति भावः ॥ अत इति ॥ जीवस्य भूतवियोगाभावादित्यर्थः ।

श्रीसत्यनाथतीर्थविरचित

अभिनवचन्द्रिका

वैराग्यज्ञानसिध्यर्थं रामं दिग्विजये रतम् ।

नमामि परया भक्त्या पूर्णबोधेष्टदैवतम् ॥ १ ॥

नौमि सत्यनिधिं यस्माल्लेभिरे बहवः श्रियम् ।

कोपाभावात्कोऽपि शापं न लेभे तं दयानिधिम् ॥ २ ॥

एतदध्यायप्रतिपाद्यमिति ॥ ‘ब्रह्मस्वरूपनिरूपणेऽनवशेषात्किमध्यायशेषेणे त्यत’ इति वर्तते । ततश्चैवं योजना पूर्वाऽध्यायाभ्यां ब्रह्मस्वरूपस्य निरूपितत्वेन ब्रह्मस्वरूपनिरूपणेऽनवशेषाद् अध्यायसंज्ञकेन किमनेन शास्त्र शेषेणेत्यत एतदध्यायप्रतिपाद्यं तावद्दर्शयतीति । साधनविचारस्यापि ब्रह्मविचाराऽनुबन्धित्वेन ब्रह्मविचारत्वात् तस्य चाऽवशिष्टत्वाद् ब्रह्मविचारस्य नानवशेष इति भावः ॥ प्रथमपादार्थमिति ॥ ‘तर्ह्यध्यायस्यैकार्थत्वात् पादभेदः किं निबन्धन इत्यत’ इति वर्तते ‘साधनेऽप्यवान्तरभेदेन पादभेद उपपन्न इति भावेन’ इति ग्राह्यम् । तस्य प्रथमपादार्थं दर्शयती-त्यनेन सम्बन्धः ॥ भगवद्भक्तिश्चेति ॥ यद्यपि माहात्म्यश्रवणेनैव भक्तिर्भवतीति माहात्म्यमेव प्रथमतो वक्तव्यम्, तथापि माहात्म्यश्रवणेन भक्तिमात्रं भवति, वैराग्यसहितमाहात्म्यश्रवणेन तु सुदृढनिरूढैव भक्तिरुत्पद्यते । सैव च मोक्षसाधनमिति निरूढभक्त्युत्पादनार्थं वैराग्यमेवाऽऽदाव-पेक्षितमित्यर्थः । एतेन माहात्म्यश्रवणं भक्त्युत्पादकत्वात् प्रधानं, वैराग्यं तु उत्पन्नभक्तेर्दार्ढ्या-पादकत्वादप्रधानमिति न तस्य प्राथम्यं युक्तमिति परास्तम् । माहात्म्यश्रवणवद् वैराग्यस्यापि भक्तिहेतुत्वाङ्गीकारात् । अयं भावः माहात्म्यश्रवणं भवत्येव भक्तिसाधनं, वैराग्याभावेऽपि भक्तिं जनयत्येव, किं नाम अदृढां भक्तिं जनयति, न तु वैराग्यलक्षणसहकारिसंपत्तिमपेक्षते । वैराग्यमापद्य माहात्म्यश्रवणे तु सुदृढां मोक्षपर्यवसायिनीं भक्तिं जनयतीति आदावेव वैराग्य-मापादनीयम् । तद्यथा लोके दानशीलो महाराजो याचकेभ्यः प्रेरकव्यापारमनपेक्ष्यैवाऽर्थं ददाति तत्तत्स्वरूपाभिज्ञप्रेरितस्तु विशिष्टमर्थं ददाति । अत एव याचकाः प्रेरकसहभावदशायामेव राजदर्शनं कामयन्ते, न तु तदभावदशायामिति । प्राचीनोक्तिरिति ॥ प्रथमसूत्रे साधनानां कर्तव्यत्वोक्तिः । तथा वैराग्यादिसाधनसद्भावेऽपि मरणरूपमोक्षादर्शनं तदभावेऽपि मरणदर्शनं च संदेहबीजमित्यर्थः । एतेन मोक्षदर्शनायोग्यत्वेन तत्कार्यकारणभावग्रहे अन्वयव्यतिरेकयोरनुपयोगात् तदभावविधानमयुक्तमिति परास्तम् । इह मरणमेव मोक्ष इति मन्यमानस्य सन्देहाङ्गीकारादिति भावः ॥ इत्यर्थ इति ॥ अभिप्रेतार्थ इत्यर्थः ॥ मरणे भवतीति ॥ अन्तर्भवति तदात्मकमिति यावत् । एतेन भाष्ये ‘मरणे भवति’ इति मरणभूतवियोगयोर् भेदमुक्त्वा ‘भूतानां विनिवृत्तिः’ इति तयोरभेदे प्रमाणोदाहरणमयुक्तमिति परास्तम् । ‘मरणे भवति’ इति भाष्येण तयोरैक्यस्यैवाभि-हितत्वात् । मरणे भूतवियोगस्यैवाऽभावादिति ॥ यावद्भूतवियोगस्य मरणत्वेऽपि यत्किञ्चिद्भूत-वियोगरूपमरणे यावद्भूत वियोगाभावादित्यर्थः । ननु सूत्रे प्रश्ननिरूपणाभ्यामित्ययुक्तं प्रश्नस्याऽ-साधकत्वादित्यत आह– क्रमं प्रकारं चेति ॥ नाऽत्र प्रश्नो भूतपरिष्वङ्गविषयः किंनाम होमे क्रमप्रकारविषयः । ततश्च प्रश्नवाक्यस्य क्रमाद्यंशे प्रामाण्याभावेऽपि भूतपरिष्वङ्गांशे प्रामाण्यमुपपद्यत एवेति भावः ॥ परिहाराच्चेति ॥ परिहारवाक्यादित्यर्थः ।

पूर्वपक्षस्तु नाऽनुष्ठेयमेव साधनम् । फलार्थं हि साधनमनुष्ठेयम् । फलं च बन्धनिवृत्तिर् न मरणादतिरिच्यते । ‘भूतबन्धो हि बन्धः स्यान्मुक्तिस्तेभ्यो विमोचनम् । भूतानां विनिवृत्तिस्तु मरणं समुदाहृतम्’ इति वचनात् । न च मरणार्थमवसाधनमनुष्ठेयम् । वैराग्याद्यननुष्ठानेऽपि मरणदर्शनात् । ततश्च शास्त्रमपीदं व्यर्थमिति ।

सिद्धान्तस्तु अनुष्ठेयमेव वैराग्यादि । बन्धनिवृत्तिरूपफलसद्भावात् । न च मरणमेव बन्धनिवृत्तिः । मरणे भूतसंपरिष्वक्तस्यैव जीवस्य गमनाङ्गीकारात् । न च तत्र प्रमाणाभावः – ‘वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इति प्रवाहण प्रश्नवाक्ये ‘इति तु पञ्चम्याम्’ इति तस्यैव परिहारवाक्ये च मृतस्य भूतपरिष्वङ्गाभिधानात् । ‘भूतानां विनिवृत्तिस्तु’ इति वचनं तु भूतभागविनिवृत्त्यभिप्रायमिति न तद्विरोधः । अतो मरणमात्रेण मोक्षाऽयोगाद् अनुष्ठेयमेव साधनमिति सार्थकमेव शास्त्रमिति सिद्धम् ।

ताम्रपर्णी श्रीनिवासाचार्यविरचिता

वाक्यार्थमुक्तावली

भूतवियोग इति ॥ पूर्वाधिकरणे प्रकृतभूतसम्परिष्वक्त इति परिष्वङ्गप्रतियोगित्वं परामृश्य तदवियोगसमर्थनादनन्तरसङ्गतिरिति भावः । ननु भगवत्प्रसादादिवैराग्यान्तसाधनस्यानुष्ठेयत्वसमर्थने वैराग्यपादान्तर्भाव इवास्याधिकरणस्य भक्तिपादान्तर्भावःप्राप्त इति चेन्न । साधनजातस्य सार्थक्योपपादनेऽपि गतिप्रकारनिरूपणेन विरागोत्पादनाद्विशिष्य पादसङ्गत्युपपत्तेः । अनुष्ठेयं न वेति । तत्साधनं प्रयत्नेन सम्पाद्यं न वेत्यर्थः । अत्र वैराग्यादिसाधनमनुष्ठेयमुताननुष्ठेयमिति चिन्ता । तदर्थं प्रसिद्धमरणस्य मोक्षत्वं युक्तमयुक्तं वेति । तदर्थं गत्यर्थं प्रसिद्धमरणे जीवस्य भूतवियोगोऽ-स्त्युत नास्तीति ॥ प्राचीनोक्तिरिति ॥ जिज्ञासाधिकरणे साधनानामनुष्ठेयत्वोक्तिरित्यर्थः । तच्च मरणे भवतीत्यस्य तद्भूतविमोचनं मरणे मरणकाले वैराग्यादिसाधनमन्तरा मरणावस्थासामग्री-स्वभावत एव भवतीत्यर्थः । भूतानां विनिवृत्तिस्तु मरणमित्यत्र मरणपदेन मरणावस्थोच्यते । अतो न विरोधः । अनेनैव भाष्येण स्वाभाविकेति पूर्वपक्षन्यायोऽपि सूचित इति भावेनोक्तं तच्च नियतत्वान्न साधनसापेक्षमिति ॥ शास्त्रं चेदमिति ॥ ज्ञेयप्रतिपादनपरमध्यायद्वयात्मकं ज्ञानसाधन-परमेकाध्यायात्मकं कर्मक्षयोत्क्रान्त्यादिप्रतिपादकमेकाध्यायात्मकमित्यर्थः । सूत्रस्य बाधकोद्धार-कत्वात्सिद्धान्तफलं तत्साधकं गुणाधिक्यस्येति न्यायं चाह– तद्विधानादिति ॥ मुक्तिसाधनत्वेन ज्ञानभक्त्यादिगुणाधिक्यस्योपदेशादित्यर्थः ॥ अपेक्षितमेवेति ॥ सूत्रे जीवादित्यर्थादन्वेति । तदन्तरेत्युक्तिमहिम्ना पूर्वशरीरं परित्यज्य गच्छन्निति लभ्यते । मांसादिभौममित्यादिप्रस्तुतत्वा-द्भूतैरित्यन्वेति । पूर्वसूत्रादवधारणार्थकतुशब्दानुवृत्त्या सम्परिष्वक्त एवेति सिद्ध्यति । तथा च जीवः पूर्वशरीरं हित्वा गच्छन्सम्परिष्वक्त एव रंहति गच्छतीति सूत्रखण्डार्थमाह ॥ न चोक्तेत्यादिना ॥ तदन्तरेत्यत्र तच्छब्देन प्रकृतमूर्तिपरामर्श इति भावेन व्यावृत्तिपूर्वं व्याचष्टे ॥ न च वाच्यमिति ॥ पञ्चम्यामाहुतौ हुतायामिति । योषाग्नाविति ग्राह्यम् । आप इत्यस्यार्थोऽद्भिरिति । आगतौ भूतबन्धश्रवणाद् गतौ च न लभ्यते । अतः स्पष्टं च प्रमाणमाह । भूतयुक्त इति ॥

पाण्डुरङ्गि श्रीनिवासाचार्यविरचिता

तत्त्वसुबोधिनी

समन्वयाविरोधप्रतिपादनानन्तरं साधनविचारस्यानन्तर्यलक्षणां सङ्गतिं प्रतिपादयितुं भाष्येऽयं तृतीयाध्याय इत्युक्तमित्यभिप्रेत्य तदभिप्रायमाह ॥ अथातो ब्रह्मजिज्ञासेत्यादिना ॥ तर्ह्यध्याय-शेषवैय्यर्थ्यमित्यत आह ॥ तदिति ॥ ब्रह्मस्वरूपमित्यर्थः । द्वितीयप्रयोजनमाह ॥ तत्रेति ॥ ब्रह्मस्वरूपविषय इत्यर्थः ॥ अथब्रह्मजिज्ञासापदाभ्यामिति ॥ अधिकारानन्तर्यवाचकाथशब्देन तद्विशेषणतया वैराग्यभक्त्यादेर् ब्रह्मजिज्ञासापदेनापरोक्षज्ञानजनकश्रवणादिरूपोपासनायाश्च प्रतिपादनादिति मोक्षसाधनजातस्य पदद्वयेन प्रतिपादनमिति भावः । नन्वस्याध्यायस्य साधनमात्रविचारात्मकत्वात् साक्षान्मोक्षसाधनीभूतापरोक्षज्ञानप्रसादावेव प्रथमतो निरूपणीयौ । न वैराग्यं, न वा तदर्थं गत्यादिकम् । न च तयोः पुरुषप्रयत्नागोचरत्वादविधानमिति वाच्यम् । एवं हि तत्साधनश्रवणमननरूपजिज्ञासाविधानस्यैवोचितत्वात् । न च तत्र भक्तस्यैवाधिकारित्वाद्यादृश-तादृशभक्तेश्चाधिकारानुपयोगित्वात् तद्दार्ढ्यमपेक्षितं, तस्य च वैराग्यं विनाऽयोगात् तन्निरूपणमिति वाच्यम् । तथात्वे तन्निरूपणस्योचितत्वाद् गत्यादिनिरूपणस्यासङ्गतत्वादित्यत आह ॥ भगव-त्प्रसाद इति ॥ भावयतः गत्यादेर् दुःखरूपत्वं ध्यायतः ।

भूतवियोगसमर्थनादिति ॥ पूर्वसूत्रेण येषां भूतानां वैशेष्येण विशेषव्यवहारः समर्थितस् तेषा-मत्र सम्परिष्वक्त इति जीवावियोगसमर्थनादनन्तरसङ्गतिरिति भावः । यद्वा पूर्वाधिकरणे प्रकृत-शरीरस्य तदन्तरेति तच्छब्देन परामर्शादनन्तरसङ्गतिर्द्रष्टव्या ॥ प्राचीनोक्तिरिति ॥ वैराग्यादि-साधनानां मोक्षसाधनत्वोक्तिः । सति वैराग्यादौ मोक्षः, तदभावेऽभाव इत्यन्वयव्यतिरेकादर्शना-दित्यर्थः ॥ उक्तमयुक्तमिति ॥ वैराग्यादेर्मोक्षसाधनत्वं यदुक्तं तदयुक्तमित्यर्थः ॥ शरीरान्तरेति ॥ अनेन सूत्रे तच्छब्दः पूर्वाधिकरणे प्राप्तशरीरपरामर्शकः सप्तमी च तादर्थ्ये इत्युक्तं भवति । यथेत्यस्य व्याख्यानद्वयं क्रमेण प्रकारेण चेति ॥ अद्भिस्सम्परिष्वक्त इति ॥ अनेनापामेव पुरुषनामत्वाभावात् श्रुतावप्शब्दस् तद्युक्तजीवोपलक्षक इत्युक्तं भवति । स्पष्टं चात्र प्रमाणमाह ॥ भूतयुक्त इति ॥

श्रीनिवासतीर्थविरचितम्

वाक्यार्थविवरणम्

भक्त एवेति ॥ तथा च भक्त्यर्थं वैराग्यमपेक्षितमिति भावः । ननु भगवद्भक्तिस्तन्माहात्म्य-श्रवणेनैव भविष्यति किं वैराग्येणेत्यत आह ॥ दृढेति ॥ यथोक्तम् , ‘वैराग्यतो भक्तिदाढर्््यम्’ इति ॥ भावयतः विचारं पुनः पुनः कुर्वतः ॥ अवियोगः सम्बन्धः । यदि जीवस्य मरणे भूतसम्बन्धो न स्यात्तदा भूतसम्बन्धमोचनस्यैव मुक्तित्वेन तस्य च मरणे स्वत एव नियमेन जायमानतया किं तदर्थं वैराग्यादिसाधनेनेति ॥ तत्साधनमेव वैराग्यादिसाधनमेव ॥ प्राचीनोक्तिर् अथातो ब्रह्म-जिज्ञासेत्युक्तिः ॥ अन्वयेति ॥ वैराग्याद्यनुष्ठाने मोक्षः, तदभावेऽभाव इत्यन्वयव्यतिरेकयोर-दर्शनमित्यर्थः ॥ तच्चेति ॥ एतदपाकुर्वन्नेवोत्तरवाक्यमवतारयति ॥ भूतविमोचनमिति ॥ नियतत्वादिति ॥ ‘अद्य वाऽब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः’ । ‘जातस्य हि ध्रुवो मृत्युः’ इत्यादिभिर्मरणस्य नियतत्वावगमादित्यर्थः ॥ उक्तम् ॥ अथात इति सूत्रोक्तं वैराग्यादेरनुष्ठेयत्वम् ॥ शास्त्रम् ॥ वैराग्यादेरनुष्ठेयत्वप्रतिपादकम् ।

शर्करा श्रीनिवासाचार्यविरचिता

वाक्यार्थमञ्जरी

वैराग्यभक्तिश्रवणमननध्यानयोगतः ।

सद्भिर्ज्ञेयं भजे मध्ववल्लभं कमलापतिम् ॥

शास्त्रार्थ इति ॥ ब्रह्मणो मोक्षार्थज्ञेयत्वस्यैव सर्वशास्त्रार्थत्वादिति भावः ॥ तदिति ॥ द्वितीयसूत्रोक्तं जगत्कारणत्वेन गुणपूर्णत्वमित्यर्थः ॥ अथ ब्रह्मजिज्ञासेति ॥ अधिकारा-नन्तर्यार्थकाथशब्देनाधिकारिविशेषणतया वैराग्यभक्त्यादेर् ब्रह्मजिज्ञासापदेनापरोक्षज्ञानजनक-श्रवणादिरूपोपासनायाश्च प्रतिपादनादिति भावः । वर्तिष्यते प्रवर्तयिष्यते । ननु मोक्षाय वैराग्यमेव कुतः यदर्थं गत्यादिनिरूपणमित्यत आह ॥ भगवत्प्रसाद इत्यादिना ॥ अनेन प्रथमसाधनत्वा-द्वैराग्यं प्रथमपादे निरूप्यते । तत्साध्यभक्तिर्द्वितीये, तत्साध्योपासना तृतीये, तत्साध्यज्ञानं चतुर्थ इति पादक्रमः सूचित इति ध्येयम् । भावयतः पुनः पुनर्विचारयतः ॥ न साध्यतेति ॥ अन्यथा भूतवियोगस्यैव मोक्षत्वेन तस्य मरणे सति स्वत एव लब्धत्वेन साधनवैय्यर्थ्यापत्तेरिति भावः ॥ प्राचीनोक्तिरिति ॥ अथब्रह्मजिज्ञासापदाभ्यां साधनस्यानुष्टेयत्वोक्तिरित्यर्थः ॥ अन्वयव्यति-रेकेति ॥ सति प्रसादादिसाधने मोक्षो ऽन्यथा नेत्यदर्शनमित्यर्थः । उक्तम् अथब्रह्मजिज्ञासा-पदाभ्यामिदं मोक्षफलकम् ।

जीवः मृतिकाले संपरिष्वक्तः भूतैः सम्बद्ध एव रंहति गच्छति किमर्थं तदन्तरप्रतिपत्तौ तदन्तरस्य देहान्तरस्य प्रतिपत्तौ प्राप्त्यर्थं कुतः वेत्थ यथेति प्रश्नवाक्यात्, इति त्विति परिहार-वाक्याच्च तथावगमादित्यर्थः । प्रवाहणस्य राज्ञस् तत्पित्रा उद्दालकेन प्रवाहणेन पृष्टः श्वेतकेतुः स्वस्य परिहारासामर्थ्ये स्वपितरमागत्य तस्मै तन्न्यवेदयत्, पिता च स्वेनापि तदज्ञानात् पुत्रेण सह प्रवाहणं प्राप्य श्वेतकेतुं प्रति कृतप्रश्नपरिहारं त्वमेव कुर्विति तं प्रत्युवाच । ततः प्रवाहणः स्वकृतप्रश्नोत्तरं स्वयमेव तावुभौ प्रति जगादेति छन्दोगे पञ्चमे प्रसिद्धम् । संपरिष्वक्त एव गच्छतीति गमनकाले सम्बन्धाभावे प्रश्नपरिहारोक्तगमनकालीनतत्सम्बन्धानुपपत्तेरिति भावः । अत्रैव स्पष्टं प्रमाणमाह ॥ भूतयुक्त इति ॥

॥ इति तदन्तराधिकरणम् ॥ १ ॥