१३ मांसाधिकरणम्

ॐ मांसादि भौमं यथाशब्दमितरयोश्च ॐ

१३. अथ मांसाधिकरणम्

सूत्रभाष्यम्

‘अद्भ्यो हीदमुत्पद्यते आपो वाव मांसमस्थि च भवत्यापः शरीरमाप एवेदं सर्वम्’ इति कौण्डिन्यश्रुतिः ।

‘अम्मयं तु यतो मांसमतस्तृप्तिश्च मांसत’ इति च भारते ।

‘पृथिवी शरीरमाकाशमात्म’ इति (बृ.उ. ५-२-१३) च श्रुतिर् अतो ब्रवीति–

॥ ॐ मांसादि भौमं यथाशब्दमितरयोश्च ॐ ॥ २२ ॥

‘यत्कठिनं सा पृथिवी यद्द्रवं तदापो यदुष्णं तत्तेज’ इति श्रुतेर्मांसाद्येव भौमं न सर्वशरीरम् । अप्तेजसोश्च कार्यं यथाशब्दमङ्गीकर्तव्यम् ॥ ‘यद्वावाथो विमिश्रं मिश्राद्ध्येतद्भवति मिश्राणि हि भूतानि तस्मादेवैवमाचक्षते भूतानीति’ इति हि काषायणश्रुतिः ।

‘पञ्चभूतात्मकं सर्वं तथाऽप्येकविवक्षया ।

एकभूतात्मकत्वेन व्यवहारस्तु वैदिके ।

भौममित्येव काठिन्याच्छौक्ल्यादौदकमित्यपि ।’

॥ इति मांसाधिकरणम् ॥

तत्त्वप्रकाशिका

अत्रेश्वरे जगत्कारणे श्रुतिसमन्वयसिद्ध्यर्थं शरीरकारणविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादि सङ्गतिः । जगत्कारणे हरावुक्तः श्रुतिसमन्वयो देहकारणश्रुतीनां विरोधेनाप्रामाण्येऽनुपपन्नः प्राप्नोतीत्यवश्यमसौ परिहर्तव्यः । प्रकृतो देह एवात्र विषयः । किमाप्यः किं वा पार्थिव उत तैजसो भूतत्रयात्मको वेति सन्देहः । लेशतः सन्देहबीजं दर्शयन्पूर्वपक्षं सूचयति ॥ अद्भ्य इति ॥ ‘अद्भ्यो हीदम्’ इति प्रतिज्ञा आप इत्युपपादनम् । आप एवेति निगमनम् । श्रुतिराप्यत्वं शरीरस्य वक्तीति शेषः । ‘पृथिवीं शरीरमप्येति’ इति श्रुतिः शरीरस्य पार्थिवत्वमाह । कार्यस्य स्वकारण एवाप्ययनियमात् । आकाशं परमात्मानम् । तैजसत्वेऽपि श्रुतिः ‘सोऽग्नेर्देवयोन्या आहुतिभ्यः सम्भूय हिरण्यशरीर ऊर्ध्वं स्वर्गलोकमेति’ इति । भूतत्रयात्मकत्वं च श्रूयते ‘इमास्तिस्रो देवताः पुरुषं प्राप्य’ इत्यादौ । आप्यमिति तावत्प्राप्तम् । ‘आपो वाव मांसम्’ इति श्रुतेः । न च श्रुत्यन्तरविरोधः । मांसादौ तृप्तिजनकत्वदर्शनेनाप्यत्वश्रुतेर्युक्तियुक्तत्वात् । अपां हि तर्पकत्वं धर्मः । पार्थिवमित्यपरः पक्षः ‘पृथिवी शरीरम्’ इति श्रुतेः । काठिन्यगन्धवत्त्वादित्युक्तेश्च । तैजसमित्यन्यः । तथा श्रवणा-दौष्ण्यदर्शनाच्च । सर्वथा श्रुतोऽपि न चतुर्थः पक्षो युक्तः । शरीरे भूतानां मिश्रतायामभ्युपेताया मापः शरीरमित्यादिविशेषोक्त्ययोगान्मिश्रत्वादेव । न हि बहुषु विद्यमानेषु कारणविशेषं विनात्र देवदत्तो विद्यत इति विशेषोक्तिर्दृष्टा । न चात्र कारणविशेषं पश्यामः । अतो विरोधेन कासांचित् श्रुतीनाम-प्रामाण्यान्न विष्णौ जगत्कारणे श्रुतिसमन्वयो युक्त इति भावः । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ यच्छरीरे कठिनं मांसादि तदेव पार्थिवं न सर्वशरीरं किं तर्ह्यप्तेजसोश्च कार्यं शरीरेऽस्थिशोणितमज्जादीत्यङ्गीकार्यम् । यत्कठिनमिति श्रुतेः । एवमङ्गीकारस्यैव यथाशब्दत्वादिति भावः । अयं चैकपक्षप्रतिषेधः । इतरावपि पक्षावेवं निषेध्यौ ।

ननु कथं मांसस्य पार्थिवत्वमुच्यते । ‘आपो वाव मांसम्’ इति श्रुतेर्युक्तेश्चेत्यतो वाह ॥ अप्तेजसोश्चेति ॥ न मांसादीनां केवलपार्थिवत्वं किं नाम तत्राप्तेजसोश्च कार्यमङ्गीक्रियते शब्दवशात् । अतो मांसस्याप्यत्वोक्तिर्युक्तेति भावः । कोऽसौ शब्दो यतो मांसादीनां नैकभूत-कार्यत्वमिति तं दर्शयति ॥ यदिति ॥ भूम्यादिभूतानां स्वत एव मिश्रत्वान्नैकभूतत्वं मांसादीनां सम्भवतीति विज्ञायते । तस्मात्सम्भूतत्वान्मांसादीनामनेकभूतकार्यत्वात्तदपेक्षयाप्यत्वाद्युक्तिर्युक्तेति । उक्तार्थे स्मृतिं चाह ॥ पञ्चेति ॥ तेजिष्टत्त्वात्तैजसं च यथाऽस्थ्नां वचनं श्रुतौ’’ इति वायुप्रेाक्ते ।

गुर्वर्थदीपिका

आकाशमात्मेत्यत्र आत्मा शरीरान्तर्गतो जीवः । इमास्तिस्रो देवता इत्यत्र तेजोऽबन्नात्मिकाः पुरुषं जीवं प्राप्य देहरूपेण प्राप्येत्यर्थः ।

भावबोधः

शरीरकारणविषयेति ॥ पूर्वाधिकरणे देहादेः कर्तोक्तः । इह तु उपादानं चिन्त्यत इत्यनन्तर-सङ्गतिरिति भावः ॥ किमिति ॥ अत्र देहः किं पृथिव्याद्येकैकभूतमात्रोपादानक उत भूतत्रयो-पादानक इति चिन्ता । तदर्थं भूतत्रयोपादानकत्वं पृथिवीशरीरमित्यादिश्रुतिविरुद्धं न वेति । तदर्थं पृथिवीमित्यादिश्रुतिः काठिन्यतर्पकत्वरूपयुक्तियुक्तत्वेन निरवकाशोत सावकाशेति । तदर्थं देहस्य भूतत्रयात्मकत्वेऽप्याप्यत्वादिश्रुत्यादिकं तत्तद्भूतभागाधिक्येन नोपपद्यत उतोपपद्यत इति । तदर्थं तत्र विशेषप्रमाणं नास्त्युतास्तीति । द्वितीयनिवर्तनीयपरं मिश्रत्वाद्भूतानां मिश्रतायामपि विशेष इति न्यायविवरणं योजयति– शरीरे भूतानामिति ॥ न्यायविवरणे शेषोक्तिरियम् । अविशेष इत्यस्यार्थो विशेषोक्त्ययोगादिति ॥ ‘अस्थि च भवत्याप असृग्वाव तेजो मज्जाविशेषतः’ इति प्रमाणानु-सारेणाप्तेजसोश्चेति भाष्यं व्याचष्टे– अप्तेजसोश्चेति ॥ कार्यमिति शेषोक्तिः । इतरावपि पक्षाविति । यच्छरीरे द्रवं तदेवाप्यं सर्वशरीरम् । यच्छरीरम् उष्णं मज्जादि तदेव तैजसं न सर्वशरीरमिति इतरावपि पक्षौ प्रतिषेध्यावित्यर्थः ।

भावदीपः

पूर्वसङ्गतिमाह ॥ प्रकृत इति ॥ तत्त्वप्रदीपे तु एवमस्य प्राणस्य भविष्यद्ब्रह्मणः श्रुतिस्मृतिसिद्धं त्रिवृत्कुर्वतः परमादनन्तरभाविस्त्रष्टृत्वमनुसन्दर्श्य त्रिवृत्कृतैर्भूतैरारभ्यमाणं शरीरमधिकृत्य विचार्यते । भूतसृष्टिं जीवस्वरूपं चोक्त्वा तस्य भोगसाधनानां प्राणानां स्वरूपं निगद्य तदाधारभूतं मुख्यप्राणं चानुवर्ण्य तैर्भूतैस्त्रिवृत्कृतैरारभ्य तस्य जीवस्य प्राणस्य भोगायतनं शरीरस्वरूपं निरूपयतीति श्लिष्यते । तस्मादुत्क्रान्तस्य संसारिणो गत्यादिनिरूपणा समीपे करिष्यत इत्युक्तम् । भाष्ये कोटिद्वयसंशयबीजप्रदर्शनेऽपि स्वर्गस्थानां शरीराणामिति वक्ष्यमाणस्मृत्यनुरोधेन कोट्यन्तर-बीजस्याप्यूहतात्पर्यावगमात् सिद्धान्तकोटिबीजस्याग्रे भाष्ये वक्ष्यमाणदिशा सुज्ञानत्वाच्चतुष्कोटिक-संशयमाह ॥ किमाप्य इति ॥ अपौनरुक्त्यायाह ॥ अद्भ्यो हीति ॥ अप्येतीति ॥ यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यं मनश्चन्द्रमसं दिशः श्रोत्रं पृथिवीं शरीर-माकाशमात्मेति बृहदारण्यके पूर्वत्र प्रकृतमप्येतीति पदमत्राप्यन्वेतीति भावः । भाष्ये शेषं पूरयति ॥ इति श्रुतिरित्यादि ॥ आकाशस्यात्मोपादानत्वभ्रान्तिं निराह ॥ परमात्मानमिति ॥ आत्मा-जीवोऽप्येति । इतरैरदृश्यः सन् प्रविशतीत्यर्थः । स्वं कुलायं यथा पीतः पक्षी स्यादेवमीश्वरम् अप्येति जीवः प्रस्वापे मुक्तौ चान्योऽपि सन् सदेत्यादितत्वनिर्णयोक्तेः । सोऽग्नेरिति बह्वृचब्राह्मण-वाक्यम् । श्रूयते छान्दोग्ये षष्ठे ॥ तथेति ॥ सोऽग्नेरिति श्रवणादित्यर्थः । कोटित्रयस्यापि सयुक्तिकश्रुतिमत्त्वेन तुल्यबलत्वे विनिर्णयाभावेन सन्देहादविशेषः स्यादित्यत आह ॥ सर्वथेति ॥ इमास्तिस्र इति श्रुतोऽपीत्यर्थः । एवं रूपेण निर्णयसम्भवान्न सन्देहादविशेष इति भावः । कुत इत्यतो मिश्रत्वाद्भूतानां मिश्रतायामविशेष इति न्यायविवरणोक्तेरभिप्रायं व्यनक्ति ॥ शरीर इति ॥ वैशेष्यात्त्विति सूत्रांशव्यावर्त्योक्तिर्न चात्रेति ॥ अत इति ॥ श्रुतीनां सयुक्तिकत्वेन प्रबलत्वा-दित्यर्थः । मांसादीत्येतत्सावधारणमित्युपेत्य सूत्रभाष्ययोरर्थमाह ॥ यच्छरीर इति ॥ मांसादीत्यादिपदेन शोणितमज्जादीत्यत्र प्रत्येकमन्वितादिपदेन च मनःप्राणवागादेः क्रमेण ग्रहः । अन्नमयं हि सोम्य मन आपोमयः प्राणस् तेजोमयी वागित्यादिश्रुतेरिति भावः ।

ननु सर्वं शरीरं भौममिति पूर्वपक्षस्योक्तदिशा निरासेऽपि आप्यमेव तैजसमेवेति पूर्वपक्षयो-र्निरासो नेत्यत आह ॥ अयं चेति ॥ मांसाद्येवेत्यवधारणकृत इत्यर्थः । सूत्रे भाष्ये च मांसा-दीत्यनेन शोणितादीति मज्जादीति चोपलक्ष्यं भौममिति चाप्यमित्यस्य तैजसमित्यस्य चोपलक्षणम् । भाष्ये अप्तेजसोश्चेति च भूमितेजसोश्चेत्यस्य भूमिजलयोश्चेत्यस्य चोपलक्षणम् । अत एव सूत्रे इतरयोरिति सामान्योक्तिः । यथाशब्दमित्युक्तशब्दश्च पक्षत्रयनिरासेऽपि यत्कठिनमिति भाष्योक्त एव । व्याख्यानं तु यच्छरीरे द्रवं शोणितादि तदेवाप्यं न सर्वशरीरं किं तर्हि भूतेजसोश्च कार्यं शरीरेऽस्ति मांसमज्जादीत्यङ्गीकार्यम् । यत्कठिनमित्यादिश्रुतेरिति । तथा यदुष्णं मज्जादि तदेव तैजसम् । स सर्वं शरीरं किं तर्हि भूजलयोश्च कार्यं शरीरेऽस्ति मांसशोणितादि । यत्कठिनमित्यादिश्रुतेरित्येवंरूपेण बोध्यमिति भावः । यद्यपि मांसाद्येव भौमं न सर्वशरीरं किं तु तत्राप्तेजसोश्च कार्यमस्तीति यथान्यासेनैव एकैकमात्रत्वकोटिकपक्षत्रयस्यापि निरासो भवति । तथापि प्रातिस्विकरूपेणापि निषेधलाभायैवमुक्तिः । वक्ष्यमाणश्रुत्यनुरोधेनार्थान्तरमाह ॥ नन्विति ॥ च शब्दव्यावर्त्यमाह ॥ न मांसादीनामिति ॥ तत्र मांसादौ । यथा शब्दमित्यस्यार्थः ॥ शब्द-वशादिति ॥ तस्मादिति ॥ श्रौतपदानुवादः । विमिश्रत्वात्सम्भूतत्वमिति भावः । श्रुतौ विमिश्रमित्यस्य शरीरादि मांसादि वेति तत्वप्रदीपार्थः ।

अभिनवचन्द्रिका

किमाप्य इति ॥ किमाप्यः, उत भूतत्रयात्मकः । तथा किं पार्थिव, उत भूतत्रयात्मकः । तथा किं तैजसः, उत भूतत्रयात्मक इति त्रयः सन्देहा बुद्ध्या विवेकेन द्रष्टव्याः । आप्यमिति तावदिति ॥ पूर्वपक्षान्तरं वक्ष्यामीति भावेन तावच्छब्दः प्रयुक्तः ॥ न च श्रुत्यन्तरेति ॥ ‘इमास्तिस्त्रो देवताः’ इति श्रुत्यन्तरविरोध इति नेत्यर्थः । ननु तर्पकत्वयुक्तिर्न भूतत्रयात्मकत्वश्रुतिं विरुणद्धि । भूतत्रयात्मकत्वेऽपि अब्जन्यत्वेन तर्पकत्वसंभवादित्यत आह अपां हीति ॥ अपां तर्पकत्वमसाधारणधर्म इति हि प्रसिद्धमित्यर्थः । केवलाब्जन्यत्वे मांसस्याप्त्वापत्या स्मार्ततर्पकत्वमुपपन्नं भवेत् । भूतत्रयोपादानकत्वे तु अप्त्वाभावात् तर्पकत्वं न स्यात् । अत एव ‘अपां तर्पकत्वं धर्म’ इत्युक्तम् । अन्यथा आप्यानामित्यवक्ष्यत् । यद्यपि अस्मिन्पक्षे ‘पृथिवीशरीरम्, सोऽग्नेर्देवयोन्या’ इति श्रुतिभ्यां विरोधोऽस्ति, तथापि तदाच्छादनेनाऽयं पूर्वक्षो द्रष्टव्यः । एव-मितरावपि पूर्वपक्षौ द्रष्टव्यौ । पूर्वपक्षान्तरमाह – पार्थिवमितीति ॥ पूर्वपक्षान्तरमाह– तैजस-मितीति ॥ पूर्वपक्षत्रयव्यावर्त्यं युगपदाह – सर्वथा श्रुतोऽपीति ॥ ‘आप्यमेव शरीरम्’ इति युक्तं, श्रुतोऽपि चतुर्थः पक्षः = भूतत्रयात्मकमिति पक्षो न युक्त इति एको मन्यते । एवमन्यावपीति भावः । कुतो न युक्त इत्यतः पूर्वपक्षित्रयाभिमतां युक्तिं युगपदाह– शरीर इति ॥ शरीरस्य मिश्रतायामभ्युपेतायाम्, ‘आपः शरीरम्’ इति विशेषोक्तिर्न स्यादित्येकः पूर्वपक्षी । अपरः ‘पृथिवीशरीर’मिति विशेषोक्तिर्न स्यादिति । अन्यस्तु ‘सोऽग्रेर्देवयोन्या’ इति विशेषोक्तिर्न स्यादिति मन्यत इति विवेकः ॥ कासाञ्चिच्छ्रुतीनामिति ॥ त्र्यात्मकत्वाभिधायिनीनामित्यर्थः ॥ अयं चैकपक्षेति ॥ ‘मांसाद्येव भौमं न तु सर्वशरीरम्’ इति भाष्यकारीयः प्रतिषेधः शरीराणां केवलपार्थिवत्वपक्षस्य शरीराणां केवलाप्यत्वतैजसत्वपक्षावपि स्वयमेव प्रतिषेध्यावित्यर्थः ।

वाक्यार्थमुक्तावली

शरीरकारणेति ॥ कर्तृविचारानन्तरमुपादानकारणविचार इत्यनन्तरसङ्गतिरिति भावः ॥ किमिति ॥ अत्र देहः किं पृथिव्याद्येकभूतोपादानक उत भूतत्रयोपादानक इति चिन्ता । तदर्थं पृथिवी शरीरभूतमित्याद्येकभूतप्रकृतिकत्वपरा श्रुतिर् विन्यस्तफलत्वौष्ण्यरूपयुक्तियुक्तत्वेन निरवकाशातस्य भूतत्रयात्मकत्वेऽपि तत्तद्भूतभागाधिक्येन सावकाशेति । ‘अद्भ्यो हीदमुत्पद्यते’ इति श्रुतौ शरीरमित्यस्येदं शरीरमित्यादावन्वयः । इदं सर्वं शरीरमाप एवेत्युपसंहारेणाप्यन्वीयत इति भावेन टीकायामाप एवेति निगमनमित्युक्तम् । अथैतन्मात्रान्वये शरीरमाप एवेति निगमन-मित्यवक्ष्यत् । ‘अग्निं वागप्येति, वातं प्राणः’ इत्युपसंक्रमे स्थितस्याप्येतीत्यस्य सर्वत्र सम्बन्ध-मभिप्रेत्य पृथिवीं शरीरमप्येतीति श्रुतिरिति बृहदारण्यकश्रुतिरित्यर्थः । लेशतः सन्देहबीजमित्युक्तं व्यञ्जयन्भाष्यमुपलक्षणमित्याह ॥ तैजसत्वे पीति ॥ स यजमान आहुतिभ्यो दत्ताभ्यो निमित्ता-त्तद्देवयोन्या देवानामाहुतिदातृत्वेन देवकारणादग्रे हिरण्यशरीरः सम्भूय स्वर्गं लोकमेतीति श्रुत्यर्थः । इमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहि इति छान्दोग्यश्रुतिः ॥ न च श्रुत्यन्तरेति ॥ पक्षत्रयप्रापकश्रुत्यन्तरेत्यर्थः ॥ मांसादाविति ॥ मांसे रक्तेवेत्यर्थः । असृग्वारीति न्यायविवरणोक्तेः ॥ अपांहीति ॥ तापापनोदो भूयस्त्वमंभसो वृत्तयस्त्विमा इति भागवतोक्तेरिति भावः । भाष्येऽप्यत्वे युक्तिरूपलक्षणमिति भावेनाह ॥ काठिण्येति ॥ गन्धवत्वादीत्यादिपदेन कार्ष्ण्यं गृह्यते । यत्कृष्णं तदन्नस्येति श्रुतेः । भाष्ये पूर्वपक्षे शरीरमाप एवेदं सर्वं पृथिवीशरीरमिति विशेष्यवाक्यग्रहणात्सूचितं स्वपक्षसाधकं विमिश्रतेत्युक्तन्यायं व्यञ्जयन् द्वितीयसूत्रनिरस्यं पूर्वपक्षमाह ॥ सर्वथेति ॥ सूत्रे मांसादित्यतः परमवधावरणार्थकस्तुशब्दोऽनुवर्तत इति भावेन भाष्ये मांसाद्येवेत्युक्त्या न सर्वशरीरमिति तद्व्यावर्त्यमित्युक्तम् । इतरयोश्चेत्यतः कार्यमङ्गीकार्यमिति शेष इत्यभिप्रेत्याप्तेजसोश्च कार्यमङ्गीकर्तव्यमित्युक्तम् । यथाशब्दं शब्दमनतिक्रम्य शब्दानुकूल्ये-नेत्येतन्मांसादेर्भौमत्वे शरीरेऽप्तेजसोः कार्यसत्त्वे च यत्कठिणमिति श्रुतिसूचकमिति भावेन श्रुतेर्मांसाद्येवेति यथा शब्दमङ्गीकार्यमिति चोभयत्र योजितमिति भावेन व्याचष्टे ॥ यच्छरीर इत्यादिना ॥ मांसादीत्यादिपदेनात्स्थ्नां ग्रहणम् । तत्वप्रदीपरीत्याऽर्थान्तरमुक्तं प्रमेयमुक्तावल्याम् ॥ शोणितमज्जादीति ॥ शोणितादिमज्जादीत्यर्थः । शोणितादीति सूत्रादेर्ग्रहणम् । मज्जादीत्यत्स्थ्नां ग्रहणम् । आपः पीता त्रेधा विधीयन्ते तासां यः स्थविष्ठो धातुस्तदस्थि भवति यो मध्यं तन्मज्जेति श्रुतेः । अन्यथा निरवकाशश्रुतिविरोध इति श्रुतेरित्याद्यनुक्त्वा यथा शब्दमिति निर्देश इति भावेनोक्तम् ॥ एवमङ्गीकारस्येति ॥ अयं चैकपक्ष इति ॥ अयं भाष्यकारीयप्रतिषेधः शरीरं पार्थिवमेव आप्यमेव तैजसमेवेति पूर्वपक्षत्रयमध्ये एकपूर्वपक्षप्रतिक्षेपः । एवं यच्छरीरे द्रवन्तत्तदेवाप्यं न सर्वशरीरं यथा शब्दं भूतेजसोश्च कार्यमङ्गीकार्यम् । शरीरे यदुष्णं मज्जादि तदेव तैजसं न सर्वशरीरं किन्तु यथाशब्दमप्पृथिव्योश्च कार्यमङ्गीकार्यमितीतरावपि पूर्वपक्षौ प्रतिषेद्धव्यावित्यर्थः ॥ इत्यतो वाहेति ॥ इत्याशङ्कां परिहरन् यथाशब्दमित्यादिसूत्रखण्डं प्रकारान्तरेण व्याचष्ट इत्यर्थः । श्रुतितात्पर्यार्थमाह ॥ भूम्यादीनामिति ॥ मांसाद्युपादनभूम्यामित्यर्थः । तस्मादित्यस्यार्थः सम्भूतत्वादिति ॥ सहभूतत्वान्मिश्रत्वादिति यावत् । ततश्चायं श्रुत्यर्थः । यद्विमिश्रं वाव प्रसिद्धम् अथो तस्मादेतन्मांसादिकं भवतीति प्रसिद्धम् । यद्वा यद्यस्माद्विमिस्रादेतन्मांसादिकं भवतीति प्रसिद्धम् । अथो तस्माद्विमिश्रमिति ज्ञायत इत्यर्थः । किं तस्मान्मांसोपादानं विमिश्रं कथं च तन्मिश्रता ज्ञायत इत्यत उक्तम् ॥ विमिश्राणीति ॥ यस्माद्विमिश्राणि भूतानि तस्मात्सहभूतत्वादेव भूतानीत्येवमाचक्षत इत्यर्थः । सूत्र खण्डतात्पर्यमाह ॥ मांसादीनामिति ॥ यदि उक्तार्थ इति ॥ मांसादीनामेकभूतकार्यत्वमित्युक्तेऽर्थ इत्यर्थः । मांसादेः पाञ्चभौतिकत्वे तथैव व्यवहारः स्यान्न तु भौममित्यादिव्यवहारे इत्याशङ्कां परिहरन्निति शेषः । यद्यपि मांसादिकं सर्वमप्येकैकशः पञ्चभूतात्मकं तदपि तथाप्यविवक्षायामेकैकभूतस्यापि सत्त्वविवक्षायां काठिण्यान्निमित्तान्मांसं भौममिति शौक्ल्यान्मूत्रमाप्यमिति तेजिष्ठत्वान्मज्जातैजस इत्येकैकभूतात्मकत्वेन व्यवहार इत्यर्थः । काठिण्यादिविवक्षया पृथिवीत्वादिव्यवहार इत्यत्रोदाहरणमाह ॥ यथेति ॥ श्रुतौ यत्कठिणमिति सामान्यश्रुतौ । अस्थ्नां काठिण्यादस्ति भौममिति । अस्ति च भवन्त्याप एवेति श्रुतौ शौक्ल्या-दस्थ्यौदकमिति तेजोशितमिति श्रुतौ तस्य यः स्थविष्ठो भागस्तदस्तीति तेजिष्ठत्वात्तैजसमिति व्यवहारोऽस्तीत्यर्थः । यद्वा तदपि तथाप्येकविवक्षया प्रधानविवक्षया प्राचुर्यविवक्षया काठिण्या-द्भौममिति शौक्ल्यादौदकमिति तेजिष्ठत्वात्तैजसमिति व्यवहार इत्यर्थः । त्र्यात्मकस्याप्येकभूतप्राचुर्य-विवक्षयैकभूतात्मकत्वेन व्यवहार इत्येतदुदाहरणेन दर्शयति ॥ यथेति ॥ तेजिष्ठत्वात्तेजः प्राचुर्या-त्तेजोशितं त्रेधा विधीयते तस्य यः स्थविष्ठो भागस्तदस्ति भवतीति श्रुतावस्थ्नां तैजसत्ववचन-मित्यर्थः । अन्ये च यथास्थ्नामाप्यत्ववचनमित्याहुः । तत्वप्रदीपे अप्तेजसोश्च कार्यमस्मिंच्छरीरे लोडितास्थ्यादीत्युक्तत्वात्पृथिव्यपेक्षायामाधिक्यादस्थि च भवंत्याप इति श्रुतिस्तेजोऽपेक्षयाऽपा-माधिक्येनापो वाव मांसमिति ज्ञेयम् । विस्तरस्त्वन्यत्र कृतोऽनुसन्धेयः ।

वाक्यार्थविवरणम्

इदम् ॥ शरीरम् ॥ हिरण्यशरीर इति ॥ ‘तेजो वै हिरण्यम्’ इति श्रुतेस्तैजसशरीर इत्यर्थः ॥ उपपादनमिति ॥ शरीरस्य मांसास्थ्यात्मकत्वात् तथोपपादनं युक्तमिति भावः । भाष्ये इदं सर्वं शरीरजातम् । आत्मा जीव आकाशमिति श्रुतावधिकोक्तिर्न प्रकृतोपयोगिनी ॥ मिश्रत्वादेव ॥ भूतानामिति वर्तते ॥ अत्र ॥ आपः शरीरमित्यादिविशेषोक्तौ ॥ कासाञ्चिदिति ॥ भूतत्रयात्मकत्वप्रतिपादकानामिमास्तिस्त्र इत्यादीनामित्यर्थः ॥ अस्थीति ॥ अस्थिशोणितयोरप्-कार्यत्वं मज्जादेस्तेजःकार्यत्वमिति विवेकः ॥ एकपक्षेति ॥ सर्वशरीरस्य पार्थिवत्वपक्षप्रतिषेधः सूत्रोक्तः ॥ इतरावपीति ॥ यच्छरीरे द्रवं तदेवाप्यं न सर्वशरीरमिति सर्वशरीरस्याप्यत्वपक्ष-प्रतिषेधः । यच्छरीरे उष्णं मज्जादि तदेव तैजसं न सर्वशरीरमिति सर्वशरीरस्य तैजसत्वपक्षश्च प्रतिषेध्य इत्यर्थः ॥ तत्र ॥ मांसे कार्यद्रवादि तिष्ठतीति शेषः ॥ एकभूतत्वम् ॥ एकभूतकार्य-त्वम् ॥ अप्कार्यत्वोक्तावपीतरभूतकार्यत्वं प्राप्तमेवापामपीतरभूतमिश्रत्वादिति भावः ॥ सम्भूत-त्वात् ॥ मिश्रत्वादित्यर्थः । भाष्ये काठिण्याद्भौममित्यस्योदाहरणं प्रसिद्धम् । तेजिष्ठत्वात्तैजसं चेत्यस्यापि तेजो मज्जाविशेषत इत्युक्तेर् मज्जादेस्तेजिष्ठत्वात् तेजःकार्यत्वप्रसिद्धम् । शौकल्या-दौदकमित्यस्य किमुदाहरणमित्यत आह ॥ यथास्थ्नां वचनं श्रुताविति ॥ श्रुतौ ॥ ‘अस्थि च भवन्ति’ इति श्रुतौ । अस्थ्नां शौकल्यादुदककार्यत्ववचनं युक्तमिति द्रष्टव्यम् ।

वाक्यार्थमञ्जरी

तत्र पृथिव्यां लय एवोच्यते न तत्कार्यत्वमत आह ॥ कार्यस्येति ॥ उपादेयस्य उपादान एवेत्यर्थः ॥ आकाशं परमात्मानमिति ॥ तथा च शरीरं पृथिवीमप्येति उद्गत आत्मा जीव आकाशं परमात्मानमप्येति इतरैरदृश्यः प्रविशतीत्यर्थ उक्तो भवति । कासांचिद्भूतत्रयकार्यत्व-मभिधात्रीणाम् । देहस्थमांसाद्येव भौमं पार्थिवं यन्मज्जादि तच्च इतरयोरप्तेजसोः कार्यं यथाशब्दं श्रुत्यनुसारेणाङ्गीकार्यमित्यर्थः । यद्वा मांसादि न केवलभौमं किन्तु इतरयोश्च कार्यं यथाशब्दमङ्गी-कार्यमित्यर्थः । इतरावपि पक्षाविति यच्छरीरे द्रवं तदाप्यं न सर्वशरीरं यच्छरीरे उष्णं तदेव तैजसं न सर्वशरीरमिति इतरावपि पक्षौ निषेध्यावित्यर्थः । नात्र मांसादीनामनेकभूतकार्यत्वमुच्यत इत्यत आह ॥ भूम्यादिभूतानामिति ॥ स्वत एव स्वरूपेणैव सम्भूतत्वादिति मिश्रत्वेन सम्यग्भूतत्वा-दित्यर्थः ।