१२ संज्ञाधिकरणम्

ॐ संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॐ

१२. अथ संज्ञाधिकरणम्

सूत्रभाष्यम्

‘विरिञ्चो वा इदं सर्वं विरेचयति विदधाति ब्रह्मा वाव विरिञ्च एतस्माद्धीमे रूपनामनी’ इति गौपवनश्रुतिः ॥

‘यस्माद्विरेचयेत्सर्वं विरिञ्चस्तेन भण्यते ।

एको हि कर्ता जगतो ब्रह्मैव च चतुर्मुखः’ इति च युक्तिर्ब्राह्मे ॥

अथ कस्मादुच्यते परम इति परमाध्द्येते नामरूपे व्याक्रियेते तस्मादेनमाहुः परम इति । अथ कस्मादुच्यते ब्रह्मेति बृहत्त्वाद्बृंहणाच्च’ इत्याग्निवेश्यश्रुतिः । अत आह–

॥ ॐ संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॐ ॥ २१ ॥

नामरूपक्लृप्तिः परादेव । ‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन्य आस्त’ (तै.आ.३-१२) इति श्रुतेः । त्रिवृत्कुर्वत इति हेतुगर्भः । त्रिवृत्करणापेक्षत्वान्नाम-रूपयोः ।

‘सर्वनाम्नां च रूपाणां व्यवहारेषु केशवः ।

एक एव यतः स्रष्टा ब्रह्माद्यास्तदवान्तरा’ ॥ इति च पाद्मे ।

‘त्रिवृत्क्रिया यतो विष्णो रूपं च तदपेक्षया ।

रूपापेक्षं तथा नाम व्यवहारस्तदात्मकः ॥

अतो नाम्नश्च रूपस्य व्यवहारस्य चैकराट् ।

हरिरेव यतः कर्ता पिताऽतो भगवान्प्रभुः’ ॥ इति च ब्रह्माण्डे ।

॥ इति संज्ञाधिकरणम् ॥

तत्त्वप्रकाशिका

अत्र जगत्कारणे ब्रह्मणि श्रुतिसमन्वयसिद्ध्यर्थं शरीरादिविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । जगत्कारणे हरावुक्तश्रुतिसमन्वयः शरीरादिविषयश्रुतीनां विरोधेनाप्रामाण्ये न सिध्येदित्यसाववश्यं निरसनीयः । तत्रेन्द्रियादीनामाश्रयः शरीरं तत्प्रसङ्गसन्निधापितं विषयः । किं विरिञ्चसृष्टं परमात्मसृष्टं वेति सन्देहः । सन्देहबीजं श्रुतिविगानं दर्शयन् पूर्वपक्षं च सूचयति ॥ विरिञ्च इति ॥ विरेचयतीत्यस्य व्याख्यानं विदधातीति । नामरूपकर्तृत्वम् । परमत्वे हेतुरुच्यते ब्रह्मशब्दस्तु निरुच्यते । श्रुतिर्विरिञ्चस्य विष्णोश्च नामरूपकर्तृत्वं वक्तीति क्रमेण शेषः । विरिञ्च-स्यैव देहादि कर्तृत्वम् । ‘विरिञ्चो वा इदम्’ इति श्रुतेः । न च श्रुत्यन्तरविरोधः । विरिञ्चत्वयुक्ति-युक्तत्वादाद्यश्रुतेः । न च सृष्टिद्वारत्वेन श्रुत्याद्युपपत्तिरिति वाच्यम् । असम्भवे हि मुख्यार्थस्या-मुख्यार्थत्वं कल्प्यते । न च विरिञ्चे नामरूपात्मकदेहादिसृष्टिशक्तिर्न सम्भवति येनात्र श्रुत्यादेर-मुख्यार्थत्वं कल्पयामः । अतः स युक्तिकैतच्छ्रुतिविरोधेनाप्रमाणमन्या श्रुतिस्तथा च न श्रुतिसमन्वयेन परमात्मनो जगत्कारणत्वसिद्धिरिति भावः । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ परमात्मनः सकाशादेव नामरूपात्मकदेहादिप्रपञ्चस्योत्पत्तिर्भवति । ‘सर्वाणि रूपाणि’ इति पुरुषसूक्तमन्त्रोक्तत्वादिति भावः । यदिति लिङ्गविपर्यासः । नामरूपयोर्विरिञ्चसृष्टत्वेऽप्यस्ति श्रुतिरतः कथमयं निश्चय इति तत्राह ॥ त्रिवृदिति ॥ विशेषणस्य हेतुगर्भत्वेन नामरूपकर्ता परः । पृथिव्यादिभूतत्रयस्य मिश्रीभावस्त्रिवृत्वं तत्कर्तृत्वादिति युक्तिरुक्ता भवति । तत्र त्रिवृत्कर्तृत्वे कुतो नामादिकर्तृत्वं हरेरित्यत आह ॥ त्रिवृदिति ॥ नामादिकरणं त्रिवृत्करणापेक्षं त्रिवृत्करणमन्तरेण रूपोत्पत्त्यभावस्य वक्ष्यमाणत्वात्तदभावे नामानुपपत्तेः । त्रिवृत्कर्तृत्वं च विष्णोरेव । ‘सेयं देवतेमास्तिस्रो देवता अनेनैव जीवेनात्मनानुप्रविश्य नामरूपे व्याकरोत्तासां त्रिवृतं त्रिवृत-मेकैकामकरोत्’ इत्यादि श्रुतेः । अतः स एव नामादिकर्तेति भावः । विरिञ्चत्वादियुक्तियुक्तेयमपि श्रुतिरित्यतस्तस्याः सावकाशत्वं स्मृत्यैव दर्शयति ॥ सर्वेति ॥ सर्वकर्तृत्वशक्तिस्तु त्रिवृत्कर्तृत्वेन विष्णोरेवेति सूत्रार्थे स्मृतिसंमतिं चाह ॥ त्रिवृदिति ॥ त्रिवृत्क्रिया यतो विष्णोरतो नाम्नश्चेत्यन्वयः । तदुपपादनं रूपमित्यादि । हरिरेव कर्ता यतश्च कर्ताऽतः पितेत्यर्थः । अतः श्रुत्यविरोधेन शरीरस्य हरिकर्तृत्वसिद्धेर्युक्तं तस्य श्रुतिसमन्वयेन जगत्कारणत्वमिति सिद्धम् ।

गुर्वर्थदीपिका

अग्निवेश्यश्रुतौ यस्य कस्यचित् परमत्वे हेतुः कथ्यत इति शङ्क•वारणाय ब्रह्मकारणत्व-सूचनाज्जगद्ब्रह्मणकर्तृत्वरूपबृंहणाख्यब्रह्मगुणाभिधाने नामरूपव्याकरणाख्य प्रकृतप्रमेयसङ्ग्रहाच्च ‘अथ कस्मादुच्यते ब्रह्म’ इत्युत्तरवाक्योदाहरणम् ।

भावबोधः

अनन्तरसङ्गतिं दर्शयन् विषयमाह– इन्द्रियादीनामाश्रय इति ॥ किमिति ॥ अत्र नामरूपात्मकदेहादिप्रपञ्चः किं विरिञ्चसृष्ट उत परमात्मसृष्ट इति चिन्ता । तदर्थं परमात्मसृष्टत्वे ‘विरिञ्चो वा इदं सर्वं विरेचयति’ इति विरिञ्चसृष्टत्वं श्रुतिविरुद्धं न वेति । तदर्थं ‘विरिञ्चो वा’ इति श्रुतिर् यस्माद्विरेचयेदित्युक्तयुक्तियुक्तत्वेन विरिञ्चस्य द्वारत्वमात्राभिप्रायकतया सावकाशेति । तदर्थं विरिञ्चस्य सर्वस्रष्टृत्वशक्तिर्नास्त्युतास्तीति । विपूर्वो दधातिः करोत्यर्थ इत्यन्यत्रोक्तत्वाद् विरेचेयति विदधातीति पुनरुक्तमित्यत आह– विरेचयतीत्यस्यैव व्याख्यानमिति ॥ नामरूपकर्तृत्वस्य परमशब्दनिर्वचनत्वायोगात् तथा प्रतीतिं वारयितुमाह– नामरूपकर्तृत्वमिति ॥ अनेन कस्माद्धेतोर् विष्णुः परम उच्यत इति परमत्वे हेतुप्रश्ने हि यस्मात्तदुत्तमादेव नामरूपे व्याक्रियेते इति व्याप्तिमुक्त्वा तस्मादेनं नामरूपकर्तारं परममाहुरिति श्रुतियोजना भवति ।

‘यस्माद्विरेचयेत् सर्वं विरिञ्चस्तेन भण्यते’

इत्युक्तयुक्तित्वादेवेत्यर्थः । ‘तेजोऽतस्तथा ह्याह’ इत्यादिन्यायेन गतार्थताशङ्कापरिहाराय विरिञ्चस्यापि कर्तृत्वशक्तेः स एव शरीरादिस्रष्टेति न्यायविवरणमभ्यधिकाशङ्काप्रदर्शकतया तन्निवर्तनीयशङ्काप्रतिषेधपूर्वकं व्याचष्टे– न च विरिञ्च इत्यादिना । सूत्रे ‘तु’शब्द एवार्थः । त्रिवृत्कुर्वत इति विशेषणस्य परादिति विशेष्यपदमुपस्कर्तव्यमित्यभिपे्रत्य प्रवृत्तं नामरूपेत्यादिभाष्यं व्याचष्टे– परमात्मन इति ॥ धीर इत्यादिपुंलिङ्गानुरोधेनाऽऽह– यदिति लिङ्गविपर्यास इति ।

‘त्रिवृत्क्रिया यतो विष्णो रूपं च तदपेक्षया ।

रूपापेक्षं तथा नाम’

इति वक्ष्यमाणस्मृत्यनुसारेण त्रिवृत्करणापेक्षत्वान्नामरूपयोरिति भाष्यं व्याचष्टे नामरूपादि-करणमिति ॥ सावकाशतामिति ॥ अनेन विरिञ्चस्य तु द्वारतयैवोपपत्तेरिति न्यायविवरणमपि व्याख्यातं भवति । इत्यादेस्तस्यैव कर्तृत्वशक्तिरिति न्यायविवरणानुसारेण स्मृतिमवतार्य व्याचष्टे– कर्तृत्वशक्तिरिति ॥

भावदीपः

सङ्गतिं दर्शयति ॥ तत्रेन्द्रियेत्यादिना ॥ तत्प्रसङ्गेति ॥ इन्द्रियप्रसङ्गेत्यर्थः । एतेन सूत्रे संज्ञारूपक्लृप्तिरित्यनुक्त्वा मूर्तीत्युक्तेरुपयोगः सूचितः । तत्वप्रदीपे तु इदमिह निरूप्यते । किं चतुर्मुखान्नामरूपक्लृप्तिरुत परमादिति । न चात्र चतुर्मुखस्याप्रसक्तिराशङ्कनीया । यमेवायं भगवा-न्प्राणत्वादूर्ध्वं चतुर्मुखपदमधिष्ठास्यतीति ज्ञापयन् प्राणस्वरूपनिरूपणावसरे चतुर्मुखं प्रसञ्जयती-त्युक्तम् । पौनरुक्त्यनिरासायाह ॥ इत्यस्य व्याख्यानमिति ॥ तत्वप्रदीपे तु विदधाति विशेषेण धारयति नियोजयति चेत्युक्तम् । भाष्ये परामाद्ध्येव नामरूपे व्याक्रियेते । इत्येतावतैव पूर्तौ शेषोक्तेरुपयोगमाह ॥ नामरूपेति ॥ परमस्य विष्णोरेव नामरूपकर्तृत्वं वक्तुमिति भावः । ब्रह्मरूपशब्द(स्तु)श्च निरुच्यत इति ॥ नामरूपकर्तृत्वं ब्रह्मत्वे हेतुरिति सूचयितुमिति योज्यम् । ‘कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभ’ इति स्मृतेः । स्मृत्युक्तयुक्तिमाह ॥ विरिञ्चत्वेति ॥ विरेचकत्वापरनामकसर्जकत्वाख्यविरिञ्चपदप्रवृत्तिनिमित्तवत्त्वरूपयुक्तियुक्तत्वादित्यर्थः । तदभि-ध्यानादित्यत्रोक्तन्यायेन समाधानमाशङ्कते ॥ न चेति ॥ विरञ्चस्यापि कर्तृत्वशक्तेः स एव शरीरादिस्रष्टा इत्यन्यत्रोक्तां युक्तिं व्यनक्ति ॥ असम्भवे हीत्यादिना ॥ अत इति ॥ विरेचकत्वरूपविरिञ्चपदप्रवृत्तिहेतुत्वात् । चतुर्मुखस्य नामरूपसर्जनशक्तिमत्वाच्च सयुक्तिकेत्यर्थः । सूत्रभाष्ययोरर्थमाह ॥ परमात्मन इति ॥ सौत्रतुशब्दार्थ एवेति । यदिति यच्छब्दस्य तमेवं विद्वानिति तच्छब्देनान्वयसूचनाय वा श्रुतेर्वैष्णवत्वप्रसिद्धिद्योतनाय वा पुरुषसूक्तमन्त्रेत्युक्तम् । अत एवाह ॥ यदिति ॥ लिङ्गेति ॥ य इत्यर्थः । तथा च तमित्यग्रे परामर्शः सुशक इति भावः ॥ वक्ष्यमाणत्वादिति ॥ मांसादिभौममित्यत्र यद्वा वायो विमिश्रमित्यादिनेत्यर्थः । तावता कथं विष्णोरत आह ॥ त्रिवृत्कर्तृत्वं चेति ॥ सेयमिति ॥ ‘तत्तेजोऽसृजत’ इति तेजोऽबन्नस्रष्टृ-त्वेनोक्ता देवतेत्यर्थः । देवता तेजोऽबन्नदेवताभिमानिदेवता अभिमन्यमानसहिता इत्यर्थः । शरीररूपकविन्यस्तगृहीतेरिति न्यायात् । जीवेनात्मनाऽनिरुद्धाख्येन रूपेणेत्यर्थः । अत्राग्निहोत्रं जुहोति । यवागूं पचतीतिवन् नामरूपे व्याकरोत्तदर्थं त्रिवृतमकरोदित्यर्थः । इत्यादिश्रुतेः षष्ठे छान्दोग्यश्रुतेरित्यर्थः । कुतो नामरूपादिकर्तृत्वं हरेरिति शङ्कातत्समाधिप्रकारमाह ॥ अतः स एवेति ॥ विरिञ्चस्य द्वारतयोपपत्तेरित्यन्यत्रोक्त्यनुरोधेनाह ॥ तस्याः सावकाशत्वमिति ॥ त्रिवृत्क्रिया यतो विष्णोरित्यादेस्तस्यैव कर्तृत्वोपपत्तेरित्यन्यत्रोक्त्यनुरोधेनाह ॥ कर्तृत्वशक्तिस्त्विति ॥ अत इति ॥ विरञ्चत्वयुक्तियुक्तोक्तश्रुतेर्द्वारपरतया सावकाशतायाः स्मार्तत्वेन विष्णो-स्त्रिवृत्कर्तृत्वेन नामादिस्रष्टृत्वोपपत्तेश्चेत्यर्थः । शरीरस्येत्युत्तरसङ्गत्यर्थमुक्तं नामादेरित्यर्थः ।

अभिनवचन्द्रिका

शरीरमिति ॥ यद्यप्यत्र रूपनामनी विषय इति वक्तव्यम्, तथापि सङ्गतिसूचनार्थं शरीरं विषय इत्युक्तमिति बोध्यम् । ननु नामरूपकर्तृत्वस्य परमशब्दार्थत्वाभावात् ‘अथ कस्मादुच्यते परम इति प्रश्नपूर्वकं नामरूपकर्तृत्वेन परमशब्दनिर्वचनमयुक्तमित्यत आह– नामरूपकर्तृत्वमिति ॥ अनेन कस्माद्धेतोर्विष्णुः परम उच्यत इति परमत्वे हेतुप्रश्ने हि यस्मात्, उत्तमादेव नामरूपे व्याक्रियेते इति व्याप्तिमुक्त्वा तस्मादेनं नामरूपकर्तारं परममाहुरिति हेतूक्तिपूर्वकं साध्योपसंहारः क्रियत इति श्रुतियोजना सूचिता भवति । ‘अथ कस्मादुच्यते ब्रह्म’ इत्यत्रापि हेतुप्रश्ने पूर्ववत् ‘बृहत्वात्’ इत्यनेन हेतुरुच्यत इति भ्रान्तिनिरासायाह– ब्रह्मशब्दस्त्विति ॥ भाष्ये ‘अथ कस्मादुच्यते ब्रह्मेति’ इति वाक्यशेषोद्धारस्तु परमस्य विष्णुत्वज्ञापनार्थः ॥ श्रुतिर्विरिञ्चस्य विष्णोश्चेति ॥ श्रुतिरिति न प्रतीकधारणम् । विरिञ्चस्य विष्णोश्च नामरूपकर्तृत्वं वक्तीति न शेषः । किंतु हेतुकथनम् । ततश्च श्रुतिर् विरिञ्चस्य विष्णोश्च नामरूपकर्तृत्वं वक्तीतिहेतोः क्रमेण शेषो द्रष्टव्य इत्यर्थः । अत्रायं विवेकः – आद्या श्रुतिर् विरञ्चस्य नामरूपकर्तृत्वं वक्तीतिहेतोः ‘गौपवनश्रुतिः’ इत्यनन्तरं विरिञ्चस्य नामरूपकर्तृत्वं वक्तीति शेषः । द्वितीया श्रुतिर् विष्णोर्नामरूपकर्तृत्वं वक्तीतिहेतोर् आग्निवेश्यश्रुतिरित्यन्तरं विष्णोर्नामरूपकर्तृत्वं वक्तीतिशेष इति ॥ विरिञ्चत्वयुक्तियुक्तत्वादिति ॥ विरिञ्चशब्दाभिधेयत्वयुक्तियुक्तत्वादित्यर्थः ॥ युक्तियुक्ता भवतीति ॥ ननु ‘विरिञ्च’ इति गौपवनश्रुतिर् विरिञ्चस्य नामरूपकर्तृत्वं वक्ति । ‘अथ कस्मादुच्यते परमः’ इति आग्निवेश्यश्रुतिर्विष्णोर्वक्तीति यथा नामरूपकर्तृत्वे सन्देहः, तथा त्रिवृत्कर्तृत्वेऽपि’ इति कथं तस्य हेतुत्वाभिधानमिति चेत्, न । त्रिवृत्करणं प्रथमभावि, तत्साध्ये नामरूपे गौपवनश्रुतौ च प्रथमभावित्रिवृत्करणं परित्यज्य नामरूपयोरेव ग्रहणेन त्रिवृत्करणस्य विरिञ्चसाध्यत्वानभिमत्या तत्र सन्देहाभावात् ।

पूर्वपक्षस्तु – विरिञ्च एव नामरूपकर्ता तथाश्रुतेः । न च इतरश्रुतिविरोध इति वाच्यम् । विरिञ्चत्वयुक्तियुक्तत्वेनाऽस्याः श्रुतेः प्राबल्यात् । न च इयं श्रुतिर्द्वारकारणत्वपरा । मुख्याऽसम्भवेऽमुख्यस्य ग्राह्यत्वात् । प्रकृते च मुख्यार्थसंभावात् । अतः सयुक्तिकैतच्छ्रुतिविरोधेन इतरा श्रुतिरप्रमाणमिति ।

सिद्धान्तस्तु – परमात्मैव नामरूपकर्ता ‘सर्वाणि रूपाणि’ इति श्रुतेः । न च विरिञ्चस्यापि कर्तृत्वे श्रुतिरस्तीति वाच्यम् । नामरूपकरणस्य त्रिवृत्करणसापेक्षत्वात्तत्कर्तुरेव मुख्यतो नामरूपकर्तृत्वस्य वक्तव्यत्वे विरिञ्चश्रुतेर्द्वारकारणत्वमात्रार्थत्वात् । अत एव विरिञ्चत्वयुक्ति-विरोधोऽपि परास्तः । तदुक्तं – ‘ब्रह्माद्यास्तदवान्तरा’ इति । अतः श्रुत्यविरोधेन शरीरस्य हरिकर्तृकत्वसिद्धेर् युक्तं तस्य श्रुतिसमन्वयेन जगत्कारणत्वमिति सिद्धम् ।

वाक्यार्थमुक्तावली

अनन्तरसङ्गतिं सूचयति । इन्द्रियाश्रयशरीरतत्प्रसङ्गसन्निधापितमिति ॥ किमिति ॥ अत्र नामरूपात्मकं देहादिलक्षणं जगत्किं विरिञ्चसृष्टमुत परमात्मसृष्टमिति चिन्ता । तदर्थं विरिञ्चतायुक्तियुक्ततया । विरिञ्चो वा इदमित्यादि श्रुतिर्निरवकाशोत अथ कस्मादुच्यत इत्यादि श्रुतिविरोधाद्विरिञ्चस्य सृष्टिद्वारतया सावकाशेति । तदर्थं विरिञ्चस्य नामरूपसृष्टिशक्तिरस्ति न वेति । विपूर्वो दधातिः करोत्यर्थ इत्यन्यत्रोक्तत्वाद्विरेचयति विदधातीति पुनरुक्तमित्यत आह ॥ विरेचयतीत्यस्यैवेति ॥ तत्वप्रदीपे तु विशेषेण धारयतीति व्याख्यातो कर्तृत्वस्य प्रवृत्तिनिमित्ता-भावेन परमशब्दनिर्वचनत्वयोगादाह ॥ नामरूपकर्तृत्वमिति ॥ विष्णुः परमः सर्वोत्तम इति । कस्माद्धेतोरुच्यत इत्युत्तमत्वे हेतुप्रश्ने वन्हिमानेव वन्हिधूमवानिति । तद्विपर्यये हेतुच्छित्तिसूचनाय परमादेव नामरूपे व्याक्रियते इत्युक्त्वा तस्मादिति नामादिकर्तृत्वं हेतुरिति तदुक्तिपूर्वं साध्योपसंहारः क्रियत इत्यर्थः ॥ विरिञ्चत्वयुक्तीति ॥ विरिञ्चशब्दाभिधेयत्वयुक्तियुक्तत्वाद् इत्यर्थः । न चाप्रयोजको हेतुः । विरेचकत्वप्रवृत्तिनिमित्तेन विरिञ्चशब्दाभिधेयत्वस्य व्यवस्थापि-तत्वेन विरिञ्चस्य स्रष्ट्रत्वाभावे विरिञ्चशब्दवाच्यत्वाभावप्रसङ्गस्य विपक्षे बाधकस्य सत्त्वादिति भावः । तेजोस्तथाह्याहेत्यनेन गतार्थतां निराह ॥ न चेति ॥ कुतो न वाच्यमित्यत एको हि कर्तेति भाष्यसूचितं कर्तृशक्तिरित्युक्तपूर्वपक्षन्यायं स्पष्टयति ॥ असम्भवे हीति ॥ सूत्रे तुशब्द एवार्थः । त्रिवृत्कुर्वत इति विशेषणस्य परादिति विशेष्यपरमुपस्कर्तव्यम् । भाष्यसूचितं कर्तरि शक्तिरित्युक्तं पूर्वसंज्ञानाम मूर्तिपदेन देह उच्यते । तच्च रूपप्रपञ्चमात्रोपलक्षकमित्यभिप्रेत्य प्रवृत्तं नामरूपेत्यादि-भाष्यं व्याचष्टे ॥ परमात्मन इति ॥ धीर इत्यादि पुल्लिङ्गानुरोधेनाह ॥ यदिति ॥ लिङ्गविपर्यास इति वक्ष्यमाणत्वादिति ॥ रूपं तदपेक्षयेति वक्ष्यमाणत्वादित्यर्थः । तदभावे नामानुपपत्तेरिति वक्ष्यमाणत्वादित्यनुवर्तते । हेतुस्वरूपासिद्धिं परिहरति ॥ त्रिवृत्कृत्वमिति ॥ सेयं देवता सदाख्यपरदेवता इमास्तिसदेवतास्तेजोऽबन्नाभिमानिलक्ष्मीब्रह्मशिवाख्यदेवता अनेन जीवेनात्मना-निरुद्धरूपेण प्रविश्य नामरूपे व्याकरोत्तदर्थं तासां त्रिवृतं त्रिवृतं तदभिमत पृथिव्यप्तेजसां त्रित्वेन मिश्रीभूतामेकैकां व्यक्तिमकरोदिति श्रुत्यर्थः । भाष्ये व्यवहारेष्वित्यस्य व्यवहाराणामित्यर्थः । एक एव यतः स्रष्टेत्यनेन सूचितं कर्तरि शक्तिरित्युक्तसिद्धान्तन्यायं व्यनक्ति कर्तृत्वशक्तिरिति ।

ननु विरिञ्चब्रह्म चतुर्मुखश्रुतयो भगवति सावकाशाः । अत एव विरिञ्चत्वलिङ्गमपि जीवमुख्यप्राणलिङ्गादिति न्यायेन सावकाशं विरिञ्चिगतकर्तृत्वशक्तिरपि परात्तु तच्छ्रुतेरित्युक्तन्यायेन परायत्ता प्रतिज्ञाहानिरित्यादावीशस्यैव सर्वकर्तृत्वमुक्तं तेजोत इत्यादावन्येषां द्वारकारणत्वं चेति चेत्तथापि त्रिवृत्क्रियाया विष्ण्वैकनिष्ठत्वात्तद्वैकल्यनिमित्तं कर्तृत्वशक्तिवैकल्यमन्यस्येति विशेषप्रमेयं वक्तुं पुनरुक्तिरिति रहस्यम् ।

वाक्यार्थविवरणम्

‘अथ कस्मादुच्यते ब्रह्मेति’ इति श्रुतिवत् ‘अथ कस्मादुच्यते परम्’ इति श्रुतिरपि परमशब्द-निर्वचनपरेति प्रतीयते । तन्न सम्भवति । अवयवार्थानानुगुण्यादित्यत आह ॥ नामरूपेति ॥ श्रुतिरिति तन्त्रेणोभयप्रतीकग्रहणम् । तत्र क्रमेण शेषो ज्ञातव्यः ॥ श्रुत्यादीति ॥ विरिञ्चो वा इदम्’ इति श्रुतिः । आदिपदाद्विरिञ्चत्वयुक्तिः ॥ विपर्यास इति ॥ तया च य इत्यर्थ । विशेषणस्य हेतुगर्भत्वेन युक्तिरुक्ता भवतीत्यन्वयः । युक्तिर्विव्रीयते नामरूपकर्तेत्यादिना । त्रिवृत्करणापेक्षत्वा-न्नामरूपयोरिति रूपवन्नाम्नोऽपि साक्षात्त्रिवृत्करणापेक्षत्वं प्रतीयते । तच्च त्रिवृत्क्रिया’ इत्यादि-प्रमाणविरुद्धमत आह ॥ त्रिवृत्करणमिति ॥ तदभाव इति ॥ रूपाभावे आश्रयाभावेन नामानुपपत्तेरित्यर्थः । तथा च रूपलक्षणाश्रयद्वारा नाम्नोऽपि त्रिवृत्करणापेक्षत्वमिति भावः ॥ सावकाशताम् ॥ अवान्तरा इत्यनेन सा दर्शितेत्याशयः । भाष्ये सर्वनाम्नां रूपाणां नाम-रूपात्मकवियदादिप्रपञ्चानां व्यवहारेषु तत्तन्नामरूपात्मकप्रपञ्चविषयका ये व्यवहारास्तेषामिति विभक्तिव्यत्यासः । तत्तस्मादवान्तराः स्रष्टार इत्यर्थः ॥ कर्तृत्वशक्तिः ॥ सञ्ज्ञामूर्तिकर्तृत्वशक्तिः ॥ इत्यन्वयः ॥ इत्यादिनाऽन्वयः । त्रिवृत्क्रिया यतो विष्णोरतो नाम्न इत्याद्युक्तौ रूपवन्नाम-व्यवहारयोरपि साक्षात् त्रिवृत्क्रियासापेक्षत्वप्राप्तौ रूपस्य साक्षात् तद्द्वारा नाम्नस्तद्द्वारा व्यवहारस्येत्याशयेन रूपं चेत्यादिभाष्यं प्रवृत्तमित्याशयेनाह ॥ तदुपपादनमिति ॥ भाष्ये ॥ तदपेक्षया ॥ साक्षात्त्रिवृत्करणापेक्षया ॥ तदात्मकः ॥ नामापेक्ष इति यावत् । यतः कर्तेत्यनुवाद-बलाद्धरिरेवेत्यनन्तरं शेषं पूरयति ॥ हरिरेव कर्तेति ॥

वाक्यार्थमञ्जरी

ननु विपूर्वोदधातिः करोत्यर्थ इत्यन्यत्रोक्तत्वाद् विरेचयति विदधातीत्येतत्पुनरुक्तमित्यत आह ॥ विरेचयतीत्यस्यैव व्याख्यानमिति ॥ हेतुरुच्यत इति ॥ न तु निरुच्यत इति भावः । विरिञ्चत्वयुक्तीति ॥ यस्माद्विरेचयेत्सर्वं विरिञ्चस्तेन भण्यत इत्युक्तयुक्तियुक्तत्वादेवेत्यर्थः ॥ सृष्टिद्वारत्वेनेति ॥ परमात्मा विरिञ्चेन देहादिकं सर्जयतीत्यर्थकत्वेन विरिञ्चकर्तृत्वश्रुतियुक्त्यु-पपत्तिरित्यर्थः । संज्ञामूर्त्योर्नामदेहयोः क्लृप्तिः सृष्टिस् त्रिवृत्कुर्वतस्तु त्रयाणां तेजोऽबन्नानां मिश्रणं कुर्वतो हरेरेव सकाशान् न विरिञ्चतः कुत उपदेशात् सर्वाणि रूपाणीति श्रुतेरित्यर्थः । श्रुतौ विचिंत्य कृत्वाधीर इत्यादि पुंल्लिंगानुरोधेनाह ॥ यदिति ॥ लिङ्गेति ॥ सेयमिति ॥ सा तेजःस्रष्टृत्वेन प्रकृतेयं नारायणाख्या देवता इमाः प्रागुक्तास् तिस्रस् तेजोऽबन्नाभिमानिनीर्देवता अभिमन्यमानभूतसहिता अनेन जीवेनात्मनानिरुद्धेन रूपेण प्रविश्य नामरूपे संज्ञाशरीरे विशेषेणाकरोत् तदर्थं तासां देवतानां मध्ये एकैकम् एकैकाभिमन्यमानभूतं त्रिवृतमन्योन्यप्रविष्ट-मकरोदित्यर्थः ॥ इयमपि श्रुतिरिति ॥ विरिञ्चो वेत्यादि श्रुतिरित्यर्थः ।

॥ इति संज्ञाधिकरणम् ॥