ॐ त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॐ
११. अथ इन्द्रियाधिकरणम्
सूत्रभाष्यम्
‘अथेन्द्रियाणि प्राणा वा इन्द्रियाणि प्राणा हीदं द्रवन्ति’ इति सयुक्तिका पौत्रायणश्रुतिः सामान्येन प्राणानामिन्द्रियत्वं वक्ति । ‘द्वादशैवेन्द्रियाण्याहुर्मनोबुद्धी तु द्वादश’ इति च काषायणश्रुतिः । अतः कस्येन्द्रियत्वं निवार्यत इत्यतो वक्ति–
॥ ॐ त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॐ ॥ १८ ॥
मुख्यप्राणमृते त एवेन्द्रियाणि ।
‘द्वादशैवेन्द्रियाण्याहुः प्राणो मुख्यस्त्वनिन्द्रियम् ।
द्रवतां हीन्द्रियाणां तु नियन्ता प्राण एकराट्’ इति पौत्रायणश्रुतिः ।
‘श्रोत्रादीनि तु पञ्चैव तथा वागादिपञ्चकम् ।
मनोबुद्धिसहायानि द्वादशैवेन्द्रियाणि तु ।
विषयद्रवणात्तेषामिन्द्रियत्वमुदाहृतम् ।
तेषां नियामकः प्राणः स्थित एवाखिलप्रभुः’ इति बृहत्संहितायाम् ।
तत्त्वप्रदीपिका
एवमस्य प्राणस्य भविष्यद्ब्रह्मणः श्रुतिस्मृतिप्रसिद्धं त्रिवृत्कुर्वतः परमादनन्तस्रष्टृत्वमनुसन्दर्श्य त्रिवृत्कृतैर्भूतैरारभ्यमाणं शरीरमधिकृत्य विचार्यते । भूतसृष्टिं जीवस्वरूपं चोक्त्वा तस्य भोग-साधनानां प्राणानां स्वरूपं निगद्य तदाधारभूतं मुख्यप्राणं चानुवर्ण्य तैर्भूतैस्त्रिवृत्कृतैरारभ्यं तस्य सप्राणस्य भोगायतनं शरीररूपं निरूपयतीति श्लिष्यते । यस्मादुत्क्रान्तस्य संसारिणो गत्यादि-निरूपणा समीपे करिष्यते । ‘यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति, वातं प्राणश्चक्षुरादित्यं मनश्चन्द्रं दिशः श्रोत्रं पृथिवी शरीरमाकाशमात्मा’ इति बृहदारण्यके । मांसादि भौमं यथाशब्दमितरयोश्च । मांसादीत्यादिशब्देन मन आदि । ‘अन्नमशितं त्रेधा विधीयते । तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति, यो मध्यमस्तन्मांसं, योऽणिमस्तन्मनः । आपः पीतास्त्रेधा विधीयन्ते । तासां यः स्थविष्ठो धातुस्तन्मूत्रं भवति, यो मध्यमस्तल्लोहितं, योऽणिष्ठः स प्राणः । तेजोऽशितं त्रेधा विधीयते । तस्य यः स्थविष्ठो धातुस्तदस्थि भवति, यो मध्यमस्तन्मज्जा, योऽणिष्ठः सा वागन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक्’ इत्यादि शब्दानुकूल्येनाप्तेजसोश्च कार्यमस्मिन्नेव शरीरे लोहितास्थ्यादि ग्राह्यम् । अथवा मांसादिभौममित्युक्तमित्येतावता भौममेवेति नाशङ्कनीयम् । किन्तु अप्तेजसोश्च कार्यं यथाशब्दमङ्गीकर्तव्यम् । यद्वा वाथो विमिश्रमित्यादि श्रुतेः । विमिश्रं शरीरादि मांसादि वा । मिश्रत्वाद्भूतानीत्याचक्षते । सम्भूतत्वात् । एवं ग्रहणे ‘यत्कठिनं सा पृथिवी’ इत्याद्युक्तिविरोध इत्यत आह– पञ्चभूतात्मकं सर्वमित्यादि ॥ मांसादि सर्वमप्येकैकशः पञ्चभूतात्मकम् । तथाऽपि तत्र प्राधान्यविवक्षया भौमं मांसमित्यादि व्यवहारः ।
‘सर्वं च भौतिकं मिश्रं मिश्रत्वेऽपि विशेषिता ।
भौमं मांसमसृग्वारि तेजो मज्जा विशेषत’ ॥ इत्यादेश्च ।
यत्र प्रायो भूतसाम्यं तस्मिन्नंश एकैकभूतानुगतत्वविवक्षया तत्तदात्मकत्वं श्रुतिषूच्यत इत्युक्ति-नानात्वेऽप्यविरोधः । अतो हि श्रुतिराधिक्यानुसारेण तत्तदात्मकत्वमुक्त्वाऽऽह ‘यद्विज्ञात-मिवाभूदित्येतासामेव देवतानां समास’’ इति । ‘इतरेऽर्धे विभागिन्य’ इति वचनात्, ‘भूयस्त्वा-च्चापाम्’ इति वक्ष्यमाणत्वाच्च ‘अम्मयं तु यतो मांसम्’ इत्युक्त्यविरोधः ।
अथ च स्थलजानां शरीरं पार्थिवं, जलजानामाप्यं, स्वर्गिणां तैजसमित्यादिविशेषव्यवहारस्य गतिमाह– वैशेष्यात्तु तद्वादस्तद्वादः ॥ तस्य तस्य भूतस्याधिकसंयोगादेव तत्तद्व्यवहारः । अर्धेन भागेन पृथिवी समाश्रितोपादानत्वेन । ‘इतरेऽर्धे त्रिभागिन्य आप’ इति स्वर्गिशरीरेऽपि बोद्धव्यम् । आप्यानामापोऽर्धभागिन्य इति सिद्धमविरुद्धस्समन्वय इति ।
॥ इति तत्त्वप्रदीपिकायां द्वितीयाध्यायस्य चतुर्थः पादः ॥
तत्त्वप्रकाशिका
अत्र जगत्कारणे हरौ श्रुतिसमन्वयसिद्ध्यर्थं प्राणविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । विष्णौ जगत्कारणे कथितः श्रुतिसमन्वयः प्राणविषयश्रुतीनां विरोधेनाप्रामाण्ये न सेत्स्यतीत्यसौ निराकर्तव्यः । तत्र संशयबीजं श्रुतिविगानं दर्शयन् विषयसंशयपूर्वपक्षांश्च सूचयति ॥ अथेति ॥ प्राक् प्रकृतमिन्द्रियत्वमत्र विषयः । तत्काचित् श्रुतिः प्राणशब्दवाच्यानां त्रयोदशानामपि वक्ति । सामान्येनोक्तत्वात् । सामान्यवचनस्य च सर्वगामित्वात् । अन्या श्रुतिर्द्वादशानामेव तद्वक्ति । अतो विप्रतिपत्तेः संशयः । किं सर्वेषां प्राणानामिन्द्रियत्वमुतैकस्य निवार्य द्वादशानामेवेति । सर्वेऽपि प्राणा इन्द्रियाणि । ‘प्राणा वा इन्द्रियाणि’ इति श्रुतेः । न च सामान्यश्रुतित्वाद्विशेषश्रुत्येतरया बाधः । इदं द्रवणयुक्तियुक्तत्वात् । अस्ति खलु सर्वेषां प्राणानामिदं द्रवणमिति । दुष्करं च द्वादशानामेवेन्द्रियत्वग्रहणम् । अन्यतमनिवारण-स्याशक्यत्वात् । मुख्यप्राणो नेन्द्रियमिति चेन्न । तथात्वे चक्षुषोऽनिन्द्रियत्वं किं न स्यात् । न हि मुख्यप्राणचक्षुषोः कश्चन विशेषोऽस्ति येन मुख्यप्राणो नेन्द्रियं चक्षुरिन्द्रियमिति निश्चिनुमः । उभयोरीशवशत्वाविशेषात् । प्रातिस्विकविशेषाणां तु श्रोत्रादिष्वपि साम्यात् । चक्षुरादिष्वप्येवं द्रष्टव्यम् । अतो युक्तियुक्ताद्यश्रुतिविरोधाद् द्वितीयाप्रमाणमेवेति न जगत्कारणे ब्रह्मणि श्रुतिसमन्वयो युक्त इति भावः । द्वादशे एकादशद्वादशे । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ न ते सर्वे प्राणा इन्द्रियाणि किं तर्ह्येकमृते द्वादशैव तत्र च मुख्यप्राणमृतेऽन्ये प्राणा इन्द्रियाणि न मुख्यस्तथा विशेषश्रुतेरिति भावः । इदं द्रवणवतस्तस्य कथमिन्द्रियत्वं नास्तीत्यत उक्तम् ॥ द्रवतामिति ॥ अत्रैव स्मृतिमाह ॥ श्रोत्रादीनीति ॥
गुर्वर्थदीपिका
त्रयोदशानामित्यत्र सामान्यवचनस्य सकलप्राणाभिधायकत्वेन श्वासाभिमानिमुख्यप्राणस्यापि द्वादशेन्द्रियैस्सह ग्रहणे त्रयोदशत्वमिति ज्ञेयम् । इदं द्रवणयुक्तियुक्तत्वादित्यत्र ‘प्राणा हीदं द्रवन्ति’ इति सामान्यतः प्राणशब्दवाच्यानामिदं द्रवणकथनान्मुख्यप्राणस्यापीदं द्रवणमस्तीति शङ्कितुराशयः । इदं स्वस्वविषयं प्रति द्रवणमिदं द्रवणमित्यर्थः । मुख्यप्राणस्य चेतनत्वात्कथ-मिन्द्रियत्वमित्यत आह प्रातिस्विकेति ॥ प्रातिस्विकविशेषाणामप्राप्यकारित्वं नभोंऽशाद्युपचितत्वं शब्दादिग्राहित्वमित्यादिविशेषाणामित्यर्थः । चक्षुरादिष्वपीत्यत्र चक्षुर्मुख्यप्राणतदभिमन्यमानश्वासे-ष्वित्यर्थः ।
भावबोधः
अनन्तरसङ्गतिं सूचयन् विषयमाह– प्राक् प्रकृतमिन्द्रियत्वमिति ॥ पूर्वाधिकरणे करण-भूतचक्षुरादिप्राणप्रसङ्गेन तदिन्द्रियत्वस्यापि प्रकृतत्वादित्यर्थः । यद्वा पूर्वं मुख्यप्राणस्य जीवं प्रत्यकरणत्वमुक्तम् । तस्यापीन्द्रियत्वेन तं प्रति करणत्वादिति पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति किमिति ॥ अत्र प्राणपदोक्तानां त्रयोदशानामपीन्द्रियत्वमुत द्वादशानामेवेति चिन्ता । तदर्थं द्वादशानमेवेन्द्रियत्वं ‘प्राणा वा इन्द्रियाणि’ इति श्रुतिविरुद्धं न वेति । तदर्थं सामान्यश्रुतिः किमिदं द्रवणयुक्तियुक्तत्वेन निरवकाशोत ‘द्वादश वा’ इति विशेषश्रुत्यनुसारेणैकपरित्यागे-नेतरप्राणमात्रविषयत्वेन सावकाशेति ॥ एकपरित्यागेऽपि चक्षुरादीतरप्राणेष्वेवान्यतरपरित्याग उत मुख्यप्राणपरित्याग इति । तदर्थं मुख्यप्राणस्य चक्षुरादिभ्य इदं द्रवणराहित्यसर्वकर्तृकारयितृत्वादि-रूपो विशेषो नास्त्युतास्तीति । मुख्यप्राणस्याप्यन्यसाम्यमिति न्यायविवरणांशाभिप्रायमाह– तथात्व इति । द्वितीयसूत्रनिवर्तनीयामाह– न हीति ॥ ईशवशत्वसाम्येनेति न्यायविवरणानु-सारेणाह– उभयोरिति ॥
ननूभयोरीशवशत्वाविशेषेऽपि जीवापेक्षया ब्रह्मकरणत्वाभावादिरूपविशेषेण तस्यानिन्द्रियत्वं स्यादित्यत आह– प्रातिस्विकेति ॥ चक्षुरादिष्वेवमिति ॥ चक्षुर्नेन्द्रियमिति चेत्, न; तथात्वे श्रोत्रस्यानिन्द्रियत्वं किं न स्यादित्यादि द्रष्टव्यमित्यर्थः । सूत्रांशव्याख्यानपरं त एवेन्द्रियाणीति भाष्यमेवकारव्यावर्त्यप्रदर्शनपूर्वकं व्याचष्टे– न ते सर्व इत्यादिना ॥ ‘अन्यत्र श्रेष्ठात्’ इति सूत्रांशव्याख्यानपरमुख्यप्राणमृत इत्येतद्व्याचष्टे– तत्र च मुख्यप्राणमिति । इदं द्रवणमित्युक्ते-र्मुख्यप्राणे असिद्धिं वक्तुं ‘द्रवतां हि’ इति श्रुतिविशेषोदाहरणमित्यभिप््रोत्याह– इदं द्रवणवत इति ॥
भावदीपः
सङ्गतिं दर्शयति ॥ प्राक्प्रकृतमिति ॥ सप्तगतेर्विशेषितत्वाच्चेत्यत्र ज्ञानेन्द्रियकर्मेन्द्रियत्वाभ्यां प्रकृतं प्राणानामिन्द्रियत्वमित्यर्थः । तदनन्तरमेवैतच्चिन्तामकृत्वात्र कृतौ चन्द्रिकायामेवावान्तर-सङ्गतिरुक्ता ॥ विशेषश्रुत्येति ॥ द्वादशैवेत्येवकारेण मनोबुद्धीत्विति विशिष्योक्त्या च विशेषश्रुतित्वमितरेन्द्रियाणां दशत्व एव पर्यवसानादिति भावः । इदं विषयजातं प्रतिद्रवणमिदं द्रवणं तद्रूपयुक्तीत्यर्थः । ईशवशत्वसाम्यान्मुख्यप्राणस्याप्यन्यसाम्यमित्यन्यत्रोक्तं प्रस्ताव्य योजयति ॥ दुष्करं चेत्यादिना साम्यादित्यन्तेन ॥ जीवापेक्षया ईश्वरप्रयोज्यत्वाप्रयोज्यत्वरूपविशेषोऽ-स्तीत्यत आह ॥ प्रातिस्विकेति ॥ दर्शनश्रवणादिहेतुत्वादिरूपेत्यर्थः ॥ चक्षुरादिष्वप्येवमिति ॥ चक्षुर्नेन्द्रियमिति चेन्न । तथात्वे श्रोत्रस्यानिन्द्रियत्वं किं न स्यादित्यादि बोध्यमित्यर्थः ॥ अत इति ॥ इदं द्रवणस्य सर्वत्र भावादेकस्यापीन्द्रियत्वनिवारणासम्भवाच्च युक्तियुक्तेत्यर्थः । श्रुतौ मनोबुद्ध्योः सम्भूय द्वादशत्वोक्तेरितरेन्द्रियाणां दशत्व एव पर्यवसानाद् एकादशाभावेन द्वादशैवेति श्रुतिः कथमिन्द्रियद्वादशत्वे मानमित्यत आह ॥ द्वादशे इति ॥ अन्यथा द्विवचनप्रयोगो न स्यादिति भावः । सूत्रे भाष्ये च श्रेष्ठादन्यप्राणानामिन्द्रियत्वोक्त्या लब्धं सामान्यमाह ॥ न त इति ॥ भाष्यसूत्रयोरर्थमाह ॥ मुख्यप्राणमिति ॥ प्राणा इति सूत्रे त इति तच्छब्देन पूर्वत्र तस्य चेति चशब्देन समुच्चितप्राणपरामर्श इति भावः । सूत्रे प्राणोऽनिन्द्रियमित्यनुक्त्वा श्रेष्ठादन्ये प्राणा इन्द्रियाणीत्युक्त्या लब्धस्यैवेत्यस्यार्थो न मुख्य इति । श्रुतिरिति भाष्यं श्रुतेरिति व्याख्येयमिति भावेनाह ॥ तथा विशेषश्रुतेरिति ॥ उत्तरार्धोपयोगमाह ॥ इदमिति ॥
अभिनवचन्द्रिका
अन्या श्रुतिरिति ॥ सत्यं ‘द्वादश वेन्द्रियाण्याहुः’ इति श्रुतिःद्वादशानामेवेन्द्रियत्वं वक्ति, तथापि – न विप्रतिपत्तिः । द्वादशत्वसंख्यापूरकत्वस्य ‘मनोबुद्धी तु द्वादश’ इति व्यासज्यवृत्तिताभिधानेन प्रागुक्तत्रयोदशानामन्यतमस्याऽपरित्यागादिति चेत्, स्यादेतदेवम्, ‘यदि मनोबुद्धी तु’ इति श्रुत्या द्वादशत्वम्, ‘इतिहासपुराणःपञ्चमो वेदः’ इत्यत्र इतिहासपुराणयोः पञ्चमत्वमिव मनोबुद्ध्योर्व्यासज्य वर्तत इत्युक्तं स्यात् । न चैवं किंनाम प्रत्येकं द्वादशत्वं तत्र तत्र विश्रान्तमुच्यते ‘द्वादशे’ इति द्विवचनश्रवणात् । अन्यथा पञ्चम इति वद् अत्रापि एकवचनमेव स्यात् । तथा ‘मनोबुद्धी’ इत्यत्र समाहारः स्यात् । ततश्च मुख्यप्राणस्य परित्याग एवेति भवति श्रुत्योर्विरोध इति ॥ चक्षुरादिष्वप्येवमिति ॥ परित्यागे बाधकमूह्यमित्यर्थः । उभयोर्द्वादशत्वमयुक्तमित्यतो मनस एकादशत्वे बुद्धेर्द्वादशीत्वं, बुद्धेरेकादशीत्वे मनसो द्वादशत्वमिति व्यवस्थया तदूह्यमिति भावेनाह– द्वादशे एकादशद्वादशे इति ॥ एकादशं च एकादशी च एकादशे ‘नपुंसकमनपुंसके’ इत्येकशेषः । तथा द्वादशं च द्वादशी च द्वादशे । ततः कर्मधारयाः । एकादशे च ते द्वादशे च एकादशद्वादशे इति । ततो मनोबुद्ध्योः प्रत्येक-मेकादशत्वं द्वादशत्वं च लभ्यते । यदि मनस एकादशत्वमेव बुद्धेर्द्वादशीत्वमेवेति टीकाशयः स्यात् तर्हि एकादशद्वादशावित्येव ब्रूयात् । न चैवमुक्तवान् । तेनोक्त एवाशयो बोध्यः । एतेन एकादशद्वादशशब्दयोर्विरूपत्वात् श्रुतौ एकशेषोऽनुपपन्न इति परास्तम् । मनोबुद्ध्योरुभयोरपि द्वादशत्वस्येह विवक्षितत्वे द्वादशं च द्वादशी चेति स्थिते ‘नपुंसकमनपंुसकेनैकवच्चास्यान्यतरस्याम्’ इत्यनेन एकशेषाङ्गीकारात् ।
वाक्यार्थमुक्तावली
प्राक् प्रकृतमिन्द्रियमितिकरणत्वेन प्रकृतमित्यर्थः । तेन मुख्यप्राणस्य जीवं प्रत्यकरणत्वमयुक्तं तस्यापीन्द्रियत्वेन तं प्रति करणत्वादिति पूर्वपक्षोत्थानादनन्तरसंगतिरुक्ता भवति । अतः कस्येन्द्रियत्वमित्यस्यार्थो ऽतो विप्रतिपत्तेरिति किमिति ॥ अत्र प्राणपदोक्तानां त्रयोदशा-नामपीन्द्रियत्वमुत द्वादशानामेवेति चिन्ता । तदर्थं प्राणा वा इन्द्रियाणीति सामान्यश्रुतिः किमिदं द्रवणयुक्तियुक्तत्वेन निरवकाशोत द्वादशा वा इति विशेषश्रुत्यनुसारेणैकतरपरित्यागेनेतर-प्राणविषयत्वेन सावकाशेति ॥ एकपरित्यागेऽपि चक्षुरादीतरप्राणेष्वेवान्यतरपरित्याग उत मुख्यप्राणपरित्याग इति । तदर्थं मुख्यप्राणस्य चक्षुरादिभ्य इदं द्रवणराहित्यादिरूपविशेषो नास्त्युतस्तीति । समानत्वमित्युक्तपूर्वपक्षन्यायसूचकं सामान्येन प्राणानामिन्द्रियत्वं वक्तीति भाष्यं व्याचष्टे ॥ प्राणानामिन्द्रियाणीति । सामान्यश्रुतेरित्यर्थः ॥ न च सामान्येति ॥ द्वादशै-र्वेन्द्रियाणीति विशेषश्रुत्या प्राणा इन्द्रियाणीति श्रुतेर्द्वादशप्राणविषयत्वावगतेरित्यर्थः । सर्वेषामपि प्राणानामिदं द्रवणस्य समानत्वमिति प्रकारान्तरेण न्यायविवरणपरं प्राणा हीदं द्रवन्तीति भाष्यं व्याचष्टे ॥ इदं द्रवणेत्यादिना ॥ कस्येन्द्रियत्वं निवार्यते न कस्यापीत्याक्षेपार्थत्वमनुसृत्याह ॥ दुष्करं चेति ॥ अन्यतमनिवारणस्य शक्यत्वत इन्द्रियाणीति प्रथमसूत्रोक्तमाशङ्क्य प्रतिषेधति ॥ मुख्यप्राण इति ॥ मुख्यप्राणस्य कुतो नेन्द्रियत्वाभाव इत्यतः समानत्वन्यायं प्रकारान्तरेण विवृणोति ॥ तथात्व इति ॥ मुख्यप्राणस्यानिन्द्रियत्वे चक्षुषोऽप्यनिन्द्रियत्वं प्रसज्यत इति समानत्वमित्यर्थः । एकस्यानिन्द्रियत्वे तस्याप्यनिन्द्रियत्वं कुत इत्यतस्समानत्वं प्रकारान्तरेणाह ॥ न हीति ॥ न हि मुख्यप्राणे चक्षुषो विशेषोऽस्ति । प्राणत्वसाम्यादित्यर्थः । नापि द्रवणाद्रवणकृतविशेषोऽस्तीत्युक्तम् । कश्चनेति प्राणत्वाविशेषादिति भावः । नन्वीशसाम्यं मुख्यस्येतरेषां तदभाव इत्यस्ति महान् विशेष इति भेदश्रुतेरित्युक्तम् । विशेषं प्रतिक्षिपति ॥ उभयोरपीति ॥ नन्वीशवशत्वाविशेषेऽपीश्वरवत्सर्वकर्तृत्वसर्वकारयितृत्वसद्भावात्प्राणस्य नेन्द्रियत्व-मन्येषां तदभावादिन्द्रियत्वमित्यत आह ॥ प्रातिस्विकेऽपीति ॥ ईश्वरवशत्वे समानेऽपि यः प्रातिस्विको विशेषोऽवान्तरवैलक्षण्यं तस्य श्रोत्रादिष्वपि साम्यात् । श्रोत्रादि देवा अपि हि स्वयोग्यसर्वकर्तारः स्वावरकारयितारश्चेति भावः ॥ चक्षुरादिष्वपीति ॥ न चक्षुर्विना द्वादशेन्द्रियादिश्रौतस्याप्यनिन्द्रियत्वप्रसङ्गादित्यादि द्रष्टव्यमित्यर्थः । उभयोर्द्वादशत्वायोगादाह ॥ एकादशद्वादश इति ॥ मनस एकादशत्वे बुद्धेर्द्वादशत्वं बुद्धेरेकादशीत्वे मनसो द्वादशत्वमिति तदूह्यमिति भावः । एकादशं चैकादशी चैकादशोऽनपुंसकमनंपुंसकेनेत्येकशेषः । तथा द्वादशं च द्वादशी च द्वादशे ततः कर्मधारयः । एकादशे च ते द्वादशेच एकादशद्वादश इति तथा मनोबुध्योः प्रत्येकमेकादशत्वं द्वादशत्वं च लभ्यते । यदि मनस एकादशत्वमेव बुद्धेर्द्वादशीत्वमेव टीकाशयः स्यात्तर्ह्येकादशद्वादश्यावित्येव बूयात् । न चैवमुक्तवान् तेनोक्तएवाशयो बोध्य एतेनेकादशद्वादश शब्दयोर्विरूपत्वात्सरूपाणामेकशेष इत्युक्त प्राप्त्यभावात् । श्रुतावेकशेषोऽनुपपन्न इति निरस्तम् । मनो बुध्योरुभयोरपि द्वादशत्वस्येह विवक्षितत्वेन द्वादशं च द्वादशी चेति स्थिते नपुंसकमनपुंसकेनैकवच्येत्यनेनैकशेषाङ्गीकारादिति । श्रेष्ठादन्यत्र मुख्यप्राणादन्ये ते प्राणा इन्द्रियादि न श्रेष्ठः कुतस्तद्व्यपदेशात् तस्य श्रेष्ठानिन्द्रियत्वस्य द्वादशैवेन्द्रियाण्याहुरिति श्रुतौ व्यपदेशादिति सूत्रार्थं विशदमाह ॥ न त इति ॥ इत्यत उक्तमिति ॥ इत्यत इदं द्रवणयुक्तेरसिद्धं सूचयितुं प्रयुक्तस्य श्रेष्ठपदस्यार्थप्रमाणमुक्तमित्यर्थः । सूत्रे श्रेष्ठादन्य इति वाच्येऽन्यत्रेति विषयसप्तमी द्योतनं तु प्राणा वा इन्द्रियाणीति सामान्यश्रुतेस्तदतिरिक्तविषयत्वमिति बोध्यम् ।
वाक्यार्थविवरणं
सामान्येनोक्तत्वादिति ॥ प्राणशब्दवाच्याः प्राणा वा इन्द्रियाणीति सामान्येनेत्यर्थः ॥ इदं द्रवणमिति ॥ स्वस्वविषयजातमुद्दिश्य द्रवणमित्यर्थः । अन्यतमनिवारणं शक्यमित्याशङ्कते ॥ मुख्यप्राण इति ॥ नन्वीशवशत्वाविशेषेऽपि ब्रह्मसामर्थ्येन जीवप्रयोज्यत्वरूपं ब्रह्मकरणत्वं चक्षुरादावस्ति न मुख्यप्राण इत्यवान्तरविशेषोऽस्तीति न तस्येन्द्रियत्वमित्यत आह ॥ प्रातिस्वि-केति ॥ श्रोत्रादिष्विति ॥ तत्रापि श्रोत्रत्वादेः सत्त्वात् तेषामपीन्द्रियत्वं न स्यादित्यर्थः ॥ इत्यत उक्तमिति ॥ इदं द्रवणमेव तस्य नास्तीत्युक्तमित्यर्थः ।
वाक्यार्थमञ्जरी
विशेष श्रुत्येति ॥ द्वादशैवेति विशिष्योक्तेरिति भावः ॥ इदं द्रवणेति ॥ इदं विषयजातमुद्दिश्य द्रवणादीन्द्रियपदप्रवृत्तिनिमित्तवत्त्वयुक्तीत्यर्थः । ननूभयोरपीशवशत्वसाम्येऽपि जीवापेक्षया ब्रह्मकरणत्वाच्चक्षुष इन्द्रियत्वं मुख्यप्राणस्य तदभावादनिन्द्रियत्वमस्त्वित्यत आह ॥ प्रातिस्विकेति ॥ प्रतिव्यक्तिनियतावान्तरविशेषाणां श्रोत्रादिष्वपि सत्त्वेन तेषां मध्ये केषाञ्चि-दिन्द्रियत्वं केषाञ्चित्तदभावः स्यादित्यर्थः ॥ चक्षुरादिष्वप्येवमिति ॥ चक्षुर्नेन्द्रियमिति चेन्न तथात्वे श्रोत्रस्यापीन्द्रियत्वं न स्यादित्यादि द्रष्टव्यमित्यर्थः । मनोबुद्ध्योरुभयोरपि द्वादशत्वप्रतीति-निरासायाह ॥ एकादशद्वादशेति ॥ छान्दसत्वान्न कश्चित् क्षुद्रोपद्रवः ॥ श्रेष्ठान्मुख्यप्राणाद् अन्यत्र अन्ये ते प्राणा इन्द्रियाणि कुतस्तद्व्यपदेशात् तस्योक्तार्थस्य द्वादशैवेति श्रुत्युक्तत्वादित्यर्थः ।
ॐ भेदश्रुतेः ॐ
सूत्रभाष्यम्
॥ ॐ भेदश्रुतेः ॐ ॥ १९ ॥
‘स्थित एव हीदं मुख्यप्राणः करोति कारयति बलति बालयति धत्ते धारयति प्रभुं वा एनमाहुरथेन्द्रियाणि न स्थितानि न कुर्वन्ति न कारयन्ति न बलन्ति न बालयन्ति न दधते न धारयन्ति तानि ह वा एतान्यबलानि तस्मादाहुरिन्द्रियाणि करणानि’ इति पौत्रायणश्रुतेः ।
तत्त्वप्रकाशिका
यदि मुख्यप्राणो नेन्द्रियं तर्हि चक्षुरपि न स्याद्विशेषाभावादित्याशङ्कां परिहरत्सूत्रमुपन्यस्य तदुपात्तश्रुतिमेवोदाहरति ॥ भेदेति ॥ न मुख्यप्राणस्य चक्षुरादीनां चाविशेषो मन्तव्यो येन तस्य विशिष्यानिन्द्रियत्वोक्तिविरोधः । मुख्यप्राणस्य सर्वकर्तृकारयितृत्वेनेश्वरसाम्यस्यान्येषां च तदभावस्य श्रुतत्वादिति भावः ।
भावबोधः
सर्वकर्तृकारयितृत्वेनेति ॥ ‘द्रवतां हि’ इत्यनेनैव मुख्यप्राणस्येदं द्रवणाभावत्वोक्तेरत्र स्थित इत्युक्तस्येदं द्रवणाभावानुक्तिरिति ज्ञातव्यम् । उपलक्षणं चैतत् । ‘यस्मिन्निदं सर्वमध्याघ्नोत्प्राणस्यै-तद्वशे सर्वं त्रिदिवे यत्प्रतिष्ठितम्’ इत्यादिश्रुतेरीशसाम्यस्यापि भावादिति न्यायविवरणोक्तप्रकारेणा-पीशसाम्यं ज्ञेयम् ।
भावदीपः
न स्यादिति ॥ इन्द्रियं न स्यादिति योज्यम् । योग्यसाध्यान्वयेन सूत्रभाष्ययोरर्थमाह ॥ नेत्यादिना ॥
वाक्यार्थमुक्तावली
विशेषभावादिति ॥ न श्रेष्ठत्वप्रयुक्तो द्रवणाद्रवणविशेष उक्त इति वाच्यम् । श्रोत्रादीनामपि स्वावरश्रेष्ठत्वेन प्रातिस्विकविशेषसद्भावादित्युक्तत्वादिति भावः । सूत्रे त इति श्रेष्ठादिति च विपरिणामेनान्वेति । श्रेष्ठस्य च द्रवणं विहायैव सर्वकृत्वस्य सर्वकारयितृत्वस्यान्येषां द्रवणं विना कर्तृत्वकारयितृत्वयोरभावस्य चोक्त्या तयोरीशसाम्यतदभावे विशेषश्रवणात्त एवेन्द्रियाणीति सूत्रार्थं मनसि निधाय भाष्यभावमाह ॥ न मुख्येति ॥ ईशसाम्यस्येत्युक्त्या । समानत्वमिति सिद्धान्त-न्यायस्य सूत्रारोहो दर्शितः ॥ सर्वकर्तृकारयितृत्वेनेति ॥ ईश्वरवत्प्रभुतया द्रवणं विना सर्वकर्तृत्वेन सर्वकारयितृत्वेनेश्वरसाम्यस्येत्यर्थः ।
वाक्यार्थविवरणं
सर्वकर्तृकारयितृत्वेनेति ॥ सर्वकर्तृत्वेन सर्वकारयितृत्वेन चेत्यर्थः ।
वाक्यार्थमञ्जरी
द्वादशप्राणानां मुख्यप्राणस्य च भेदश्रुतेर्विशेषश्रवणात्त एवेन्द्रियाणीत्यर्थः ॥ सर्वकर्तृ-कारयितृत्वेति ॥ कर्तृत्वेन कारयितृत्वेन चेत्यर्थः ।