१० ज्योतिरधिकरणम्

ॐ ज्योतराद्यधिष्ठानं तु तदामननात् ॐ

१०. अथ ज्योतिरधिकरणम्

सूत्रभाष्यं

करणत्वं प्राणानामुक्तम् ।

‘जीवस्य करणान्याहुः प्राणानेतांस्तु सर्वशः ।

यस्मात्तद्वशगा एते दृश्यन्ते सर्वदेहिषु’ इति

सौत्रायणश्रुतौ सयुक्तिकं जीवकरणत्वं प्रतीयते । ‘ब्रह्मणो वा एतानि करणानि चक्षुः श्रोत्रं मनो वागिति तद्ध्येतैः कारयति’ इति च काषायणश्रुतौ अत आह–

॥ ॐ ज्योतराद्यधिष्ठानं तु तदामननात् ॐ ॥ १५ ॥

यज्ज्योतिराद्यधिष्ठानं ब्रह्म तदेवैतैः करणैः प्रवर्तयति । ‘यः प्राणे तिष्ठन्’ (बृ.उ.५-७-१६) इत्यादि तदामननात् ।

तत्त्वप्रदीपिका

एवं तावत्प्राणस्वरूपमुत्पत्तिसङ्ख्यापरिमाणवृत्तिभेदैः प्रपञ्चितम् । अकरणत्वं मुख्यस्योक्तम् । इतरेषां प्राणानां करणत्वमुक्तम् । कः पुनरत्र कर्ता यस्यैतानि करणानि भवन्त्यत आलोच्यते । यद्वशगानि तस्येति युक्तम् । जीववशगानि दृश्यन्ते श्रूयन्ते च । ब्रह्मवशगानि श्रूयन्ते । तत्र सूत्रम्– ज्योतिराद्यधिष्ठानं तु तदामननात् । ‘योऽग्नौ तिष्ठन्यस्तेजसि तिष्ठन्’ इत्यादि श्रुतेर्यज्ज्योतिराद्यधिष्ठानं तन्नियामकं ब्रह्म तदेव तस्मिन्नेव प्रकरणे चक्षुरादि नियामकं श्रूयते ‘यः प्राणे तिष्ठन्’ ‘यश्चक्षुषि तिष्ठन्’ इत्यादि । तेजःशब्दवाच्यायाः प्रकृतेः सूर्याग्न्यादेः प्राणस्य च नियन्तुः परस्य चक्षुरादिनियमनं किं कथनीयमित्यभिप्रायः । प्राणवता शब्दात् । जीवेन कर्त्रा करणैः कारयति ब्रह्म । जीवापेक्षां योजयित्वा योजयित्वेत्यर्थः । इतश्च युज्यते जीवकरणत्वश्रुतिः । अप्रयोजककर्तृत्वेऽपि जीवस्य तस्य च नित्यत्वात् । अनादिनित्यत्वात्तस्य जीवस्य करणानां तत्सम्बन्धस्य च ।

तत्त्वप्रकाशिका

अत्र जगत्कारणे नारायणे श्रुतिसमन्वयसिद्ध्यर्थमिन्द्रियविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादि सङ्गतिः । श्रुतिसमन्वयेनोक्तं हरेर्जगत्कारणत्वमिन्द्रियविषयश्रुतीनां विरोधेनाप्रामाण्येऽयुक्तं स्यादिति निरसनीयोऽसौ । अधिकरणसङ्गतिं दर्शयति ॥ करणत्वमिति ॥ करणत्वाच्चेति चशब्देनेन्द्रियाणां करणत्वमुक्तम् । तान्येव विषयः । किं जीवकरणान्युत ब्रह्मकरणानीति सन्देहः । सन्देहबीजं श्रुतिविगानं दर्शयन् पूर्वपक्षं सूचयति ॥ जीवस्येति ॥ श्रुतौ ब्रह्मकरणत्वं प्रतीयत इति शेषः । जीवकरणानीन्द्रियाणि । ‘जीवस्य करणान्याहुः प्राणान्’ इति श्रुतेः । न च श्रुत्यन्तरविरोधः । जीववशत्वेन प्राणानां दृश्यमानत्वयुक्तियुक्तत्वेन जीवकरणत्वश्रुतेः प्राबल्याद् अनुभूयते खलु स्वाधीनत्वमिन्द्रियाणाम् । अतः प्रबलश्रुतिविरोधाद् ब्रह्मकरणत्वश्रुतिरप्रमाणमेवेति न श्रुतिसमन्वयेन विष्णोर्जगत्कारणत्वसिद्धिरिति भावः । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ ब्रह्मैव चक्षुरादिभिः करणैर्दर्शनादि कारयति न पुनर्जीवकरणानि । ब्रह्मण एव तेजःप्रभृतिभूतप्रेरकत्वेन तदंशभूतानामपि चक्षुरादीनां ब्रह्म प्रयोज्यत्वस्यैवोपपत्तेः । सर्वप्राणप्रेरकमुख्यप्राणप्रेरकत्वश्रुतेर्यश्चक्षुषि तिष्ठन्नित्यादिश्रुतेश्चेति भावः । चक्षुरादिवदिति प्रकृतत्वाज्ज्योतिरादिग्रहणम् ।

गुर्वर्थदीपिका

चक्षुरादिवदिति प्रकृतत्वादित्यत्र श्रोत्रादीति वक्तव्यत्वेऽपि चक्षुषः ज्योतिरंशत्वात्तस्य च चक्षुरादिवदित्यतीताधिकरणे आदित्वेन पठनाच्चात्रापि ‘ज्योतिराद्यधिष्ठानम्’ इत्येवोक्तमिति भावः ।

भावबोधः

ननु प्राणानां करणत्वे सिद्धे ब्रह्मकरणत्वादिविचारावसरस्तदेव कुतः सिद्धमित्यत आह– अधिकरणसङ्गतिमिति ॥ ननु ‘अकारणत्वाच्च’ इति सूत्रेण मुख्यप्राणस्याकारणत्वमेवोक्तमिति कथं कारणत्वं प्राणानामुक्तमित्यत आह– ‘च’ शब्देनेति ॥ अत एवेतरेषां प्राणानां करण-त्वादिति तत्सूत्रभाष्य उक्तम् ॥ किमिति ॥ चक्षुरादिवदित्यत्र करणत्वेन प्रकृतानि चक्षुरादीनि जीवकरणान्युत ब्रह्मकरणानीति चिन्ता । तदर्थं ब्रह्मकरणत्वं जीवकरणत्वश्रुतिविरुद्धं न वेति । तदर्थं ‘जीवस्य करणान्याहुः’ इति श्रुतिः ‘यस्मात्तद्वशगाः’ इत्युक्तिश्च जीवस्वामिकत्वाभिप्रायो-तेश्वरस्वामिकत्वेऽपि जीवं प्रति क्रियासाधनत्वमात्राभिप्रायेति । तदर्थं प्राणानामीश्वरस्वामिकत्वे जीवं प्रति क्रियासाधनत्वमात्रे च प्रमाणं नास्त्युतास्तीति । यस्मादिति श्रुतिशेषोक्तयुक्तिमाह– जीववशत्वेनेति ॥ अनेनेन्द्रियाणां जीवकरणत्वे दृष्टा युक्तिरिति न्यायविवरणमपि व्याख्यातं भवति । सूत्रे ‘तु’शब्दो जीवकरणत्वरूपविपक्षव्यावृत्त्यर्थमेवकारार्थः करणैः प्रवर्तयतीत्युपस्कारो ज्योतिराद्यधिष्ठानमित्यस्यैवैतदर्थत्वेनावृत्तिर्वा । तदिति पदं व्यस्तं समस्तं च । व्यस्ततच्छब्दबलाद्य-च्छब्दलाभः । ‘ज्योतिराद्यधिष्ठानम्’ इति हेत्वर्थगर्भमित्यभिप्रेत्य प्रवृत्तं यज् ज्योतिराद्यधिष्ठानमिति भाष्यं व्याचष्टे– ब्रह्मैवैत्यादिना । ‘यः प्राणे तिष्ठन्’ इत्यादेः पौनरुक्त्यापातेन तस्य मुख्यप्राणपरत्वे कथमत्र तदुदाहरणमित्यतस्तदामननादि’ति युक्तिप्रदर्शकमपीत्यभिप्रेत्य तदुदाहरणमित्याशयेनाह– सर्वप्राणप्रेरकेति ॥ ‘यश्चक्षुषि तिष्ठन्’ इत्यादिदृष्टयुक्तेरीश्वरकरणत्वानङ्गीकार इति न्यायविवरणं ‘तदामननादि’त्येतत्प्राणानां ब्रह्मकरणत्वे श्रुतिप्रदर्शकतया व्याख्यातमित्यभिप्रेत्याह– यश्चक्षुषीति ॥

ननु कारणक्रमेण वचने आकाशाद्यधिष्ठानमिति कार्यक्रमेण वचने पृथिव्याद्यधिष्ठानमिति वक्तव्ये ज्योतिराद्यधिष्ठानमिति किं निमित्तमित्यत आह– चक्षुरादिवदिति ॥ प्रकृतत्वादिति ॥ उपलक्षणं चैतत् । ‘चक्षुषा दर्शयति’ इति श्रुतौ चक्षुष आदित्वेन ग्रहणादित्यपि ग्राह्यम् ।

भावदीपः

अधिकरणेति ॥ अस्याधिकरणस्याप्रस्तुतचिन्तापरत्वनिवृत्त्यर्थं पूर्वेण प्रस्तुतं स्मारयतीत्यर्थः । अन्यथा सामान्यासिद्धौ विशेषचिन्ताया अनवसरदुस्थत्वादिति भावः । एतेनास्य विचारस्य प्राणविषयत्वाच्छ्रेष्ठश्चेत्यतःपूर्वमेवोत्पत्तिसंख्यापरिमाणचिन्तापेटिकायां निवेशः स्यादिति शङ्काऽ-पास्ता । करणत्वोक्त्यनन्तरमेवास्याकाङ्क्षोदयात् । तर्हि तदनन्तरमेव निवेशः स्यादिति न शङ्क्यम् । प्रस्तुतमुख्यप्राणचिन्तासमाप्त्यनन्तरमेवास्योत्थानौचित्यात् सर्वप्राणप्रेरकमुख्यप्राणप्रेरकत्वाद् ब्रह्मणस् तत्कारणत्वं युक्तमित्येवं रूपत्वादस्य विचारस्येति ॥ श्रुताविति ॥ श्रुतावित्यतः परमित्यर्थः । श्रुत्युक्तामेव युक्तिं शङ्कापूर्वं व्यनक्ति ॥ न चेत्यादिना ॥ दृश्यन्त इति श्रौतपदभावमाह ॥ अनुभूयत इति ॥ अत इति ॥ सयुक्तिकत्वात्प्रबलेत्यर्थः । तदेवेत्यादिभाष्यं व्याचष्टे ॥ ब्रह्मैवेति ॥ एवकारतात्पर्यमाह ॥ न पुनरिति ॥ सौत्रतुशब्दोऽवधारणे । व्यस्तेन तत्पदेनान्वेतीति सूचितम् । यज्ज्योतिराद्यधिष्ठानं ब्रह्मेत्यस्य तात्पर्यमाह ॥ ब्रह्मण एवेति ॥ योऽग्नौ तिष्ठन्यस्तेजसि तिष्ठन्नित्यादिश्रुतेर्यज्ज्योतिराद्यधिष्ठानं तन्नियामकं ब्रह्म तदेव तस्मिन्नेव प्रकरणे चक्षुरादिनियामकं श्रूयते । यः प्राणे तिष्ठन्यश्चक्षुषि तिष्ठन्नित्यादीति तत्वप्रदीपोक्तं तदंशभूतानामपीत्येतट्टीकोक्तिं चानुरुध्य चन्द्रिकायां यदग्न्यादिरूपज्योतिराद्यधिष्ठानं ब्रह्म तदेव तत्कार्यरूपचक्षुरादिरूपज्योति-राद्यधिष्ठानमिति सूत्रं योज्यमित्याह भाष्यकार इत्युक्तं सर्वप्राणप्रेरकेत्यादि । यद्यपि यः प्राणे तिष्ठन्निति श्रुतः यो वाचि तिष्ठन् यश्चक्षुषि तिष्ठन्नित्यादि चेन्द्रियप्रायपाठाद् घ्राणपरः माध्यन्दिनानां तथा पाठाच्च । तथापि चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रतिष्ठते इति श्रुतेर् घ्राणेन्द्रियप्रधानदेवताया मुख्यवायोरपि प्राणपदेन ग्रहणादधिकार्थलाभाय मुख्यप्राणप्रेरकत्व-श्रुतेरित्युक्तम् । अत एव सर्वप्राणप्रेरकेति चोक्तिः । आदिपदेन न्यायविवरणोक्तश्रुतिर्ग्राह्येति भावेनाह ॥ यश्चक्षुषीति ॥ ननु भूतांशत्वात्प्राणानां भूतक्रमेणाकाशाद्यधिष्ठानमिति वा यः पृथिव्यां तिष्ठन्नित्यादिश्रौतक्रमानुसारेण पृथिव्याद्यधिष्ठानमिति वा वाच्यमित्यत आह ॥ चक्षुरादीति ॥

अभिनवचन्द्रिका

सन्देहबीजं श्रुतिविगानमिति ॥ ननु नेदं श्रुतिविगानम् । इन्द्रियाणामुभयकरणत्वसम्भवात् । यथा हि देवदत्तायाः पुत्रो देवदत्तस्यापि पुत्रो भवति । एवम् इन्द्रियाणि ईश्वरकरणान्यपि जीवकरणानि भविष्यन्ति इति चेत्, उच्यते भवत्येवैतच्छ्रुतिविगानम् । तथा हि– ‘जीवस्य करणान्याहुः’ इति श्रुतिस्तावज् जीवस्य करणस्वातन्त्र्यं वक्ति । ‘तद्वशगा’ इति तद्वशत्वाभि-धानात् । ‘ब्रह्मणो वा एतानि करणानि’ इति श्रुतिस्तु ब्रह्मण एव करणस्वातन्त्र्यं वक्ति । एतैः कारयतीत्यभिधानात् । न चोभयोः स्वातन्त्र्यं सम्भवतीति ॥ चक्षुरादिभिः करणैरिति ॥ स्वसम्बन्धिभिरिति शेषः ॥ न पुनर्जीवेति ॥ ईश्वराज्ञया जीवप्रयोज्यान्यपि न जीवसम्बन्धी-नीत्यर्थः । कुतो नेन्द्रियाणि जीवसम्बन्धीनीत्यतो लाघवाय ‘तदामननात्’ इति वक्तव्ये ‘ज्योतिराद्यधिष्ठानंत्विति वदता सूत्रकृता सूचितां युक्तिमाह– ब्रह्मण एवेति ॥ चक्षुरादेर्ब्रह्म-प्रयोज्यत्वस्य यथेष्टविनियोज्यत्वस्योपपत्तेर्ब्रह्मसम्बन्धीनि चक्षुरादीनि न तु जीवसम्बन्धीनि । चक्षुरादीनां देवत्वेन यथेष्टविनियोगानर्हत्वात् । तदेव हि स्वं नाम भवति, यद्यथेष्टविनियोगार्हमिति भावः ।

वाक्यार्थमुक्तावली

अधिकरणसङ्गतिमिति ॥ अव्यवहिताधिकरणसंगतिस्तु प्रकृतस्य मुख्यप्राणस्य भगवदुत्पन्नस्य निर्णीतपरिमाणस्य प्रागुक्ताकरणत्वसिद्धये प्राणानां करणत्वप्रतिपादानादिति ज्ञेयम् ॥ किमिति ॥ चक्षुरादिवदित्यत्र करणत्वे न प्रकृतानि चक्षुरादीनि किं जीवकरणान्युत ब्रह्मकरणानीति चिन्ता । तदर्थं जीवकरणत्वश्रुतिर्यस्मात्तद्वशग इत्यनुभवसिद्धयुक्तिश्च जीवस्वामित्वाभिप्रायेणोत ईश्वरस्वामि-कत्वेऽपि जीवं प्रति क्रियासाधनत्वबहुकालं जीवसम्बन्धित्वमात्राभिप्रायेणेति । जीवकरणानीति ॥ जीवकर्तृप्रयोज्यानीत्यर्थः । कुतो न विरोध इत्यतो दृष्टा युक्तिरित्युक्तमेव पूर्वपक्षन्यायं यस्मात् तद्वशगा इति भाष्यारूढतया दर्शयति ॥ जीववशत्वेनेति ॥ न च करणत्वं नाम कर्तृप्रयोज्यत्वं प्राणानां जीववशत्वानुभवे च श्रुतेरनुभवयुक्तस्वेनैव प्राबल्यं प्राप्तं किं युक्तिपर्यन्तं धावनेनेति चेत्सयुक्तिकश्रुतिविरोधस्यात्र परिहार्यत्वात् । यद्यदधीनतया दृश्यते तत्र तदधीनमिति व्याप्त्युपपत्या युक्तेर्न विवक्षोपपत्तेरिति भावः । सूत्रे चशब्दोऽवधारणे । तदिति व्यस्तं समस्तं च पदम् । ज्योति-राद्यधिष्ठानमिति चावर्तते । आद्यं हेत्वर्थं गर्भविशेषाणां द्वितीयं साध्यप्रदर्शनपरम् । ततश्च यद् ब्रह्म योऽग्नौ यस्तेजसीति तिष्ठन्नित्यादिश्रुतेर्ज्योतिरादिरधिष्ठानं यस्य तत् तन्नियामकं तदेव ज्योतिराद्य-धिष्ठानमिति ज्योतिरादिप्रकृतिकचक्षुरादिकरणाधिष्ठानं तानि कारणत्वेनोपादाय प्रवर्तयतीति यावत् । कुतस् तदामननात् । तस्य चक्षुराद्यधिष्टातृत्वस्य यश्चक्षुषि तिष्ठन्नित्यादावामननादिति सूत्रार्थमभिप्रेत्य भाष्यारोहं दर्शयति ॥ ब्रह्मैवेत्यादिना ॥ हेत्वर्थगर्भत्वं व्यनक्ति ॥ ब्रह्मण एवेति ॥ तदंश-भूतानामिति ॥ तेषां भूतैरुपचय इत्युक्तत्वादिति भावः । यः प्राणे तिष्ठन्’ इत्यादौ प्राणशब्दस्येन्द्रियपरत्वेऽन्तर्यामिब्राह्मणे यश्चक्षुषि तिष्ठन्नित्यादेः पौनरुक्त्यं मुख्यप्राणपरत्वेत्र प्रकृतानुपयोग इति कथमत्र तदुदाहरणमित्यत आह ॥ सर्वप्राणप्रेरकेति ॥ इत्यादीत्यादिपदार्थः ॥ यश्चक्षुषीति ॥ एतेन दृष्टा युक्तिन्यायोऽपि भाष्यारूढो दर्शितः । आकाशादिकारणक्रमेणाकाशा-द्यधिष्ठानमिति वाक्ये ज्योतिरादीत्युक्ते निमित्तमाह ॥ चक्षुरादिवदिति ॥ चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्य इत्यत्रेति भावः । तत्रापि श्रोत्रादिवदिति वाच्ये चक्षुरादिग्रहणमणवश्चेत्यत्र तद्यथाणुतश्चक्षष इति श्रुतौ चक्षुषः प्रकाशव्याप्तेः स्फुटभासत्वेन चक्षुष एवोपादानादिति बोध्यम् ।

वाक्यार्थविवरणं

जीवकरणान्युत ब्रह्मकरणानीति ॥ यस्मात्तद्वशगा इति वाक्यबलात् कर्तृप्रयोज्यत्वं हि करणत्वं प्रतीयते । एवं जीवकरणानीत्यादेर्जीवप्रयोज्यानि वा ब्रह्यप्रयोज्यानि वेत्यर्थो द्रष्टव्यः । प्रयोज्यत्वं प्रेर्यत्वम् । एवमुत्तरत्रापि जीवकरणत्वादिशब्दार्थोऽयमेव द्रष्टव्यः ॥ सर्वप्राणेति ॥ सर्वेन्द्रियेत्यर्थः ।

वाक्यार्थमञ्जरी

अकरणत्वाच्च न दोष इति सूत्रे मुख्यप्राणस्याकरणत्वमेवोक्तं न तु प्राणानां करणत्वं तत्कथमेतदिति तत्राह ॥ च शब्देनेति ॥ ज्योतिराद्यधिष्ठानमग्न्यादिभूतनियामकं यद् ब्रह्म तत्तु तदेव ज्योतिराद्यधिष्ठानम् अग्न्याद्यंशचक्षुरादिनियामकं तत्करणमिति यावत् कुतस् तदामननात् तस्य चक्षुरादिनियामकत्वस्य यश्चक्षुषि तिष्ठन्नित्यादिनाभिधानादित्यर्थः ॥ सर्वप्राणप्रेरकेति ॥ ‘यः प्राणे तिष्ठन्’ इति प्राणशब्दस्येन्द्रियपरत्वे यश्चक्षुषीत्यादिना पौनरुक्त्यापत्तेरिति भावः । आदिपदोपात्त-माह ॥ यश्चक्षुषीति ॥ ननु कारणक्रमेण वचने आकाशाद्यधिष्ठानमिति कार्यक्रमेण वचने पृथिव्याद्यधिष्ठानमिति वक्तव्यं ज्योतिराद्यधिष्ठानमिति वचने किं निमित्तमित्यत आह ॥ चक्षुरादि-वदिति ॥ उपलक्षणमेतत् । चक्षुषा दर्शयतीति श्रुतौ चक्षुष आदित्वेन ग्रहणादित्यपि द्रष्टव्यम् ।


ॐ प्राणवता शब्दात् ॐ

सूत्रभाष्यं

कथं जीवकरणत्वश्रुतिरित्यतो वक्ति–

॥ ॐ प्राणवता शब्दात् ॐ ॥ १६ ॥

जीवेनैव करणैः कारयति परमात्मा । अतो न विरोधः । एष ह्येनेनाऽत्मना चक्षुषा दर्शयति श्रोत्रेण श्रावयति मनसा मानयति बुद्धध्या बोधयति तस्मादेतावाहुः सृतिरसृतिरिति’ इति भाल्लवेयश्रुतेः ।

‘करणैः कारणं ब्रह्म पुरुषापेक्षयाऽखिलम् ।

श्रोत्रादिभिः कारयति करणानीत्यतो विदुः ।

न जीवापेक्षया मुख्यं कारयेत्परमेश्वरः ।

केवलात्मेच्छया तस्मान्मुख्यत्वं तस्य निश्चितम्’ ॥ इति च वाराहे ।

तत्त्वप्रदीपिका

मनोबुद्धी त्वेकादशद्वादशे इति । द्विवचनप्रयोगात् । उभयोः सम्भूय द्वादशत्व एकादशाभावप्रसङ्गः । दशत्वपर्यवसितत्वादितरेन्द्रियाणाम् । ज्ञानेन्द्रियाणां सप्तत्वं च मनोबुद्ध्यो-र्द्वित्व एव युज्यते । त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् । अयमिह सङ्ग्रहः । मुख्यप्राणस्या-निन्द्रियत्वमितरेषामिन्द्रियत्वं तदधीनत्वं तेषां द्वादशत्वं चेति । अतश्चैतत्सिद्धं, करणत्वेनैषां जीवाधीनत्वमिन्द्रियाणां सर्वात्मना च मुख्यतो ब्रह्माधीनत्वमिति ।

तत्त्वप्रकाशिका

यदि प्राणानां ब्रह्मकरणत्वं कथं तर्हि जीवकरणत्वश्रुतिरुपपद्येत किं तु ब्रह्मकरणत्वस्य विरोध एवेत्याशङ्क्य तत्परिहारत्वेन सूत्रमवतार्य व्याचष्टे ॥ कथमिति ॥ ब्रह्मकरणत्वाङ्गीकारेऽपि प्राणानां न जीवकरणत्वश्रुतिविरोधः । स्वकरणैरेव प्राणैर्ब्रह्म जीवेन दर्शनादि कारयतीत्येतदर्थत्वो-पपत्तेर्जीवकरणत्ववाक्यस्य । ब्रह्मेन्द्रियैर्जीवेन दर्शनादि कारयतीत्येतच्च श्रुतिसिद्धमिति भावः । सृतिरसृतिरिति स्वातन्त्र्येण प्रवृत्तियुक्तस्तद्विहीनश्च । अस्तु ब्रह्म जीवेन चक्षुरादिना दर्शनादि कारयतीति तथापि जीवकरणत्वश्रुतिस्तदर्थेत्येतत्कुत इत्यत आह ॥ करणैरिति ॥ करणानि जीवस्य । यद्येतानि ब्रह्मणस्तर्हि मुख्यप्राणस्याप्येतत्सम्भवतीत्यकरणत्वहेतुना प्राण एवाकरणस्तस्मान्मुख्य इत्युक्तं मुख्यत्वं विरुद्धं स्यादिन्द्रियाणां जीवकरणत्वे तदुपपत्तिरित्यत आह ॥ नेति ॥ जीवापेक्षया ब्रह्मकरणत्वं तत्र विवक्षितमिति भावः । मुख्यं मुख्यप्राणम् ।

गुर्वर्थदीपिका

‘सृ गतौ’ इति धातोः सरतीति सृतिरिति लटि कृते कर्तरि लटोऽनुशासनात्कर्तुश्च स्वतन्त्र-त्वात् स्वातन्त्र्यवान्लभ्यत इति भावेनाऽऽह । सृतिस्स्वातन्त्र्येण प्रवृत्तिरित्युक्तम् । जीवस्य सुप्तौ चक्षुरादीन्द्रियाणां व्यापारादर्शनेन तत्प्रबोधदशायां च व्यापारदर्शनेन चक्षुरादीन्द्रियाणि जीवद्वारैव प्रेरयति भगवान् । अतस्तेषां मुख्यतो ब्रह्मकरणता । अमुख्यतो जीवकरणता च श्वासस्य तदभिमानिमुख्यप्राणस्य च जीवसुप्तिदशायामपि सुतरां व्यापारदर्शनेन तदुभयं न जीवद्वारा प्रेरयति भगवान् । जीवस्य निर्व्यापारतादशायामपि प्रवर्तमानयोरनयोर् जीवव्यापारान्वयव्यतिरेकानु-विधायित्वाभावात् । अतस्तयोरमुख्यतोऽपि न जीवकरणतेति भावेनाऽऽह करणैः कारणमिति ॥ अत्रायं विवेकः । ‘प्राणवता शब्दात्’ इति सूत्रं जीवद्वारा करणानां परप्रेर्यमाणत्वमाह ॥ ‘वैलक्षण्यात्’ इति वक्ष्यमाणसूत्रं तु मुख्यप्राणस्येतो वैलक्षण्यमात्रमाह । ‘भेदश्रुतेः’ इति सूत्रं तूक्तसूत्रद्वयार्थमस्पृष्ट्वैव स्थितत्वास्थितत्वादिना प्राणस्येन्द्रियाणां च वैसादृश्यमाह । अतस्सूत्राणां न गतार्थता ।

ननु वैलक्षण्यादिति सूत्र एव सर्ववैलक्षण्यं साध्यताम् । वैलक्षण्यान्तरप्रतिपादनाय किमर्थं ‘भेदश्रुतेः’ इति सूत्रान्तरमिति चेत्सत्यम् । ‘वैलक्षण्यात्’ इति सूत्रे ‘प्राणवता शब्दात्’ इत्यत्रोक्त-प्रमेयविलक्षण पुरुषानपेक्षप्रवृत्तिरूपवैलक्षण्यमात्रसङ्ग्रहेणापि श्रोता चरितार्थस्स्यात् । ‘भेदश्रुतेः’ इति पृथक्सूत्ररचनायां त्वर्थापौनरुक्त्यघटनाय पुनरर्थान्तरे दृष्टिं दिशेत् । तेन च मुख्यप्राणस्योभयथाऽपि करणेभ्यो वैलक्षण्येन महामाहात्म्यं सिद्ध्येत् । अतस्सूत्रद्वयं सार्थकमिति भावः । करणैः कारण-मिति स्मृतिस्तु आदिसूत्रान्तिमसूत्रार्थसङ्ग्राहिका तत्र वाऽत्र वोदाहर्तव्या । प्रथमोल्लङ्घने कारणा-भावादत्रैवोदाहृतेति ।

भावबोधः

स्वकरणैरेवेति ॥ अनेन लौकिकदृष्टेस्त्वीदृशेनैव जीवानुसारित्वक्लृप्त्योपपत्तेरिति न्याय-विवरणमपि व्याख्यातं भवति । जीवकरणत्वे तदुपपत्तिरित्यर्थः । जीवापेक्षया ब्रह्मकरणत्वमिति ॥ ‘अकरणत्वाच्च’ इति सूत्रे मुख्यप्राणस्य मुख्यत्वप्रयोजकाकरणत्वप्रतियोगित्वेन यत्करणत्वमितर-प्राणानां ‘च’ शब्देनोक्तं तज्जीवेनैव करणैः कारयति परमात्मेत्याद्युक्तरीत्या जीववशत्वेन ब्रह्मप्रयोज्यत्वरूपं करणत्वं तत्र सूत्रे विवक्षितम् । मुख्यप्राणस्य जीवापेक्षया ब्रह्मकरणत्वा-भावान्मुख्यत्वोपपत्तिरिति भावः ।

भावदीपः

न विरोध इति भाष्यं व्याचष्टे ॥ किं तु ब्रह्मेति ॥ जीवेनैवेत्यादिभाष्यार्थं वदन्नेवातः शब्दार्थमाह ॥ स्वेति ॥ सूत्रे पूर्वत्र ज्योतिरादीत्यनेन प्रकृतत्वात्स्वकरणैरिति लाभः । तदित्यस्यानुवृत्तिरिति भावः । जीवेन प्रयोज्यकर्त्रेत्यर्थः । युक्तिविरोधं त्वग्रे परिहरिष्याम इति भावः ॥ करणानि जीवस्येति ॥ स्मृतौ पूर्वं पुरुषपदेन जीवस्य प्रकृतत्वात्करणानीत्यत्र जीव-स्येत्यन्वेतीति भावः । जीवस्येत्यादिस्मृतिशेषस्योपयोगं व्यनक्ति ॥ यद्येतानीति ॥ एतदिति ॥ ब्रह्मप्रयोज्यत्वरूपं ब्रह्मकरणत्वमित्यर्थः ॥ तदुपपत्तिरिति ॥ मुख्यप्राणस्याकरणत्वहेतुक-मुख्यत्वोपपत्तिरित्यर्थः । तस्य सर्वजीवोत्तमत्वेन जीवप्रयोज्यत्वरूपकरणत्वाभावादिति भावः । तावता कथमुक्तशङ्कानिवृत्तिरित्यत आह ॥ जीवापेक्षयेति ॥ जीववशत्वेन ब्रह्मप्रयोज्यत्व-रूपकरणत्वं तत्राकरणत्वाच्चेति सूत्रे विवक्षितम् । तदभावश्च मुख्ये सम्भवतीत्यर्थः । गौणप्रतिद्वन्द्वित्वभ्रान्तिं निराह ॥ मुख्यं मुख्यप्राणमिति ॥

अभिनवचन्द्रिका

ननु भूतानामाकाशप्रभृतित्वेन आकाशाद्यधिष्ठानमिति वक्तव्यमित्यत आह– चक्षुरादिवदिति ॥ ‘कथं तर्हि जीवकरणत्वश्रुतिः’ इति भाष्यं शेषपूरणेन व्याख्याति– यदि प्राणानामिति ॥ का कथंतेति पृच्छति– किंत्विति ॥ ब्रह्मकरणत्वस्येति ॥ ब्रह्मकरणत्वमबाधित्वा न प्रामाण्यं भजत इति भावः । एतेन यदि ब्रह्मकरणमित्युक्ततर्कस्य विपर्ययपर्यवसानेनैव पूर्णत्वात् ‘किंत्विति वाक्यं व्यर्थमिति परास्तम् । तदभिप्रायकथनार्थमेवाऽस्य वाक्यस्य प्रवृत्तत्वात् ।

वाक्यार्थमुक्तावली

तद्विरोध एवेति ॥ सयुक्तिकत्वादित्यर्थः । प्राणा इन्द्रियाण्यस्य सन्तीति प्राणवान् जीवः । तेन तदित्यस्ति । ब्रह्मप्राणवता जीवेन कर्ता स्वकरणैर्दर्शनादि कारयति एष ह्येनेनात्मना चक्षुषा दर्शयतीति शब्दादिति सूत्रार्थमभिप्रेत्य भाष्यार्थमाह ॥ ब्रह्मेति ॥ कारणानामीशप्रयोज्यत्वे जीवस्य तदायत्तकर्तुः कर्मसु साधनत्वात्तत्परा श्रुतिरिति भावः । जीवकरणत्वे तदुपपत्तिरिति । मुख्यप्राणस्य जीवकरणत्वाभावादकरणत्वहेतुतेत्याद्युपपत्तिरित्यर्थः ॥ जीवापेक्षया ब्रह्मकरणत्वं तत्र विवक्षित-मिति ॥ जीवेच्छामिदं करिष्य इत्यादिरूपां योजयित्वा ब्रह्मास्य स्वतन्त्रकर्तृप्रयोज्यत्वरूपकरण-त्वाच्चेति सूत्रे चशब्देन विवक्षितमित्यर्थः । यथोक्तं तत्त्वप्रदीपे जीवेन कर्ता करणैः कारयति ब्रह्मजीवापेक्षां योजयित्वेत्यर्थ इति । यद्वा जीवप्रयत्नेच्छादिकमपेक्ष्येत्यर्थः । यद्वक्ष्यतीन्द्रियाणां प्रयत्नापेक्ष एवेति । मुख्यप्राणस्य तु जीवापेक्षया ब्रह्मकरणत्वाभावान्मुख्यत्वोपपत्तिरिति भावः ।

वाक्यार्थविवरणम्

अनुपपन्नो वाऽस्त्वित्याशयेन पृच्छति ॥ किन्त्विति ॥ तथात्वेऽप्रामाण्यापत्तेः । तस्य चापौरुषेयेऽसम्भवात् । प्रत्युत ब्रह्मकरणत्वस्य ब्रह्मकरणत्वप्रतिपादकप्रमाणस्य तद्विरोधो जीवकरणत्वप्रतिपादकश्रुत्यैव विरोधोऽस्त्वित्याशयेनोत्तरमाह ॥ ब्रह्मेति ॥ स्वकरणैरेव प्राणैः परं ब्रह्म स्वप्रेर्यतया स्वस्य करणैरेव प्राणैरिन्द्रियैर्जीवेन दर्शनादिकं कारयति जीवेच्छया । जीवे प्रेर्याणि तदनुसारीणि करोतीत्यर्थः । यथोक्तं न्यायविवरणे ‘ईशेनैव जीवानुसारित्वक्लृप्त्योपपत्तिः’ इति । अभिप्रायकथनव्याजेन सूत्रार्थमाह ॥ ब्रह्मेन्द्रियैरिति ॥ प्राणवतेत्यस्यार्थमाह ॥ जीवेनेति ॥ जीव प्राणधारण इति धातोः । ब्रह्मेन्द्रियैर्दर्शनादि कारयतीति सूत्रे शेषपूरणम् । शब्दादित्यस्य तात्पर्यं श्रुतिसिद्धमिति ॥ तदर्थम् । स्वकरणैरैव प्राणैर्ब्रह्म जीवेन दर्शनादि कारयतीत्येतदर्थम् ॥ एतदिति ॥ ब्रह्मप्रयोज्यत्वेन करणत्वं सम्भवतीत्यर्थः ॥ जीवेति ॥ यदीन्द्रियाणि जीव-प्रयोज्यतया जीवकरणानि स्युस्तदैव मुख्यप्राणस्य जीवप्रेर्यत्वाभावेनाकरणत्वहेतुनोक्तं मुख्यत्वं युज्यते । न ह्येतदस्ति । इन्द्रियाणां ब्रह्मप्रयोज्यत्वेन ब्रह्मकरणत्वाङ्गीकारात् । एतादृशं च करणत्वं मुख्यप्राणस्यापि सम्भवतीत्यकरणत्वेनोक्तं मुख्यत्वं न युक्तमित्याशयः ।

ननु तर्ह्यकरणत्वादिति सूत्रे मुख्यप्राणस्य मुख्यत्वसाधकं यदकरणत्वं तत्प्रतियोगिभूतं यत्करणत्वं तत् कीदृशं विवक्षितमित्यत आह ॥ जीवापेक्षया ब्रह्मकरणत्वमिति ॥ ‘ब्रह्मणो वा एतानि करणानि’ इति श्रुतौ चक्षुरादीनां यद्ब्रह्मकरणत्वं ब्रह्मप्रयोज्यत्वं विवक्षितं तज्जीवापेक्षया जीवमपेक्ष्य जीवद्वारेत्यर्थः । यद्वा जीवेच्छयेत्यर्थः । स्वकरणान्येवेन्द्रियाणि जीवेच्छया जीवप्रेर्याणि तदनुसारीणि करोतीत्येवं ब्रह्मकरणत्वं तत्र ‘अकरणत्वात्’ इति सूत्रे अकरणत्वप्रतियोगितया विवक्षितम् । एतादृशं ब्रह्मकरणत्वं न मुख्यप्राणे । परं ब्रह्म मुख्यप्राणं जीवद्वारा जीवेच्छया वा प्रेर्यं न करोति । अत एतादृशाकरणत्वहेतुना तस्य मुख्यत्वसाधनं युक्तमिति भावः । करणैः कारणं ब्रह्मेति भाष्यस्यायमर्थः । कारणं सकलकार्यकारणं परं ब्रह्म करणैः स्वप्रयोज्यैः श्रोत्रादिभिरिन्द्रियैः पुरुषापेक्षया जीवापेक्षया जीवद्वारा जीवेच्छया चाखिलं तत्तदिन्द्रियकार्यं ज्ञानादि कारयति । ‘एष ह्यनेनात्मन’ इति श्रुतेः । तथा च स्वतन्त्रं परं ब्रह्म स्वप्रेरितेष्वेवेन्द्रियेषु स्वसङ्कल्पानुसारेणैतानि मदीयानीति जीवस्याभिमानविशेषं दत्वा तदिच्छया तत्प्रेर्याणि ज्ञानादिविषये करोतीति यावत् । अतो जीवस्य करणानीति । ‘जीवस्य करणान्याहुः’ इति श्रुतावुच्यन्त इति विदो ज्ञानिनो विदुः । परमेश्वरो मुख्यं मुख्यप्राणं जीवापेक्षया न कारयेत् । किन्त्वात्मेच्छयैव प्रेर्यं कारयेदतस्तस्य मुख्यत्वं निश्चितम् । परमेश्वरः केवलं स्वप्रेर्ये मुख्यप्राणे ‘अयं मदीयः’ इति जीवस्याभिमानविशेषं दत्वा जीवापेक्षया जीवद्वारा जीवेच्छया वा प्रेर्यं न करोतीति तस्य मुख्यत्वमिति भावः ।

वाक्यार्थमञ्जरी

ब्रह्म प्राणवता इन्द्रियवता जीवेन कर्त्रा स्वकरणैरिन्द्रियैर्दर्शनादि कारयति कुतः शब्दाद् एष हीति श्रुतेर् अतस्तानि जीवकरणानीत्युच्यन्त इत्यर्थः । एतद् ब्रह्मकरणत्वम् ॥ तदुपपत्तिरिति ॥ मुख्यप्राणस्य जीवकरणत्वाभावेनाकरणत्वहेतुनोक्तत्वेन मुख्यत्वोपपत्तिरित्यर्थः ॥ जीवापेक्षया ब्रह्मकरणत्वमिति ॥ तत्र अकरणत्वाच्चेति सूत्रे इन्द्रियाणां मुख्यत्वे यत्तु हेतुत्वेनोक्तं करणत्वं तज्जीवेनैव करणैः कारयति परमात्मेत्युक्तरीत्या जीवापेक्षया ब्रह्मकरणत्वं विवक्षितं मुख्यप्राणस्य च जीवापेक्षया ब्रह्मकरणत्वाभावान्मुख्यत्वोपपत्तिरिति भावः ।