०९ प्राणाणुत्वाधिकरणम्

ॐ अणुश्च ॐ

९. अथ प्राणाणुत्वाधिकरणम्

सूत्रभाष्यम्

‘प्राण एवाधस्तात्प्राण उपरिष्ठात्प्राणो मध्यतः प्राणः सर्वतः प्राण एवेदं सर्वम्’ इति प्राणस्य व्याप्तिः प्रतीयते ।

‘यतः सर्वं जगद्व्याप्य तिष्ठति प्राण एव तु ।

अतो धृतं जगत्सर्वमन्यथा केन धार्यत’ इति च युक्तिर्वायुप्रेाक्ते ।

‘अणुनैतत्सृज्यतेऽणुनैतद्धार्यते अणौ लयमभ्युपैति प्राणो वा अणुः प्राणो ह्येतद्भवति’ इति च सौत्रायणश्रुतिः ॥ अत आह–

॥ ॐ अणुश्च ॐ ॥ १४ ॥

स वा एष प्राणोऽणुर्महान्नामाऽन्तर्वाऽणुर्बहिर्महान्प्राणो वा ईशितव्येश ईशो ह्यसौ सर्वस्येशितव्यश्च परस्य’ इति हि कौण्डिन्यश्रुतिः ।

॥ इति प्राणाणुत्वाधिकरणम् ॥

तत्त्वप्रदीपिका

अणुश्च महांश्च । अन्तरणुर्हृदयसुषिरस्य सूक्ष्मत्वात् । अणुत्वे चास्य महावैलक्षण्यं गम्यते पृथक्सूत्रात् । यथोत्पत्तौ । तदाह– बहिर्महानिति ॥ सम्यगसम्यगवस्थानेऽपि विशेषं हि सूचयाम्बभूव, यं वयं च यथाबोधमाम्नेडितवन्तः ।

तत्त्वप्रकाशिका

अत्रेश्वरे जगत्कारणे श्रुतिसमन्वयसिद्ध्यर्थं मुख्यप्राणपरिमाणविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । जगत्कारणत्वसिद्धये हरावुक्तः श्रुतिसमन्वयः मुख्यप्राणपरिमाणविषयश्रुतीनां विरोधेनाप्रामाण्येऽयुक्तः स्यादिति स निराकार्यः । प्रकृतो मुख्यप्राण एव विषयः । व्याप्तोऽणुर्वेति सन्देहः । सन्देहबीजं श्रुतिविरोधं दर्शयन् पूर्वपक्षं च सूचयति ॥ प्राण एवेति ॥ सर्वं सर्वसत्ताप्रदः । अन्यथा व्याप्त्यभावेऽसौ न धारयेत् । तथा च केन धार्यत इत्यर्थः । श्रुतिरणुत्वं वक्तीति शेषः । व्याप्त एव मुख्यप्राणः । ‘प्राण एवाधस्तात्’ इति श्रुतेः । न चाणुत्वेऽपि श्रुतिरस्तीति तद्विरोधः । सर्वजगद्धारकत्वयुक्तियुक्तत्वाद् व्याप्तिश्रुतेः । तथा च श्रुतिः । ‘महान्वै मुख्यप्राणो येन व्याप्तं चराचरम्’ इति । ‘सप्तस्कन्धगतो लोकान्यो बिभर्ति महाबलः’ इति च हरिवंशे । अतः प्रबलश्रुति-विरोधादप्रमाणमणुत्वश्रुतिरिति न श्रुतिसमन्वयेन हरेर्जगत्कारणत्वसिद्धिरिति भावः । सिद्धान्तय-त्सूत्रमवतारयति ॥ अत इति ॥ अणुरेव मुख्यप्राणः । न च श्रुत्यादिविरोधः । यतोऽसौ बहिर्देहा-द्वर्तमानेन मुख्यरूपेण व्याप्तश्चेति सूत्रार्थः । कुतोऽयं विशेष इत्यत आह ॥ स इति ॥ प्राणश्च मुख्य एवेति ज्ञापनाय वाक्यशेषोद्धारः । न चेदं श्रुतिमात्रं सयुक्तिकश्रुतिबाधनाय नालमिति वाच्यम् । विशेषश्रुतित्वात् । नाडीसञ्चारित्वयुक्तेश्च । अणुर्वै मुख्यप्राणो य उत्क्रामति नाडीभिरिति श्रुतेः । अतः श्रुत्यविरोधेन मुख्यप्राणस्याणुत्वसिद्धेर्युक्तो जगत्कारणे ब्रह्मणि श्रुतिसमन्वय इति सिद्धम् ।

गुर्वर्थदीपिका

मुख्यवायुरूपेण व्याप्तश्चेत्यत्र जीवाणुत्वस्य ‘उत्क्रान्तिगत्यागतीनाम्’ इत्यादिनैव सिद्धत्वा-द्बहिरपि मुख्यवायोः कथं व्याप्तत्वमिति चेत्सत्यं प्राणिनां देहान्तर्बाह्यशरीरेणाप्यणुः प्राणिनां देहाद्बहिर्यावन्महत्तत्वं मुख्यवायोर्देहस्यापि व्याप्तत्वाद् व्याप्तिरिति प्रमेयभेदान्न गतार्थतेति ज्ञेयम् ।

भावबोधः

परिमाणविषयेति ॥ पूर्वाधिकरणोक्तप्राणादिप्रेरकत्वाधिकसद्गुणत्वाय प्राणस्य विभुत्व-मप्यस्त्विति पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भावः ॥ व्याप्त इति ॥ अत्र मुख्यप्राणः किं व्याप्त उताणुरिति चिन्ता । तदर्थं तदणुत्वं व्याप्तत्वश्रुतिविरुद्धं न वेति । तदर्थं व्याप्तत्वश्रुतिर् युक्तियुक्त-त्वेन निरवकाशोत सावकाशेति । तदर्थं ‘यतः सर्वं जगद्व्याप्य’ इति श्रुतिः किमान्तरमुख्यप्राण-रूपाभिप्राया किं बाह्यमुख्यवायुरूपाभिप्रायेति । तदर्थं तस्य बाह्यरूपेण व्याप्तत्वे आन्तररूपेणा-णुत्वे किं प्रमाणं नास्त्युतास्तीति । अन्यथेत्युक्तव्याप्त्यभावस्य केन धार्यत इत्याक्षेपे साक्षाद्धेतुत्व-सम्भवादाह– व्याप्त्यभावेऽसौ न धारयेदिति ॥ यतः सर्वमिति भाष्योक्तयुक्तिमाह– सर्वेति ॥ अत्र न्यायविवरणोदाहृतां श्रुतिमुदाहरति– तथा चेति । प्रमाणान्तरमप्याह– सप्तस्कन्ध इति ॥ बहिर्देहादिति ॥ अनेन सौत्र‘श्च’ शब्दो व्याप्तत्वश्रुतेः सावकाशत्वप्रदर्शनार्थ इत्युक्तं भवति ॥ वाक्यशेषोद्धार इति ॥ ‘प्राणो वाव ईशितव्येश’ इत्यादिवाक्यशेषोद्धार इत्यर्थः ॥ विशेष-श्रुतित्वादिति ॥ अन्तर्वाणुर्बहिर्महानिति अणुत्वमहत्वयोर्व्यवस्थायाः प्रतिपादकत्वेन विशेषश्रुति-त्वादित्यर्थः । अणुर्वै मुख्यप्राणो यदुत्क्रामति नाडीभिरिति दृष्टा युक्तिरणुत्वे प्राणस्येति न्यायविवरणं संयोजयति– नाडीति ॥

भावदीपः

‘यदधीना यस्य सत्ता तत्तदित्येव भण्यते’ इति स्मृतेः श्रौतसर्वपदस्यार्थमाह ॥ सर्वमिति ॥ स्मार्तान्यथापदस्यार्थमाह ॥ अन्यथेति ॥ शेषपूर्त्या वाक्यं सङ्गमयति ॥ असाविति ॥ श्रुतेरिति ॥ पूर्वं विष्णौ प्राणपदसमन्वयेऽप्यविरोधेऽन्यपरत्वस्यापि सत्त्वादिति भावः । भाष्योक्तस्मृत्युक्त-युक्तिमाह ॥ सर्वेति ॥ व्याप्तिश्रुतेः प्राबल्याय मुख्यप्राणविषयत्वाय वा स्पष्टां न्यायविवरणोक्तां श्रुतिमाह ॥ महानिति ॥ पञ्चमे बृहद्भाष्योक्तां स्मृतिं चाह ॥ सप्तेति ॥ अत इति ॥ सयुक्तिकत्वात्प्रबलेत्यर्थः । सूत्रे चोऽवधारणेऽनुक्तसमुच्चये च श्रेष्ठ इति वर्तत इत्युपेत्यार्थमाह ॥ अणुरेवेति ॥ अध्यात्मविद्यारूपापेक्षयैवकारः प्रयुक्तः । चशब्दस्योपयोगं वदन्नेवार्थान्तरमाह ॥ न चेति ॥ मुख्येति ॥ अनेन व्याप्तिश्रुतौ प्राणशब्दो मुख्यवायुपर इति सूचितम् ॥ वाक्यशेषेति ॥ प्राणो वा ईशितव्येश इत्यादिरित्यर्थः ॥ विशेषेति ॥ अणुत्वमहत्त्वरूपव्यवस्थोक्तिपरत्वेन विशेषश्रुतित्वादित्यर्थः । न्यायविवरणस्थश्रुत्युक्तयुक्तिं च वदंस्तामेव श्रुतिमाह ॥ नाडीति ॥ उत्क्रन्तिगत्या गतीनामित्युक्तन्यायादिति भावः ॥ अत इति ॥ अणुत्वानणुत्वश्रुत्योरध्यात्माधि-दैवस्थभिन्नरूपविषयत्वादित्यर्थः ।

अभिनवचन्द्रिका

मुख्यप्राणपरिमाणविषयेति ॥ मुख्यप्राणदेहपरिमाणविषयश्रुतिविरोधपरिहारादित्यर्थः ॥ व्याप्तोऽणुर्वेति ॥ महत्परिमाणोऽणुपरिमाणो वेति सन्देह इत्यर्थः ॥ सप्तस्कन्धगत इति ॥ पातालादिसप्तभूमिविवरगत इत्यर्थः ॥ व्याप्तश्चेति ॥ प्राणवाय्वोरेकत्वाद् वायुदेहस्य व्याप्तत्वेन प्राणोऽपि व्याप्ततया श्रुत्योच्यत इति न तद्विरोध इत्यर्थः । एतेन वायोर्जीवत्वेन जीवाणुत्वस्य ‘उत्क्रान्तिगत्यागतीनाम्’ इत्यत्र साधितत्वात् तस्य व्याप्तत्वकथनमयुक्तमिति परास्तम् । एतेनैव देहाद्बहिर्वर्तमानेनेत्युक्त्या व्याप्त्यभावस्यार्थादुक्तत्वात् पुनर्व्याप्त्यभिधानं विरुद्धमिति परास्तम् । देहमहत्वस्यैव विवक्षितत्वात् ।

पूर्वपक्षस्तु – व्याप्त एवायं प्राणाः । ‘प्राण एवाधस्ता’दिति व्याप्तिश्रुतेः । न चाणुत्व-श्रुतिविरोधः – सकलजगद्धारकत्वयुक्तियुक्तत्वेन व्याप्तिश्रुतेः प्राबल्यात् । अतः प्रबलश्रुतिविरोधादप्रमाणम् अणुत्वश्रुतिरिति न श्रुतिसमन्वयेन हरेर्जगत्कारणत्वसिद्धिरिति ।

सिद्धान्तस्तु – अणुरेव मुख्यप्राणाः । ‘स वा एष प्राणोऽणु’रिति श्रुतेः । न च – व्याप्तिश्रुतिविरोधः । तस्या बहिर्देहाद्वर्तमानवायुरूपविषयत्वात् । ‘कुत एतदिति चेत्’ ‘अन्तर्वाऽणुर्बहिर्महान्’ इति विशेषश्रुतेः । नाडीसञ्चारित्वयुक्तेश्च । अतः श्रुत्यविरोधेन मुख्यप्राणस्याऽणुत्वसिद्धेर् युक्तो जगत्कारणे ब्रह्मणि श्रुतिसमन्वय इति सिद्धम् ।

वाक्यार्थमुक्तावली

पूर्वाधिकरणे पञ्चवृत्त्यैतत्प्रवर्तत इत्युक्ते सर्वजगत्प्रवर्तकत्वं विभुत्वं विना न युज्यत इति पूर्वपक्षोत्त्थानादनन्तरसङ्गतिः । यद्वक्ष्यति प्राण एवेदं सर्वम् अन्यथा केन धार्यत इति ॥ व्याप्त इति ॥ मुख्यप्राणो व्याप्तोऽणुर्वेति चिन्ता । तदर्थं सयुक्तिकत्वाढ्व्याप्तिश्रुतिः प्रबलोताधिदैवरूप-विषयतया सावकाशेति ॥ अन्यथेत्युक्तव्याप्त्यभावस्य केन धार्यत इत्याक्षेपे साक्षाद्धेतुत्वासम्भवा-दाह ॥ व्याप्त्यभावेन धारयेदिति ॥ प्राणस्य व्याप्तिः प्रतीयत भाष्य एव प्राण एवाधस्तादिति श्रुतिप्रतीतस्य व्याप्तत्वस्याणुत्वेऽनुपपत्तिरित्युक्त्या दृष्टायुक्तिरित्युक्तन्यायः सूचित इति भावेनाह ॥ प्राण एवाधस्तादिति ॥ यतस्सर्वमित्यादिभाष्योक्तयुक्तिमाह ॥ सर्वेति ॥ प्राण एवाधस्तादिति श्रुतिर्मुख्यप्राणपरत्वे समाख्यासूचनाय बहुत्वेन प्राबल्यप्रदर्शनाय च न्यायविवरणोदाहृतां श्रुतिमुदाहरति ॥ तथा चेति ॥ सप्तस्कन्धगत इत्यस्य स्कन्धेन गतः प्राप्तः सन् विभवतीत्यर्थः । यः प्राणः सर्वभूतानां पञ्चधा भिद्यते नृषु । सप्तस्कन्धगतो लोकांस्त्रीन्दधार चचार चेति हरिवंशेऽन्यत्र वचनम् । सूत्रे श्रेष्ठ इत्यस्ति । चशब्दो अवधारणे व्याप्तिसमुच्चये चेति भावेन सूत्रार्थमाह ॥ अणुरेवेति ॥ सर्वप्राणिनियामकाध्यात्मरूपेणाणुरधिदैवरूपेणाण्डादिव्याप्तं प्राण एवाधस्तादिति प्राणशब्दस्त्वैक्याभिप्रायेण मुख्यप्राणवायुरूपपरो ज्ञेयः ॥ विशेषश्रुतित्वादिति ॥ रूपभेदेनाणुत्व-महत्वव्यवस्थापकत्वेन विशेषश्रुतित्वादित्यर्थः । एतेन दृष्टा युक्तिरिति सिद्धान्तन्यायोऽपि प्राणस्य व्याप्तत्वे विशेषश्रुतिदृष्टव्यवस्थायोग इति भाष्यकृता विवृतो भवति । न्यायविवरणानुसारेण श्रुतिदृष्टव्याप्तिकानुमाना युक्तिरिति भावेन न्यायं संयोजयति ॥ नाडीति ॥ उत्क्रान्तिसूत्रे जीवानां चैतन्याणुत्वविचारः । अणवश्चेत्यत्रेन्द्रियाणामणुत्वस्य रश्मिभिर्व्याप्तत्वस्य चोक्तिः । अत्र श्रेष्ठस्य रूपभेदेनाणुत्वमहत्वयोरुक्तिरिति स्पष्टो भेदः । अत्र यद्वक्तव्यं तदन्यत्रोक्तमनुसन्धेयम् ।

वाक्यार्थविवरणं

सप्तस्कन्धगतः ॥ स्कन्धः शाखा । जगद्वृक्षस्य सप्तलोकाः शाखास्थानीयाः । तथा च सप्तलोकगतो लोकान् तत्रत्यान् जनान् बिभर्तीत्यर्थ इत्याहुः । ननु ‘स वा एष’ इत्यारभ्य ‘महान्’ इत्यन्तेनैव विवक्षितार्थसिद्धेः ‘प्राणो वा’ इत्यादिकं व्यर्थमित्यत आह ॥ प्राणश्चेति ॥ स वा एव प्राण इत्यत्रोक्तः प्राण इत्यर्थः । वाक्यशेषोक्तमीशितव्येशत्वं च मुख्यप्राणलिङ्गमिति भावः ॥ श्रुतिमात्रम् ॥ युक्तिशून्यत्वं मात्रशब्दार्थः ॥ विशेषेति ॥ अणुत्वव्याप्तिश्रुत्योर्व्यवस्था-प्रतिपादकत्वेनेति शेषः । अणुत्वे युक्तिमप्याह ॥ नाडीति ॥ असिद्धिं निराह ॥ अणोरिति ॥

वाक्यार्थमञ्जरी

अन्यथेत्युक्तव्याप्यभावस्य केन धार्यत इत्याक्षेपे साक्षाद्धेतुत्वासम्भवादाह ॥ व्याप्त्यभाव इति ॥ सप्तस्कन्धेति ॥ जगदाख्यवृक्षस्य शाखारूपसप्तलोकगत इत्यर्थः । मुख्यप्राणो देहान्तर्गतेन रूपेणाणुर्बहिर्मुख्यवायुरूपेण व्याप्तश्चेत्यर्थः ॥ वाक्यशेष इति ॥ प्राणो वा ईशितव्येश इत्युदाहरणमित्यर्थः । अन्यथा परमात्मपरत्वशङ्का स्यादिति भावः ॥ विशेषश्रुतित्वादिति ॥ अन्तर्वाणुर्बहिर्महानित्यणुत्वमहत्वयोर्व्यवस्थापकत्वेन विशेषश्रुतित्वादित्यर्थः ॥ नाडीति ॥ व्याप्तत्वे गत्ययोगादिति भावः । यद् यस्माद् अतो युक्तेः श्रुत्युक्तत्वेन प्राबल्यमिति भावः ।

॥ इति प्राणाणुत्वाधिकरणम् ॥