०८ पञ्चवृत्त्यधिकरणम्

ॐ पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॐ

८. अथ पञ्चवृत्त्यधिकरणम्

सूत्रभाष्यम्

‘सर्वे वा एते मुख्यदासाः प्राणोऽपानो व्यान उदानः समान इति । अथ प्राणो वाव सम्राट्’ इति कौण्डिन्यश्रुतिः । ‘प्राणापानादयः सर्वे मुख्यदासा यतोऽनिशम् । अतस्तदाज्ञया नित्यं स्वानि कर्माणि कुर्वत’ इति युक्तिर्वायुप्रेाक्ते । ‘मुख्यस्यैव स्वरूपाणि प्राणाद्याः पञ्चवायवः । स एव प्राणिनां देहे पञ्चधा वर्ततेऽनिशम्’ इति च गौपवनश्रुतिः । अतो वक्ति–

॥ ॐ पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॐ ॥ १३ ॥

‘अथ पञ्चवृत्त्यैतत्प्रवर्तते प्राणो वाव पञ्चवृत्तिः प्राणोऽपानो व्यान उदानः समान इति । तेभ्यो वा एतेभ्यः पञ्चदासाः प्रजायन्ते । प्राणाद्वाव प्राणोऽपानादपानो व्यानाद्व्यान उदानादुदानः समानादेव समानो यथा ह वै मनः पञ्चधा व्यपदिश्यते मनोबुद्धिरहङ्कारश्चित्तं चेतनेति । तेभ्यो वा एतेभ्यः पञ्च दासाः प्रजायन्ते । मनसो वाव मनो बुद्धेर्बुद्धिरहङ्कारादहङ्कारश्चित्ताच्चित्तं चेतनाया एव चेतनैवम्’ इति ।

॥ इति पञ्चवृत्त्यधिकरणम् ॥

तत्त्वप्रदीपिका

‘यद्वै प्राणिति स प्राणः यदपानिति सोऽपान’ इत्यादिश्रुतिः । ‘ऊर्ध्वं प्राणमुन्नमयत्यपानं प्रत्यगस्यति’ इति च । व्यानो वीर्यवत्कर्महेतुः, उदान उत्क्रान्तिहेतुः, समानः सर्वाङ्गेषु रसनायकः ।

‘प्राणापानाविडायां च पिङ्गलायां च वर्ततः ।

व्यानस्सन्धिषु सर्वत्र उदानो ब्रह्मनाडिगः ।

सर्वत्रैव समानस्तु सर्वं चरति सर्वश’ इति भारते ॥

सङ्कल्पविकल्पात्मकं मनः । निश्चयात्मिका बुद्धिः । अहङ्कारोऽभिमानः ।

‘चित्तिर्बुद्धिरिति ज्ञेया चित्तं तु स्मृतिकारणम् ।

बहुस्मरणशक्तिस्तु चेतनेत्यभिधीयत’ ॥ इति शब्दनिर्णये ।

तत्त्वप्रकाशिका

अत्र जगत्कारणे हरौ श्रुतिसमन्वयसिद्ध्यर्थं प्राणादिविषयश्रुतीनां विरोधपरिहारादस्ति शास्त्रादि सङ्गतिः । विष्णोर्जगत्कारणत्वे कथितः श्रुतिसमन्वयः प्राणादिविषयश्रुतीनां विरोधेनाप्रामाण्येऽ-नुपपन्नः स्यादित्यसौ निराकार्यः । मुख्यप्राणप्रसङ्गसन्निधापिताः प्राणादयोऽत्र विषयः । किं मुख्यप्राणस्य दासा उत तत्स्वरूपाणीति सन्देहः । सन्देहबीजं श्रुतिविगानं दर्शयन् पूर्वपक्षं च सूचयति ॥ सर्व इति ॥ श्रुतिर्दासत्वं स्वरूपत्वं च वक्तीति शेषः । तत्र प्राणादयो मुख्यप्राणदासाः । ‘सर्वे वा एते मुख्यदासाः’ इति श्रुतेः । न च श्रुत्यन्तरविरोधः । प्राणादयो मुख्यप्राणदासाः । तदाज्ञया कर्मकारित्वाद् यो यदाज्ञया कर्म करोति स तद्दासः यथा लोक इति युक्तियुक्तत्वात् । तथा च श्रुतिः । ‘एष प्राण इतरान्प्राणान् पृथक् पृथगेव सन्निधत्ते’ इत्यादि । मुख्यप्राणस्वरूपाणि चैतानि ‘मुख्यस्यैव स्वरूपाणि प्राणाद्याः’ इति श्रुतेः । न च सयुक्तिकश्रुतिविरोधः । प्राणादयो मुख्यप्राणरूपाण्येव व्यक्तसद्गुणत्वादिति युक्तियुक्तत्वात्स्वरूपत्वश्रुतेरपि ‘पायूपस्थेऽपानं चक्षुः श्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रतिष्ठते । मध्ये तु समान एष ह्येतद्धुतमन्नं समं नयति । तस्मादेताः सप्तार्चिषो भवन्ति । नाडीसहस्राण्यासु व्यानश्चरत्यथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेन पापं पृथिव्यां या देवता सैषा पुरुषस्यापानमवष्टभ्य’ इत्यादेः । न चेतद्व्यक्तसद्गुणत्वं दासेषु सम्भवति । उभयत्रापि तद्भावे स्वामिभृत्यभावानुपपत्तेः । एवं च श्रुतिद्वयस्यापि समानबलत्वेन विरुद्धत्वाच्चाप्रामाण्यम् । न चोभयं युक्तम् । वस्तुविकल्पाभावादिति । अतो न विष्णौ जगत्कारणे श्रुतिसमन्वयो युक्त इति भावः । सिद्धान्तयत्सूत्रमवतार्य तस्य स्पष्टार्थत्वात्तदुपात्तश्रुतिमेवोदाहरति ॥ अत इति ॥ न केवलं प्राणादयो मुख्यदासा एवापि तु तद्वृत्तयोऽपि । न च वस्तुविकल्प-प्रसङ्गः । पृथगुभयविधाभ्युपगमात् । अत एव न श्रुतीनां युक्तियुक्तानामविरोधादप्रामाण्यम् । कुत एतत् । यतो मनोदृष्टान्तेन पञ्चदासवान्पञ्चवृत्तिश्च मुख्यप्राणो व्यपदिश्यतेऽत एवेति भावः । सङ्कल्पविकल्परूपं मनः निश्चयरूपा बुद्धिः । अस्वरूपे स्वरूपमतिरहङ्कारः । स्मरणहेतुश्चित्तम् । चेतसो व्याप्तिश्चेतना । न च प्राणादीनां मुख्यदासत्वे व्यक्तसद्गुणत्वविरोधः । दासानामपि तदुपपत्तेः । न च स्वामिभृत्यभावानुपपत्तिः । मुख्यप्राणस्य ततोऽधिकव्यक्तसद्गुणतया तदुपपत्तेः । ‘अशेषगुणपूर्णानि मुख्यरूपाणि पञ्च च । तद्दासाः पञ्च चान्येऽपि प्राणाद्याः सद्गुणैर्युताः’ इति श्रुतेः । दासानुपक्रम्य सद्गुणत्वोक्तेर्न श्रुतेर्मुख्यप्राणविषयत्वम् । अतः श्रुत्यविरोधेन प्राणादिस्वरूप-सिद्धेर्युक्तो जगत्कारणे ब्रह्मणि श्रुतिसमन्वय इति सिद्धम् ।

गुर्वर्थदीपिका

प्राणानामकेन्द्रियाणां पादमारभ्य प्रसङ्गेऽपि प्राणापानादीनां प्रागप्रस्तुतत्वान्मुख्यप्राण प्रसङ्गसन्निधापिता इत्युक्तम् । दासत्वं स्वरूपत्वं चेत्यत्र मुख्यप्राणदासत्वमित्येकः पक्षः । प्राणादि-पञ्चकस्य मुख्यप्राणस्वरूपत्वं चेत्यपरः पक्ष इति विवेको द्रष्टव्यः । व्यक्तसद्गुणत्वादित्यत्रापानस्य पायुश्चोपस्थं च पायूपस्थं तस्मिन्प्रतिष्ठित इति प्रशब्दोक्तनियन्तृत्वाख्यो गुणः, प्राणस्य मुखनासिकाभ्यां सह चक्षुश्च श्रोत्रं च चक्षुश्श्रोत्रं द्वन्द्वैकवद्भावस् तस्मिन्प्रतिष्ठते प्रकर्षेण तिष्ठत इत्युक्ततन्नियन्तृत्वाख्यो गुणः, समानस्य हुतान्न समनेतृत्वाख्यो गुणः, व्यानस्य नाडीसहस्र-नियमनाय तेषु सञ्चरणाख्यो गुणः, उदानस्योर्ध्वाधोलोकनेतृत्वाख्यो गुण इति पञ्चधा व्यक्ता-स्सद्गुणाः समीचीनगुणा येषां ते व्यक्तसद्गुणास् तेषां भावस्तत्त्वं तस्मादित्यर्थः ।

पञ्चवृत्त्येत्यत्र पञ्च वृत्तयो देवता यस्याः सा पञ्चवृत्तिः प्राणाख्या देवता तयेत्यर्थः । तद्वृत्तयोऽपीत्यत्र तद्वृत्तयः मुख्यप्राणस्य वृत्तयः वर्तयन्ति जीवस्य देहेन्द्रियपुण्यपापफलादिकमिति वृत्तिपदवाच्यानि पञ्चरूपाणीत्यर्थः । सङ्कल्पविकल्पौ रूपयतीति सङ्कल्पविकल्परूपं सङ्कल्प-विकल्पजनकमनोवस्थाविशेषः । निश्चयं रूपयतीति निश्चयरूपा निश्चयजनकमनोऽवस्थाविशेषः । अस्वरूपे स्वतन्त्रस्वरूपरहिते स्वस्मिन् स्वरूपमतिः स्वतन्त्रस्वरूपमतिर्यस्मात् सोऽहङ्कारः । संस्कारद्वारा स्मर्यमाणविषयसंसृष्टत्वरूपावस्थाविशेषश् चेतना । ‘मनसो वाव मनः’ इत्यादेर् मनोऽभिमानिस्थूलदेवात्तद्दासभूतमनोऽभिमानी कश्चिद्देवः । स्वातन्त्र्येण कोशाभिमानिराजाधि-राजवन्मनः प्रेरक एकः राजाधीनतया राजकोशरक्षकपुरुषवत्तदधीनतया मनोनियामकोऽपरः । एवमुत्तरत्रापीत्यर्थः । दासानुपक्रम्येत्यस्य ‘यथा सम्राडेवाधिकृतान्विनियुंक्ते एतान्ग्रामानधितिष्ठ-स्वैतान्ग्रामानधितिष्ठस्वेत्येवमेवैष प्राण इतरान्प्राणान्पृथक्पृथगेव सन्निधत्ते’ सन्निधापयतीत्युक्त्योप-क्रमवाक्ये प्रत्येकं ग्रामाधिपतित्वेन नियुक्ताधिकारिनिदर्शनादितरप्राणानामपीषदाधिपत्यं निरूप्येत्यर्थः । सद्गुणत्वोक्तेः ‘पायूपस्थेऽपानश्चक्षुः’ इत्यादिना मुख्यप्राणस्य ततोऽप्यधिक-सद्गुणानामुक्तेस्तदुपरितनवाक्य एवोक्तेरित्यर्थः । एवं च ‘अशेषगुणपूर्णानि मुख्यरूपाणि पञ्च च । तद्दासाः पञ्च चान्यानि प्राणाद्यास्तद्गुणैर्युताः’ । इति न्यायविवरणोक्तश्रुतेर् दासानुपक्रम्य सद्गुणत्वोक्तेश्च । श्रुतेः ‘‘मुख्यस्यैव स्वरूपाणि’ इति भाष्योक्तपूर्वपक्षश्रुतेर् न मुख्यप्राणविषयत्वं न मुख्यप्राणमात्रविषयत्वमिति योजना । एवकारस्तु मुख्यप्राणज्यैष्ठ्यज्ञापनार्थमिति भावः ।

भावबोधः

अनन्तरसङ्गतिं सूचयन् विषयमाह– मुख्यप्राणप्रसङ्गसन्निधापिता इति ॥ किमिति ॥ अत्र प्राणादयः पञ्च किं मुख्यप्राणस्य दासा उत तत्स्वरूपाणीति निर्णयो न सम्भवत्युत सम्भवतीति चिन्ता । तदर्थं प्राणादेर्मुख्यप्राणस्वरूपत्वतद्दासत्वश्रुती किं परस्परविरुद्धे उत नेति । तदर्थं श्रुतिद्वयमेकविधप्राणविषयमुतोभयप्राणविषयमिति । तदर्थं प्राणाज्ञया कर्मकारिषु प्राणादिषु पायूपस्थेऽपानमित्याद्युक्तं व्यक्तसद्गुणत्वं किं न सम्भवत्युत सम्भवतीति । तदर्थं मुख्यप्राण-स्वरूपाणां तद्दासानां च तारतम्येन व्यक्तसद्गुणत्वे विशेषप्रमाणं नास्त्युतास्तीति । प्राणापानादय इत्यादिभाष्योक्तयुक्तिमाह– प्राणादय इति ॥ तदाज्ञया कर्मकारित्वादिति ॥ प्राणादीनां च कर्माणि ।

‘प्राणापानाविडायां च पिङ्गलायां च वर्ततः ।

व्यानः सन्धिषु सर्वत्र चोदानो ब्रह्मनाडिगः ॥

सर्वत्रैव समानस्तु समं चरति सर्वशः ॥’’

इति भारतवचनाज्ज्ञेयानि । प्राणाज्ञया कर्मकारित्वे श्रुतिमाह– तथा च श्रुतिरिति ॥ प्राणादिपञ्चकव्यक्तसद्गुणत्वान्मुख्यप्राणवृत्तित्वमेवेति न्यायविवरणोक्तपूर्वपक्षयुक्तिमाह– मुख्यप्राण-स्वरूपाणि चैतानीति ॥ असिद्धिपरिहारार्थं व्यक्तसद्गुणत्वे प्रमाणमाह– पायूपस्थे इत्यादिना ॥ अतस्तदाज्ञया नित्यमिति पूर्वपक्षभाष्ये मुख्यदासत्वे युक्त्युक्तेः प्राणादिपञ्चकस्य व्यक्तगुणत्वा-न्मुख्यप्राणवृत्तित्वमिति न्यायविवरणे च मुख्यप्राणस्वरूपत्वे युक्त्युक्तेः श्रुत्योः समबलत्वाद-निर्णयरूपपूर्वपक्षफलमाह– एवं चेति ॥ तद्वृत्तयोऽपीति ॥ तत्स्वरूपभूता इत्यर्थः । पञ्चदास-वानिति ॥ अनेन सूत्रे ‘मनोवत्’ इति दृष्टान्तबलेन ‘पञ्चवृत्तिः’ इत्यनन्तरं पञ्चदासवानिति शेष इत्युक्तं भवति ॥ चेतसो व्याप्तिश्चेतनेति ॥

‘बहुस्मरणशक्तिस्तु चेतनेत्यभिधीयते’

इति हि वचनम् । मुख्यप्राणस्य ततोऽपि सद्गुणत्वादिति न्यायविवरणं योजयति– मुख्य-प्राणस्येति । न्यायविवरणोदाहृतां श्रुतिमाह– अशेषेति ॥

ननु पायूपस्थेऽपानमिति सद्गुणत्वप्रतिपादकश्रुतेर्मुख्यप्राणस्वरूपविषयत्वाङ्गीकारेणैवोपपत्तौ सद्गुणद्वैविध्यं कुतः कल्प्यत इत्यत आह– दासानुपक्रम्येति ॥ इतरान् प्राणान् पृथक् पृथगेव सन्निधत्त इति दासानुपक्रम्य तदनन्तरमेव पायूपस्थेऽपानमित्यादीनां सद्गुणत्वोक्तिरित्यर्थः ।

भावदीपः

प्राणादीति ॥ अपानव्यानादिरादिपदार्थः । सङ्गतिं सूचयति ॥ मुख्यप्राणप्रसङ्गेति ॥ किमिति ॥ अत्र यद्यपि वक्ष्यमाणनिर्णयपूर्वपक्षानुरोधेन दासाः स्वरूपाणि वेति निर्णयः शक्य उताशक्य इति संशयो दर्शनीयः । तथापि भाष्ये संशयबीजश्रुतिद्वयोक्त्यनुरोधेनैवं संशयो दर्शितः । यद्वा संशयस्यैवं वा एवं वेत्येवं रूपत्वेऽपि नोभयथापि सम्भव इति पूर्वपक्षस्य उभयथापि सम्भव इति सिद्धान्तस्य चोपपत्तेरिति भावः । भाष्योक्तयुक्त्युपेतश्रुतिमूलां पूर्वपक्षकोटिं तावद् व्यनक्ति ॥ तत्र प्राणादय इति ॥ भाष्योक्तयुक्तिं शङ्कानिरासपूर्वं व्यनक्ति ॥ न चेति ॥ कर्मकारित्वादिति ॥ यद्वै प्राणिति स प्राणः । यदपानिति सोऽपान इत्यादिप्रथमाध्यायछान्दोग्यश्रुत्याद्युक्त्या व्यानो वीर्यवत्कर्महेतुर् उदान उत्क्रान्तिहेतुः समानः सर्वाङ्गेषु रसनायक इति प्राणादीनां कर्माणि तथा तेषां स्थानानि च ‘प्राणापानाविडायां च पिङ्गलायां च वर्ततः । व्यानः सन्धिषु सर्वत्र उदानो ब्रह्मनाडिगः सर्वत्रैव समानस्तु समं चरति सर्वगः’ इति द्वितीयस्कन्धस्थद्वितीयाध्यायतात्पर्योक्त-भारतवाक्यमुदाहृत्य तत्वप्रदीपे चन्द्रिकायां च दर्शितानि’ । ‘‘प्राणः प्रवृत्तिहेतुः स्यादपानस्तु निवर्तने । बलकर्मा तथा व्यान उदानो योगकर्मकृत् । देहेन्द्रियमनोनेता समानो न स्थितिप्रदः’ इति बृहद्भाष्ये प्रथमे सप्तान्नविद्यायां प्राणादिकर्माण्युक्तानि । टीकायाम् अत्रानुक्तिस्तु उत्तरत्र व्यक्तसद्गुणत्वविशेषणेन व्यक्तीभविष्यन्तीत्यभिप्राया । वक्ष्यमाणव्यक्तसद्गुणत्वयुक्तेः श्रौतत्वेनास्या युक्तेः स्मार्तत्वेन तुल्यबलत्वं नेति मन्दाशङ्काव्युदासाय स्मृतिमूलश्रुतिं चाह ॥ तथा चेति ॥ अत एवेतरानित्युक्तिः । तदाज्ञया कर्मकारित्वादित्यत्र श्रुतिश्चास्तीत्यर्थः । षट्प्रश्ने ‘आत्मन एष प्राणो जायते’ इति प्रकृतो मुख्यप्राण इतरान्प्राणान्प्राणापानादिपञ्चवायून् पृथक्पृथगेव स्थानेषु संस्थापयतीत्यर्थः । कोट्यन्तरमाह ॥ मुख्येति ॥ एतानि प्राणादीनि । भाष्योक्तस्वरूपत्वश्रुतेः पूर्वोक्तसयुक्तिकदासत्त्वश्रुत्या समबलत्वायान्यत्रोक्तव्यक्तसद्गुणत्वयुक्तिसाहित्यमाह ॥ प्राणादय इति ॥ कथं दासेष्वनुपपद्यमानं व्यक्तसद्गुणत्वं प्राणादीनामित्यतः षट् प्रश्नवाक्योक्तं व्यनक्ति ॥ पायूपस्थ इति ॥ सप्तम्यन्तमिदम् । चक्षुः श्रोत्र इति च द्वन्द्वश्च प्राणितूर्यसेनाङ्गा-नामित्येकवद्भावः ॥ अपानमिति ॥ प्रथमार्थे द्वितीयेतीहार्थोऽभिमतः । अग्रे प्राणादिषु चतुर्षु प्रथमादर्शनात् । मलादेरपनयनेन गुणे नापाननामा सन् प्रतिष्ठित इत्यर्थः । चक्षुःश्रोत्रे मुखनासिकाभ्यां सह मुखे नासिकायां चेति यावत् । प्राणः स्वयं मुख एव श्वासादिप्राणनयनगुणेन प्राणा नामा सन् प्रतिष्ठते प्रतितिष्ठति । समानस्तु मध्ये प्राणापानयोर्नाभिदेश इति यावत् । प्रतितिष्ठति । स चैष हि यस्मादेतद्धुतं भुक्तमन्नं समं यथा शरीरावयवं नयति तेन समानो नामेति शेषः । तस्मादन्नस्य समीकरणादेताः सप्तार्चिषः सप्तज्ञानेन्द्रियवृत्तयो भवन्ति । आसु नाडीषु विविधं नयनाद् गुणाद् व्याननामा चरति । अथोदानस्तु एकया नाड्या सुषुम्नयोर्ध्वगतिश्चरति । स च तत्र चरन् जीवकृतपुण्येन निमित्तेन पुण्यं स्वर्गादिलोकं नयति । अत एवोर्ध्वनयनगुणादुदाननामा बहिः पृथिव्यां या धारिका देवता सा पुरुषस्थापानं देहे वर्तमानमपानमवष्टभ्य शरीरान्तर्वर्तत इत्यर्थः । षट्प्रश्ने टीकायामेतदधिकरणसिद्धान्तसिद्धं वर्गद्वयमुपेत्याधिष्ठानाधिष्ठातृभावेन वर्गद्वयपरतया व्याख्यानेऽपीहैतत्पूर्वपक्षी स्वरूपमात्रपरत्वं मन्यत इति तत्परतयेदं वाक्यमत्रोक्तमित्यदोषः । अत एव पूर्वं दासपरत्वेनाप्युक्तिः । तथा वैषम्यनैर्घृण्येन सापेक्षत्वादित्यत्र द्वितीये पूर्वं तु बादरायणो हेतुव्यपदेशादित्यादौ तृतीये पुण्येनेति श्रुतेः पादान्त्यप्राणनयन्यायेनेश्वरपरत्वेन भाष्यकृतो-दाहृतत्वेऽप्यविरोधेऽन्यपरत्वस्यापि भावात् प्राणपरतयैतद्वाक्योक्तिरविरुद्धा ॥ एतदिति ॥ मलापनयनश्वासप्राणनादिरूपं व्यक्तसद्गुणत्वमित्यर्थः । सिद्धान्ते त्वीशरूपेषु मुख्यानामेवैषां गुणानां प्राणरूपेषु प्रतिबिम्बितत्वेनैकरूपत्वाभावादीशप्राणयोः स्वामिभृत्यभावो युक्त इति भावः ॥ उभयमिति ॥ दासत्वं स्वरूपत्वं चेत्यर्थः ॥ अत इति ॥ श्रुतिद्वयाप्रामाण्यादित्यर्थः । सूत्रभाष्ये व्याकर्तुं परिष्करोति ॥ न केवलमिति ॥ एतद्वर्गद्वयमित्यर्थः । सूत्रे पूर्वस्माच्छ्रेष्ठश्चेत्यनुवर्तते । तत्र चशब्दः पञ्चवृत्तिश्चेति भिन्नक्रमः सन् दासानां समुच्चायक इति भावेनाणुश्चेति चशब्दोऽत्राप्या-कृष्यत इति भावेन वा सूत्रार्थमाह ॥ मनोदृष्टान्तेनेति ॥ ‘बुद्धिरध्यवसानाय संशयं कुरुते मनः । अभिमानेत्वहङ्कारश् चित्तं स्मरणसाधनम्’ इति स्कान्द इति सप्तविंशेऽध्याये तृतीयस्कन्धतात्पर्यं हृदि कृत्वाऽर्थभेदमाह ॥ सङ्कल्पेति ॥ स्मरणेति ॥ चितिर्बुद्धिरिति ज्ञेया चित्तं तु स्मृतिकारण-मित्यष्टाविंशाध्याये चतुर्थस्कन्धतात्पर्योक्तेरिति भावः ॥ चेतस इति ॥ बहुस्मरणशक्तिश्च चेतनेत्यभिधीयत इति तत्रैव एकविंशाध्याये तात्पर्योक्तेः । चित्तव्याप्तिस्तु चेतनेति गीतातात्पर्ये त्रयोदशेऽध्याये चोक्तेः । मुख्यप्राणस्य ततोऽपि व्यक्तसद्गुणत्वादिति न्यायविवरणं शङ्कापूर्वं व्यनक्ति ॥ न चेति ॥ तत्रोक्तामेव श्रुतिमाह ॥ अशेषेति ॥ मुख्यप्राणस्वरूपाणामेव व्यक्तसद्गुणात्वोक्ति-परोक्तश्रुतिविरोध इत्यत आह ॥ दासानिति ॥ ‘स एष प्राण इतरान्प्राणान्’ इति दासानुपक्रम्येत्यर्थः । पृथक् पृथक् सन्निधत्ते । एतद्विवरणार्थं पायूपस्थेऽपानमित्यादेः प्रवृत्तेर् अपानमित्यत्र सन्निधत्त इत्यन्वयादिति भावः । दासानित्यस्य मुख्यप्राणरूपैः प्राणादिभिरधिष्ठिता-न्प्राणादिदासानित्यर्थो बोध्यः । मुख्यप्राणविषयत्वं मुख्यप्राणमात्रविषयत्वं नेत्यर्थः ॥ अत इति ॥ पृथगुभयविधाभ्युपगमादित्यर्थः । ‘प्राणाद्यास्त्रिविधाः पञ्च प्रधानो वायुरेव च । मुख्यपञ्चकरूपस्सन् गरुडो मध्यपञ्चकः । अवमः पञ्चकस्त्वन्ये प्राणाद्यास्तस्य सूनवः । इति त्रेधा विभागोऽयं विभागोऽन्यश्चतुर्थकः । प्राणापानौ शेषवीन्द्रौ तथोदानसमानकौ । रुद्रेन्द्रौ तत्परः श्रेष्ठो वायुर्व्यान उदाहृतः’ इति छान्दोग्यभाष्ये प्रथमे अन्यथापि प्राणवृत्तिभेद उक्तः । तथा च तत्रैव तृतीये पञ्चमे चाध्याये प्राणादिभिः पञ्चभिरपि शब्दैः क्रमात् सूर्यचन्द्राग्नीन्द्रमुख्यप्राणाः प्राणाभिमानिनः पञ्चोच्यन्त इत्युक्तम् । तथा तृतीयस्कन्धतात्पर्ये च नागकूर्मकृकलदेवदत्तधनञ्जयाश्च पञ्च प्राणादय इत्युक्तम् ।

अभिनवचन्द्रिका

मुख्यप्राणस्य दासा, उत तत्स्वरूपाणीति सन्देह इति । यद्यपि नायं पूर्वपक्षसिद्धान्तकोटिकः सन्देहः । पूर्वपक्षिणा श्रुतिद्वयाऽप्रामाण्याङ्गीकारेण अन्यतरपक्षानङ्गीकारत् । सिद्धान्तिना च पक्षद्वयाऽङ्गीकारात्, तथापि सूत्रनिरस्यत्वादयं सन्देहः प्रदर्शितः । श्रुतिर् दासत्वं स्वरूपत्वं च वक्तीति शेष इति । श्रुतिरिति न प्रतीकधारणम्, दासत्वं स्वरूपत्वं च वक्तीति न शेषकथनम्, किन्तु – हेतुकथनं, ततश्च – श्रुतिर्दासत्वं च वक्तीति हेतोर्यथायोग्यं शेषो द्रष्टव्य इत्यर्थः । अत्रायं विवेकः – ‘कौण्डिन्यश्रुतिः’ इत्यनन्तरं ‘दासत्वं वक्ति’ शेषः, ‘गौपवनश्रुतिः’ इत्यनन्तरं ‘स्वरूपत्वं वक्ति’ इति शेष इति । पूर्वपक्षयितुं प्रस्तावयति – प्राणादय इति ॥ यदि प्राणादयो मुख्यप्राणस्य स्वरूपाणीति ब्रूषे, तर्हि परोऽपि मुख्यप्राणस्य दासा इति ब्रूयादित्यर्थः । कुत एवं ब्रूयादित्यत आह– सर्वे वा एत इति ॥ मुख्यप्राणस्य स्वरूपाणि वा एतानीति ॥ अथ प्राणादयो दासा इति ब्रूषे तर्हि परोऽपि स्वरूपाण्येवैतानि न दासा इति ब्रूयादित्यर्थः । ‘यथा सम्राडेवाधिकृतान् विनियुङ्क्ते, एतान् ग्रामानधितिष्ठस्व, एतान् ग्रामानधितिष्ठस्वेति । एवमेष प्राण इतरान्प्राणान् पृथक् पृथगेव सन्निधत्ते । पायूपस्थेऽपानं चक्षुःश्रोत्रे मुख्यनासिकाभ्यां प्राणः स्वयं प्रतिष्ठते । मध्ये तु समान एष ह्येतद्धुतमन्नं समं नयति तस्मादेताः सप्तार्चिषो भवन्ति हृदि ह्येष आत्मा अत्रैतदेकशतं नाडीनां तासां शतम्, एकैकस्यां द्वासप्ततिं द्वासप्ततिं, प्रतिशाखा नाडीसहस्त्राणि आसु व्यानश्चरति । अथ एकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेन पापम् । उभाभ्यामेव मनुष्यलोकम्, आदित्यो ह वै बाह्यप्राण उदेति । एष ह्येनं चाक्षुषं प्राणमनुगृह्णानः पृथिव्यां या देवता सैषा पुरुषस्यापानमवष्टभ्याऽन्तरेति । श्रुत्यर्थः सिद्धान्तरीत्योच्यते – यथा लोके सम्राट् सार्वभौमः, अधिकृतान् नियोगिनः, विनियुङ्क्ते कथं त्वमेतान् पाटलि-पुत्रादीन्ग्रामान्, अधितिष्ठस्व तदाधिपत्ये तिष्ठेत्येकम्, अन्यं च त्वमेतान् कौशाम्बीप्रभृतीन्ग्रामान्, अधितिष्ठस्वेति । एवमेव एष मुख्यप्राणः, इतरान् भिन्नान्प्राणान् वायून्, पृथक् पृथगेव स्थानेषु, सन्निधत्ते स्थापयति । स्वयं च तत्र क्रियाप्रवर्तकतया तत्र प्राणादिपञ्चरूपोऽवतिष्ठत इत्याशयः । पृथक्पृथगित्युक्तं विव्रियते पायूपस्थे इत्यादिना ॥ पायुश्च उपस्थश्च पायूपस्थं तत्र मलादेरपनयनाद् अपानवायुमात्मनोरूपेणाऽपानेनाऽधिष्ठितं सन्निधत्ते इति सम्बन्धः । चक्षुश्च श्रोत्रं च चक्षुश्रोत्रम् । तस्मिन् मुखनासिकाभ्यां सह मुखे नासिकायां चेति यावत्, प्राणः स्वयं मुख्य एव, श्वासादि-प्रणयनात् प्राणनाम्ना रूपेण प्राणवायुमधिष्ठाय, प्रतितिष्ठति । समानस्तु समाननामानं वायुमधिष्ठाय, मध्ये प्राणापानयोर् नाभिदेश इति यावत् प्रतितिष्ठति । स चैषः, यस्माद् एतद्भुक्तमन्नं, समं यथाशरीरावयवं नयति, तेन समाननामेति शेषः । किं तेन, तस्मादन्नस्य समीकरणात्, एताः सप्तर्चिषः सप्तज्ञानेन्द्रियवृत्तयः, भवन्ति ।

ननु आत्मैव विषयसंसर्गेण ताननुभविष्यति किमिन्द्रियवृत्तिरिति, मैवं हृदि ह्येष आत्मा जीवः स्वरूपेण वर्तते, अतः कथं तस्याणोर्विषयसङ्गातिः स्यादिति । व्यानस्य प्रवृत्तिं वक्तुमुच्यते अत्रेत्यादि ॥ अत्र शरीरे । यदेतदेकशतम् एकोत्तरं शतम् । नाडीनां सिराणां भवति । तासां नाडीनां मध्ये एकैकस्यां नाड्यां शतं शतं प्रतिशाखा नाड्यो भवन्ति । पुनस्तासां च प्रतिशाखानाड्यो भवन्तीति वक्तव्यम् । एवं च प्रतिशरीरं तासां प्रतिशाखानाडीनां सहस्त्राणि द्वासप्ततिं जानीयात् । किं चाऽत आसु नाडीषु विविधनयनाद् व्यानवायुमधिष्ठाय चरति । अथोदानस्तु उदानवायुमधिष्ठाय, एकया नाड्या सुषुम्नया । ऊर्ध्वगतिश्चरति । स च तत्र चरन्, पुण्येन जीवकृतपुण्यं निमित्तीकृत्य पुण्यं स्वर्गादिलोकं नयति । एवं ज्ञानेन मोक्षमिति च द्रष्टव्यम् । अत एव ऊर्ध्वनयनादुदानः । पापेन पापं नरकादिकं दुःखबुहलं नयति । उभाभ्यां समप्रधानाभ्यां पुण्यपापभ्यां समदुःखसुखं मनुष्यलोकं नयतीति । मुख्यप्राण एव हि प्राणनामा बाह्यो बहिर्भवः, आदित्य आदित्ये स्थितस् तन्नामानं दधद् उदेति । एष आदित्यस्थः प्राण एव, एनं चाक्षुषं चक्षुषि भवं प्राणवायुमनुगृह्णानो वर्तते । बहिः पृथिव्यां या धारिका व्यानाख्या देवता, सैषा पुरुषस्य अपानं देहे वर्तमानमपानवायुम्, अवष्टभ्य धृत्वा, अन्तरा शरीरान्तः वर्तत इति ।

पूर्वपक्षयति– एवं चेति ॥ श्रुत्योः प्रामाण्याय प्राणानां दासत्वं मुख्यप्राणस्वरूपत्वं च वक्ष्यामीत्यत आह– न चेति ॥ पूर्वपक्षफलमाह– अत इति ॥ न केवलं प्राणादय इति ॥ न केवलंमस्माभिः प्राणादयो दासा एवेत्युच्यते, नापि स्वरूपाण्येवेति । येन श्रुत्योरप्रामाण्यं स्यात् । किंनाम दासाः स्वरूपाणि चेत्युच्यत इत्यर्थः । एतेन पूर्वपक्षिणा दासा एवेत्यनभिहितत्वान् न केवलं दासा एवेत्यभिधानमयुक्तमिति परास्तम् । न च वस्तुविकल्पप्रसङ्ग इति ॥ दासत्वस्वामित्वे परस्परविरुद्धे चेदेकत्राभ्युपगम्येते । तर्हि अविशेषाद्रूपादिकमपि वस्तु रसोऽपि स्यादिति न वाच्यमित्यर्थः । एतेन प्राणादीनां स्वामिदासभावाङ्गीकारे प्राणादीनां विकल्पापादनमयुक्तम् । अपाद्यापादकयोरभेदादिष्टत्वाच्चेति निरस्तम् ॥ चेतसो व्याप्तिरिति ॥ बहुस्मरणकारणत्वमित्यर्थः । तदुक्तं शब्दनिर्णये – ‘चित्तिर्बुद्धिरिति ज्ञेया चित्तं तु स्मृतिकारणम् । बहुस्मरणशक्तिस्तु-चेतनेत्यभिधीयत’ इति । ननु ‘पायूपस्थेऽपानम्’ इति सद्गुणत्वप्रतिपादकश्रुतेर्मुख्यप्राणस्वरूप-मात्रविषयत्वाङ्गीकारेणोपपत्तौ दासानामपि सद्गुणत्वाङ्गीकारौ न युक्त इत्यत आह– दासानुप-क्रम्येति ॥ ‘इतरान्प्राणान् पृथक् पृथगेव सन्निधत्त’ इति दासानुपक्रम्य तदनन्तरमेव ‘पायूपस्थेपानम्’ इत्यादिना सद्गुणत्वोक्तेरित्यर्थः ।

पूर्वपक्षस्तु – ‘सर्वे वा एते मुख्यदासाः । प्राणस्यैव स्वरूपाणि’ इति श्रुतिद्वयमप्रमाणम् । अर्थानिर्णायकत्वात् । तथा हि यद्येको मुख्यस्यैव स्वरूपाणीति श्रुतिं व्यक्तसद्गुणत्वयुक्तिं चावलम्ब्य प्राणादयो मुख्यप्राणस्वरूपाण्येवेति ब्रूयात् । तर्हि परोऽपि ‘सर्वे वा एत’ इति श्रुतिं तदाज्ञया कर्मकारित्वयुक्तिं चावलम्ब्य, प्राणादयो दासा एवेति ब्रूयात् । अथ एतच्छ्रुतियुक्त्यवष्टम्भेन आद्यो दासा एवेति ब्रूयात्, तर्हि परोऽपि प्राचीनश्रुतियुक्त्यष्टम्भेन स्वरूपाण्येवेति ब्रूयात् । न च अन्यतरश्रुतिबाधो युक्तः समबलत्वात् । एवं च अर्थानिर्णयेन श्रुतिद्वयाप्रामाण्यात्, न श्रुतिबलेन विष्णोर्जगत्कारणत्वसिद्धिरिति ।

सिद्धान्तस्तु – अर्थनिर्णयसंभवेन श्रुतिद्वयस्यापि प्रामाण्यम् । तथा हि न ब्रूमो वयंं प्राणादयो दासा एव, स्वरूपाण्येवेति वा । येन श्रुत्योः परस्परविरोधेनानिर्णयः स्यात् । किं नाम अथ ‘पञ्चवृत्त्यैतत्प्रवर्तत’ इति श्रुत्यवष्टम्भेन मनोवद् द्विविधाः प्राणादयः स्वरूपाणि दासाश्चेति । ततश्च श्रुत्योर्भिन्नविषयत्वेन न विरोधः । न च प्राणानां दासत्वे व्यक्तसद्गुणत्वविरोधः । दासानामपि तदङ्गीकारात् । न च स्वामिभृत्यभावानुपपत्तिः । स्वामिनां ततोऽपि व्यक्तसद्गुणत्वेन स्वामिभृत्याभावोपपत्तेः । तदुक्तम् –

अशेषगुणपूर्णानि मुख्यरूपाणि पञ्च च ।

तद्दासाः पञ्च चान्येऽपि प्राणाद्याः सद्गुणैर्युताः ॥ इति ।

अतः श्रुत्यविरोधेन प्राणादिस्वरूपसिद्धेर् युक्तो जगत्कारणे ब्रह्मणि श्रुतिसमन्वय इति सिद्धम् ।

वाक्यार्थमुक्तावली

अनन्तरसङ्गतिं सूचयन्विषयमाह ॥ मुख्यप्राणप्रसङ्गसंनिधापिता इति ॥ यद्यप्यत्र पञ्चरूपतया मुख्यप्राणोऽपि निपीयते तथापीतरविवक्षया प्रसङ्गसंनिधापित इत्युक्तिरिति ज्ञेयम् । अत्र प्राणादयो मुख्यप्राणदासा उत तत्स्वरूपाणीति । तदर्थं दासत्वश्रुतिर्मुख्याज्ञया कर्मकारित्व युक्तियुक्तत्वेन प्रबलोतस्वरूपत्वश्रुतिरेव व्यक्तसद्गुणत्वयुक्तियुक्तत्वेन प्रबलेति ॥ अत्रैकं पूर्वपक्षमुद्घाटयति ॥ अत्र प्राणादय इति ॥ कुतो न श्रुत्यन्तरविरोध इत्यतो मुख्यप्राणस्यैव स्वाज्ञया सर्वकर्मकारयितृत्व-रूपव्यक्तसद्गुणत्वात् । तदाज्ञया कर्मकारिणां तत्स्वरूपानुपपत्तेरिति व्यक्तसद्गुणत्वन्यायप्रदर्शनप्रवृत्तं प्राणापानादय इत्यादिभाष्यं विवृणोति ॥ प्राणादय इति ॥ प्राणादिकर्माणि च यद्वै प्राणिति स प्राणो यद्ब्रूयादिति सोऽपानः । ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यतीति च । व्यानो वीर्यकर्महेतुः । उदान उत्क्रान्तिहेतुः । समानः सर्वांगेषु रसनायकः प्राणानाम् । इडायां पिंगलायां च वर्तितः । व्यानः सन्धिषु सर्वत्र उदानो ब्रह्मनाडिगः । ‘सर्वत्रैव समानस्तु समं चरति सर्वदा’ इति भारत इति तत्त्वप्रदीपवचनात्प्राणादिकर्माणि ज्ञेयानि । हेतोरसिद्धिं परिहरति ॥ तथा चेति ॥ पूर्वपक्षान्तरमाह ॥ मुख्येति ॥ कुतो न विरोध इत्यतो व्यक्तसद्गुणत्वमिति न्यायसूचकस्य ‘स एव प्राणिनां देहे पञ्चधा वर्तत इति’ श्रुत्यंशस्य भावमाह ॥ प्राणादय इति ॥ पञ्चधा वर्तनमेव श्रुत्यन्तरेणो-पपादयन्व्यक्तसद्गुणत्वमुपपादयति ॥ पायूपस्थ इत्यादिना ॥ सप्तार्चिषः सप्तज्ञानेन्द्रियवृत्तयः बहिः पृथिव्याधारिकाया व्यानाख्यादेवता सैषा पुरुषस्यापानं देहे वर्तमानमवष्ठभ्य धृत्वा शरीरान्तर्वर्तत इत्यर्थः । न चैतदव्यक्तसद्गुणत्वमिति पायूपस्थादीन्द्रियाधिष्ठानेन सकलज्ञानक्रिया प्रवर्तकत्वादि-व्यक्तसद्गुणत्वमित्यर्थः । एवं पूर्वपक्षद्वयेन श्रुतिद्वयस्य निरवकाशत्वे प्राप्ते उभयफलं युगपदेन वदन्नुपसंहरति ॥ एवं सति द्वयस्यापीति ॥ अत्र श्रेष्ठश्चेत्यनुवर्तते चोऽप्यर्थे । श्रेष्ठः पञ्चवृत्तिरपि शब्दात्पञ्चदासकोऽपीति सूत्रखण्डार्थमभिप्रेत्य व्याचष्टे न केवलं प्राणादय इति ॥ तद्वृत्तयोपीति ॥ तत्स्वरूपभूता इत्यर्थः । तत्र प्रमाणकथनपरत्वेन समग्रं व्याचष्टे ॥ कुत एतदित्यादिना ॥ चेतसो व्याप्तिश्चेतनेति ॥ ‘बहुस्मरणशक्तिस्तु चेतनेत्यभिधीयते’ इति वचनादिति भावः । अन्तःकरणं मन आदिभेदेन पञ्चविधं तदभिमानी च तच्छब्दवाच्यः’ पञ्चरूपी तत्र मनआदि पञ्चविधान्मन आदिकमुत्पद्यते तदभिमानिनश्च मन आदिशब्दवाच्याः कारणाभिमानिनः सकाशादुत्पद्यन्त इति विवेकः । अथ पञ्चवृत्यैतत्प्रवर्तत इत्यादौ प्राणादिमुख्यस्वरूपाणां प्राणादिनामकदासजनकत्वोक्त्या ततोऽपि व्यक्तसद्गुणत्वरूपसिद्धान्तन्यायोऽपि विवृत इत्यभिप्रेत्याशङ्क्य परिहरति ॥ न च प्राणादीनामित्यादिना ॥

ननु पायूपस्थेऽपानमिति व्यक्तसद्गुणत्वप्रतिपादिका श्रुतिर्मुख्यप्राणपरा न तु दासपरेति कुतो न व्याख्यायते अत आह ॥ दासानुपक्रम्येति ॥ इतरान्प्राणान्पृथग्पृथगेव संनिधत्त इति दासानुपक्रम्य तदनन्तरमेव पायूपस्थेऽपानमित्यादिना सद्गुणत्वोक्तेरित्यर्थः ।

वाक्यार्थविवरणम्

प्राणादयः ॥ प्राणापानव्यानोदानसमानाः । श्रुतिरिति तन्त्रेणोभयप्रतीकग्रहणम् । तत्र कौण्डिण्यश्रुतिर्दासत्वं प्राणानां वक्ति । गौपवनश्रुतिः स्वरूपत्वं वक्तीति विवेकः ॥ सयुक्तिक-श्रुतीति ॥ तदाज्ञया कर्मकारित्वरूपयुक्तिसहितदासत्वश्रुतीत्यर्थः ॥ व्यक्तेति ॥ व्यक्ताः सन्तो गुणाः पायूपस्थाधिष्टातृत्वादयो येषां प्राणानां ते तथा । तेषां भावा तत्त्वम् । तस्मादित्यर्थः ॥ यद्वा ॥ मलापनयनश्वासप्राणनादिरूपं व्यक्तसद्गुणत्वमित्यर्थः ॥ उभयत्रापीति ॥ दासेषु स्वरूपेषु च व्यक्तसद्गुणत्वस्य भाव इत्यर्थः ॥ उभयम् ॥ प्राणादीनां स्वरूपत्वं दासत्वं चेत्युभयम् । ननु प्राणादीनां पञ्चानां दासत्वतत्स्वरूपत्वरूपतद्वृत्तित्वोभयाङ्गीकारे विरुद्धधर्मद्वयालिङ्गितत्व-प्राप्त्यैकस्य वस्तुनो भेदः स्यादित्याशङ्क्य निषेधति ॥ न चेति ॥ पृथगुभयविधेति ॥ प्राणादिपञ्चकं स्वरूपभूतं दासभूतं चेति पञ्चकद्वयाङ्गीकारादित्यर्थः ॥ अत एवेति ॥ प्राणादीनां पृथगुभयविधानां सत्त्वाङ्गीकारेण भिन्नविषयतया विरोधाभावादेवेत्यर्थः ॥ श्रुतीनाम् ॥ दासत्व-स्वरूपत्वप्रतिपादकानाम् ॥ एतत् ॥ दासभूतं स्वरूपभूतं चेति पञ्चकद्वयाङ्गीकरणम् ॥ व्याप्तिः ॥ बहुविषयकत्वरूपा ॥ ततोऽधिकेति ॥ दासापेक्षयाधिकेत्यर्थः ।

वाक्यार्थमञ्जरी

प्राणादीति ॥ प्राणापानादीत्यर्थः ॥ मुख्यप्राणप्रसङ्गेति ॥ तेषां वक्ष्यमाणरीत्या तत्सम्बन्धित्वादिति भावः ॥ शेष इति ॥ क्रमेणेति शेषः ॥ कर्मकारित्वादिति ॥ तेषां कर्माणि च ‘प्राणापानाविडयां च पिङ्गलायां च वर्ततः । व्यानः सन्धिषु सर्वत्र उदानो ब्रह्मनाडिगः । सर्वत्रैव समानस्तु समं चरति सर्वश’’ इति भारतवचनाज्ज्ञेयानि । प्राणाज्ञया कर्मकारित्वे श्रुतिमाह ॥ तथा च श्रुतिरिति ॥ एष मुख्यप्राण इतरान् प्राणानपानादीन् पृथक् स्वस्वकार्यकरणायोक्तस्थानेषु सन्निधत्ते संस्थापयतीत्यर्थः ॥ व्यक्तसद्गुणत्वादिति ॥ व्यक्ताः सन्तो गुणा वक्ष्यमाणश्रुत्युक्ता येषां ते तथा तेषां भावस्तत्त्वं तस्मादित्यर्थः । व्यक्तसद्गुणत्वे श्रुतिमाह ॥ पायूपस्थेति ॥ अपानमपानः पायूपस्थे गुदगुह्येन्द्रिययोर्मलादेरपनयनेन गुणेनापाननामा सन् प्रतिष्ठते मुखनासिकाभ्यां सह चक्षुः श्रोत्रे मुखनासिका चक्षुः श्रोत्रेषु प्राणश्वासादिप्रणयनात् प्राणनामा स्वयमवतिष्ठते । समानस्तु मध्ये प्राणापानयोर्मध्ये नाभिदेशे प्रतितिष्ठति हि यस्मादेषः समानः हुतं भुक्तमन्नं समं यथा स्यात्तथा शरीरावयवं प्रतिनयति अतः समाननामा तस्मादन्नसमीकरणादेताः सप्तज्ञानेन्द्रियवृत्तयो भवन्ति । अस्मिन् शरीरे द्वासप्ततिसहस्रसङ्ख्याका नाड्यः सन्ति । आसु नाडीषु व्यानश्चरति अथोदान एकया नाड्या सुषुम्नयोर्ध्वगतिश्चरति सर्वत्र चरन् जीवकृतपुण्येन निमित्तेन पुण्यफलं स्वर्गादिकं नयति पापेन निमित्तेन पापफलं निरयादि नयति बहिः पृथिव्यां याधारिका व्यानाख्या देवता सैषा पुरुषस्यापानन्देहे विद्यमानमपानवायुमवष्टभ्य धृत्वान्तराशरीरान्तर्वर्तत इत्यर्थः । उभयं दासत्वं स्वरूपं विकल्पो द्वैरूप्यम् । मुख्यप्राणः पञ्चवृत्तिः प्राणादिपञ्चस्वरूपवानुपलक्षणमेतत् प्राणादि पञ्चदासवांश्च कुतः मनोवद् यथामनोमनआदीन्द्रियरूपवत् तज्जन्यमनआदिवृत्तिपञ्चकवच्च तथा मुख्यप्राणोऽपि वर्गद्वयवानिति अथ पञ्चवृत्त्येति श्रुतौ व्यपदिश्यते यतोऽत इत्यर्थ एतद्वर्गद्वयवत्वम् ॥ चेतसो व्याप्तिरिति ॥ ‘बहुस्मरणशक्तिरित्यर्थः । बहुस्मरणशक्तिश्च चेतनेत्यभिधीयत’ इत्युक्तेस् तत्रैव श्रुतिमाह ॥ अशेषेति ॥ अतिबह्वित्यर्थः । ननु पायूपस्थेऽपानमिति सद्गुणत्वप्रतिपादक-श्रुतेर्मुख्यप्राणस्वरूपविषयत्वाङ्गीकारेण वोपपत्तौ सद्गुणद्वैविध्यकल्पनं किमर्थमित्यत आह ॥ दासानुपक्रम्येति ॥ इतरान् प्राणान् पृथक् पृथगेव सन्निधत्त इति दासानुपक्रम्य तदनंतरमेवापान-मित्यादिना सद्गुणोक्तेरित्यर्थः ।

॥ इति पञ्चवृत्यधिकरणम् ॥