ॐ चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ॐ
७. अथ चक्षुराद्यधिकरणम्
सूत्रभाष्यम्
‘प्राणादिदमाविरासीत्प्राणो धत्ते प्राणे लयमभ्युपैति न प्राणः किञ्चिदाश्रित’ इत्याग्निवेश्यश्रुतौ ।
‘यदाश्रयादस्य चेष्टा सोऽन्यं कथमुपाश्रयेत् ।
यथा प्राणस्तथा राजा सर्वस्यैकाश्रयो भवेत्’ इति च युक्तिर्भारते ।
‘प्राणस्यैतद्वशे सर्वं प्राणः परवशे स्थितः ।
न परः कञ्चिदाश्रित्य वर्तते परमो यतः’ इति पैङ्गिश्रुतिः । अत आह–
॥ ॐ चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ॐ ॥
चक्षुरादिवन्मुख्यप्राणोऽपि परमात्मवश एव । ‘सर्वं ह्येवैतत्परमेऽवतिष्ठते प्राणश्च प्राणाश्च प्राणिनश्च स ह्येक एवैतान्नयत्युन्नयति वशीकरोति’ इति गौपवनश्रुतौ चक्षुरादिभिः सह तद्वशत्वेनैव शासनात् ।
‘सर्वकर्ताऽपि सन्प्राणः परमाधारतः स्थितः ।
कथमेवान्यथा स स्याद्यतो नैवेश्वरद्वयम् ।
अवान्तरेश्वरत्वेन तस्येश्वरवचो भवेत् ।
अतो मध्यमतामाहुस्तस्य वेदेषु वेदिनः ।
अनन्येश्वरता प्राणे तदन्येश्वरवर्जनम् ।
यतो विशेषवाक्येन ह्रियते समतावचः’ ।
‘नान्योऽतोऽस्ति द्रष्टा’ (बृ.उ. ५-७-२३) ‘नान्यदतोऽस्ति द्रष्टा’ (बू.उ.५-८-१२) त्यादिवचनयुक्तयश्चादिशब्दोक्ताः ।
तत्त्वप्रदीपिका
अत्र संशयोत्थापकप्रथमवाक्यं प्रकरणबलात्प्राणगोचरं प्रतिपद्यते । श्रीपतित्वादीनां चासाधारणहेतूनामनुपलम्भात् । जगत्कर्तृत्वादिकं तु कथञ्चिदस्मिन्योजयन्त्य एवञ्जातीयका नैकाश्श्रुतय उदाह्रियमाणा नारायणादानन्तर्यमस्यैवेति ज्ञापयन्ति । अत एव सर्वस्यान्यस्येश्वरत्वं प्राणस्य प्रकटमनुवर्ण्य परमेश्वरद्वयप्राप्त्यनुपपत्त्याऽवान्तरेश्वरत्वं निगद्यते ।
‘अवरा दुःखसम्बन्धाज्जीवा एव प्रकीर्तिताः ।
नित्यनिर्दुःखरूपत्वात्परा श्रीरेकलैव तु ॥
दुःखासम्पीडितत्वात्तु मध्यमो वायुरुच्यते ।
अनन्याधीनरूपत्वादसमाधिकसौख्यतः ॥
तत्तन्त्रत्वाच्च सर्वस्य विष्णुः परतमो मतः ।
अभावादन्तराऽन्यस्य त्विहैकार्थौ तरप्तमौ’ ॥ इति सत्तत्वे ।
‘द्वावत्मानौ हि वेदेषु द्वौ प्राणौ द्वौ च चेतनौ ।
अज्ञानाभिभवास्पृष्टौ वायुर्नारायणश्च तौ ॥
तदन्ये चेतनास्सर्वे प्राणा आत्मान एव च ।
अज्ञानाभिभवस्पृष्टास्तस्मात्ते ह्यधमाश्श्रुताः ।
मध्यमो वायुरेवैक उत्तमः केवलो हरिः’ ॥ इति ब्रह्माण्डे ।
तत्त्वप्रकाशिका
अत्र जगत्कारणे हरौ श्रुतिसमन्वयसिध्द्यर्थं मुख्यप्राणविषय श्रुतिविरोधपरिहारादस्ति शास्त्रादि सङ्गतिः । जगत्कारणे ब्रह्मण्युक्तः श्रुतिसमन्वयो मुख्यप्राणविषयश्रुतीनां विरोधेनाप्रामाण्ये अयुक्तः स्यादिति स निराकार्यः । प्रकृतो मुख्यप्राण एवात्र विषयः । स्वतन्त्रः परतन्त्रो वेति सन्देहः । सन्देहबीजं श्रुतिविगानं दर्शयन् पूर्वपक्षं च सूचयति ॥ प्राणादिति ॥ श्रुतौ प्राणस्य स्वातन्त्र्यं प्रतीयते इति शेषः । उपाश्रयेत् तस्मात्प्राणः स्वातन्त्र्येण सर्वाश्रय इति शेषः । श्रुतिः पारतन्त्र्यं वक्तीति शेषः । मुख्यप्राणः स्वतन्त्र एव । न प्राणः किञ्चिदाश्रित इति श्रुतेः । न च पारतन्त्र्येऽपि श्रुतिरस्तीति तद्विरोधः । अखिलजगच्चेष्टकत्वमाहात्म्यवत्त्वेन तस्यानन्याश्रयत्वयुक्तियुक्ततया स्वातन्त्र्यश्रुतेः प्राबल्यात् । न चोत्पत्तिमतः स्वातन्त्र्यायोगात्पारतन्त्र्यश्रुतिरपि युक्तियुक्तेति वाच्यम् । स्वातन्त्र्यवादिनो जन्मासम्प्रतिपत्तेः । तच्छ्रुतीनामपि स्वातन्त्र्य श्रुतियुक्तिविरोधेनाप्रामाण्यात् । लीलया विग्रहग्रहणोपपत्तेश्च । अतः प्रबलश्रुतिविरोधापरिहारादप्रमाणं पारतन्त्र्यश्रुतिः । अतो न नारायणस्य श्रुतिसमन्वयेन जगत्कारणत्वासिद्धिरिति भावः । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ मुख्यप्राणः परमात्माधीन एव न तु स्वतन्त्रः । तद्वशत्वेन श्रुत्युक्तत्वात् । न चोत्पत्ताविव पारतन्त्र्येऽपि काचन व्यवस्थाऽपि तु चक्षुरादिवदेव सर्वात्मना । तैः सह परमात्मवशत्वोक्तेरिति भावः । उन्नयति ऊर्ध्वं नयति ।
ननु स्वातन्त्र्ये युक्तियुक्तश्रुतिसद्भावान्न श्रुतिमात्रेण निर्णय इत्यत आह ॥ सर्वेति ॥ तर्हि तस्येश्वरत्वानन्येश्वरत्वश्रुतिविरोध इत्यत आह ॥ कथमिति ॥ युक्तिविरोधात् श्रुतिर्बाध्यत इति भावः । तर्हि कोऽर्थः श्रुतेरित्यत आह ॥ अवान्तरेति ॥ न केवलं युक्तिविरोधात् श्रुतेरन्यार्थता किं तु विशेषश्रुतेरपीत्याह ॥ यत इति ॥ विशेषवाक्येन ‘प्राणस्यैतद्वशे सर्वम्’ इत्यादिना समतावचः साधारणवाक्यं ह्रियते बाध्यत इत्यर्थः । यतोऽत उक्त एवार्थ इति शेषः । ‘नान्योऽतः’ इत्यनेन भगवदितरस्य स्वातन्त्र्येण द्रष्टृत्वाद्यभाव उच्यते । वचनयुक्तयो वचनानि युक्तयश्च वचनोक्ता युक्तय इति वा ।
गुर्वर्थदीपिका
समतया साधारण्येन प्रवृत्तवचः समतावच इति भावेनाह साधारणवाक्यमिति ॥
भावबोधः
मुख्यप्राणविषयश्रुतीति ॥ पूर्वाधिकरणोक्तप्राणस्योत्पत्तिरिह पूर्वपक्षे स्वातन्त्र्यादाक्षिप्यत इत्यनन्तरसङ्गतिरिति भावः ॥ स्वतन्त्र इति ॥ अत्र मुख्यप्राणः किं स्वतन्त्रः परतन्त्रो वेति चिन्ता । तदर्थं तत्पारतन्त्र्यश्रुतिः किं प्रबलस्वातन्त्र्यश्रुतिविरुद्धा न वेति । तदर्थं प्राणस्याखिल-जगच्चेष्टकत्वलक्षणमाहात्म्यरूपयुक्तिरवान्तरेश्वरत्वविरोधिनी भवत्युत न भवतीति । तदर्थं प्राणस्य ततोऽप्यतिमाहात्म्यवद्विष्ण्वधीनत्वे विशेषप्रमाणं नास्त्युतास्तीति । तदर्थं तस्य परमात्माधीनत्वे सर्वात्मना चक्षुरादिसाम्यं प्राप्नोत्युत न प्राप्नोतीति । तदर्थं प्राणस्य जीवप्रयोजकत्वकारणमस्त्युत नास्तीति । यदाश्रयादस्य चेष्टेति भाष्योक्तयुक्तिमाह– अखिलजगच्चेष्टकत्वमाहात्म्यवत्त्वेनेति ॥ अनेनेत्यादिमाहात्म्यवचनान्मुख्यप्राणस्य नोत्पत्तिरिति न्यायविवरणे आदिपदं यदाश्रयस्य चेष्टेति प्रमाणपरम् । उत्पत्तिपदं ‘पारतन्त्र्यस्याभ्युपलक्षकम्’ इत्यनुव्याख्यानोक्तमाहात्म्यरूपो न्याय अधिकरणद्वयसम्बन्धित्वेन युगपदेन विवृत इत्युक्तं भवति । ‘स्थूलत्वेनोदेति’ इत्युत्पत्तिश्रुतेः सावकाशत्वं चाह– लीलयेति ॥ सूत्रे ‘तु’ शब्द ‘एवा’र्थकः । वदित्यनन्तरं परमात्मवश इति शेषः । इत्यभिप्रेत्य प्रवृत्तं चक्षुरादिवदित्यादिभाष्यं व्याचष्टे– मुख्यप्राण इति ॥ चक्षुरादिवदेवेति ॥ अनेन सूत्रे यथाश्रुतोऽप्येवकारार्थकतुशब्दान्वयः । भाष्ये चक्षुरादिवदेवेत्यप्येवकारसम्बन्ध इत्युक्तं भवति । सर्वकर्ताऽपीत्यादिभाष्योदाहृतं वचनम्–
‘महत्त्वान्महतां विष्णुः कर्ता प्राणस्य चैकराट्’
इति न्यायविवरणोदाहृतवचनोपलक्षकम् ॥ युक्तिविरोधादिति ॥ उभयोरपि पराधीनत्व-प्राप्तेश्चान्योन्यानुरोधे तु न सर्वैश्वर्यमित्युक्तरीत्या ‘यतो नैवेश्वरद्वयम्’ इत्युक्तयुक्तिविरोधादित्यर्थः ।
भावदीपः
प्राणस्य स्वातन्त्र्यं प्रतीयत इति शेष इति ॥ यद्यपि नैव प्राण उदेतीति श्रुतौ ‘अवरा दुःखसम्बन्धाज्जीवा एव प्रकीर्तिताः । नित्यनिर्दुःखरूपत्वात्पराश्रीरेकधैव तु । दुःखासम्पीडितत्वात्तु मध्यमो वायुरुच्यत’ इति सप्तमे गीतातात्पर्योक्तस्मृतिनिर्णीतमध्यमत्वरूपमुख्यप्राणलिङ्गमिव प्राणादिदमिति श्रुतौ मुख्यप्राणलिङ्गं नास्ति । तथापि प्राणादिदमिति श्रुतिशेषे भाष्य-कृद्वचनसामर्थ्येन मुख्यप्राणलिङ्गकल्पनात् । न परब्रह्मपरः प्राणशब्द इति चन्द्रिकोक्त्या प्राणपरत्वं बोध्यम् । तत्त्वप्रदीपे तु प्राणशब्दस्य विष्णौ समन्वितत्वेऽपि अत्र श्रीपतित्वादिलिङ्गानामभावाज् जगत्कारणत्वादेः प्राणेऽपि कथञ्चिद्योजनीयत्वाद् यत्राविरोधस्तत्रान्योऽप्युच्यते । यत्र विरोधस् तत्र ब्रह्मैवोच्यत इति नियमान्मुख्यप्राणपरोऽयं प्राणशब्द इत्युक्तम् । सर्वस्यैकेत्यादिवाक्यशेषमनुरुध्याह ॥ तस्मादित्यादि ॥ इत्यादिमाहात्म्यवचनान्मुख्यप्राणस्य नोत्पत्तिरिति पूर्वाधिकरणन्यायविवरण-मत्रापि योज्यम् । तत्रादिपदेन यदाश्रयेत्यादिभाष्योक्तवचनं ग्राह्यमित्युपेत्य माहात्म्यशब्दार्थं वदन्नुक्तशङ्कानिरासे यदाश्रयादिति भाष्याभिप्रेतं हेतुमाह ॥ अखिलेति ॥ अस्येत्यस्यार्थोऽ-खिलजगदिति । मुख्यप्राणस्य नोत्पत्तिरिति न्यायविवरणशेषं पूर्वाधिकरणेन परिहृतत्वशङ्कानिवर्त-कतया व्याचष्टे ॥ न चोत्पत्तिमत इत्यादिना ॥ प्राणजन्मश्रुतेरपि गौण्यसम्भवादित्यादि-वियन्नयोक्तयुक्तियुक्ततया प्राबल्यमुपेत्याह ॥ लीलयेति ॥ एतेन प्राणस्वातन्त्र्यश्रुतिप्राबल्यकथनेन यद्भूमाधिकरणे प्राणाद्विष्णोर्भूयस्त्वमुक्तं तदप्याक्षिप्तं बोध्यम् ॥ अत इति ॥ सयुक्तिकत्वा-त्प्रबलेत्यर्थः । सूत्रे श्रेष्ठ इत्यनुवृत्तिः । दृष्टान्तोक्त्यैव साध्यहेत्वोर्लाभ इति भावेन भाष्यं व्याचष्टे ॥ मुख्यप्राण इति ॥ एवेत्यस्य व्याख्या न त्वित्यादि ॥ श्रुतीति ॥ ‘प्राणः परवशे स्थितः’ इति श्रुत्युक्तत्वादित्यर्थः । भाष्ये साध्योक्तिर्हेतूक्तेरप्युपलक्षणमिति भावः । तदुक्तिश्च यतो विशेष-वाक्येनेति वक्ष्यमाणोपयोगितयेति ध्येयम् । चक्षुरादिवदित्येतत्सर्वं ह्येवैतदित्यादिभाष्येणाप्यन्वेतीति भावेन सौत्रतुशब्दमेवार्थमुपेत्य तद्व्यावर्त्यं व्यञ्जयन् सर्वमित्यादिभाष्यशेषार्थमाह ॥ न चोत्पत्ता-विवेति ॥ एवेत्यस्य व्याख्या सर्वात्मनेति ॥ यद्वा तद्वशत्वेनैव शंसनादिति भाष्यांशस्यार्थ-स्तद्वशत्वेनेति । अवशिष्टपूर्वभाष्यांश भावार्थः न चेत्यादि ॥ श्रुतिविरोध इति ॥ प्राणादि-दमाविरासीदिति श्रुतिविरोध इत्यर्थः । स्मृतौ स मुख्यप्राणो ऽन्यथा स्वतन्त्रः कथमेव स्यात् कुत इत्यतो यत इत्यर्थः । अस्या युक्तेर् एतेन मातरिश्वा व्याख्यात इत्यत्र विवृतत्वादत्र पुनर्विवरण-मकृत्वा तात्पर्यमाह ॥ युक्तीति ॥ बाध्यते अर्थान्तरपरा नीयते इत्यर्थः । इत्यादिनेत्यादिपदेन सर्वं ह्येवैतदित्यादेर्ग्रहः । श्रुत्युक्तेः प्रकृतोपयोगं दर्शयति ॥ नान्योऽत इति ॥ वचनोक्ता युक्तय इति ॥ ईश्वरद्वयायोगान्मध्यमत्वाद्विशेषवाक्येन सामान्यवाक्यस्य नेयत्वादन्यस्य स्वातन्त्र्ये द्रष्टृत्वादेर-भावादिति युक्तय इत्यर्थः ।
अभिनवचन्द्रिका
अखिलजगच्चेष्टकत्वमाहात्म्यवत्त्वेनेति ॥ तस्य मुख्यप्राणस्य अखिलजगच्चेष्टकत्व-माहात्म्यवत्त्वेन सिद्धा याऽनन्याश्रयत्वयुक्तिः, तद्युक्ततया स्वातन्त्र्यश्रुतेः प्राबल्यादित्यर्थः । जन्माऽसम्प्रतिपत्तेरिति ॥ ननु यथा स्वातन्त्र्यवादिनः जन्माऽसंप्रतिपन्नं तथा इतरस्यापि अखिलचेष्टकत्वमसंप्रतिपन्नमेवेति स्वातन्त्र्यश्रुतेरपि सयुक्तिकत्वाभावेन प्राबल्याभावान् न पारतन्त्र्यश्रुतिबाधकत्वमिति चेत्, न । सिद्धान्तिना प्राणस्य सकलजगच्चेष्टकत्वानङ्गीकारात् ॥ अतो नारायणस्येति ॥ ननु यथा पारतन्त्र्यश्रुत्यप्रामाण्येऽपि प्राणस्वातन्त्र्यश्रुतिप्रामाण्यात्प्राणस्य स्वातन्त्र्यं तथा विष्णोर्जगत्कारणत्वश्रुतिप्रामाण्यसंभवाद् भवेदेव विष्णोर्जगत्कारणत्वनिश्चयः । अन्यथा मुख्यप्राणस्वातन्त्र्यनिश्चयोऽपि न स्यादिति चेत्, न । एतच्छ्रुत्य प्रमाण्ये एतच्छ्रुतिसमन्वयद्वारा प्राणनियामकत्वसिद्ध्यभावापत्त्या स्वाधीनप्राणकारणत्वं न स्यात् । ततश्च सर्वकारणत्वमयुक्तं स्यादित्यत्र तात्पर्यात् । एवमेवं जातीयके सर्वत्र द्रष्टव्यम् ॥ कर्तृप्रयोज्यत्वाऽप्रयोज्यत्वेति ॥ यद्यपि इन्द्रियाभिमानिनो देवा जीवादुत्तमाः, तथापि ईश्वराज्ञया जीवकार्ये करणत्वस्य स्वीकृतत्वेन स्वेच्छया स्वीकृतसारथ्यस्य कृष्णस्य पार्थाधीनत्ववद् ईश्वराज्ञया जीवाधीनत्वं, मुख्यप्राणस्य तु ईश्वरनियोगाभावान् न कर्तृनियोज्यत्वमिति द्रष्टव्यम् ।
पूर्वपक्षस्तु – स्वतन्त्र एव मुख्यप्राणः ‘न प्राणः किञ्चिदाश्रितः’ इति श्रुतेः । न च पारतन्त्र्यश्रुतिविरोधः । स्वातन्त्र्यसाधकाऽखिलजगच्चेष्टकत्वयुक्तियुक्तत्वेन स्वातन्त्र्यश्रुतेर्बलवत्त्वात् । न च उत्पत्तिमत्त्वयुक्तियुक्तत्वेन पारतन्त्र्यश्रुतिरपि बलवतीति वाच्यम् । स्वातन्त्र्यवादिनो जन्माऽसंप्रतिपत्तेः । जन्मश्रुतीनामपि एतच्छ्रुतिविरोधेनाऽप्रामाण्यात् । प्रामाण्येऽपि लीलया विग्रहग्रहणसंभवेन तस्य पारतन्त्र्यसाधकत्वाभावेन पारतन्त्र्यश्रुतेः सयुक्तिकत्वाभावः । अतः प्रबलश्रुतिविरोधाऽपरिहारादप्रमाणं पारतन्त्र्यश्रुतिः । अतो न नारायणस्य श्रुतिसमन्वयेन जगत्कारणत्वसिद्धिरिति ।
सिद्धान्तस्तु – चक्षुरादिवन् मुख्यप्राणः परमात्माधीन एव । ‘सर्वं ह्येवै तत्परमवतिष्ठते प्राणश्च प्राणाश्च प्राणिनश्च’ इति चक्षुरादिभिः सहैव तद्वशत्वाभिधानान् मुख्यप्राणो न स्वतन्त्रः, भगवत्प्रेरणामन्तरेण दर्शनादिशक्तिविधुरत्वाद् इति युक्तेश्च । न चाऽसिद्धिर् नान्यदतोऽस्ति’ इति श्रुतिसिद्धत्वात् । यद्यपि प्राणः सर्वकर्ता, तथापि ईश्वराधीनोऽभ्युपगन्तव्यः । अन्यथा प्राण एव न स्यात् । तथा हि – अस्ति तावद् विष्णुः परमेश्वरः स्वतन्त्रः । बहुप्रमाणसिद्धत्वान् न तस्यापलापः । न च स्वतन्त्रद्वयं सम्भवति, जगदुदयाद्यसम्भावापातात् । ततश्च भगवदन्य एव स्वतन्त्रोऽपलपनीय इति प्राणस्य स्वातन्त्र्ये तदभावः प्राप्नोतीति । ननु चक्षुरादिवदेवेश्वराधीनत्वं मुख्यप्राणस्य, तर्हि तस्य अवान्तरेश्वरत्वाद्यसम्भवेन स्वातन्त्र्यश्रुतिर्व्यर्था स्यादिति चेत्, न । सर्वेषामीश्वराधीनत्वसाम्येऽपि इतरेषां कर्तृप्रयोज्यत्वान् मुख्यप्राणस्य तदभावेन विशेषाद् अवान्तरेश्वरत्वोपपत्तेः । अतः श्रुत्यनुरोधेन मुख्यप्राणस्येशवशत्वसिद्धेर् युक्तं श्रुतिसमन्वयेन जगत्कारणत्वं हरेरिति सिद्धम् ।
वाक्यार्थमुक्तावली
पूर्वाधिकरणोक्ता प्राणस्योत्पत्तिरिह स्वातन्त्र्यादाक्षिप्य समाधीयत इत्यनन्तरसङ्गतिः ॥ स्वतन्त्र इति ॥ अत्र मुख्यप्राणः किं स्वतन्त्र उत परतन्त्रो वेति चिन्ता । तदर्थं स्वातन्त्र्यश्रुतिः किं युक्त्युपेततया निरवकाशोत युक्त्युपेतपारतन्त्र्यश्रुतिविरोधादवान्तरेश्वरत्वाभिप्रायेण सावकाशेति । तदर्थं तस्य चक्षुरादिवदीश्वराधीनत्वेऽवान्तरेश्वरत्वं नाप्यसम्भवत्युतेश्वराधीनत्वेऽप्य-करणत्वविशेषेण तत्सम्भवतीति । यदाश्रयादस्य चेष्टेति तदित्यत्रास्येति प्राणातिरिक्तस्य सर्वस्येत्यर्थः । स्वव्याप्त्यानुसरणस्यायुक्तत्वादिति भावः । यथा प्राण इति प्राणदृष्टान्तघटनाय मध्येऽध्याहरति ॥ तस्मिन्निति ॥ एकाश्रयो मुख्याश्रयः । स्वतन्त्राश्रय इत्यर्थः । महात्म्यमित्युक्त-
पूर्वपक्षन्यायप्रदर्शकस्य यदाश्रयादिति भाष्यस्य व्यावृत्यकथनपूर्वं भावमाह ॥ न च पारतन्त्र्येऽपीति ॥ स्वातन्त्र्यायोगादिति ॥ पराधीनविशेषलाभस्यैव स्वातन्त्र्यादिति भावः ॥ जन्मासंप्रतिपत्तेरिति ॥
ननु पारतन्त्र्यवादिनोऽपि स्वेतरसमस्तचेष्टकत्वासंमतेर्नश्रुतेर्युक्तियुक्तत्वं यदि जगच्चेष्टेकत्वं श्रुतिसिद्धं तर्हि जन्मापि श्रुतिसिद्धं यदि जन्मश्रुतेरप्रामाण्यं तर्हि जगच्चेष्टकत्वश्रुतेरपि तथात्वमित्यतो जन्मश्रुतेः सावकाशत्वेन दौर्बल्यमाह ॥ लीलयेति ॥ ननु प्राणशब्दसमन्वयोक्तेरग्निवेश्यश्रुतौ भगवत्पर एव । न च तत्र कारणवशादमुख्यतः प्राणपरत्वमिति युक्तम् । यत्र विरोधस्तत्र ब्रह्मै-वेत्युक्तत्वेन स्वातन्त्र्यानुपपत्तौ ब्रह्मैवेत्यङ्गीकार्यत्वादिति चेन्न । मुख्यप्राणपरस्पष्टभारतानुगुण्येन मुख्यप्राणस्य स्वातन्त्र्ये विरोधाभावेन ब्रह्मपरत्वासम्मतेरिति विवक्षितत्वात् ।
ननु तथापि पूर्वोत्तराधिकरणे विष्णोः प्राणादप्यतिशयेन माहात्म्येन सिद्धान्तितत्वादिति न पूर्वपक्षावकाश इति चेन्न । अत्र सोऽन्यं कथमुपाश्रयेदित्युक्त्या माहात्म्यातिशयस्या-सिद्धिव्युत्पादनादिति भावः । सूत्रे श्रेष्ठ इत्यस्ति । तुशब्दोऽवधारणो श्रेष्ठो मुख्यप्राणश्चक्षुरादिवदेव चक्षुरादि यथा परमात्माधीनं तथा परमात्माधीन एव न तु स्वतन्त्र इति भावेन प्रवृत्तं परमात्मवश एवेत्यन्तभाष्यं व्याचष्टे ॥ मुख्यप्राण इति ॥ तद्धेतुत्वेन शिष्टेरित्यंशं योजयति ॥ तद्वशत्वेति ॥ प्राणः परवशे स्थित इति श्रुत्युक्तत्वादित्यर्थः । मुख्यप्राणोऽपि चक्षुरादिवदशेषपरमात्मवशः न तूत्पत्तौ यथा प्रकृतितः सूक्ष्मत्वं शरीरतः स्थूलत्वमेव स्वरूपतः स्वातन्त्र्यमौपाधिकमस्वातन्त्र्यमिति व्यवस्था किं तु सर्वात्मनेति भावेन चक्षुरादिवदिति सूत्रांशव्याख्यापरं तदेव भाष्यं व्याचष्टे ॥ न चोत्पत्ताविवेति ॥ सर्वं ह्येतदित्यादि व्याचष्टे ॥ तैस्सहेति ॥ युक्तिविरोधादिति ॥ उभयोरपि पराधीनत्वप्राप्तेश्चान्योन्यानुविरोधे अननुरोधे तु न सर्वैश्वर्यमिति न्यायविवरणेनोक्तरीत्या यतो नैवेश्वरद्वयमित्युक्तविरोधादित्यर्थः । समतावचः साधारणवाक्यमिति । समसमानशब्दयोः पर्यायत्वा-त्समता सामान्यमिति च पर्यायौ । तथा च सामान्यवचः साधारणवाक्यमिति पर्यवस्यतीति भावः । ईश्वरत्वानन्येश्वरत्वशब्दयोः सावकाशत्वात्साधारण्यं बोध्यम् ।
वाक्यार्थविवरणम्
भाष्ये यथा प्राण इत्यनुवादबलादध्याहारेण विधायकवाक्यं दर्शयति ॥ उपाश्रयेत्तस्मादिति ॥ तथा च यथा प्राणः स्वातन्त्र्येण सर्वाश्रयः, तथा राजेति भाष्यार्थः । ननु स्वातन्त्र्यवादिनस्तव जन्मासम्प्रतिपत्तिः । स्थूलत्वेनोदेतीत्याद्युत्पत्तिश्रुतीनां सत्त्वादित्यत आह ॥ तच्छ्रुतीनामिति ॥ प्रामाण्यमङ्गीकृत्यापि लीलाविग्रहग्रहणपरोत्पत्तिश्रुतिरिति सावकाशेत्याह ॥ लीलयेति ॥ भाष्येऽ-न्यथा प्राणस्य परमात्माधीनत्वाभावे । स प्राणः कथमेव स्यात् कस्याश्रयेण प्रवृत्त्यादिकं कुर्यादित्यर्थः । ननु तस्येश्वरत्वादेव नान्याश्रयापेक्षेत्यतस्तत्र युक्तिमाह ॥ यत इति ॥ नन्वनेन प्राणस्यैतत् ‘न प्राणाः किञ्चिदाश्रित’ इतीश्वरत्वानन्येश्वरत्वाभिधायकश्रुतेः का गतिरित्युक्तेत्यत आह ॥ युक्तीति ॥ यतो नैवेत्युक्तयुक्तीत्यर्थः ॥ बाध्यते ॥ प्रतीतार्थात् प्रच्याव्यते । भाष्ये अतोऽवान्तरेश्वरत्वेन मध्येश्वरतामाहुरित्यर्थः ॥ तदन्येश्वरवर्जनात् ॥ भगवदन्येश्वरवर्जना-दित्यर्थः । लक्ष्म्याऽपि भगवत्कोटौ प्रवेश इति ध्येयम् ॥ वाक्यम् । प्राणस्येश्वरत्वानन्येश्वरत्व-प्रतिपादकं वाक्यम् ॥ भगवदितरस्य ॥ मुख्यप्राणादिजगतः । वचनयुक्त्योर्द्वित्वात् कथं बहुवचनमत आह ॥ वचनानीति ॥ मध्यमपदलोपी वा समास इत्याह ॥ वचनोक्ता इति ॥
वाक्यार्थमञ्जरी
विरोधव्यञ्जनायाह ॥ तस्मादिति ॥ तथा च प्राणोत्पत्त्यनङ्गीकारे आत्मन एष प्राणो जायत इत्यादिश्रुतिविरोध इत्यत आह ॥ तच्छ्रुतीनामिति ॥ लीलयेति ॥ तथा चोत्पत्त्यङ्गीकारे न स्वातन्त्र्यहानिरिति भावः । चक्षुरादिवत्तु यथा चक्षुरादीशाधीनं तथा प्राणोऽपीशाधीन एव न स्वतन्त्रः कुत; तत्सहतैश्चक्षुरादिभिः सहशिष्ट्यादिभ्य ईशवत्त्वाभिधानादिहेतोरित्यर्थः । युक्ति-विरोधादिति । उभयोरप्यन्योन्यानुरोधेन न सर्वैश्वर्यमित्युक्तरीत्येश्वरद्वयासम्भवयुक्तिविरोधादित्यर्थः । बाध्यते प्रतीतार्थत्वात् ।