०६ मुख्यप्राणाधिकरणम्

ॐ श्रेष्ठश्च ॐ

६. अथ मुख्यप्राणाधिकरणम्

सूत्रभाष्यम्

‘नैष प्राण उदेति नास्तमेत्येकल एव मध्ये स्थाता । अथैनमाहुर्मध्यम’ इति मुख्यप्राण-स्यानुत्पत्तिः श्रूयते ।

‘यत्प्राप्तिर्यत्परित्याग उत्पत्तिर्मरणं तथा ।

तस्योत्पत्तिर्मृतिश्चैव कथं प्राणस्य युज्यत’ इति युक्तिर्वायुप्रेाक्ते ।

‘आत्मत एष प्राणो जायत’ (प्र.उ. ३-३) इति च । अत आह–

॥ ॐ श्रेष्ठश्च ॐ ॥ ९ ॥

‘सौक्ष्म्येण ह वा एषोऽवतिष्ठते स्थूलत्वेनोदेति सूक्ष्मश्चाथो स्थूलश्च प्रकृतितः सूक्ष्मोऽन्यतः स्थूलोऽथैनमाहुः सादिरनादिः’ इति गौपवनश्रुतेः ।

तत्त्वप्रदीपिका

मुख्यप्राणो विषयः । स नोत्पद्यत इत्येकपक्षः । ‘नैष प्राण उदेति’ इत्यादिश्रुतेर्युक्तेश्च । एकलः प्रधानः । उदयास्तमययोर्मध्ये यौवने स्थाता देहमध्ये वेति श्रुत्यर्थः । यस्य देहप्राप्तिर्देहपरित्यागश्च जीवानामुत्पत्तिर्मरणं च तदुभयं कथं तस्येति युक्तिः । उत्पत्तिश्रुतेः पूर्वोक्तयुक्तिभ्यश्चोत्पद्यत इत्यपरः पक्षः । उक्तयुक्तिस्तु चिरकालावस्थायित्वेन निर्वोढव्या । देहात्पूर्वापरकालवर्तित्वेऽपि मूलसृष्टा-वुत्पत्तिसम्भवात् । अत्र कतरः पक्षः श्रेयान् ? अन्यतमो वा श्रेष्ठ इति विचार्यते । ननु नैतत्साम्प्रतम् । प्राणस्योत्पत्तिशङ्काप्राप्त्यभावात् । या त्वनुत्पत्तिश्रुतिरुपन्यस्ता सा परमात्मविषया भवितुर्महति । प्राणशब्दस्य परमात्मनि प्रसाधितत्वात् । अनेकत्रासाधारणत्वेन निर्णीतश्रुतिलिङ्गेभ्यो मुख्यप्राणलिङ्गानामपि तन्निमित्तत्वावधारणादिति । मैवम् । उक्तोत्तरत्वात् । यत्रान्यवाचकत्वेऽप्य-विरोधस्तत्रान्यदप्यमुख्यतयोच्यते । यत्र विरोधस्तत्र ब्रह्मैवोच्यत इति । इदं च भाष्यमविरोधादि-विचारोत्थापकम् । अन्यथा सर्वशब्दानाम् ‘एतेन सर्वे व्याख्याता’ इत्यतो ब्रह्मण्येव पर्यवसायित्वा-दनुत्थानमेवाध्या यत्रयस्य । अनुदयानस्तमयश्रुतेरन्यवाचकत्वे विरोध इति चेत्सत्यम् । ‘अथैनमाहुर्मध्यम’ इति मध्यमत्वमुत्तमादन्यत्र च मुख्यप्राणे न विरुध्यते, प्रसिद्धं च । अनुदयानस्तमयौ च कयाचिदपेक्षया योजयितुं सुशकौ । ‘अथैनमाहुःसादिरनादिः’ इति हि निर्णयश्रुतिं दर्शयति । अत उचितो विचारः । अतस्सिद्धान्तमारभते । श्रेष्ठश्च । ‘प्राणो वा ज्येष्ठश्च श्रेष्ठश्च तान्वरिष्ठः प्राण उवाच’ इत्यादिश्रुतिभ्यो मुख्यप्राणः प्राणेषु श्रेष्ठ उच्यते । तत्प्रस्तावात् । चकारादुत्पद्यते च नोत्पद्यते च । अयं च निर्णयप्रकारो यथा सम्भवं योजनीयोऽस्मिन्पादे । यथा दासा वृत्तयश्च सन्तीति ।

तत्त्वप्रकाशिका

अत्र श्रुतिसन्वयेन परमात्मनो जगत्कारणत्वसिद्ध्यर्थं मुख्यप्राणजन्मविषयश्रुतिविरोध-परिहारादस्ति शास्त्रादिसङ्गतिः । जगत्कारणे हरावुक्तः श्रुतिसमन्वयो मुख्यप्राणजन्मविषयश्रुतीनां विरोधेऽनुपपन्नः स्यादतोऽसौ निरसनीय एव । सर्वप्राणप्रेरकः प्राणश्रुत्या सन्निधापितो मुख्यप्राणोऽत्र विषयः । उत्पत्तिमान्न वेति सन्देहः । सन्देहबीजं श्रुतिविरोधं दर्शयन् पूर्वपक्षं च सूचयति ॥ नेति ॥ मध्ये जननमरणयोर्मध्यावस्थायाम् । इति चोत्पत्तिः श्रूयत इति शेषः । मुख्यप्राणो नोत्पत्तिमान् । ‘नैष प्राण उदेति’ इति श्रुतेः । न च मुख्यवाय्वनुत्पत्तिश्रुतिवदियमन्यथा योजनीयोत्पत्ति-श्रुत्यानुकूल्यादिति युक्तम् । तस्याखिलोत्पत्तिमरणकारणत्वेनोत्पत्याद्ययोगयुक्तियुक्तानादित्वश्रुतेः प्राबल्यात् । न हि सर्वजननहेतोर्जन्मोपपद्यते । दुःखहेतवे स्वजननाय प्रवृत्त्ययोगात् । अतः प्रबला-नादित्व श्रुतिविरोधादुत्पत्तिश्रुतिरप्रमाणमेव । अतो न जगत्कारणे परमेश्वरे श्रुतिसमन्वयोपपत्तिरिति भावः । सिद्धान्तयत्सूत्रमवतारयति ॥ अत इति ॥ यथेतरे प्राणा उत्पद्यन्ते तथा श्रेष्ठश्च प्राणो जायत इति सूत्रार्थोऽतिरोहित इति नाभिहितः । ननु कुतो मुख्यप्राणस्योत्पत्तिस्तदङ्गी-कारेऽनादित्वश्रुतिविरोधादित्यत आह ॥ सौक्ष्म्येणेति ॥ स्थूलादिभावस्य स्वरूपत्वात्कथं तस्योत्पत्त्यादीत्यत उक्तम् ॥ प्रकृतित इति ॥ स्वभावः । अन्यतः शरीरादितः ।

गुर्वर्थदीपिका

अनादित्वश्रुतेः प्राबल्यादित्यत्र मुख्यप्राणस्य मुख्यवायोश्चैकत्वादत्रोक्ताभ्यधिकाशङ्कया मुख्य-प्राणस्यानादितायां तस्याप्यनादितैव स्यात् । तस्य सादित्वमस्यानादित्वमिति तु कथमिति चेत्सत्यम् । अस्यानादित्वे तस्याप्यनादित्वमेव वक्तव्यम् । तथा च तदधिकरणोक्तसिद्धान्तोऽपि नोपपन्न इति शङ्कितुरभिप्रेतत्वात् ।

भावबोधः

अनन्तरसङ्गतिं सूचयन् विषयमाह– सर्वप्राणप्रेरकः प्राणश्रुत्या सन्निधापित इति ॥ उत्पत्तिमानिति ॥ अत्र मुख्यप्राणोऽनुत्पत्तिमानुतोत्पत्तिमानिति चिन्ता । तदर्थं तदुत्पत्ति-स्तदनुत्पत्तिश्रुतिविरुद्धा न वेति । तदर्थं ‘नैष प्राण उदेति’ इति तदनुत्पत्तिश्रुतिः किं सर्वात्मनाऽ-नुत्पत्तिरुत देहादिस्थौल्येनोत्पत्तावपि स्वरूपसौक्ष्म्येणानुत्पत्तिपरेति । तदर्थमनुत्पत्तिश्रुतिः किं युक्तियुक्तत्वेन निरवकाशोत सावकाशेति । तदर्थं प्राणस्य यत्प्राप्तिरित्युक्तं सर्वजननमरणहेतुत्वरूपं माहात्म्यं किं विष्णुजातत्वेन तस्य नोपपद्यते उतोपपद्यत इति । तदर्थं विष्णोस्ततोऽप्यतिमाहात्म्यं नास्त्युतास्तीति । तदर्थं विष्णोस्ततोऽप्यतिमाहात्म्ये प्राणस्य विष्णुजातत्वे प्रमाणं नास्त्युता-स्तीति । तदर्थम् ‘आत्मत एषः प्राणो जायत’ इति श्रुतिगतः प्राणशब्दः किं बाह्यवायुपरः किं वा मुख्यप्राणपर इति । तदर्थं परमात्मनः सकाशात् प्राणोत्पत्तितश्चेष्टा बाह्यवाय्वोरुत मुख्याप्राणस्येति । पृथङ्नोपदिश्यत इति । ‘एतेन मातरिश्वा व्याख्यात’ इत्यनेन गतार्थतां प्रतिषेधति– न च मुख्यवाय्विति ॥ ‘एतेन मातरिश्वा’ इत्यत्र बाह्येन मुख्यवायुरूपेणोत्पत्तिरुक्ता । अत्र त्वखिल-जननमरणोत्पत्तिकारणेनाध्यात्मिकप्राणरूपेणाप्युत्पत्तिरुच्यत इति भेदः । तद्धेतुत्वेन भाष्यन्याय-विवरणोक्तयुक्तिमाह– तस्याखिलोत्पत्तीति ॥ सौत्र‘च’ शब्दसमुच्चयं दर्शयति– यथेतर इति ॥

भावदीपः

अत्र चन्द्रिकायां सङ्गतिं सूचयति । सर्वप्राणप्रेरकः प्राणश्रुतिसन्निधापितश्चेत्येवं प्रतीकग्रहणं कृतम् । तदा अणवश्चेत्यन्तं प्राणपदानुवृत्तेः प्राणश्रुतिसन्निधापितेत्यर्थः । क्वचिट्टीकायां प्राणप्रकृत्या सन्निधापित इति पाठः । तदा प्राणप्रकरणेनेत्यर्थः । श्रुतावथैनमित्यथपदस्य तस्मादित्यर्थत्वा-त्तदनुरोधेन मध्ये स्थातेत्यत्र मध्यशब्दार्थमाह ॥ जननेति ॥ तत्त्वप्रदीपे तु एकलः प्रधान उदयास्तमययोर्मध्ये यौवने स्थातां देहमध्ये वा इति श्रुत्यर्थ इत्युक्तम् । यत्प्राप्तिरित्यादिभाष्यं यत्प्राप्तिरित्यादिमाहात्म्यवचनान्मुख्यप्राणस्य नोत्पत्तिरित्यन्यत्रोक्त्यनुरोधेन । ‘एतेन मातरिश्वा व्याख्यात’ इत्यनेन गतार्थताशङ्कानिवर्तकतया व्याचष्टे ॥ न चेत्यादिना ॥ तस्येति ॥ देहे स्थितप्राणरूपस्येत्यर्थः । बाह्यमुख्यवायुरूपस्य तु नैतन्माहात्म्यमिति भवति ततोऽत्र विशेषाशङ्केति भावः । स्मृतौ सर्वजीवानामिति शेषं मत्त्वोक्तम् अखिलेति । मूलसृष्टावुत्पन्नस्य सर्वजन्महेतुत्व-मस्त्वित्यत आह ॥ दुःखेति ॥ अत इति ॥ सयुक्तिकत्वात्प्रबलेत्यर्थः । चकारं समुच्चयार्थं मत्वा व्यनक्ति ॥ यथेति ॥ प्रस्तावप्राप्तार्थमाह ॥ जायत इति ॥ प्राणो वै ज्येष्ठश्च श्रेष्ठश्च । तान्वरिष्ठः प्राण उवाच’ इति मुख्यप्राणस्य प्राणेषु श्रेष्ठत्वात् प्राण इत्युक्तम् । तेनाध्यात्मप्राणरूपेणेह मुख्यवायोरुत्पत्तिरुच्यते । एतेन मातरिश्वेत्यत्र तु अधिदैवबाह्यरूपेणोत्पत्तिरिति भेदः सूचितः । तत्त्वप्रदीपे तु तत्र भूतप्रकरणत्वाद्भूतमुख्यवाय्वोस्संमुग्धयोर्विचार इह केवलो मुख्यविषय इति भेद इत्युक्तम् ।

अभिनवचन्द्रिका

प्राणप्रकृत्या सन्निधापित इति ॥ प्राणशब्देन मुख्यप्राणस्याप्युपस्थित्या बुद्धौ सन्निधापित इत्यर्थः । ‘मध्ये स्थाता’ इति श्रुतिगतमध्ये इतिपदं व्याचष्टे मध्य इति ॥ प्राणिनां जननमरणान्तर्वर्तिमध्यावस्थाप्रेरणाय तस्यामवस्थायां स्थातेत्यर्थः । एतेन अस्य जननमरणशून्यत्वात् तदवस्थाया न मध्यावस्थात्वसम्भव इति परास्तम् ॥ अन्यथा पुनरुक्तिप्रसङ्ग इति ॥ उपलक्षण-मेतत् । आत्माश्रयप्रसंग इत्यपि द्रष्टव्यम् ।

पूर्वपक्षस्तु – मुख्यप्राणो नोत्पत्तिमान् ‘नैष प्राण उदेत्’ इति श्रुतेः । न च मुख्यवाय्वनुत्पत्ति-श्रुतिवद् इयमपि श्रुतिरन्यथा योजनीयेति वाच्यम् । तस्य उत्पत्तिमरणकारणत्वेन उत्पत्त्याद्य-योगयुक्तियुक्ताऽनादित्वश्रुतेः प्राबल्यात् । अतः प्रबलानादित्वश्रुतिविरोधादुत्पत्तिश्रुतिरप्रमाणमेव । अतो न जगत्कारणे परमेश्वरे श्रुतिसमन्वयोपपत्तिरिति ।

सिद्धान्तस्तु – यथा इतरे प्राणा उत्पद्यन्ते तथा श्रेष्ठोऽपि ‘सौक्ष्म्येण ह वा एषोऽवतिष्ठते स्थूलत्वेनोदेति’ इति श्रुतेः । ननु अनादित्वश्रुतिः सयुक्तिकत्वेन प्रबला । अतस् तदनुसारेण उत्पत्तिश्रुतिरेव चेष्टा बाह्यवायुविषयतया व्याख्यातव्येति चेत्, न – ‘स प्राणमसृजत’ इति श्रुतौ प्राणस्योत्पत्तिमभिधाय प्राणाच्च चेष्टावाय्वोः पृथगुत्पत्त्यभिधानात्, ‘श्रुतानि मात्राश्चेष्टाश्च’ इति स्मृतावपि तथैवाऽभिधानाच्च । न च सर्वभूतोत्पत्तिकारणत्वेन उत्तमत्वात्कथं तस्योत्पत्तिरिति वाच्यम् । महतोऽपि तस्य ततोऽप्यतिमहता विष्णुना जन्मसम्भवात् । तदुक्तम्–

महत्वान्महतां विष्णुः कर्ता प्राणस्य चैकराट् ।

किंनाम न सृजेदेष येन शक्त्येदमावृतम् ॥ इति ।

अतः श्रुत्यविरोधेन मुख्यप्राणस्य जननसिद्धेर् युक्तं जगत्कारणत्वं श्रुतिसमन्वयेन वासुदेवस्येति सिद्धम् ।

वाक्यार्थमुक्तावली

अनन्तरसङ्गतिं सूचयन् विषयमाह ॥ सर्वप्राणप्रेरकं प्राणप्रकृत्येति ॥ अत्र मुख्य प्राणोऽ-नुत्पत्तिमानुतोत्पत्तिमानिति चिन्ता । तदर्थं नैष प्राण उदेति’ इति तदनुत्पत्तिश्रुतिः किं सर्वात्मनानुत्पत्तिपरोतदेहादिस्थौल्येनोत्पत्तावपि स्वरूपासौक्ष्म्येणानुपत्पत्तिपरेति । तदर्थमुत्पत्तिश्रुतिः किं सयुक्तिकत्वेन निरवकाशा ‘आत्मन एष प्राणोऽजायत’ इत्युत्पत्तिश्रुतिस्तु बाह्यवायुचेष्टापरत्वेन सावकाशा युक्तिविरोधाभावेनानुत्पत्तिश्रुतिः सावकाशोत्पत्तिश्रुतिर्निरवकाशेति ॥ जन्ममरणयोर्मध्य इति ॥ यौवनावस्थायामित्यर्थः । यथोक्तं तत्त्वप्रदीपे । उदयास्तमयोर्मध्ये यौवनावस्थायां देहमध्ये चेति । एतेन मातरिश्वोत्पत्त्यधिकरणेन गतार्थतां परिहरति ॥ न च मुख्येति ॥ स्वरूपाभिप्रायेण तदतिरिक्त प्रत्यभिज्ञानानादित्वाभिप्रायेण चेत्यर्थः । कुतो न युक्तमित्यतो माहात्म्यमित्युक्त-पूर्वपक्षन्यायप्रदर्शकस्य यत्प्राप्तिरित्यादिभाष्यस्य भावमाह ॥ तस्येति ॥ बाह्यस्य मुख्यवायुरूप-स्योत्पत्तावप्यध्यात्मप्राणरूपस्य नोत्पत्तिर्युक्ता । तत्प्राप्तितत्परित्यागयोरुत्पत्तिमरणशब्दार्थत्वेन सर्वोत्पत्तिमरणयोस्तत्प्रवृत्तिपूर्वकत्वेन स्वदुःखहेतुस्वजनने प्रवृत्त्ययोगात्सर्वोत्पादकत्वेन महा-माहात्म्याच्चेति भावः । सूत्रे तथेत्यस्यानुवृत्तिं सूचयन् व्याचष्टे ॥ यथेतर इति ॥ स्वभावत इति ॥ नन्विदं सर्वजीवसाधारणं किं प्राणस्य विशिष्योच्यत इति चेत् शरीरादित एव स्थूलो नत्वन्येषामिव चैतन्येन तदभिमानकृतविक्रियोत्पद्यत इति विवक्षितत्वात् ।

वाक्यार्थविवरणम्

प्राणप्रकृत्या ॥ इन्द्रियप्रकरणेन । ननु प्राणप्रकृत्या कथं मुख्यप्राणः सन्निधापित इत्यत उक्तं ‘सर्वप्राणप्रेरकः सर्वेद्रियप्रेरकः’ इति ॥ जननमरणयोर्मध्यावस्थायामिति ॥ जीवानामिति शेषः । जीवानां स्थितिकाल इत्यर्थः ॥ मुख्यवाय्विति ॥ अधिदैवगतेत्यर्थः ॥ इयमिति ॥ सर्वेन्द्रिय-प्रेरकतया अध्यात्मगतमुख्यप्राणानुत्पत्तिश्रुतिरित्यर्थः ॥ अन्यथा ॥ स्वरूपस्य नित्यत्वेनेत्यर्थः ॥ उत्पत्त्यादीति ॥ देहतोऽपीति शेषः । ‘प्राणो नोत्पत्तिमान् । अखिलोत्पत्तिमरणकारणत्वात्’ इत्यत्राप्रयोजकत्वं परिहरति ॥ न हीति ॥ कुतो नोपपद्यत इत्यत आह ॥ दुःखहेतव इति ॥ स्थूलादिभावस्येति ॥ स्थूलत्वस्य सूक्ष्मत्वस्य वा धर्मस्य तत्स्वरूपत्वात् सौक्ष्मेणावस्थानं स्थूलत्वेनोदयश्च कथमित्यर्थः । तथात्वे स्वरूपस्यैवोदयप्राप्तेरिति भावः ॥ अन्यत इति ॥ तथा च स्थौल्यं शरीरोपाधिकमेव न स्वाभाविकमित्युक्तं भवति ।

वाक्यार्थमञ्जरी

प्रकृत्या प्रकरणेनान्यथास्वरूपानुत्पत्तिपरत्वेन ॥ न हीति ॥ सर्वस्यापि तज्जन्यत्वेन तज्जन-कस्यैवाभावादिति भावः । स्वेच्छया स्वत एव जन्म किं न स्यादित्यत आह ॥ दुःखहेतव इति ॥ न केवलमन्ये प्राणा उत्पद्यन्ते किन्तु प्राणः श्रेष्ठो मुख्यप्राणश्चोत्पद्यत इत्यर्थः । अतिरोहितो ऽनाच्छादितः ।