०५ अण्वधिकरणम्

ॐ अणवश्च ॐ

५. अथ अण्वधिकरणम्

सूत्रभाष्यम्

‘दिवीव चक्षुराततम्’ (ऋ.सं.१-२२-२०) इति व्याप्तिः प्रतीयते । दूरश्रवणदर्शनादि-युक्तिश्च । अणुभिः पश्यत्यणुभिः कृणोति प्राणा वा अणवः प्राणैर्ह्येतद्भवति’ इति च कौण्डिन्यश्रुतिः । अतो वक्ति–

॥ ॐ अणवश्च ॐ ॥ ८ ॥

‘तद्यथा ह्यणुनश्चक्षसः प्रकाशो व्यातत एवमेवास्य पुरुषस्य प्रकाशो व्याततोऽणुर्ह्येवैष पुरुषो भवति’ति शाण्डिल्यश्रुतिः ।

तत्त्वप्रदीपिका

अणवश्च । अणवश्च वितताश्च प्राणाः । अणुत्वश्रुतेः स्वरूपतोऽणवः, विततत्वश्रुतेः प्रकाशतो वितताः । तदिदमाह तद्यथेत्यादिकामुभयश्रुत्योरविरोधप्रकाशिकां श्रुतिमुदाहरन्नभीष्टदृष्टान्तावष्टम्भाम् ।

तत्त्वप्रकाशिका

अत्र पुरुषोत्तमे जगज्जन्मादिकारणे श्रुतिसमन्वयसिद्ध्यर्थं प्राणपरिमाणविषय श्रुतिविरोध-परिहारादस्ति शास्त्रादिसङ्गतिः । जगत्कारणे ब्रह्मण्युक्तः श्रुतिसमन्वयः प्राणपरिमाणविषय श्रुतीनां विरोधेऽनुपपन्नः प्रसज्यतेऽतोऽसौ निराकर्तव्यः । प्रकृतप्राणा एवात्र विषयः । किं व्याप्ता उताणव इति सन्देहः । सन्देहबीजं श्रुतिविरोधं दर्शयन् पूर्वपक्षं च सूचयति ॥ दिवीति ॥ व्याप्तिः प्राणानामिति शेषः । श्रुतिः प्राणानामणुत्वं वक्तीति शेषः । पश्यति जानाति । कुतोऽत्रोक्ता अणवः प्राणाः । ज्ञानकर्मकरणत्वलिङ्गादित्यर्थः । व्याप्ताः प्राणाः । तथा श्रुतेः । न चाणुत्वश्रुतिविरोधः । विष्णोर्व्याप्तत्वे दृष्टान्तत्वेन चक्षुर्व्याप्तेरुक्तत्वादेतच्छ्रुतेः प्राबल्यात् । अतिसुदृढं हि दृष्टान्तत्वेनोपा-दीयते । किं चास्ति तावद्दूरस्थवस्तुदर्शनश्रवणस्मरणादि तेन पश्यामोऽस्ति प्राणानां व्याप्तिरिति । इन्द्रियाणां प्राप्यकारित्वात् । अन्यथा करणत्वविरोधात् । न च स्वस्थानं विहाय विषयेणेन्द्रियं सन्निकृष्यत इति विशेषप्रमाणमस्ति । अतः प्रबलश्रुतिविरोधादणुत्वश्रुतिरप्रमाणमेवेति न जगत्कारणे ब्रह्मणि श्रुतिसमन्वयो युक्त इति भावः । सिद्धान्तयत्सूत्रमवतारयति ॥ अत इति ॥ अणव एव प्राणाः । न चैतावता श्रुतियुक्तिविरोधः । यावता तेजसा व्याप्ताश्चेति । सूत्रार्थः स्फुटतया नोक्तः । अतिसुदृढार्थश्रुतिसिद्धे व्याप्तत्वे कुतोऽणुत्वं प्राणानां तेजसा व्याप्तिश्चेत्यत आह ॥ तद्यथेति ॥ चक्षसश् चक्षुषः । न च व्याप्तिश्रुतेः सुदृढार्थतया बलवत्त्वम् । अत्राप्यात्मनोऽणुत्वादौ चक्षुषो दृष्टान्ततयोक्तत्वाद्विशेषश्रुतित्वाच्च बलवत्त्वमिति । यदीन्द्रियाणि स्वरूपतो वितत्यावस्थितानि तदा सर्वग्रहणं च प्रसज्येत सुप्त्याद्यभावश्च । स्यादेतत् । शब्दो हि वक्तृवक्त्रादुत्पन्नः शब्दान्तरमुत्पादयति सोऽप्येवम् । यत्र तु प्रतिघातकारणेन द्रव्येण हन्यते न तत्रोत्पादयति । तत्र यः कर्णशष्कुल्यवच्छिन्ने वियत्युत्पद्यते स श्रूयते इति कथं दूरस्थश्रवणमनुज्ञायत इति । मैवम् । श्रोत्रोत्पन्नशब्दग्रहणे मानाभावात् । अन्यथाऽप्राप्त्यग्रहणप्रसङ्ग इति चेन्न । चक्षुर्वच्छ्रोत्रस्यैव गमनोपपत्तेः । श्रोत्रस्याकाशतयाऽमूर्तत्वान्नेति चेन्न । किमाकाशपदेनोच्यते । अवकाश इति चेत्तत्कुतोऽवकाशत्वं श्रोत्रस्य । परिशेषादिति चेन्न । भूताकाशस्य द्रव्यान्तरस्य विद्यमानत्वेन परिशेषानुपपत्तेः । तदनभ्युपगमे श्रुत्यादिविरोधः । पृथिव्यादीनामप्युपपद्यते श्रोत्रत्वम् । अन्यत्रोपक्षीणानि तानीति चेत् । तच्छरीरानारम्भकत्वप्रसङ्गः । बधिराभावप्रसङ्ग इति चेत्सममवकाशेऽपि । अदृष्टकारणत्वं च समानम् । उपहतिश्च पृथिव्यादीनामेव सम्भवति नावकाशमात्रस्येति युक्त एवाभ्युपगमः । यद्वा चक्षुर्विषय एव तदभ्युपगमः । अत एव पूर्वोत्तरपक्षयोस्तद्विषयश्रुत्युदाहरणम् । अतः श्रुत्यविरोधेन प्राणानामणुत्वसिद्धेर्युक्तो जगत्कारणे हरौ श्रुतिसमन्वय इति सिद्धम् ।

गुर्वर्थदीपिका

विशेषश्रुतित्वाच्चेत्यत्र ‘दिवीव चक्षुराततम्’ इति श्रुतिश्चक्षुषो व्याप्तिमात्रमाह । तच्च स्वरूप-व्याप्त्याऽपि घटते प्रकाशव्याप्त्या वा । अतः सा सामान्यश्रुतिः । ‘अणुनश्चक्षुष’ इति श्रुतिस्तु चक्षुषो ऽणुत्वं स्पष्टमुक्त्वा तत्प्रकाशस्य विशिष्य व्याप्ततामाह । एवं च विशेषश्रुतित्वेन प्रबलत्वादेतदनुसारेण सैव श्रुतिर्योजनीयेति भावः । सुप्तौ हि सर्वेन्द्रियोपरमः सकलविषयेभ्य इन्द्रियाणां व्यावृत्तिरूपो वाच्यः । न च ज्ञानाख्यकार्याभाव एवोपरम इति वाच्यम् । सत्यर्थ-सन्निकर्षे कार्योपरमस्यैवासम्भवाद्व्यावृत्तिरेवोपरमः । एवं चेन्द्रियाणां व्याप्तत्वे उपरमस्यैवा-भावात्सुप्तिश्च न स्यादित्याह सुप्त्यादीति ॥ ‘अप्रतिषिद्धमनुमतं भवति’’ति वचनादप्रतिषेधेऽनुमतिः स्यादिति भावेनोक्तम् अनुज्ञायत इति । अन्यत्रोपक्षीणानि तानीत्यत्र तानि पृथिव्यप्तेजो-वाय्वाकाशाख्यभूतानि अन्यत्र घ्राणारम्भणे रसनारम्भणे चक्षुरारम्भणे चोपक्षीणत्वान्न श्रोत्रा-रम्भकता चेत्तर्हि शरीरारम्भकताऽपि तेषां न स्यादित्यर्थः ।

भावबोधः

प्राणपरिमाणविषयेति ॥ पूर्वत्र सर्वप्राणविषयकपूर्वपक्षसिद्धान्तविशेषश्रुतिविषयसङ्ख्या विचार्यात्र विशिष्य चक्षुरिन्द्रियविषयकपूर्वपक्षसिद्धान्तविशेषश्रुतिविषयपरिमाणं विचार्यत इत्यनन्तर-सङ्गतिरिति भावः ॥ किमिति ॥ अत्र प्राणाः किं व्याप्ता उताणव इति चिन्ता । तदर्थं प्राणाणुत्वं तद्व्याप्तिविरुद्धं न वेति । तदर्थं व्याप्तिश्रुतिर् युक्तियुक्तत्वेन निरवकाशोत सावकाशेति । तदर्थं प्राणानां व्याप्तिः किं स्वरूपेणोत प्रकाशगुणेनेति । तदर्थं प्राणानां स्वरूपाणुत्वे प्रकाशगुणेन व्याप्तत्वे विशेषप्रमाणं नास्त्युतास्तीति । कुतोऽत्रोक्ताणवः प्राणा इति । श्रुतौ अणव इत्यनूद्य तेषां प्राणत्वं विधीयत इत्युक्तं भवति । ‘प्राणैर्ह्येतद्भवति’ इति वाक्ये ‘हि’ शब्दो हेत्वर्थक इति एतच्छब्देन पश्यतीत्याद्युक्तधात्वर्थपरामर्श इत्यभिप्रेत्य तद्वाक्यं व्याचष्टे– ज्ञानकर्मकरणत्व-लिङ्गादिति ॥ ज्ञानकर्मकरणत्वस्य प्राणासाधारणधर्मत्वादिति भावः । अनेनाणुभिः पश्यत्यणुभिः शृृणोतीत्येतत्सर्वेन्द्रियोपलक्षकमित्युक्तं भवति । तथा श्रुतेरिति भाष्यन्यायविवरणोदाहृताया ‘दिवीव चक्षुः’श्रुतेरित्यर्थः । व्याप्त्याख्यविशेषवाचकश्रुतिविरोध इति न्यायविवरणं मनसि निधायाह– विष्णोर्व्याप्तत्व इत्यादि ॥ एतदृगर्थस्तु चक्षुर्दिवीव व्याप्तं यददृश्यं फलदर्शितमिति ऋग्भाष्यटीकायां यथा हि चक्षुराकाशे व्याप्तमपि न दृश्यते । केवलं विषयोपलब्धिलक्षणेन फलेन अनुमीयते । तथा परमेश्वरस्वरूपं सर्वगतमपि न दृश्यम्; किं त्वस्वतन्त्राणां पदार्थानां सत्ताप्रतीतिप्रवृत्तिभिर्ज्ञायत इत्युक्तम् । दूरश्रवणादिदर्शनादियुक्तिश्चेति भाष्योक्तयुक्तिमाह किं चास्तीत्यादिना । अन्यथा करणत्वविरोधादिति । व्यापारवत एव करणत्वाद्विषयप्राप्ति-रूपसन्निकर्षस्यैव व्यापारत्वात् । तदभावे करणत्वविरोधादित्यर्थः । हेतोरन्यथासिद्धिं निवारयति– न च स्थानमिति ॥ तेजसा व्याप्तेति ॥ अनेन पूर्वपक्षश्रुतियुक्त्योः सावकाशत्वप्रदर्शनार्थः सौत्र‘श्च’शब्द इत्युक्तं भवति । एवं तर्हि साम्येनानिर्णयः स्यादित्यतः ‘अणूनि ह वा इन्द्रियाणि तेषां प्रकाशो व्यातत’ इति ततोऽप्यणुत्ववाचकविशेषश्रुतिविरोधादिति न्यायविवरणं मनसि निधायाह– विशेषश्रुतित्वाच्चेति ॥ चक्षुःप्रकाशो व्याततस् तेषां प्रकाशो व्यातत इत्यनेन ‘दिवीव चक्षुराततम्’ इति व्याप्तिश्रुतेः सावकाशत्वप्रदर्शनात्ततोऽपि व्याप्तिवाचक श्रुतेरप्यणुत्ववाचकश्रुते-र्विशेषश्रुतित्वाच्चेत्यर्थः । पूर्वपक्षयुक्तेः प्रतिकूलतर्कपराहतिमाह– यदीन्द्रियाणीत्यादिना । न केवलं सर्वविषयैः सह समनस्केन्द्रियसन्निकर्षस्य सत्त्वात् सर्वग्रहणप्रसङ्गः । किं तु तादृशसन्निकर्षस्य सदा सत्त्वप्राप्त्या सर्वदा च ग्रहणं स्यादित्याह– सुप्त्याद्यभाव इति ॥ आदिपदेन मरणमूर्छादिग्रहणम् । शब्दो हीत्यादावत्र शब्दपदेन वर्णात्मकशब्द उच्यत इति ज्ञेयम् ॥ मानाभावादिति ॥ स एवायं गकार इति प्रत्यक्ष ‘यावद् ब्रह्मविष्ठितं तावती वाक्’ इति श्रुतिरूपप्रमाणबाधाच्चेत्यपि ग्राह्यम् ॥ श्रोत्रस्यैव गमनोपपत्तेरिति ॥

ननु श्रोत्रस्य चक्षुष इव गत्वाग्राहित्वे दिगादिशब्दे दिक्संशयो न स्यादिति चेत्; न । अगत्वाग्राहित्वे दिङ्निश्चयाभावप्रसङ्गात् । संशयादपि निश्चयो महीयान् । क्वचिच्छब्दे दिक्संशयस्तु रूपादाविव दोषबलाद्युक्तः । न च श्रोत्रस्य गत्वाग्राहित्वे सङ्कोचे कारणाभावेन देवादिभाषितमपि गृह्णीयादिति वाच्यम्; चक्षुषोऽपि देवादिग्रहणप्रसङ्गात् । कार्यबलात् सङ्कोचस्यो-भयत्रापि तुल्यत्वादिति भावः । अन्यत्रापीति, घ्राणाद्यारम्भ इत्यर्थः ॥ अनभ्युपगम इति ॥ दूरस्थश्रवणानभ्युपगम इत्यर्थः । दूरश्रवणादीत्युक्तयुक्तेरणूनि वा इन्द्रियाणि तेषां प्रकाशो व्यातत इति सावकाशत्वोक्त्यनुरोधेनायमभ्युपगमो ज्ञातव्यः ।

भावदीपः

प्राणानामिति शेष इति ॥ श्रुतौ चक्षुःपदे उपलक्षणमिति वा चक्षुष इवान्यस्यापि व्याप्तिश्रुतिरूह्येति वाऽभिप्रायः । चक्षुर्मात्रव्याप्तत्वाभिप्राये तु श्रुत्यनुग्राहकदूर श्रवणादियुक्ति-रयुक्ता । तथा प्राणा वा अणव इति सामान्यश्रुतेरचक्षुःपरत्वसम्भवेन श्रुत्योर्विरोधोक्तिश्चायुक्तेति भावः ॥ जानातीति ॥ पश्यार्थैश्चानालोचन इति पाणिनीयस्मृतौ ज्ञानमात्रेऽपि पश्यतिशब्द-प्रयोगात् । अत एव चापरोक्षदृशो मिथ्यादर्शनं न क्वचिद्भवेदिति ब्रह्माण्डस्मृतावपरोक्षविशेषणं चेति भावः । अन्यथा अणुभिरिति बहुवचनास्वारस्यामिति ध्येयम् । प्राणा अणव इत्येवपूर्तौ श्रुतिशेषोक्तेः फलमाह ॥ कृतोऽत्रेति ॥ अणुत्वश्रुतावित्यर्थः ॥ तथा श्रुतेरिति ॥ यद्यपि दिवीवेति श्रुतौ चक्षुष एव व्याप्तत्वं न सर्वप्राणानाम् । तथापि तुल्यन्यायतया प्रमाणमात्रेऽपि तदभिमतमिति भावेन वा चक्षुष एव व्याप्तत्वं न सर्वप्राणानां तथापि तुल्यन्यायतया प्रमाणमात्रेऽपि तदभिमतमिति भावेन वा चक्षुष इव प्राणान्तरेष्वपि व्याप्तत्वे श्रुतिरनुमेयेति भावेन वा तथा श्रुतेरित्युक्तम् । व्याप्त्याख्यविशेषवाचकश्रुतिविरोध इत्यन्यत्रोक्त्यनुरोधेनाह ॥ व्याप्तत्व इति ॥ चक्षुर्दिवीवव्याप्तं यददृश्यं फलदर्शितमिति ऋग्भाष्ये तट्टीकायां च यथा चक्षुराकाशे व्याप्तमपि न दृश्यते केवलं विषयोपलब्धिलक्षणेन फलेनानुमीयते तथा परमेश्वरस्वरूपं सर्वगमपि न दृश्यं किं तु अस्वतन्त्राणां पदार्थानां सत्ताप्रतीतिप्रवृत्तिभिर्ज्ञायत इत्युपमानधर्माध्याहारेणार्थान्तरमुक्तम् । दूरश्रवणेत्यादिभाष्यं व्यनक्ति ॥ किं चेति ॥ करणत्वेति ॥ व्यापारवतः करणत्वात्सन्निकर्षरूपव्यापारवत्त्वेनैवेह करणत्वनिर्वाहादिति भावः । अणुत्वेऽपि शरवद्विषयसम्बन्धोऽस्त्वित्याशङ्क्य निराह ॥ न चेति ॥ अत इति ॥ सयुक्तिकत्वात्प्रबलेत्यर्थः । भाष्योक्तश्रुत्यनुरोधात्सूत्रार्थं प्राणपदमनुवर्त्याह ॥ अणव एव प्राणा इति ॥ स्वरूपेणेति भावः । अनेन चोऽवधारण इति समुच्चयार्थं च मत्वाह ॥ तेजसा व्याप्ताश्चेति ॥ भाष्योक्तश्रुतौ चक्षुःपदमणूनि वा इन्द्रियाणि तेषां प्रकाशो व्यातत इत्यन्यत्रोक्तश्रुत्यनुरोधात्प्राणान्तरोपलक्षणं मत्त्वाऽवतारयति । कुतोऽणुत्वं प्राणानामिति ॥ दृष्टान्तत्वोक्तेरुपयोगमाह ॥ न चेत्यादिना ॥ विशेषश्रुतिविरोधादित्यन्यत्रोक्त्यनुरोधेन प्रकाशो व्यातत इति विशिष्योक्तेरुपयोगमाह ॥ विशेषश्रुतित्वाच्चेति ॥ इतिशब्दः सूत्रभाष्यव्याख्या-समाप्तौ । स्वरूपव्याप्त्यैवोक्तदूरश्रवणाद्युपेयताम् । किं च प्राणानां कदम्बमुकुलन्यायादिना स्वदेश-मागतशब्दादिविषयग्रहणोपपत्तौ तेजसा व्याप्त्युपगमो निर्बीज इति हैतुक मन्यस्योक्तवचनमकिञ्चि-त्करमित्यतो युक्त्याऽप्युक्तमर्थं साधयितुमाह ॥ यदीत्यादिना ॥ युक्त एवाभ्युपगम इत्यन्तेन ॥ सर्वग्रहणं चेति ॥ न केवलम् उक्तश्रुतिविरोध इति चार्थः ॥ सुप्तीति ॥ समनस्केन्द्रियसन्निकर्षस्य विषयाणां सार्वकालिकत्वेन ज्ञानोपरमानवसरात् । सुषुप्तिमरणमूर्छा न स्युरित्यर्थः । अतिप्रसङ्गं निराह ॥ यत्र त्विति ॥ अनुज्ञायते अङ्गीक्रियते इत्यर्थः ॥ श्रोत्रेति ॥ श्रोत्रदेशे परम्परया कदम्बमुकुलन्यायेनोत्पन्नशब्दग्रहणे इत्यर्थः ॥ मानाभावादिति ॥ शङ्खभेर्यादिशब्द एव मया श्रुत इति प्रत्यभिज्ञाविरोधाच्चेत्युपलक्ष्यते । अन्यथा शङ्खादिशब्दजातीय एव श्रुत इति धीः स्यादिति भावः । प्रागुक्तदिशेन्द्रियाणां तैजसत्वमपि मत्वाऽऽह ॥ चक्षुर्वच्छ्रोत्रस्यैवेति ॥ क्वचिच्छब्दे सन्देहस्तु रूपादाविव दोषवशाद्युक्तः ब्रह्मभाषितादीनामग्रहणं ब्रह्मरूपादेरिव युक्तमिति भावः । अवकाशोऽव्याकृताकाश इत्यर्थः ॥ परिशेषादिति ॥ पृथिव्यादिभूतपञ्चकमध्ये पृथिव्यप्तेजोवायूनां घ्राणरसनचक्षुःस्पर्शनेषूपक्षीणत्वेन श्रोत्रस्यावकाशात्मकत्वमेव परिशिष्यत इति परिशेषप्रमाणा-त्सिद्धमित्यर्थः ॥ श्रुत्यादीति ॥ आकाशः सम्भूत आकाशो नीलिमोदेति शब्दमात्रमभून्नभ इत्यादिविरोध इत्यर्थः । तेषां भूतैरुपचय इत्युक्तमनुरुध्याह ॥ पृथिव्यादीनामिति ॥ अन्यत्र घ्राणादौ ॥ बधिरेति ॥ पृथिव्यादीनामेव श्रोत्रत्व इत्यनुषङ्गः ॥ अभ्युपगम इति ॥ स्वरूपतो अणवो ऽतस्तेजसा व्याप्ता इत्यभ्युपगम इत्यर्थः ॥ यद्वेति ॥ अस्मिन्पक्षे सूत्रे बहुवचनं प्रतिशरीरापेक्षया तदभावो नाडीष्वित्यत्रेवेति भावः ॥ अत इति ॥ प्राणानां स्वकार्यबलेन स्वरूपाणुत्वप्रकाशव्याप्तत्वोपगमाद्विशेषवचनाभावाच्चेत्यर्थः ।

अभिनवचन्द्रिका

प्राणानामिति शेष इति ॥ यद्यपि श्रुतौ ‘दिवीवचक्षुः’ इति श्रवणाच् चक्षुष इति वक्तव्यम् । तथापि श्रुतिबलाच्चक्षुषो व्याप्तत्वे सिद्धे श्रोत्रादीनामपि दूरस्थार्थग्रहणसंभवाच् चक्षुर्वदेव व्याप्तत्वं सिद्ध्यतीत्यभिप्रेत्य ‘प्राणानाम्’ इति शेष इत्युक्तम् । ‘प्राणैर्ह्येतद्भवति’ इति श्रुत्यंशमवतारयति कुतोऽत्रोक्ता इति ॥ ‘प्राणाः’ इत्यतः परम् ‘इत्यत आह, प्राणैर्ह्येतद्भवतीति ग्राह्यम् । ततश्चाऽयं श्रुत्यर्थो ऽणुभिः पश्यति जानाति, अणुभिः कृणोति करोति । के तेऽणव इत्यत उक्तं – प्राणा वा अणव इति ॥ कुत एतेऽणव इति प्राणाः प्रतिपत्तव्या इत्यत उक्तं प्राणैर्ह्येतद्भवतीति ॥ हि यस्मात्, एतज् ज्ञानादिकार्यं, प्राणैर्भवति प्राणकार्यमिति यावत् । ततश्च प्राणकार्यकारित्वाद् अणूनां प्राणत्वमिति गम्यत इति । पक्षैकदेशे साध्यसिद्धये हेतुमाह– तथा श्रुतेरिति ॥ पक्षमात्रे साध्यसिद्धये हेतुमाह– किं चेति ॥ चक्षुर्विषये प्रमाणान्तरत्वात् समुच्चायकश्चशब्दः प्रयुक्तः ॥ स्मरणादिति ॥ अत्र स्मरणशब्देनाऽनुसन्धानमुच्यते । आदिशब्देन घ्राणम् । एतेन अतीतपदार्थस्य संस्कारप्रत्यासत्त्या स्मरणवद् दूरस्थस्यापि स्मरणसंभवान् न तेन मनसो व्याप्तत्वसिद्धिरिति परास्तम् । हस्तपादादिप्रान्तभागावस्थितयुगपत्सुखदुःखानुसंधानेन मध्यमपरिमाणानाश्रयतया उभयवादिसंमतस्य मनसोऽणुत्वाभावसाधनस्य इहाभिमतत्वात् ॥ प्राप्यकारित्वादिति ॥

ननु – इन्द्रियाणां प्राप्यकारित्वाद् व्याप्तत्वसाधनमयुक्तम् । प्राप्यकारित्वस्याऽव्याप्तिकारित्वात् । प्राप्येतिल्यपा ‘स्नात्वा भुङ्क्ते’ इत्युक्तेः स्नानस्य भोजनपूर्वकालिकोत्पत्तिप्रतीतिवत् प्राप्तेर्ज्ञानोत्पत्तिपूर्वकालिकोत्पत्तिप्रतीतेरिति चेत्, न इन्द्रियाणां व्याप्तत्वेऽपि विषयजन्यकादाचित्क-प्राप्तेरङ्गीकारात् ॥ अन्यथेति ॥ प्राप्त्यनङ्गीकारे सन्निकर्षरूपव्यापारशून्यत्वाज् ज्ञानकरणत्वं न स्यादित्यर्थः । सूत्रार्थं वदन् भाष्ये तदनुक्तौ कारणमाह– अणव एवेत्यादिना ॥ ‘सर्वं वाक्यं सावधारण’मिति न्यायमनुसृत्य एवेत्युक्तम् । चशब्दसमुच्चेयं वक्तुमाह– नैतावतेति ॥ यावता तेजसा व्याप्ताश्चेति ॥ यावतेति विभक्तिप्रतिरूपकमव्ययं यस्मादित्यर्थे । यस्मात् प्राणा अणवोऽपि तेजसा व्याप्ताः, अतो न व्याप्त्यभिधायकबलवछ्रुतियुक्तिविरोध इति सूत्रार्थः स्पष्टत्वाद् भाष्यकृतो नोक्त इत्यर्थः ॥ विशेषश्रुतित्वादिति ॥ ‘प्रकाशो व्यातत’ इति प्रकाशद्वारा व्याप्तिरिति विस्पष्टवादित्वादित्यर्थः । पूर्वपक्षिणा दूरस्थश्रवणदर्शनादियुक्तिश्चेत्युक्ते सिद्धान्तिना दूरस्थ-श्रवणस्याखण्डनात् तदनुमतमेवेति ज्ञायते । तच्चाऽयुक्तमिति शङ्कते स्यादेतदिति ॥ श्रोत्रोत्पन्नेति ॥ शब्दज्ञाने प्रतीतदूरस्थशब्दविषयकत्वपरित्यागेन श्रोत्रोत्पन्नशब्दमात्रविषयकत्वस्वीकारे मूलभूतबाधकमानाभावादित्यर्थः । यद्यपि ‘वक्तृप्रयत्नप्रेरितो वायुर् उरःप्रभृतिभिःस्थानैः संयुक्तः स्थानसंयुक्ताकाशे ध्वनिलक्षणं शब्दमुत्पादयति । स च देशान्तरे प्रतिशब्दम् । यस्तु कर्णशष्कुल्यवच्छिन्नाकाशप्रदेशे समुत्पन्नस् तद्गुणो ध्वनिस् तस्मिन् व्यज्यमानो वर्णः श्रोत्रेण गृह्यते । ध्वनेश्च आशुतरविनाशित्वेन व्यञ्जकाभावान् न सर्वदोपलब्धिः’ इति तत्त्व-निर्णयटीकायामुक्तम् । तथापि नायं सिद्धान्तः । पररीतिमवलम्ब्यैव तदभिधानात् । शब्दपरंपरोत्पादे प्रमाणाभावाच्चेति न तद्विरोध इति बोध्यम् । दूरस्थशब्दविषयकत्वपरित्यागमूलं बाधं शङ्कते– अन्यथेति ॥ गमनोपपत्तेरिति ॥ इदं समाधानं न सार्वत्रिकम्, किंतु वराहश्रोत्रविषयम्, तच्छ्रोत्रस्यैव रश्मिद्वारा गतिमत्त्वात् । तदन्यश्रोत्रस्य तु प्रभावच्छब्दागमनेनैव सन्निकर्षः । ‘यं वै स्वधिष्ण्योपगतं ह्यजादयः श्रुत्वा स्वधामाप्ययमङ्ग मेनिरे’ इति शब्दागमनस्योक्तत्वादिति बोध्यम् ॥ किमाकाशपदेनेति ॥ अव्याकृताकाशं वा, भूताकाशं वेति प्रश्नः ॥ पृथिव्यादीना-मिति ॥ इन्द्रियाणां तैजसत्वेऽपि पञ्चीकरणात् त्रिवृत्करणाद्वा पृथिव्यादित्वमुपपद्यत इति भावः । युक्त एवाभ्युपगम इति ॥ पूर्वपक्ष्युक्तस्य दूरस्थशब्दग्रहणस्याभ्युपगमो युक्त इत्यर्थः ।

पूर्वपक्षस्तु – व्याप्ताः प्राणाः ‘दिवीव चक्षुराततम्’ इति व्याप्तिश्रुतेः । दूरस्थवस्तुदर्शन-श्रवणानुसंधानादियुक्तेश्च । न च अणुत्वश्रुतिविरोध इति वाच्यम् । विष्णोर्व्याप्तत्वे दृष्टान्तत्वेन चक्षुर्व्याप्तेरुक्तत्वेन एतच्छ्रुतेः प्राबल्यात् । अतः प्रबलव्याप्तिश्रुतिविरोधादणुत्वश्रुतिरप्रमाणमेवेति न जगत्कारणे ब्रह्मणि श्रुतिसमन्वयो युक्त इति ।

सिद्धान्तस्तु – अणव एव प्राणाः । तथाश्रुतेः । न च – ‘दिवीव चक्षुराततम्’ इति प्रबलश्रुतिविरोधादणुत्वाभावः । अणुत्वस्यापि ‘तद्यथा ह्यणुनश्चक्षसः’ इति प्रबलश्रुतिसिद्धत्वात् । न च एवं सत्यनिर्णयः ‘तद्यथा ह्यणुनश्चक्षसः’ इति श्रुतेर्विस्पष्टवादित्वेन व्याप्तिश्रुतितोऽपि बलवत्त्वात् । न च तदप्रामाण्यम् । ‘तद्यथाह्यणुन’ इति श्रुत्यनुसारेण व्याप्तिश्रुतेस्तेजसा व्याप्त्यर्थकत्वनिर्णयात् । अत एव युक्तिविरोधोऽपि परास्तः । अतः श्रुत्यनुरोधेन प्राणानामणुत्वसिद्धेर्युक्तो जगत्कारणे हरौ श्रुतिसमन्वय इति सिद्धम् ।

वाक्यार्थमुक्तावली

प्राणा इयं त इति सङ्ख्यानिर्णये तदवच्छिन्नानां परिमाणविचारावसर इत्यनन्तरसङ्गतिः ॥ किं व्याप्ता इति ॥ अत्र प्राणाः किं व्याप्त उताणव इति चिन्ता तदर्थं व्याप्तिश्रुतिर्युक्तियुक्तत्वेन निरवकाशोत सावकाशेति ॥ प्राणानामिति शेष इति ॥ दिवीवचक्षुराततम्’ इत्यत्र चक्षुर्व्याप्तौ सिद्धायामिन्द्रियत्वेन तद्दृष्टान्तेनेतरेषामपि सिद्ध्यतीत्याशयः । अत एव भाष्ये प्रतीयत इत्युक्तं न तु श्रूयत इति । प्राणैर्ह्येतद्भवतीत्यंशमवतारयति ॥ कुतोऽत्रोक्ता इति ॥ प्राणा इत्यतः परमाहेति शेषः । श्रुतौ हिशब्दो यस्मादित्यर्थे । एतदिति पश्यति कृणोतीत्युक्तधात्वर्थपरामर्श इत्यभिप्रेत्य व्याचष्टे ॥ ज्ञानकर्मेति ॥ हि यस्मादेतज्ज्ञानं कर्म च प्राणैर्भवति । तस्मादत्रोक्त अणवः प्राणा इत्यर्थः ॥ तथा श्रुतेरिति ॥ यथा दिव्याततं चक्षुः प्रत्यक्षेणादृश्यमपि विषयोपलब्धिलिङ्गकानुमानेन पश्यति तथा सूरयस्तद्विष्णोः परमं पदं स्वरूपं व्याप्तमप्यतीन्द्रियत्वादस्वतन्त्राणां सत्ताप्रतीति-प्रवृत्तिलिङ्गकानुमानेन पश्यन्तीति श्रुतेरित्यर्थः । तदुक्तम् ऋग्भाष्ये । चक्षुर्दिवीव व्याप्तं यददृश्यं फलदर्शितमिति । यद्यपीदं चक्षुर्मात्रव्याप्तौ प्रमाणं तथापि न्यायसाम्येनेतरत्र प्रमाणत्वं बोध्यम् । इन्द्रियाणां व्याप्तत्वे सामान्यप्रमाणमनुदाहृत्य वाक्यविशेषग्रहणं विशेषश्रुतिरित्युक्तपूर्वपक्षन्यायं सूचयितुमितिभावेनाह ॥ न चाणुत्वेति ॥ चक्षुरतिरिक्तेन्द्रियविषयस्य विशेषश्रुतित्वाभावा-दनुदाहृतसर्वेन्द्रियविषयसामान्यश्रुतेर्विशेषश्रुतित्वाय दूरश्रवणेति भाष्योक्तयुक्तिमाह ॥ किं चेति ॥ स्मरणादीत्यादिपदेन घ्राणादिरुच्यते । अन्यथेति प्राप्त्यनङ्गीकारे सन्निकर्षरूपव्यापारशून्यत्वाज्ज्ञान-करणत्वं स्यादित्यर्थः ।

हेतोरन्यथासिद्धिं वारयति ॥ न च स्वस्थानमिति ॥ सूत्रे प्राणा इत्यस्ति । चोऽवधारणे । तेजसा व्याप्तिसमुच्चये चेति भावेन सूत्रार्थमाह ॥ अणव एवेति ॥ अनेन पूर्वपक्षीयश्रुतियुक्त्योः सावकाशत्वप्रदर्शनाय सूत्रे चशब्द इत्युक्तं भवति ॥ अतिसुदृढेति ॥ दिवीवचक्षुराततम्’ इति विस्पष्टं चक्षुष एव व्याप्त्युक्तेः । सुदृढत्वं भगवद्व्याप्तौ दृष्टान्तत्वादिति सुदृढोऽहि दृष्टान्ते रश्मिद्वारा दार्ष्टान्तिकेतूभयथेति वाच्यम् । विशेषप्रमाणाभावादिति भावः ।

आत्माणुत्वादाविति ॥ जीवस्याणुत्वे प्रकाशव्याप्तौ चेत्यर्थः ॥ विशेषश्रुतित्वाच्चेति ॥ प्रकाशो व्यातत इति विस्पष्टं प्रकाशस्यैव व्याप्त्युक्तेरित्यर्थः । अनेन विशेषश्रुतिरित्युक्तसिद्धान्त-न्यायोऽपि भाष्यारूढो दर्शितः । उक्तं च न्यायविवरणे । अणूनि वा इन्द्रियाणि तेषां प्रकाशो व्यातत इति पूर्वपक्ष इत्युक्तेः प्रतिकूलतर्कपराहतिमप्याह ॥ यदिन्द्रियाणीत्यादिना ॥ न केवलं सर्वविषयैः सहमनस्केन्द्रियसन्निकर्षस्य सत्त्वात्सर्वग्रहणप्रसङ्गः किन्तु तादृशसन्निकर्षस्य सदा सत्त्वप्राप्त्या सर्वदा च ग्रहणं स्यादित्याह ॥ सुप्त्याद्यभावश्चेति ॥ न च सर्वदा सम्बन्धत्वेऽप्या-गन्तुकसहकारिलाभेन ज्ञानजननौन्मुख्यदशायामेव ग्रहणमिति वाच्यम् । तथात्वे व्याप्तेरकिञ्चित्कर-त्वेनाप्यणुत्वेऽप्युपपत्तेरिति न च प्रकाशव्याप्तिपक्षेऽपि दोषसाम्यम् ।

प्रकाशानां सङ्कोचविकाससद्भावादिति भावः । पूर्वपक्षिणा दूरश्रवणदर्शनादित्युक्तिश्चेत्युक्ते सिद्धान्तिना दूरस्थश्रवणस्याखण्डनेन तदनुमितमेवेति ज्ञायते तदयुक्तमिति शङ्कते ॥ स्यादेतदिति ॥ अत्र शब्दपदेन ध्वन्यात्मकशब्द उच्यते ॥ मानाभावादिति ॥ श्रोत्रोत्पन्नशब्दस्यैव ग्रहणमिति नियमे मानाभावादित्यर्थः । अन्यथा विष्णुतत्वनिर्णयटीकायां वक्तृप्रयत्नप्रेरितः कोष्ठ्योवायुरुरः प्रभृतीन्यष्टौ स्थानान् गत्वा श्रोत्रस्थानसंयुक्ताकाशे ध्वनिलक्षणं शब्दमुत्पादयति । स च देशान्तरे प्रति शब्दमित्यादिना । बृहद्भाष्ये शब्दो हि स्थानान्तरं गत्वा प्रतिश्रुतत्वमुपैतीति । भागवते च । ‘यं वै स्वधामोपगतं ह्यजादयः श्रुत्वा स्वधामाप्ययमङ्ग मेनि इति शब्दस्य गमनोक्त्या विरोधप्रसङ्गः ॥ चक्षुर्वदिति ॥ इन्द्रियाणां तैजसत्वादिति भावः ।

ननु श्रोत्रस्य चक्षुष इव गत्वा ग्राहित्वे शब्दे दिक्संशयो न स्यादिति चेन्न । अगत्वा ग्राहित्वे दिङ्निर्णयाभावप्रसङ्गात् । संशयादपि निश्चयो महीयान् । क्वचिच्छब्दे दिक्संशयस्तु रूपादाविव विशेषबलाद्युक्तः । न च श्रोत्रस्य गत्वा ग्राहित्वे संकोचे कारणाभावेन देवादिभाषितमपि गृह्णीयादिति वाच्यम् । चक्षुषापि देवादिरूपग्रहणप्रसङ्गात्कार्यबलात् संकोचस्यायोग्यता तस्यो-भयत्रापि तुल्यत्वादिति भावः ॥ भूताकाशस्येति ॥ अवकाशशब्दिताव्याकृताकाशापेक्षया द्रव्यान्तरस्य भूताकाशस्येत्यर्थः ॥ पृथिव्यादीनामिति ॥ तैजसाहङ्कारोपचितानामपीन्द्रियाणां तेषां भूतैरुपचय इत्युक्तरीत्या भूतैरुपचय सम्भवात् । विशिष्य भूताकाशोपचितस्यापि श्रोत्रस्य पृथिव्यादिभिरभ्युपचयोऽस्तीति भावेनैवमुक्तमिति मन्तव्यम् ।

अन्यत्रेति ॥ घ्राणादिजननोपक्षीणत्वेन श्रोत्रानारंभकत्वे देहानारंभकत्वप्रसङ्ग इत्यर्थः । अदृष्टकारणकत्वं चेति ॥ बधिरस्येत्यर्थः ॥ उपहतिरिति ॥ स्तंभकवायूपहतिरित्यर्थः ॥ युक्त एवेति ॥ दूरश्रवणाभ्युपगमो युक्त एवेत्यर्थः । ननु दूरश्रवणदर्शनादियुक्तिश्चेति भाष्ये आदिपदेन देशकालव्यवहितपदार्थस्मरणं ग्राह्यम् । मनश्च स्मृतिजननेन स्वरश्मिभिर्गत्वा विषयसन्निकृष्टं भवति । किन्तु संस्कारमवान्तरव्यापारीकृत्य । तत्कथं स्मरणयुक्त्या मनसो गत्वा ग्रहणमुच्यत इति चेन्न । संस्कारमवान्तरव्यापारीकृत्य मनोविषयेण सन्निकृष्यते संस्कारस्य द्रव्यत्वेनावान्तर-व्यापारानुपपत्तेः । न च द्रव्यत्वमसिद्धं गजतुरगादिस्वाप्नद्रव्योपादानत्वात् । किं त्वनुभवविषय एव स्मरणविषय इति अनुभवदशायां मनसा विषयेण सन्निकर्षे जनयितव्ये यन्मनसो रश्मिद्वारा विषयदेशगमनं तदेवावान्तरव्यापाररूपम् । न चानुभवकालेऽपि न मनो गङ्गादिविषयदेशं गच्छति बाह्यार्थेऽप्रवृत्तेरिति वाच्यम् । बहिरस्वातन्त्र्येऽपि बाह्येन्द्रियानुबद्धतया गमनसद्भावात् । न चानुभवकालीना मानसीक्रिया चिरातीतत्वात्कथं स्मरणकारणमिति वाच्यम् । अनुभवकालीना मानसीक्रियानुभवं जनयत्यनुभवस्त्वर्थविषयसंस्कारं जनयति । संस्कारस्य च स्थायित्वात् । स्वयं सहकारिरूपमुद्बुद्धं पूर्वतनचेष्टां तज्जमर्थसन्निकर्षं चापेक्ष्य स्मरणं जनयतीति किमनुपपन्नम् । तदुक्तं भगवद्गीताभाष्ये । ध्यानादेरपि मानसी चेष्टाऽपि कारणं पूर्वतनचेष्टापि संस्कारकारणत्वेन भवतीति । प्रमेयदीपिकायां च आदिपदेन स्मरणं गृह्यते । ज्ञात एवार्थे ध्यानं भवति । ज्ञानं चात्मेन्द्रियसन्निकृष्टेनैव मनसा जायते सन्निकर्षश्च मनसश्चेष्टा नान्या अतो ध्यानादेरपि मनः सम्बन्धिनी चेष्टाकारणं भवतीत्यादिना स्पष्टमेतत् ।

वाक्यार्थविवरणं

स्मरणं मनःकार्यम् । पश्यतेश्चाक्षुषज्ञानार्थत्वादणुभिः सर्वेन्द्रियैः पश्यतीति न युक्तम् । अतो व्याचष्टे ॥ पश्यति ॥ जानातीति ॥ भाष्ये कृणोति करोतीत्यर्थः ॥ पश्यामः ॥ जानीमः ॥ प्राप्तेति ॥ तथा चेन्द्रियाणां दूरस्थवस्तुप्राप्ताववश्यं वाच्यायां व्याप्तत्वं प्राप्तमिति भावः । ननु प्राप्यकारित्वयुक्त्या व्याप्तिर्वाच्या । स्वस्थानं विहायाणूनामेवेन्द्रियाणां विषयं प्रति गत्वा सन्निकर्षाङ्गीकाराद्विषयसन्निकर्षरूपव्यापारत्वप्राप्त्या करणत्वसम्भवाच्चेत्यत आह ॥ न चेति ॥ स्वस्थानं गोलकम् । विहाय तस्माद्बहिर्निर्गत्य । यावतेति सौत्रचशब्दार्थः ॥ आत्माणुत्वेति ॥ जीवाणुत्वेत्यर्थः । एवमणुत्वे साधकमुक्त्वा व्याप्तत्वे बाधकमाह ॥ यदीति ॥ वितत्य ॥ व्याप्य । यदीन्द्रियाणि तेजसा विना स्वरूपत एव व्याप्त एव स्थितानीत्युच्यन्ते तदाकाशस्थपदार्थज्ञानमपि स्यात् । तत्सन्निकर्षस्य सत्त्वादिति भावः ॥ सुप्त्यादीति ॥ इन्द्रियाणां व्याप्तत्वेन सर्वदा …….. …… स्वरूपतोऽणुत्वेऽपि तेजसा व्याप्तिमङ्गीकृत्य पूर्वपक्ष्युक्तादूरश्रवणदर्शनादियुक्तिः सिद्धान्तेऽनुज्ञाता । तत्र चक्षुषो दूरदर्शनमस्तु गत्वा ग्राहित्वात् तस्य । दूरश्रवणं तु कथम् । श्रोत्रस्य तदयोगादिति शङ्कते ॥ स्यादेतदिति ॥ वक्त्रोत्पन्नः ॥ तदवच्छिन्नाकाशे उत्पन्नः । उत्पादयति । वीचितरङ्गन्यायेनेति शेषः ॥ द्रव्येण ॥ कुड्यादिना ॥ न तत्रेति ॥ तेन प्रतिबद्धत्वादिति भावः ॥ कथमिति ॥ तेजसा व्याप्तिमङ्गीकृत्येति शेषः ॥ श्रोत्रेति ॥ शब्दो हीत्युक्तप्रणाड्येति शेषः । शङ्कते ॥ अन्यथेति ॥ शब्दो हीत्याद्युक्तप्रणाड्या कर्णशष्कुल्य-वच्छिन्नवियत्युत्पन्नः श्रोत्रसम्बन्धः शब्दो यदि श्रोत्रेण न गृह्यते किन्तु वक्तृवक्त्रोत्पन्नशब्द एव गृह्यते तर्हि श्रोत्रशब्दयोः सम्बन्धाभावात् श्रोत्रेणैव शब्दग्रहणस्यावश्यकत्वाच्छ्रोत्रं शब्दमप्राप्या-सम्बध्यैव गृह्णातीति प्राप्तम् । तथा चातिप्रसङ्ग इति भावः । यथा चक्षुषो गत्वाग्राहित्वं तव सम्मतं तद्वच्छ्रोत्रस्यापि गत्वाग्राहित्वमेवास्तु । तथा च नोक्तदोष इत्यत आह ॥ चक्षुर्वदिति ॥ आकाश-तया आकाशात्मकतया ॥ अमूर्तत्वात् ॥ व्याप्तत्वात् ॥ नेति ॥ निष्क्रियत्वेन गमनमयुक्तमित्यर्थः ॥ अवकाशः ॥ अव्याकृताकाशः ॥ कुतः ॥ प्रमाणात् ॥ अवकाशत्वम् ॥ अव्याकृताकाशात्म-कत्वम् ॥ परिशेषादिति ॥ श्रोत्रं ‘पृथिवी न’, ‘जलं न’, इत्यादिरूपेण प्रसक्तप्रतिषेधे परिशेषादव्याकृताकाशात्मकत्वं सिद्ध्यतीति भावः ॥ द्रव्यान्तरस्येति ॥ भूताकाशस्या-व्याकृताकाशभिन्नद्रव्यान्तरस्य सत्त्वेन भूताकाशं नेति परिशेषानुपपत्तेरित्यर्थः । तथा च भूताकाशात्मकमेवास्तु श्रोत्रमिति तस्य मूर्तत्वेन युक्तं गमनमिति भावः ।

ननु भूताकाशानङ्गीकारेण युक्तः परिशेष इति चेत्तत्राह ॥ तदनभ्युपगम इति ॥ श्रुत्यादीति ॥ ‘आत्मन आकाशः सम्भूतः’ । ‘आकाशो नीलिमोदेति’ इति भूताकाशप्रतिपादक-श्रुत्यादीत्यर्थः । एवं भूताकाशमेव श्रोत्रमिति युक्तं तस्य गमनमिति स्वमतं समर्थ्य पृथिव्यादि-कार्यमेव श्रोत्रमस्तु । …… ……. …… घ्राणादिजननोपक्षीणत्वेनान्यथासिद्धतया श्रोत्रारम्भकत्वं न सम्भवतीत्युच्यते तर्हि पार्थिवशरीरारम्भकत्वमपि न स्यात् । घ्राणादिजननो-पक्षीणत्वेनान्यथासिद्धत्वादेवेति भावः । ननु पृथिवीरूपायाः कर्णशष्कुल्या एव श्रोत्रत्वाङ्गीकारे बधिराणामप्येतादृशश्रोत्रस्य सत्त्वेन तेषामपि शब्दग्रहणापत्त्या लोके बधिराभाव एव स्यादित्याशङ्कते ॥ बधिरेति ॥ अव्याकृताकाशमेव श्रोत्रमिति वदतस्तव मतेऽपि बधिराणामपि कर्णशष्कुल्यन्तरावकाशस्य सत्त्वेन श्रोत्रस्य सत्वात्तेषामपि शब्दग्रहणापत्त्या बधिराभावः स्यादिति दूषणस्य त्वन्मतेऽपि साम्यादित्याह ॥ सममिति ॥ अथैवमुच्यते ‘नावकाशमात्रं श्रोत्रं येनोक्त-दोषः, किन्त्वदृष्टविशेषसहकृतावकाशमेव बधिराणां चादृष्टविशेषसहकृतावकाशाभावेन न शब्दग्रह’ इति यदि तर्हि वयमपि वदामोऽदृष्टविशेषसहकृतपृथिव्यादिकमेव श्रोत्रमिति । बधिराणां चैतादृश-श्रोत्राभावान्न शब्दग्रह इत्याह ॥ अदृष्टेति ॥ कारणम् ॥ सहकारि । नन्वप्रतिबद्धावकाशमेव श्रोत्रं बधिराणां चावकाशमात्रस्य सत्त्वेऽपि तस्य बलवता केनचिद्रृव्येणापहतत्वान्न शब्दग्रह इति चेत्तत्राह ॥ उपहतिश्चेति ॥ बलवता प्रतिबन्ध इत्यर्थः । उपहतिरित्येतद्वचः पृथिव्यादीनामेव श्रोत्रत्वे न सम्भवति । संस्पर्शद्रव्यत्वात् । तादृशा एव घटादावुपहतिदृष्टेः । नावकाशमात्रस्य श्रोत्रत्वे उपहतिकल्पना युक्ता । अव्याकृताकाशस्य निःस्पर्शत्वेनोपहतिकल्पनायोगादिति भावः ॥ युक्त एवेति ॥ पृथिव्यादीनामेव श्रोत्रत्वाभ्युपगमो गमनाभ्युपगमो वा दूरश्रवणाभ्युपगमो वा प्रौढिवादेन युक्त इत्यर्थः ।

वाक्यार्थमञ्जरी

श्रोत्राद्यनुगमायाह ॥ जानातीति ॥ कृणोतीत्यस्य करोतीत्यर्थः स्फुट एवेति भावः । प्राणैर्ह्येतद्भवतीत्येतदवतारयति ॥ कुतोऽत्रोक्त इति ॥ अत्राणुभिरिति श्रुतौ ज्ञानादिकारणत्वेनोक्ता इत्यर्थः । एतच्छब्देन पश्यतीत्याद्युक्तपरामर्शः हिशब्दो हेत्वर्थ इत्यभिप्रेत्य तद्वाक्यं व्याचष्टे ॥ ज्ञानकर्मेति ॥ ज्ञानकर्मकारणत्वस्य प्राणासाधारणधर्मत्वादिति भावः । विष्णोर्व्याप्तत्व इति ॥ यथा हि चक्षुराकाशे व्याप्तमपि न दृश्यते केवलं विषयोपलब्धिलक्षणेन फलेनानुमीयते तथा परमेश्वरस्वरूपं सर्वगतमपि न दृश्यते किं तु अस्वतन्त्राणां पदार्थानां सत्ताप्रतीतिप्रवृत्तिभिर्ज्ञायत इति तदर्थः । चक्षुर्दिवीव व्याप्तं यददृश्यं फलदर्शनमिति ऋग्भाष्योक्तेरिति भावः ॥ प्राप्य-कारित्वादिति ॥ वस्तु सम्बध्य ज्ञानकरणत्वादित्यर्थः ॥ अन्यथेति ॥ व्यापारवत एव करणत्वा-द्विषयप्राप्तिरूपसन्निकर्षस्यैव व्यापारत्वात्तदभावे करणत्वविरोधादित्यर्थः । प्राणाः स्वरूपेणाणव एव तेजसा व्याप्ताश्चेत्यर्थः ॥ अतिसुदृढेति ॥ दृष्टान्तत्वान्यथानुपपत्या सुदृढेत्यर्थः । आत्मनः जीवस्य तर्हि । साम्येनानिर्णयः स्यादित्यत आह ॥ विशेषश्रुतित्वाच्चेति ॥ चक्षसः प्रकाशो व्यातत इत्यनेन दिवीवेति व्याप्तिश्रुतेः सावकाशत्वप्रदर्शनेनास्याः श्रुतेस् तदपेक्षया विशेषश्रुतित्वान्निर्णय इत्यर्थः । स्वरूपेण व्याप्तत्वे बाधकं चाह ॥ यदिन्द्रियाणीति ॥ सुप्त्याद्यभावश्चेति ॥ सर्वविषयैः सह समनस्केन्द्रिय सन्निकर्षस्य सदा सत्त्वप्राप्त्या सर्वदा तद्ग्रहणे सर्वेन्द्रियव्यापारोपरमरूपसुप्त्यभावः स्यादित्यर्थः । द्रव्येण कुड्यादिना अनुज्ञायते अभ्युपगम्यते पूर्वपक्ष्युक्तस्य दूरश्रवणस्या-निराकृतत्वेनाङ्गीकारो ज्ञायत इति भावः ॥ अवकाश इति ॥ अव्याकृताकाश इत्यर्थः ॥ परिशेषादिति ॥ घ्राणादिजनकानां पृथिव्यादीनामन्यथासिद्धत्वेन श्रोत्रोत्पादकत्वानुपपत्तौ तस्य परिशिष्टाकाशकार्यत्वस्यैवाङ्गीकार्यत्वादिति भावः ॥ श्रुत्यादिविरोध इति ॥ ‘आत्मन आकाशः सम्भूतः’ ‘आकाशो नीलिमोदेति’ शब्दमात्रमभून्नभ इत्यादिविरोध इत्यर्थः ॥ पृथिव्यादीना-मिति ॥ तेषां भूतैरुपचय इति सामान्योक्तेरिति भावः । अन्यत्र घ्राणाद्यारम्भे ॥ तच्छरीरेति ॥ अन्यत्रोपक्षीणत्वादेव पार्थिवादिशरीरानारम्भकत्वप्रसङ्ग इत्यर्थः । बधिराभाव इति ॥ पृथिव्यादीनां तान्प्रत्यप्यविशिष्टत्वादिति भावः । सत्यपीन्द्रिये पापवशादश्रवणमित्यत आह ॥ अदृष्टेति ॥ तदिन्द्रियस्य बलवन्निबिडवायूपहतत्वेनाश्रवणोत्पत्तिरित्यत आह ॥ उपहतिश्चेति ॥ आकाशस्य निस्पर्शत्वेनाप्रतिघातद्रव्यत्वादिति भावः ॥ अभ्युपगम इति ॥ पूर्वपक्ष्युक्तदूरस्थश्रवणाभ्युपगम इत्यर्थः । अत्र सर्वत्र शब्दपदेन वर्णात्मक शब्दो ग्राह्यः न ध्वन्यात्मकस् तेनात्राकाशगुणे शब्दे व्यज्यमाना वर्णादय इति तत्त्वनिर्णयतट्टीकाविरोधस् तत्र ध्वन्यात्मकशब्दस्य स्यादेतदित्यादिनोक्त-प्रकाराभ्युपगगमादिति निरस्तम् । न च श्रोत्रस्य गत्वा ग्राहित्वे ध्वन्यात्मकस्यापि शब्द-स्तत्प्रकाराभ्युपगमो व्यर्थ इति वाच्यं शब्दस्य शब्दान्तरजनकत्वस्वाभाव्यादेव तथाङ्गीकारात् तत्कुतः सिद्धमिति चेद् बहुजनाकीर्णसभादौ जनेषु मन्दं मन्दं भाष्यमाणेषु तदीयशब्दैर्महाशब्दो-त्पादस्यापवरकादौ प्रतिध्वन्युत्पादस्य बहुलमुपलम्भात् तर्हि श्रोत्रस्य गत्वाग्राहित्वं कुत इति चेन्न प्राणा वा इन्द्रियाणि प्राणाहीदं द्रवन्तीतीन्द्रियाणामिदं विषयजातमुद्दिश्य द्रवणस्य श्रुतिसिद्धत्वात् श्रोत्रस्यागत्वाग्राहित्वे शब्देन दिङ्निश्चयाभावप्रसङ्गाच्च अस्ति तावच्छब्दश्राविणां पूर्वभागे दूरे शब्दो भवतीति निश्चयः न च श्रोत्रस्य गमनाभावे सम्भवति श्रोत्रेणागत्वैव स्वसमीपस्थशब्दग्रहणे तस्या दूरभावित्वेन दूरे शब्दो भवतीति निश्चयः न च श्रोत्रस्य गमनाभावे सम्भवति श्रोत्रेणागत्वैव स्वसमीपस्थशब्दग्रहणे तस्यादूरभावित्वेन दूरे शब्द इति ज्ञानानुपपत्तेश्च क्वचिच्छब्दे दिक् संशयस्तु रूपादाविव दोषबलाद्युक्त इति ध्येयम् ।

॥ इति अण्वधिकरणम् ॥