०३ वागधिकरणम्

ॐ तत्पूर्वकत्वाद्वाचः ॐ

३. अथ वागधिकरणम्

सूत्रभाष्यम्

‘नित्ययाऽनित्यया स्तौमि परमात्मानमच्युतम्’ इति । ‘वाग्वाव नित्या न ह्येषोत्पद्यतेऽ-स्यां हि श्रुतिरवतिष्ठत’ इति सयुक्तिकं पौष्यायणश्रुतौ वाचोऽनुत्पत्तिरुच्यते अतो ब्रवीति–

॥ ॐ तत्पूर्वकत्वाद्वाचः ॐ ॥ ५ ॥

‘‘तस्मान्मन एव पूर्वरूपं वागुत्तररूपम्’’ (ऐ.आ. ३-१-१) इति मनः पूर्वकत्वाद्वाचो नानुत्पत्तिः ।

‘वागिन्द्रियस्य नित्यत्वं श्रुतिसन्निधियोग्यता ।

उत्पत्तिर्मनसो यस्मान्न नित्यत्वं कुतश्चने’ ॥ इति वायुप्रेाक्ते ।

॥ इति वागधिकरणम् ॥

तत्त्वप्रदीपिका

‘मनसा वा अग्रे सङ्कल्पयत्यथ वाचा व्याहरति तस्मान्मन एव पूर्वरूपं वागुत्तररूपम्’ इति श्रुतेर् मनःपूर्वकत्वाद्वाच उत्पत्तिरेव, ‘मनसो वाव वागुत्पद्यत’ इति च ।

तत्त्वप्रकाशिका

अत्र जगत्कारणे हरौ श्रुतीनां समन्वयसिद्ध्यर्थं वागुत्पत्तिविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । श्रुतिसमन्वयेन जगत्कारणत्वं विष्णोरुक्तम् । तद्वागुत्पत्तिविषय श्रुतिविरोधेना-प्रामाण्येऽनुपपन्नं स्यादिति तस्य निराकरणमावश्यकम् । प्रकृतेन्द्रियान्तःपाति वागिन्द्रियमत्र विषयः । उत्पत्तिमन्न वेति सन्देहः । ‘सर्वेन्द्रियाणि च’ ‘न ह्येषोत्पद्यत’ इति श्रुतिविगानं सन्देह-बीजम् । पूर्वपक्षयति ॥ नित्ययेति ॥ न वागुत्पत्तिमती । अनादित्वे श्रुतिसद्भावात् । न चेयं श्रुतिर्वेदविषया । समाख्याश्रुतौ नित्ययानित्ययेत्यवतार्य श्रुतिर्वाव नित्येति व्याख्यातत्वात्सामान्य-वाक्शब्दस्य विशेषार्थकल्पनोपपत्तेरुत्पत्तिश्रुत्यानुकूल्याच्चेति वाच्यम् । अस्यां हि श्रुतिरवतिष्ठत इति वाक्यशेषादस्याविशेषश्रुतित्वात् । न हि श्रुतौ श्रुतिरवतिष्ठते । किं चोत्पत्तिमत्त्वे वाचः श्रुतं श्रुत्याश्रयत्वं तस्या नोपपद्यते । न हि नित्याश्रयोऽनित्यः क्वचिद् दृष्टः । अथापि स्यात् । सूक्ष्मरूपानादित्वपरा श्रुतिः किं न स्यात् । उत्पत्तिश्रुत्यानुकूल्यादुपचयोऽप्यस्तीति । मैवम् । श्रुतश्रुत्याश्रयत्वादेव । श्रुत्याश्रयत्वं नाम वाचो नित्यं श्रुत्युच्चारणसामर्थ्यम् । नित्यसर्वगतानां वर्णा-नामन्यथा विशिष्य वागाश्रयत्वोक्तिवैयर्थ्यात् । तदा वेदोच्चारणसमर्थाया वाचो व्यर्थमुपचय-कल्पनम् । अतः सयुक्तिकविशेषश्रुतिविरोधादप्रामाण्यं वागुत्पत्तिश्रुतेरतो न श्रुतिसमन्वयेन हरेर्जगत्कारणत्वसिद्धिरिति भावः । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ वागुत्पत्ति-मत्येव । ‘मनः पूर्वरूपं वागुत्तररूपम्’ इति मनोलक्षणकारणवत्त्वश्रुतेः । कारणवतश्च कार्यता-नियमात् । न च वाक्शब्दस्य साधारणत्वाद् व्याहरणार्थता । वाचा व्याहरतीति पूर्ववाक्य-बलेनेन्द्रियार्थत्वे विशेषश्रुतित्वादिति भावः । अत्र श्रुतौ पूर्वोत्तरशब्दौ कारणकार्यपरौ । वागिन्द्रिय-स्योत्पत्तिपक्षे श्रुत्यादिविरोध इत्यत आह ॥ वागिन्द्रियस्येति ॥ नित्यश्रुतिसन्निधाना-न्नित्यत्वोपचारो न तु नित्यत्वम् । न च नित्याश्रयत्वादेव नित्यत्वम् । यतो नित्याश्रयत्वं न नित्यदाऽपि तु तद्योग्यतैव । अत एव नोपचयवैयर्थ्यं चेति भावः । मनसः सकाशात् । एवमभ्युपगम एव नित्यत्वश्रुतिः श्रुत्याश्रयत्वश्रुतिरप्युपपन्ना न नित्यत्वे । तस्या अप्येतदर्थत्वात् । ‘वाग्वाव नित्या’ इत्युक्ते तत्कथमित्याशङ्कायामुपचारोऽयमित्युपचारबीजं ह्युच्यते अस्यां हीति ॥ एवं च सति वेदाश्रयत्वेन नित्यया पुराणाद्याश्रयत्वेन चानित्ययेति वाक्यार्थो घटते । एवं च समाख्यानु-रोधः । अन्यथा न वाक्यार्थोपपत्तिः । अतः श्रुत्यविरोधेनोत्पत्तिसिद्धेर्वाचो युक्तः श्रुतिसमन्वयो जगत्कारणे हराविति सिद्धम् ।

गुर्वर्थदीपिका

नित्यसर्वगतानां वर्णानामन्यथेत्यत्र अन्यथा नित्यसर्वगतानां वर्णानामित्यन्वयः । ‘तत्प्राक् श्रुतेः’ इति सूत्रे तस्य मनस इन्द्रियेभ्योऽपि प्रागुत्पत्तिश्रुतेरिति वदता सूत्रकृता उत्पन्नाग्रेसरस्य कथमनुत्पत्तिरिति युक्तिस्सूचिता । इन्द्रियार्थे विशेषश्रुतित्वादिति वदतः पूर्ववाक्ये वाक्पदेन प्रकृतस्यैवोत्तरत्रापि ग्राह्यत्वात् । अन्यथा प्रायपाठविरोधादिति भावः । न नित्यत्व इत्यत्र साक्षान्नित्यत्व इत्यर्थः । वागिन्द्रियस्य नित्यत्वं श्रुतिसन्निधियोग्यतेति स्मृतौ ‘वाग्वाव नित्या’ इति श्रुत्युक्तवाङ्नित्यत्वश्रुतेर् नित्यश्रुतिसन्निधियोग्यत्वमेव नित्यत्वं न तु सर्वथा नित्यत्वमिति गतिमुक्त्वा स्पष्टमुत्पत्तेः कथनेन तस्याप्येतदर्थत्वादिति भावः ।

श्रुतिसन्निधियोग्यतेति वदता सदा वाचि श्रुत्युच्चारणस्य क्वाप्यभावेन श्रुत्या धारतयाऽपि न नित्यत्वं सिद्ध्यतीति सूचितम् । ‘नित्ययाऽनित्यया’ इति श्रुतावनित्यकोटेः पृथगकथनादनित्याऽपि वागेव । तदुत्पत्तिश्च स्वरूपोत्पत्त्या सिद्धैवेति नोपपादिता । अनित्यायां पुनर्नित्यत्वं कथमित्यतो नित्यश्रुत्युच्चारणयोग्यत्वेनेति लक्षणाबीजमेव प्रदर्शितमिति ज्ञेयम् । अनित्यत्वस्य च स्वरूपोत्पत्त्या सम्भवेऽपि समाख्याश्रुत्युपयोगित्वप्रदर्शनायानित्यपुराणाद्याश्रयत्वेन चानित्ययेत्युक्तम् । एवं च समाख्यानुरोध इत्यत्र समाख्याश्रुतौ ‘श्रुतिर्वाव नित्य’ इति श्रुतेर्नित्यत्वं कथितम् । अनित्या वाव स्मृतय इति स्मृतेरनित्यत्वमुक्तम् । अत्र च ‘नित्ययाऽनित्यया’ इति न श्रुतिस्मृत्योरेव साक्षा-द्ग्रहणम् । ‘वाग्वाव नित्या’ इत्युत्तरवाक्यविरोधात् । अतः ‘अस्यां हि श्रुतिरवतिष्ठत’ इति श्रुतिसूचितन्यायेन नित्यवेदाश्रयत्वेन नित्यया अनित्यपुराणाद्याश्रयत्वेनानित्ययेति व्याख्यान एव समाख्याश्रुत्यनुरोधः । नान्यथेति भावः । अन्यथा न वाक्यार्थोपपत्तिरित्यत्र एवमव्याख्याने नित्यत्वानित्यत्वयोरेकत्रायोगादिति भावः ।

भावबोधः

अनन्तरसङ्गतिं सूचयन् विषयमाह– प्रकृतेन्द्रियान्तःपातिवागिन्द्रियमिति ॥ पूर्वं ‘मन एव पूर्वरूपं वागुत्तररूपम्’ इति श्रुतेः पूर्वरूपपदोक्तवागिन्द्रियकारणीभूतसाधारणं ज्ञानेन्द्रियं मनो विचार्य अनन्तरमुत्तरपदोक्तमनः कार्यासाधारणकर्मेन्द्रियभूतवागिन्द्रियविचारादनन्तरसङ्गतिरिति भावः ॥ उत्पत्तिमदिति ॥ अत्र वागिन्द्रियमनुत्पत्तिमदुतोत्पत्तिमदिति चिन्ता । तदर्थं तदुत्पत्ति-रनुत्पत्तिश्रुतिविरुद्धा न वेति । तदर्थं तदनुत्पत्तिश्रुतिर्मुख्यार्थोतामुख्यार्थेति । तदर्थं वाग्वाव नित्येति श्रुतिर्युक्तियुक्तत्वेन निरवकाशोत सावकाशेति । तदर्थमस्यां हि श्रुतिरवतिष्ठत इत्युक्तयुक्तेर्गत्यन्तरं नास्त्युतास्तीति । तदर्थं श्रुत्याश्रयत्वं किं नित्यं श्रुत्युच्चारणसामर्थ्यमुत तत्सन्निधियोग्यत्वमिति । तदर्थं श्रुत्याश्रयत्वस्य तत्सन्निधियोग्यत्वरूपत्वे प्रमाणं नास्त्युतास्तीति ॥ श्रुतिसद्भावादिति ॥ ‘वाग्वाव नित्या’ इति श्रुतिसद्भावादित्यर्थः । भाष्ये न्यायविवरणवद्वाग्वाव नित्येत्येतदादित्वेन श्रुत्युदाहरणे कर्तव्ये ‘नित्ययाऽनित्यया स्तौमि’ इति यत्पूर्वोदाहरणं तदनुरोधेनाह– समाख्या-श्रुताविति ॥

‘नित्ययाऽनित्यया स्तौमि ब्रह्म तत्परमं पदम् ।

श्रुतिर्वाव नित्या अनित्या वाव स्मृतयो याश्च वाचः ।’

इति समाख्याश्रुतावित्यर्थः ॥ उत्पत्तिश्रुत्यानुकूल्याच्चेति ॥ समाख्याबलात् ‘वाग्वाव’ इति श्रुतेर्वेदविषयत्वे वागिन्द्रियोत्पत्तेर्बाधकाभावेन तदुत्पत्तिश्रुत्यानुकूल्याच्चेति भावः । समाख्या-बाधकत्वेन तावत्‘ अस्यां हि’ इति वाक्यशेषाभिप्रायमाह– अस्यां हीति ॥ अनेन ‘वाग्वाव नित्येति विशेषश्रुतिविरोध इति न्यायविवरणमुक्ततात्पर्यं भवति । अत एवैतन्न्यायविवरण-निवर्तनीयतया प्रागुत्पत्तिश्रुत्यानुकूल्याच्चेत्युक्तम् । अनेनात्र न्यायविवरणे श्रुतेर्विशेषत्वं नाद्याधिकरण इव विशिष्य धर्मिनिर्देशमात्रं तत्साङ्कर्यम् । नापि द्वितीय इवान्येषामनित्यत्वोक्तिः । तत्साङ्कर्यादेव । भाष्योदाहृतनित्ययेति वाक्ये तदभावाच्च । किं तु निरवकाशवाक्यशेषसाहित्यमपीत्युक्तं भवति । सयुक्तिकमिति, भाष्योक्तयुक्तिप्रदर्शनपरत्वेनापि अस्यां हीति वाक्यशेषादिति वाक्यशेषं योजयति– किं चेत्यादिना ॥ पूर्वाधिकरणेन गतार्थतामाशङ्कते– अथापीति ॥ तन्निवर्तकभाष्योक्तयुक्त्यन्तर-प्रदर्शनपरत्वेना‘प्यस्यां हि’ इति वाक्यशेषं योजयति– श्रुतश्रुत्याश्रयत्वादेवेति ॥ श्रुत्याश्रयत्वेऽपि वाचोऽनादित्वश्रुतेः सूक्ष्मरूपानादित्वपरमुत्पत्तिश्रुतेरुपचयोत्पत्त्यर्थत्वं च किं न स्यादित्यत आह– श्रुत्याश्रयत्वं नामेति ॥ अनेन वागिन्द्रियस्य नित्यत्वं श्रुतिसन्निधियोग्यतेत्युदाहरिष्यमाणश्रुतिगत-योग्यतापदव्यावृत्त्या शङ्का दर्शिता । मनोलक्षणकारणवत्त्वेति ॥ अनेन तत्पूर्वं प्रकृतं मनः पूर्वं कारणं यस्य तत्पूर्वकं तस्य भावस्तत्त्वं तस्मादिति सूत्रार्थ उक्तो भवति । विशेषश्रुतेरिति न्यायविवरणे पूर्वाधिकरणयोरिव न विशिष्यकीर्तनमात्रं विवक्षितम् । किं तु निरवकाशवाक्यशेष-साहित्यमपीत्याह– पूर्ववाक्यबलेनेति ॥ ‘तस्मान्मन एव पूर्वरूपम्’ इति भाष्योदाहृतश्रुत्यपेक्षयाथ वाचा व्यवहरतीत्यस्य पूर्ववाक्यत्वादिदमुक्तम् । उपलक्षणं चैतत् । ‘मनसो वाव वागुदपद्यत वाचो व्याहरणम्’ इति न्यायविवरणोदाहृतश्रुतिस्थोत्तरवाक्यबलेनेत्यपि ग्राह्यम् ॥ श्रुत्यादिविरोध इति ॥ आदिपदेन ‘अस्यां हि’ इति वाक्यशेषप्रदर्शितसयुक्तिकमिति भाष्योक्तयुक्तिग्रहणम् । नित्यत्वोप-चार इति । एवं च वाग्वेति, श्रुतेरुपचरितार्थत्वान्न तद्विरोध इति भावः । किं चेत्युक्तयुक्तिं निराह न चेत्यादिना ॥ ‘श्रुत्याश्रयत्वं नाम’ इत्यादिनोक्तयुक्तिं निरस्यति– अत एवेति ॥ अनेन नित्यत्वं कुतश्च नेत्येतत् कुतश्चन विशेषश्रुत्या नित्याश्रयत्वयुक्त्या नित्यं श्रुत्युच्चारणसामर्थ्यलक्षण-युक्त्या च नित्यत्वं नेति व्याख्यातं भवति । मनस इति षष्ठीभ्रमं वारयति– मनसः सकाशा-दिति ॥ न केवलं वागिन्द्रियस्येत्युदाहृतस्मृतिबला ‘द्वाग्वाव नित्या’ इति श्रुतेरुपचरितार्थत्वम् । ‘अस्यां हि’ इति वाक्यशेषान्यथानुपपत्तिलक्षणान्तरानुपपत्त्यापीत्याह– एवमभ्युपगम एवेति ॥ वागिन्द्रियस्योत्पत्तिमभ्युपगम्य श्रुतेरूपचरितार्थत्वाभ्युपगम एवेत्यर्थः । नित्यत्व इति सर्वथोत्पत्ति-राहित्यलक्षण इत्यर्थः ॥ तस्या अपीति ॥ नित्यत्वप्रतिपादकत्वेन प्रतीयमानाया अपि एतदर्थ-त्वात् । उपचयरूपोत्पत्तिमतोऽपि श्रुतिसन्निधियोग्यत्वरूपनित्यत्वार्थादित्यर्थः । तदेवोपपादयति ॥ वाग्वावेति ॥ उक्तार्थत्वाङ्गीकारे पूर्ववाक्यार्थोपपत्तिरपि नियामिकेत्यभिप्रेत्य नित्ययाऽनित्ययेति पूर्ववाक्यं योजयति– एवं च सतीति ॥ ‘अस्यां हि’ इति वाक्यशेषस्योपचारबीजप्रतिपादकत्वे सतीत्यर्थः । पुराणाद्याश्रयत्वेन चेति । अनेन ‘अस्यां हि’ इति श्रुतिरित्येतदुपलक्षणम् । ‘अस्यां हि पुराणादिकमवतिष्ठन्त’ इत्यपि ग्राह्यमित्युक्तं भवति ।

ननु श्रुतिपुराणाद्याश्रयत्वमात्रेण कथं वागिन्द्रियस्य नित्यत्वानित्यत्वे इत्यत आह– एवं च समाख्यानुरोध इति ॥ तथा च समाख्याश्रुतौ ‘श्रुतिर्वाव नित्याऽनित्या वाव स्मृतयो याश्चान्या वाचः’ इति श्रुतिपुराणाद्याश्रययोर्नित्यत्वानित्यत्वस्योक्तत्वात्तत्र निर्णीतनित्यत्वानित्यत्वश्रुति-पुराणाद्याश्रयत्वेन वागिन्द्रियस्य नित्यत्वानित्यत्वे घटेते इति भावः । अन्यथा स्वरूपेण नित्यत्वानित्यत्वविवक्षायां विरोधात् स्वरूपेण नित्यत्वमुपचितांशैरनित्यत्वमिति विवक्षायां वाक्यशेषादौ नित्यवेदाश्रयत्वाद्युक्त्ययोगाद् वाक्पदेन विवक्षायां चास्यां हि श्रुतिरवतिष्ठत इति वाक्यशेषविरोधात्; अन्यथा वाक्यार्थो न युक्त इत्यर्थः । यद्वा, अन्यथा समाख्यानुरोधेन नित्ययाऽनित्यया स्तौमि परमात्मानमिति वाक्यस्य नित्यवेदाश्रयत्वेन नित्ययाऽनित्यपुराणा-द्याश्रयत्वेनानित्ययेत्यर्थकत्वानङ्गीकारे तस्य वाक्यस्यार्थोपपत्तिर्न विद्यते । वाक्यशेषे नित्ययाऽ-नित्येत्युक्तनित्यत्वं ‘वाग्वावनित्या’ इति वाचः प्रतिज्ञाया ‘अस्यां हि’ इति तदुपपादनवदनित्यत्व-प्रतिज्ञातदुपपादनयोरभावादिति भावः ।

भावदीपः

अत्र वागिन्द्रियचिन्तायाः प्रसक्तिमाह ॥ प्रकृतेति ॥ अनादित्वे श्रुतीति ॥ न ह्येषेति भाष्योक्तेत्यर्थः । भाष्ये वाग्वाव नित्येत्युत्तरांशेनैव पूर्तौ पूर्वार्धोक्तिर् नित्ययाऽनित्यया स्तौमि ब्रह्म तत्परमं पदम्’ इति ‘श्रुतिर्वा व नित्या अनित्या वा व स्मृतयः’ इति तत्त्वनिर्णयोक्तपैङ्गिश्रुतिरूप-समाख्यास्मारणेन वाचः श्रुतित्वशङ्कोत्थापनायेति भावेनाह ॥ न चेत्यादिना ॥ वाच्यमित्यन्वयः ॥ सामान्यवाक्शब्दस्येति ॥ एतेन वाग्वाव नित्या’ इति विशेषश्रुतिविरोध इति न्यायविवरणे नित्ययेत्यादिश्रुतिविरोध इति वा नित्ययेत्यादिसयुक्तिकश्रुतिविरोध इत्यादि(वा) वाक्यमप्रयुज्य वाक्पदप्रतीकपूर्वं विशेषश्रुतीति विशेषपदप्रयोगस्य व्यावर्त्यं विभावितं भवति । व्यावर्त्यान्तरमाह ॥ उत्पत्तीति ॥ इन्द्रियोत्पत्तीत्यर्थः । एतच्छङ्कानिरासश्च वाक्यशेषेणैवेति भावेनाह ॥ अस्यामिति ॥ वागिन्द्रियपरत्वरूपविशेषेणेत्यर्थः । यथा प्राणादयो वाक्यशेषादित्यत्र प्राणस्य प्राणमित्यादिना प्राणप्राणदत्वादिबोधकवाक्यशेषान्यथानुपपत्त्या यस्मिन्पञ्चपञ्चजना इति श्रुतजनशब्दितस्य ब्रह्मरूपविशेषार्थत्वं तथेति भावः । एतेन भाष्ये वाक्यशेषोक्तिरन्यत्रोक्तविशेष श्रुतित्वविवरणायेति दर्शितम् । तथा चेन्द्रियाणि चेति सामान्यश्रुतेरनया बाध इति भावः । नन्वेवं वाचो वागिन्द्रिय-परत्वार्थं भाष्ये वाक्यशेषोक्तिश्चेत्कथं तर्हि सयुक्तिकमनुत्पत्तिरुच्यत इति वागनुत्पत्तेः सयुक्ति-कत्वोक्तिर्भाष्ये इत्यतो अन्यथाप्यर्थमाह ॥ किं चेति ॥ पूर्वस्माद्विशेषशङ्कोत्थापकयुक्तिपरत्वेनापि शेषं शङ्कापूर्वं व्याकरोति ॥ अथापि स्यादित्यादिना ॥ अथापि विशेषश्रुतित्वेऽपीत्यर्थः ॥ श्रुत्युच्चारणेति ॥ अत एव वक्ष्यत्यस्य समाधिम् । वागिन्द्रियस्य नित्यत्वं श्रुतिसन्निधियोग्यतेतीति भावः ॥ अत इति ॥ निरवकाशवाक्यशेषसाहित्यात्सयुक्तिकेत्यर्थः । यद्वा तस्यैव विवरणं सयुक्तिकेत्यादि ॥ वागुत्पत्तीति ॥ इन्द्रियाणि चेति सामान्यश्रुतिरित्यर्थः । भाष्ये नानुत्पत्ति-रित्युक्त्यार्थलब्धवाक्पदानुवादेन फलितार्थमाह ॥ वागिति ॥ तत्पूर्वकत्वपदं श्रुत्युपलक्षणम् । पूर्वशब्दः कारणपरः । बहुव्रीहौ कप्रत्ययः । तदिति च मन इति भावेनार्थमाह ॥ मन इत्यादिना ॥ इदमुपलक्षणं मनसो वा व वागुत्पद्यते । वाचो व्याहरणमिति न्यायविवरणोक्तश्रुतिरपि ग्राह्या । सूत्रे पूर्वपदेन मनःपूर्वरूपमित्यस्य सूचनाद् भाष्ये अस्यैवोक्तिः । भाष्ये सङ्कल्परूपमनोव्यापारानन्तरमेव व्याहरणरूपवाक्करणकव्यापारादित्यर्थकस्य तस्मादित्यंशस्याप्युक्तेरुपयोगं व्यावर्त्य पूर्वं व्यनक्ति ॥ न च वागिति ॥ ‘मनसा वा अग्रे सङ्कल्पयति । अथ वाचा व्याहरति । तस्मान्मन एव पूर्वरूपम्’ इत्यैतरेये पाठात्पूर्ववाक्येत्युक्तम् । एतदुपलक्षणं ‘मनसो वाव वागुत्पद्यते वाचो व्याहरणम्’ इति विशेषश्रुतेरिति न्यायविवरणोक्तश्रुत्यन्तरे वाचो व्याहरणमिति उत्तरत्र श्रुतवाक्यशेषबलाच्चेत्यपि ध्येयम् । तत्त्वप्रदीप एवास्योक्तत्वादत्र साक्षादनुक्तिः । एतेन निरवकाशवाक्यशेषसाहित्यमेव न्यायविवरणोक्तविशेषश्रुतित्वमिति दर्शितम् । श्रौतपदयोरर्थमाह ॥ अत्र श्रुताविति ॥ श्रुत्यादीति ॥ युक्तिरादिपदार्थः । वागिति पूर्वार्धभावमाह ॥ नित्येति ॥ तत्र योग्यतापदं प्रागुक्तयुक्तिविरोधशामकतया व्याचष्टे ॥ न चेति ॥ कुत एवं श्रुतेरुपचारकल्पना सयुक्तिकत्वा-न्मुख्यनित्यत्वमेव कुतो न श्रुत्यर्थ इत्यतः कुतश्चन नित्यत्वं नेत्यवधारणोपेतोत्तरार्धतात्पर्यमाह ॥ एवमिति ॥ उपचारबीजमिति ॥ अन्यथा न वाक्यार्थोपपत्तिरिति वक्ष्यमाणमत्रापि योज्यम् । तदर्थमग्रे वक्ष्यामः । नन्वस्तु वाचो नित्यत्वं नित्यवेदाश्रयत्वेनोपचरितं वाक्यशेषबलाद् अनित्यत्वं तु स्वरूपेणैवास्तु तत्र वाक्यशेषाभावादित्यत आह ॥ एवं च सतीति ॥ नित्यत्वे उपचरिते सतीत्यर्थः । किमत्र कल्पकमित्यतो द्वयमाह ॥ एवं चेति ॥ अन्यथेति ॥ (च) समाख्या-श्रुतावनित्या वाव स्मृतय इति । वागिन्द्रियाश्रयस्मृतीनामनित्यत्वोक्तेरत्रापि तदाश्रयत्वेनैवानित्यत्वं विवक्षितं न तु स्वरूपेणेत्यर्थः । अन्यथा स्वरूपेणैव नित्यत्वान्नित्यत्वविवक्षायां विरोधादिति भावः । शिष्टं चन्द्रिकायां बोध्यम् ॥ अत इति ॥ नित्यत्वश्रुतेरुपचरितार्थत्वादनित्यत्वे श्रुतिसत्त्वाच्चेत्यर्थः ।

अभिनवचन्द्रिका

समाख्याश्रुताविति ॥ ‘नित्ययाऽनित्यया स्तौमि ब्रह्म तत्परमं पदम् । श्रुतिर्वाव नित्या अनित्या वाव स्मृतयो याश्चाऽन्या वाचः’ इति समाख्याश्रुतावित्यर्थः ॥ विशेषश्रुतित्वादिति ॥ वाक्यशेषबलेन वाक्शब्दस्य वागिन्द्रियरूपविशेषार्थवाचित्वादित्यर्थः ॥ श्रुतं श्रुत्याश्रयत्वमिति ॥ श्रुतिसिद्धं निरन्तरवेदोच्चारणसामर्थ्यमित्यर्थः । अनित्यस्यापि घटादेर् नित्यघटत्वाद्याश्रयत्ववत्, नित्यसामर्थ्याश्रयत्वं वाचः किं न स्यादित्यत आह– न हीति ॥ नित्यसामर्थ्याश्रयो ऽनित्यः क्वापि न दृष्ट इत्यर्थः । अनित्याश्रितानां धर्माणां नित्यत्वसम्भवेऽपि न सामर्थ्यस्ये तत्सम्भवति धर्मि सत्तासापेक्षत्वादिति भावः ॥ अथापि स्यादिति ॥ अथापि ‘वाग्वाव नित्या’ इति श्रुतेर् वागिन्द्रियपरत्वेऽपि सयुक्तिकत्वेऽपि वक्तुमवकाशः स्यादित्यर्थः ॥ सूक्ष्मरूपविषयेति ॥ अनादित्वप्रतिपादिका ‘न ह्येषोत्पद्यत’ इति श्रुतिर् वागिन्द्रियस्य सूक्ष्मरूपविषया । ततश्च उत्पत्तिश्रुत्यानुकूल्याद् उपचयोऽस्ति । सूक्ष्मरूपेणाऽनादित्वमस्तीति किं न स्याद् बाधका-भावादित्यर्थः । श्रुतौ श्रूयमाणं श्रुत्याश्रयत्वं श्रुत्यधिकरणत्वमात्रम्, न तु सदातनोच्चारणसामर्थ्यं, मुख्यार्थे बाधकाभावात् । ततश्च श्रुत्याश्रयत्वं नोत्पत्तिमत्त्वं विरुणद्वीत्यत आह– श्रुत्याश्रयत्वं नामेति ॥ नित्यसर्वगतानामिति ॥ अत्र मध्ये श्रूयमाणं ‘अन्यथा’ इति पदं वाक्योपक्रमे द्रष्टव्यम् । सूक्ष्मरूपेण स्थिताया अपि वाचः वेदोच्चारणसामर्थ्यमस्त्येवेति नैतद्बाधकमित्यत आह– सदा वेदोच्चारणेति ॥ मनःपूर्वरूपमिति ॥ अत्र ‘तस्मादेव’ इति पदद्वयमुच्छिन्नम् । ततश्चैवं टीकापाठः – तस्मान्मनस एव पूर्वरूपं वागुत्तररूपमिति मनोलक्षणकारणवत्त्वश्रुतेरिति । अवश्यं चैतदेवं विज्ञेयं ‘तस्मान्मन एव’ इति भाष्यकृतोदाहृतत्वात् तत्परित्यागेन वाक्यान्तरग्रहणे कारणाभावात् । भाष्यकृतोपसंहारस्थं वाक्यमुदाहृतम् । टीकाकृता तत्समर्थनार्थत्वादुपक्रमस्थं वाक्यमुदाहृतमित्यपि वक्तुं न युक्तम् । ‘वाचा व्याहरति’ इति पूर्ववाक्यबलेनेत्युत्तरटीकाविरोधात् । तद्वाक्यस्य टीकोदाहृतवाक्यापेक्षया पूर्वत्वाभावात् ।

ननु ‘मनः पूर्वरूपम्’ इति श्रुतिर् न मनोरूपेन्द्रियस्य कारणतामाचष्टे, अपि तु मन्तृत्वान्मनोनामकस्य विष्णुरूपस्य संहितापूर्ववर्णप्रतिपाद्यतामाचष्टे । तथा ‘वागुत्तररूपम्’ इति श्रुतिरपि वक्तृत्वाद्वाङ्नामकस्य विष्णुरूपस्य संहितोत्तरवर्णप्रतिपाद्यतामाचष्टे । ‘अथातः संहिताया ‘उपनिषत्’ इत्युपक्रमात् । ‘वाक्पूर्वरूपं मन उत्तररूपं, मनः पूर्वरूपं वागुत्तररूपम्’ इति मतयोर् ऋषिमतत्वेन प्रमाणत्वाच्च । न हि कार्यकारणपरत्वे मतयोः प्रामाण्यं भवति । अन्योन्याश्रयप्रसङ्गात् ‘प्राणः संहिता’ इत्यादेरुपयोगाभावात् । उक्तञ्चान्यत्र भाष्यकृतैव ‘मन आदिशब्दानां भगवत्परत्वं, ‘मनोवाक्प्राणनामाऽसौ मनआदिषु संस्थितः’ इति । ततश्च वाचो मनःकारणकत्वे नैतच्छ्रुत्युदाहरणमुचितम् । अपि तु ‘मनसो वागुदपद्यत, वाचो व्याहरणम्’ इति श्रुतिरेवोदाहर्तव्येति चेत्, स्यादयं दोषः यदि ऐतरेयवाक्यं भाष्यकृता वाचो मनोजन्यत्वे प्रमाणत्वेनोदाहृतमिति ब्रूमः, न चैवं किंनाम वाचो जन्यत्वे ‘मनसो वागुदपद्यत, वाचो व्याहरणम्’ इति न्यायविवरणोदाहृतप्रत्यक्षश्रुतिसद्भावेऽपि सूत्राणामनन्तशाखानिर्णायकत्वज्ञापनाय अनन्तशाखाविदा भाष्यकृता शाखान्तरस्थमेव वाक्यमुदाहृतमिति ब्रूमः ॥ कारणवत्त्वश्रुतेरिति ॥

ननु श्रौतेन कारणत्वेन कार्यतासाधनमनुपपन्नम् । साक्षात् ‘वागुत्तररूपम्’ इति कार्यत्वस्यैव श्रुतत्वादिति चेत्, सत्यम् । श्रुतमपि कार्यत्वं कारणशून्यत्वात् त्याज्यमिति शङ्का स्यात् । सा माभूदित्येतदर्थं कारणवत्त्वश्रुतेरित्युक्तमिति बोध्यम् ॥ पूर्ववाक्यबलेनेति ॥ अत्र टीकाकृतोऽपि भाष्यकारानुग्रहेण सर्वज्ञकल्पत्वात् तेनापि भाष्यकारदृष्टशाखान्तरगतमेव ‘अथ वाचा व्याहरति’ इति पूर्ववाक्यमुदाहृतं नैतरेयस्थमिति बोध्यम् । एतेन शाखान्तरगत ‘वागुत्तररूप’ मिति वाक्यस्य वागिन्द्रियपरत्वव्युत्पादनाय ‘अथ वाचा व्याहरति’ इति ऐतरेयस्थवाक्यस्य पूर्ववाक्यतयोदाहरण-मयुक्तमिति परास्तम् ॥ अत्र पूर्वोत्तरशब्दाविति ॥ ‘तस्मान्मन एव पूर्वरूपं वागुत्तररूपम्’ इति भाष्योदाहृतशाखान्तरवाक्यस्थपूर्वोत्तरशब्दौ कारणकार्यपरौ, न त्वैतरेयवाक्यगतपूर्वोत्तर-शब्दाविव पूर्वोत्तरवर्णदेवतापरावित्यर्थः । वाक्यार्थोपपत्तिहेतुनापि वाग्वाव नित्येतिश्रुतेरुपचरित-नित्यत्वार्थकत्वमाह एवमभ्युपगम एवेति ॥ नित्यत्वप्रतिपादकतया प्रतीयमानापि श्रुतिर् औपचारिकनित्यत्वार्थकत्व एवोपपन्नार्था न भवतीत्यर्थः । वाक्यार्थानुपपत्तिलक्षणबाधकेन स्वाभाविकनित्यत्वपरत्वं दूषयति – न नित्यत्व इति ॥ नित्यत्वे नित्यत्वार्थकत्वे श्रुतिरुपपन्नार्था न भवतीत्यर्थः ।

ननु नोपचरितनित्यत्वार्थकत्वे श्रुतिरुपपन्ना ‘न ह्येषोत्पद्यत’ इति श्रुतिविरोधादित्यत आह– तस्या अपीति ॥ तस्या अपि ‘न ह्येषोत्पद्यत’ इति श्रुतेरपि एतदर्थत्वाद् अनुत्पत्तिमद्वेदसन्निधि-योग्यतार्थकत्वादित्यर्थः । नन्वेवमपि श्रुतिर्नोपपन्नार्था ‘अस्यां हि’ इति वाक्यशेषवैयर्थ्यप्रसङ्गात् । न हि उपचरितनित्यत्वार्थकत्वे वाक्यशेषस्योपयोगोऽस्तीत्यत आह– वाग्वावेति ॥ उपपन्नार्थत्वं दर्शयति– एवञ्च सतीति ॥ ननु वाचो नित्यत्वाभावात्, ‘अस्यां हि श्रुतिरवतिष्ठत’ इति वाक्यशेषबलाच्च, वेदाश्रयत्वेन नित्ययेत्यर्थोऽस्तु पुराणाद्याश्रयत्वेनाऽनित्यय’ इति कुतोऽर्थोऽङ्गीक्रियते । स्वरूपेणाऽनित्यत्वसद्भावात् ‘अनित्यय’ इत्येवार्थः किं न स्यादित्यत आह– एवं च समाख्येति ॥ सत्यं तथा व्याख्यातुं शक्यम्, तथापि ‘नित्ययाऽनित्यया स्तौमि’ इति भाष्योदाहृतश्रुतेः समाख्यारूप ‘नित्यया स्तौमि ब्रह्म तत्परमं पदम्’ इति श्रुत्यनुरोधात्तथा व्याख्यातमित्यर्थः । वेदाश्रयत्वेन नित्यया पुराणाश्रयत्वेनाऽनित्यया वाचा स्तौमीत्यस्यापि वेदोच्चारणेन पुराणोच्चारणेन स्तौमीत्यत्रैव तात्पर्यात्तच्छ्रुतेः समाख्यातत्वमिति द्रष्टव्यम् ।

पूर्वपक्षस्तु – न वागुत्पत्तिमती । ‘वाग्वाव नित्या, न ह्येषोत्पद्यत’ इति श्रुतेः । न चेयं श्रुतिर्वेदविषयेति वाच्यम् । ‘अस्यां हि श्रुतिरवतिष्ठत’ इति श्रुतश्रुत्याश्रयत्वायोगात् । किं च ‘वागनुत्पत्तिमती नित्यदा श्रुत्याश्रयत्वात्’ इत्यनुमानविरोधो वाचः सादित्वे दुष्परिहरः । सादेर्नित्याश्रयत्वादर्शनात् । न चाऽनादित्वश्रुतिः सूक्ष्मरूपविषयेति वाच्यम् । नित्यं श्रुतश्रुत्युच्चारणसामर्थ्यरूपश्रुत्याश्रयत्वायोगादिति ।

सिद्धान्तस्तु – वागुत्पत्तिमती । ‘वागुत्तररूपम्’ इति कार्यत्वश्रवणात् । न च – कारणाभावात् कार्यत्वमनुपपन्नमिति वाच्यम् । ‘मनःपूर्वरूपं वागुत्तररूपम्’ इति शाखान्तरश्रुत्या अर्थान् मनःकारणत्वस्य सिद्ध्या कार्यत्वोपपत्तेः । न च वागिन्द्रियस्य उत्पन्नत्वाङ्गीकारे श्रुतिविरोध इति वाच्यम् । श्रुतौ उपचारेण नित्यत्वाभिधानात् । तदुक्तम् – ‘वागिन्द्रियस्य नित्यत्वं श्रुतिसन्निधियोग्यता’ इति । न च नित्याश्रयत्वयुक्त्या नित्यत्वमिति वाच्यम् । वाचो नित्यं श्रुतिसन्निधियोग्यताया एवाङ्गीकृतत्वेन नित्यफलोपहितश्रुत्याश्रयत्वाङ्गीकारात् । श्रुत्यर्थपर्यालोचनया औपचारिकनित्यत्वस्यैव लाभाच्च । तथा हि एवं सत्येव हि वेदाश्रयत्वेन नित्यया, पुराणाश्रयत्वेन अनित्यया, स्तौमीति वाक्यार्थो घटते नाऽन्यथा । अतः श्रुत्यविरोधेनोत्पत्तिसिद्धेर्वाचो युक्तः श्रुतिसमन्वयो जगत्कारणे हराविति सिद्धम् ।

वाक्यार्थमुक्तावली

अत्र मनः पूर्वरूपं मनोविचारानन्तरं वागुत्तररूपमित्युक्तवागिन्द्रियं विचार्यत इत्यनन्तरसङ्गतिः ॥ संशय इति ॥ तदर्थं तदनुत्पत्तिश्रुतिः किमिन्द्रिययोरेवोत वेदविषयतया सावकाशेति ॥ तदर्थमिन्द्रियपरत्वेऽपि सर्वथोपचयाभावलक्षणमुख्यानादित्वपक्षे तस्य सूक्ष्मरूपानादित्वेन सावकाशेति । तदर्थमिन्द्रियपरत्वे तस्य मुख्यानादित्वपरत्वे च साधकं वेदपरत्वे सूक्ष्म-रूपानादित्वमात्रपरत्वे च बाधकमस्ति न वेति । पौष्यायणश्रुतौ वाचोऽनुत्पत्तिः श्रूयत इत्यंशं तावद्व्याचष्टे ॥ अनादित्वे श्रुतिसद्भावादिति ॥ भाष्ये न्यायविवरणवद् वाग्वाव नित्येत्ये-तावन्मात्रोदाहरणे कर्तव्ये नित्यानित्ययेति पूर्वांशस्य अस्यां हीत्युत्तरांशस्य चोदाहरणं तदनुरोधेनाह ॥ न चेत्यादिना ॥ समाख्याश्रुताविति ॥ ‘नित्ययाऽनित्यया स्तौमि ब्रह्मतत्परमं पदम्’ इति । श्रुतिर्वाव नित्या अनित्या वावस्मृतयः’ इति समाख्याश्रुतावित्यर्थः । कुतो न वाच्यमित्यतो विशेषश्रुतिरित्युक्तपूर्वपक्षन्यायविवरणपरमस्यां हीत्यादिभाष्यार्थं व्याचष्टे ॥ अस्यां हीति ॥ एतेन समाख्याबाधवाक्यशेषोक्तयुक्तिसाहित्येन पौष्यायणश्रुतौ वागिन्द्रियस्यैवानुत्पत्तिरुच्यते न तु समाख्यानुरोधेन भाष्यार्थ उक्तो भवति । उत्पत्तिमत्येव बाधकयुक्तिपूर्वं च वाचोऽनुत्पत्तिः श्रूयत इति भाष्यार्थं मत्वाऽऽह किञ्चेति ॥ अथवा सूक्ष्मारूपानादित्वपरत्वे नानादित्वश्रुतेः सावकाशत्वे बाधकयुक्तिपूर्वमिति भाष्यार्थमभिप्रेत्य गतार्थतामाशङ्क्य निराह ॥ अथापिस्यादित्यादिना ॥ श्रुत्याश्रयत्वेऽपि वाचोऽनादित्वश्रुतेस्सूक्ष्मरूपानादित्वपरत्वमुत्पत्तिश्रुतेरुपचयार्थत्वं च किं न स्यादित्यत आह ॥ श्रुत्याश्रयत्वं नामेति ॥ अनेन श्रुतिसन्निधियोग्यतेत्युदाहरिष्यमाणयोग्यता-पदव्यावृत्यशङ्का प्रदर्शिता । सूत्रे नानुत्पत्तिरिति शेषः । तथा च वाचो वागिन्द्रियस्य तत्प्रकृतं मनः पूर्वं पूर्ववृत्तिकारणं यस्य तत्तत्पूर्वकं तस्य भावस्तत्वं तस्मात्तत्पूर्वकत्वश्रवणान्नानुत्पत्तिः किंतूत्पत्ति-रेवेति सूत्रार्थं भाष्यारूढतया दर्शयति ॥ वागिति ॥ तस्मान्मन एवेति भाष्ये श्रुत्युदाहरणा-ट्टीकायामर्थानुवादः श्रुतौ मनःपूर्वरूपमिति हेतुमुक्त्वा वागुत्तररूपमिति साध्यमुच्यते । तत्राव्याप्ति-मुपपादयति ॥ कारणेति ॥ भाष्ये तस्मादिति पूर्वोक्तहेतुपरामर्शकाधिकांशोदाहरणस्य किं प्रयोजनमित्यतो वागुत्तररूपमिति ॥ व्याहरणपरतया सावकाशत्वम् । किं चेन्द्रियपरत्वमेव विशेषश्रुतित्वात् । विशेषश्रुतित्वं वाचा व्याहरतीति । पूर्ववाक्यबलेन न ज्ञायत इति पूर्वानुबन्धं सूचयितुं हेतुपरामर्शकस्य तस्मादित्यंशस्योदाहरणमिति भावेनाह ॥ न चेति ॥

नन्वैतरेयभाष्ये मनः पूर्वरूपमिति वाक्यं मनोवाङ्नामकभगवद्रूपयोर्विष्णुसहितपूर्वोत्तर वर्ण-देवतात्वपरत्वेन व्याख्यातत्वात्कथमत्रोदाहरणमित्यत आह ॥ पूर्वोत्तरशब्दाविति ॥ विवक्षिता-विति शेषः । मनोवागिन्द्रियस्य भगवत्परत्वस्य तत्रापि विवक्षितत्वादधिष्ठानविवक्षया कार्यकारण-भावोऽत्राभिप्रेत इति भावः । श्रुत्यादिविरोध इत्यादिपदेन युक्तिर्गृह्यते । नित्यत्वोपचार इति । वाग्वाव नित्या’ इति श्रुतौ नित्यत्वोपचार इत्यर्थः । श्रुत्यादीत्यादिशब्दार्थं विशदयन् किं चेत्युक्तयुक्तिं निराह ॥ न चेत्यादिना ॥ श्रुत्याश्रयत्वं नामेत्युक्तयुक्तिं च निरस्यति ॥ अत एवेति ॥ श्रुत्युदाहरणयोग्याया वाच उच्चारणफलोपधानायोपचयस्यापेक्षितत्वादेवेत्यर्थः । अनेन नित्यत्वं कुतश्चनेत्येतत् कुतश्चन विशेषश्रुत्या नित्याश्रयत्वयुक्त्या नित्यं श्रुत्युच्चारणसामर्थ्ययुक्त्या च नित्यत्वं व्याख्यातं भवति । षष्ठीभ्रमं वारयति मनसः सकाशादिति ॥ न केवलं वागिन्द्रिय-स्येत्युदाहृतस्मृतिबलाद्वाग्वाव नित्येति श्रुतेरुपचरितार्थत्वं किं तु वाक्यार्थानुपपत्त्यापीत्यत आह ॥ एवमभ्युपगम एवेति ॥ नित्यत्वप्रतिपादकतया प्रतीयमानापि श्रुतिरौपचारिकनित्यत्वार्थकत्वे श्रुतिरुपपन्ना न ह्येषोत्पद्यत इत्यनादित्वश्रुतिविरोधादित्यतो नित्यत्वश्रुतिरप्यापन्नेत्यपिपदेनानुत्पत्ति-श्रुतिः समुच्चिता । तदुपपादयति ॥ तस्यापीति ॥ न ह्येषोत्पद्यत इति श्रुतेरनुत्पत्तिमद्वेद-सन्निधापितायोग्यतार्थकत्वादित्यर्थः ।

ननु वाक्यशेषे नित्यश्रुत्याश्रयत्वेनैव नित्यत्वसाधनात्कथमुभयोर्योग्यतार्थकत्वेनोपचरितानादि-नित्यत्वपरमित्यतस्तदुपपादयति ॥ वाग्वावेति ॥ उपचारबीजमेवोच्यते न तु नित्यत्वे युक्तिरित्यर्थः । उपपन्नार्थत्वं दर्शयति एवं च सतीति ॥ अस्यां हीति श्रुतिरुपचारबीजप्रदर्शनपरत्व एव सतीत्यर्थः । पुराणाद्यश्रयत्वेनेत्युक्त्या अस्यां हि श्रुतिरित्यत्र श्रुतिग्रहणं पुराणादेरुपलक्षण-मित्युक्तं भवति ।

ननु वाचोनित्यत्वाभावादस्यां हि श्रुतिरवतिष्ठत इति वाक्यशेषबलाच्च वेदाश्रयत्वेन नित्ये-त्यर्थोऽस्तु पुराणाश्रयत्वेनानित्ययेति कुतः स्वरूपेणानित्यत्वसम्भवादित्यत आह ॥ एवं च समाख्येति ॥ सत्यं तथा व्याख्यातुं शक्यं तथापि नित्ययाऽनित्यया स्तौमीति भाष्योदाहृत श्रुतेर्नित्ययाऽनित्यया स्तौमि ब्रह्मतत्परमं पदमिति समाख्याश्रुत्यनुरोधात्तद्व्याख्यातमित्यर्थः । वेदाश्रयत्वेन नित्यया वाचा स्तौमीत्यस्यापि नाहमुत्प्रेक्षया श्लोकान्परिकल्प्य वागिन्द्रियेण स्तौमि पुराणाभ्यामेवेत्यत्रैव तात्पर्यात्तच्छ्रुतेः समाख्यानमिति द्रष्टव्यम् । अन्यथा न वाक्यार्थोपपत्तिरिति । नित्ययाऽनित्ययेति वाचोनित्यत्वमनित्यत्वं चोच्यते । तत्र यदि वाग्वाव नित्येति मुख्यनित्यत्व-मुच्यते तदा नित्यत्वमयुक्तं स्यात् । एकस्यैवेन्द्रियस्य तदुभयायोगात् । न चानित्यं वाचोऽन्यद् अन्यस्य स्तुतिकरणत्वाभावाद् अतो न वाक्यार्थो युज्यत इत्यर्थः ।

न चानित्यत्वमुपचरितमिति वाच्यम् । कथमुपचरितत्वम् । किं पुराणाश्रयत्वेनोतोपचितांश-मादाय । नाद्यः । न्यायसाम्येन नित्यत्वेऽपि तथोपपत्तेर्वाक्यशेषानुगुण्यात्समख्याऽनुगुण्याच्च द्वितीयेऽङ्गीकृतैवोत्पत्तिः ॥ समाख्यानुगुण्यं चेति ॥

वाक्यार्थविवरणम्

अवतार्य ॥ उपक्रम्य ॥ विशेषार्थेति ॥ वेदरूपेत्यर्थः । तथा च वागिन्द्रियपरत्वाभावान्न तस्या अनादित्वमिति भावः । युक्त्यन्तरं चाह ॥ उत्पत्तिश्रुतीति ॥ विशेषेति ॥ श्रुतिरूप-विशेषेत्यर्थः । ननु कुत एतत् । श्रुत्याधारत्वमेव श्रुत्याश्रयत्वं किं न स्यादित्यत आह ॥ नित्येति ॥ अन्यथेत्यादौ योज्यम् । अन्यथा नित्यं श्रुत्युच्चारणसामर्थ्यरूपश्रुत्याश्रयत्वाभावे । तथा च सर्वदा सर्वत्र वर्णानां सत्त्वेन वाच्यपि सत्त्वस्य सिद्धतया ‘अस्यां हि’ इति विशिष्य वागाश्रयत्वकथनमसङ्गतं स्यात् । अतः श्रुत्याश्रयत्वं नाम मदुक्तमेवेति भावः । अत्र सामर्थ्यं फलोपधानमेवेति द्रष्टव्यम् ॥ व्यर्थमुपचयकल्पनमिति ॥ ‘वाग्वाव नित्या’ इति नित्यत्वश्रुतेः सूक्ष्मरूपनित्यत्वपरत्वाङ्गीकारे ‘अस्यां हि’ इति श्रुतं सदा वेदोच्चारणरूपसामर्थ्यरूपं श्रुत्याश्रयत्वमङ्गीकृतं स्यात् । तथा चोपचयकल्पना व्यर्थैव । सूक्ष्मरूपे श्रुत्युच्चारणसामर्थ्यं न सम्भवतीत्याशयेनैव ह्युपचयः कल्प्यते । तच्च यदा सूक्ष्मरूपेऽप्यङ्गीकृतं तदोपचयकल्पनस्य व्यर्थत्वादुक्तव्यवस्थोक्तिर्न युक्तेति मुख्यानुत्पत्तिरेवास्त्विति भावः ॥ साधारणत्वादिति ॥ वागिन्द्रियतत्कार्यव्याहरणोभयसाधारणत्वादित्यर्थः ॥ इन्द्रियार्थत्वे ॥ वाक्शब्दस्येति वर्तते । विशेषश्रुतित्वात् । वागुत्तररूपमिति श्रुतेरिति शेषः ॥ नित्यत्वम् ॥ सर्वथोत्पत्तिराहित्यरूपम् । सन्निधिपदाभिप्रायमुक्त्वा योग्यतापदाभिप्रायं वक्तुमाह ॥ न चेति ॥ सम्भावकमेवेदं न तु साधकम् । पररीत्या घटत्वाश्रये घटे व्यभिचारात् ॥ नित्याश्रयत्वम् ॥ नित्यश्रुतिसन्निधानाश्रयत्वं तदुच्चारणसामर्थ्यमिति यावत् ॥ न नित्यदेति ॥ फलोपधानं न विवक्षितमित्यर्थः ॥ तद्योग्यतेति ॥ श्रुतिसन्निधियोग्यत्वं तदुच्चारणयोग्यत्वमिति यावत् ॥ अत एवेति ॥ श्रुत्युच्चारणयोग्यत्वसत्त्वेऽपि फलोपधानार्थमुपचयः कल्प्यत इत्यर्थः । तथा च श्रुतेः सूक्ष्मरूपानादित्वपरत्वेऽपि ‘अस्यां हि’ इत्युक्तश्रुत्युच्चारणयोग्यत्वस्य सूक्ष्मरूपेऽपि सम्भवात् । फलोपधानस्यावश्यकत्वेन तदर्थ-मुपचयस्याप्यपेक्षितत्वेनोक्तव्यवस्था युक्तैवेति भावः ।

वाक्यार्थमञ्जरी

न चेत्यस्य वाच्यमिति वक्ष्यमाणेनान्वयः ॥ समाख्याश्रुताविति ॥ ‘नित्ययानित्यया स्तौमि’

‘ब्रह्म तत्परमं पदम्’ इति ‘श्रुतिर्वाव नित्या अनित्यावाव स्मृतयश्चान्यावाचः’ इति समाख्या श्रुतावित्यर्थः । अवतार्य उदाहृत्य ॥ उत्पत्तीति ॥ इन्द्रियोत्पत्तिश्रुत्याऽनुकूल्याच्चेत्यर्थः । श्रुत्याश्रयत्वेऽपि वाचोऽनादित्वश्रुतेः सूक्ष्मरूपानादित्वपरत्वउत्पत्तिश्रुतेस्तु उपचयार्थत्वं किं न स्यादित्यत आह ॥ श्रुत्याश्रयत्वं नामेति ॥ अन्यथा श्रुत्याधारत्वमात्रत्वे श्रुतेरपि वर्णात्म-कत्वादिति भावः । ततः किमित्यत आह ॥ सदेति ॥ वाचः वागिन्द्रियस्य तत्पूर्वकत्वान्मनः कारणकत्वादुत्पत्तिमत्येव वागित्यर्थः । साधारणत्वाद् इन्द्रियव्यवहारयोरिति शेषः ॥ पूर्ववाक्य-बलेनेति ॥ व्यवहारस्य व्यवहारकारणत्वायोगेन तत्र वाक्शब्दस्येन्द्रियपरत्वे सिद्धे तत्समभि-व्याहृतोत्तरवाक्यस्थस्यापि तस्येन्द्रियपरत्वस्यैव वक्तव्यत्वादिति भावः ॥ नित्यत्वोपचार इति ॥ एवं च वाग्वेति श्रुतेरुपचरितार्थत्वान्न तद्विरोध इति भावः । किं चेत्युक्तदोषं निराह ॥ न चेति ॥ श्रुत्याश्रयत्वं नामेत्यादिनोक्तयुक्तिं निरस्यति ॥ अत एवेति ॥ उपचयात्पूर्वं योग्यतामात्र-सत्वेऽप्युच्चारणासमर्थत्वेन तदर्थमुपचयस्यावश्यकत्वमिति भावः । षष्ठीभ्रमं निरस्यति ॥ मनः सकाशादिति ॥ न केवलं वागिन्द्रियस्योत्पत्तिप्रतिपादकतस्मान्मन इति श्रुतिबलाद्वाग्वाव नित्येति श्रुतेरुपचरितार्थत्वं किं तु अस्यां हि श्रुतिरवतिष्ठत इति वाक्य शेषान्यथानुपपत्तिलक्षणान्तरानु-पपत्त्यापीत्याह ॥ एवमभ्युपगम एवेति ॥ वागिन्द्रियस्योत्पत्तिमभ्युपगम्य श्रुतेरुपचरितार्थ-त्वाभ्युपगम एवेति भावः ॥ नित्यत्व इति ॥ सर्वथोत्पत्तिराहित्यलक्षणनित्यत्व इत्यर्थः ॥ तस्यापीति ॥ नित्यत्वप्रतिपादकत्वेन प्रतीयमानाया अप्येतदर्थत्वाद् उपचयरूपोत्पत्तिमतोऽपि श्रुतिसन्निधियोग्यत्वरूपनित्यत्वार्थकत्वादित्यर्थः । तदेवोपपादयति ॥ वाग्वेति ॥ उक्तार्थत्वाङ्गीकारे पूर्ववाक्यार्थोपपत्तिरपि नियामकेत्यभिप्रेत्य नित्ययाऽनित्ययेति पूर्ववाक्यं योजयति ॥ एवं च सतीति ॥ अस्यां हीतिवाक्यशेषस्योपचारबीजप्रतिपादकत्वे सतीत्यर्थः ॥ पुराणाद्याश्रयत्वेन चेति ॥ अनेनास्यां हि श्रुतिरित्युपलक्षणम् । अस्यां हि पुराणादिकमवतिष्ठत इत्यपि ग्राह्यमित्युक्तं भवति । ननु पुराणाद्याश्रयत्वमात्रेण कथं वागिन्द्रियनित्यत्वानित्यत्वे इत्यत आह ॥ एवं च समाख्यानुरोध इति ॥ तथा च समाख्याश्रुतौ श्रुतिर्वाव नित्याऽनित्या वाव स्मृतयो याश्चान्या वाच इति श्रुतिपुराणाद्याश्रयत्वयोर्नित्यत्वानित्यत्वयोरुक्तत्वात्तत्र निर्णीतनित्यत्वानित्यत्ववत् श्रुतिपुराणाद्याश्रयत्वेन वागिन्द्रियस्य नित्यत्वानित्यत्वे घटेते इति भावः ॥ अन्यथेति ॥ स्वरूपेण नित्यत्वानित्यत्वविवक्षायां निरोधात्स्वरूपेण नित्यत्वमुपचरितांशेनानित्यत्वमिति विवक्षायां च वाक्यशेषादौ नित्यवेदाश्रयत्वाद्युक्त्ययोगाद् वाक्पदेन वेदविवक्षायां चास्यां हि श्रुतिरवतिष्ठत इति वाक्यशेषविरोधाद् अस्मदुक्तवाक्यार्थादन्यथा वाक्यार्थो न युक्त इत्यर्थः । यद्वा अन्यथा समाख्यानुरोधेन नित्यया, अनित्यया स्तौमि परमात्मानमिति वाक्यस्य नित्यवेदाश्रयत्वेन नित्ययाऽनित्यपुराणाद्याश्रयत्वेनानित्ययेत्यर्थकत्वाङ्गीकारे तस्य वाक्यस्यार्थोपपत्तिर्न विद्यत इत्यर्थः । वाक्यशेषे नित्ययेत्युक्तनित्यत्वं वाग्वाव नित्येति वाचः प्रतिज्ञाया अस्यां हि श्रुतिरवतिष्ठत इति तदुपपादनं वेदनित्यत्वप्रतिज्ञातदुपपादनयोरभावादिति भावः ।

॥ इति वागधिकरणम् ॥