०२ मनोधिकरणम्

ॐ तत्प्राक्श्रुतेश्च ॐ

२. अथ मनोधिकरणम्

सूत्रभाष्यम्

‘द्विधा हैवेन्द्रियाणि नित्यानि चानित्यानि च । तत्र नित्यं मनोऽनादित्वान्न ह्यमनाः पुमांस्तिष्ठत्यनित्यान्यन्यानि’ इति गौपवनश्रुतौ मनसोऽनुत्पत्तिः सयुक्तिका श्रूयते । अत आह–

॥ ॐ तत्प्राक्श्रुतेश्च ॐ ॥ ४ ॥

‘मनः सर्वेन्द्रियाणि च’(मुं.उ. २-१-३) इति पूर्वोक्तत्वान्नानुत्पत्तिर्मनसो युज्यते ।

‘पूर्वं मनः समुत्पन्नं ततोऽन्येषां समुद्भवः ।

तदनुत्पत्तिवचनमल्पोपचयकारणात्’ ॥ इति ।

वायुप्रेाक्तवचनं चशब्देन गृहीतम् ।

॥ इति मनोऽधिकरणम् ॥

तत्त्वप्रदीपिका

‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च’ इतीतरेन्द्रियेभ्यः पूर्वमुत्पत्त्युक्तेन मनसोऽ-नुत्पत्तिर्युज्यते । विशेषश्रुतिगतिरल्पोपचयोऽत्र ।

तत्त्वप्रकाशिका

अत्र ब्रह्मणि श्रुतिसमन्वयेन जगत्कारणत्वसिद्ध्यर्थं मनोजन्मविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । जगत्कारणे ब्रह्मणि श्रुतिसमन्वय उक्तः । तत्र मनोजन्मविषयश्रुतीनां विरोधेनाप्रामाण्ये नासावुपपद्यत इति स निराकार्य एव । अत्र प्रकृतेन्द्रियान्तर्गतं मनो विषयः । किमुत्पत्तिमन्न वेति संशयः । ‘मनः सर्वेन्द्रियाणि च’ ‘नित्यं मनोऽनादित्वात्’ इति श्रुतिविरोधः सन्देहबीजम् । पूर्वपक्षयति ॥ द्विधेति ॥ मनो नोत्पत्तिमत् । ‘नित्यं मनोऽनादित्वात्’ इति श्रुतेः । न चोत्पत्तिश्रुत्यनुसारेणेन्द्रियानुत्पत्तिश्रुतिवदनादित्वश्रुतेर्गौणार्थत्वमिति साम्प्रतम् । इन्द्रियाणा-मनित्यत्वमुक्त्वा विशिष्य मनसो नित्यत्वाभिधानात् । किं च मनसः सादित्वे तद्विना कदाचिदनादिपुरुषेणावस्थातव्यम् । न चैवं भवति । तथा सति तदा संसाराभावप्रसङ्गात् । मनो हि संसारहेतुः । यदाहुः । ‘मन एव मनुष्याणां कारणं बन्धमोक्षयोः’ इति । संसारसादित्वं त्वप्रामाणिकं सर्वप्रमाणविरुद्धं च । अतो नित्यमेव मनः । एवं च युक्तियुक्तविशेषश्रुतेः प्राबल्या-त्तद्विरोधेनोत्पत्तिश्रुतेरप्रामाण्यान्न श्रुतिसमन्वयेनेश्वरस्य जगत्कारणत्वसिद्धिरिति भावः । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ नानुत्पत्तिर्मनसः । उत्पन्नत्वे श्रुतिसद्भावात् । न चास्या गत्यन्तरं वाच्यम् । पृथङ्मनसो जन्माभिधायकत्वेन विशेषश्रुतित्वात् । न चान्येन्द्रिय-वन्मनसोऽप्युत्पत्तिमत्त्वे तस्येन्द्रियान्तर्गतस्य पृथगभिधानं व्यर्थमिति मन्तव्यम् । अन्येन्द्रियेभ्योऽपि प्रागुत्पन्नत्वाभिप्रायेण तदुपपत्तेरिति भावः ॥ पूर्वोक्तत्वादिति ॥ पूर्वमुत्पन्नतयोक्तत्वात् ।

ननु कुतो मनसः पूर्वोत्पत्तिः कथं चोत्पत्त्यङ्गीकारे श्रुत्यादिविरोधपरिहार इत्यत आह ॥ पूर्वमिति ॥ नोत्पत्तिमत्वे मनसः श्रुतिविरोधः । प्रलयेऽपीन्द्रियवत्सूक्ष्मस्वरूपसत्ताभ्युपगमात् । अत एव न युक्तिविरोधः । न च विशिष्योक्तिविरोधः । अन्येन्द्रियेभ्योऽल्पोपचयाभिप्रायेण तदुपपत्तेरिति भावः । अतः श्रुत्यविरोधेन मनसो भगवदुत्पन्नत्वसिद्धेर्युक्तो जगत्कारणे ब्रह्मणि श्रुतिसमन्वय इति सिद्धम् ।

गुर्वर्थदीपिका

पृथङ्मनसो जन्माभिधायकत्वेनेत्यत्र सर्वेन्द्रियाणि चेति उत्पद्यमानतयोक्तेन्द्रियमध्ये पठितस्यापि ‘‘मनसो मन’’ इति पृथक्कथनेन निरवकाशत्वादिति भावः ।

भावबोधः

अनन्तरसङ्गतिं सूचयन् विषयमाह– अत्र प्रकृतेन्द्रियान्तर्गतं मन इति ॥ किमिति ॥ अत्र मनोऽनुत्पत्तिमदुतोत्पत्तिमदिति चिन्ता । तदर्थं तदुत्पत्तिरनुत्पत्तिश्रुतिविरुद्धा न वेति । तदर्थं नित्यं मनोऽनादित्वादित्यादियुक्त्या श्रुतिर्मुख्यार्थोतामुख्यार्थेति । तदर्थमनुत्पत्तिश्रुतिर्युक्तियुक्तत्वेन निरवकाशोत सावकाशेति । तदर्थमन्येन्द्रियेभ्यो विशिष्य मनसो नित्यत्वाभिधानात्’ इत्युक्तेर्गत्यन्तरं नास्त्युतास्तीति । तदर्थं मनसः सृष्टिकाले किमिन्द्रियाणामिव बह्ववयवोपचय उत अल्पावयवोपचय इति । तदर्थं मनसोऽवयवोपचयादिरूपोत्पत्तौ विशेषप्रमाणं नास्त्युतास्तीति । पूर्वाधिकरणेन गतार्थताशङ्कां निरस्यति– न चोत्पत्तीति ॥ कुतो नेत्यतो द्विधा ह वा इत्यादिभाष्यं विशेषश्रुतिविरोध इति न्यायविवरणानुसारेण व्याचष्टे– इन्द्रियाणामिति ॥ मनोव्यति-रिक्तानामित्यर्थः । एतदेव च श्रुतेर्न्यायविवरणोक्तं विशेषरूपत्वम्, न तु धर्मनिर्देशमात्रम् । ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।’ इति सादित्वेऽपि तस्य सत्त्वादिति ।

ननु विशिष्यनित्यत्ववचनवन्मनः सर्वेन्द्रियाणि च’ इति मनसः पृथग्जन्मवचनेन श्रुत्योः साम्यात् कथं निर्णय इत्यतो ‘न ह्यमना’ इति श्रुतिविशेषोक्तयुक्तिमाह– किं चेत्यादिना ॥ नित्यमेवेति ॥ अनुत्पत्तिमदेवेत्यर्थः ॥ पृथङ्मनस इति ॥ अनेन ।

‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च’ इति विशेषश्रुतिरिति न्यायविवरणमप्युक्ततात्पर्यं भवति । अन्येन्द्रियाण्यनित्यानीत्याक्षिप्य मनसो विशिष्य नित्यत्वाभिधानरूपयुक्तिनिरासाय सूत्रे ‘प्राक्’ पदमित्यभिप्रेत्य प्रवृत्तं पूर्वोक्तत्वादिति भाष्यं तन्निरसनीयशङ्कानिरासपूर्वकं व्याचष्टे– न चेत्यादिना ॥ श्रुतेः पृथग्जन्माभिधानमात्राभिप्रायेण‘ इन्द्रियाणि मनः’ इति निर्देशः स्यात्; न तु ‘मनः सर्वेन्द्रियाणि च’ इति । एवं च श्रुतौ न केवलं पृथग्जन्माभिधानमात्रम्; किं तु विशिष्य-नित्यत्वोक्तिरूप युक्तिनिरासोऽप्यभिप्रेत इति सूत्रभाष्याशय इति भावः ॥ श्रुतिविरोध इति ॥ ‘नित्यं मनोऽनादित्वात्’ इति श्रुतिविरोध इत्यर्थः ॥ सूक्ष्मस्वरूपसत्ताभ्युपगमादिति ॥ प्रलये मनसः सत्त्वाभावेऽल्पोपचयकारणादित्युक्तोऽल्पोपचयो न स्यादित्यर्थः ॥ अत एव न युक्तिविरोध इति ॥ उक्तरीत्या मनसोऽनादित्वेन पुंसो मनोवियोगाभावान् न ह्यमना इत्युक्तयुक्तिविरोधो नेत्यर्थः ॥ न च विशिष्येति ॥ अन्येन्द्रियाण्यनित्यकोटौ निक्षिप्य मनसो विशिष्यनित्यत्वोक्तिविरोध इत्यर्थः ।

भावदीपः

भाष्ये नित्यं मनोऽनादित्वान्न ह्यमनाः पुमांस्तिष्ठतीत्येव पूर्तौ अवशिष्टोक्तिरपि पूर्वस्माद्विशेषशङ्काप्रदर्शनपरेति भावेन तद्व्यावर्त्यशङ्कापूर्वं तदंशोपयोगमाह ॥ न चोत्पत्तीति ॥ ‘एतस्माज्जायत’ इत्यादिश्रुतीत्यर्थः । गौणार्थत्वं सूक्ष्ममनःपरत्वमित्यर्थः ॥ विशिष्येति ॥ इन्द्रियाण्यनित्यकोटौ निक्षिप्य विशिष्य मनसो नित्यत्वोक्तिरूपविशेषश्च न जन्मश्रुतावस्ति किन्तु ‘मनः सर्वेन्द्रियाणि च’ इति विशिष्यधर्मिनिर्देशमात्रमेव नापि प्राणा एवानादय इत्यत्राप्यस्ति । तेन न पूर्वसाङ्कर्यमपीति भावः । तावतैव पूर्तौ न ह्यमना इत्यंशस्योपयोगमाह ॥ किञ्चेति ॥ एतेन नित्यं मनोऽनादित्वादिति विशेषश्रुतिविरोध इति न्यायविवरणे नित्यं मन इति मध्ये प्रतीकग्रहणेन भाष्योक्तपूर्वोत्तरांशयोरप्युपादानं श्रुतेर्विशेषत्वं च विशिष्य नित्यत्वाभिधायकत्वम् अनादिपुरुषा-विनाभूतत्वाभिधायकत्वं चेति द्वेधेति दर्शितं भवति । पुरुषेण जीवेनेत्यर्थः । तदनादित्वं च यावदात्मभावित्वाच्चेत्यत्र सिद्धम् । सौत्रचशब्दार्थसूचितं व्यनक्ति ॥ तदा संसारेति ॥ यदाहुरिति ॥ गीताभाष्ये षष्ठे ॥ सर्वेति ॥ सोऽनादिना पुण्येन पापेन चानुबद्धः परेण विनिर्मुक्त इति एषोऽश्वत्थः सनातनः नान्तो न चादिर्न च सम्प्रतिष्ठा अश्वत्थमेनं सुविरूढम्’ इत्यादिश्रुति-स्मृत्यादिविरुद्धमित्यर्थः ॥ अत इति ॥ विशिष्य नित्यत्वश्रवणात् । अनादिबन्धहेतुतया अनादिपुरुषामविनाभूतत्वश्रवणाच्चेत्यर्थः । उक्तयुक्तिद्वयं सयुक्तिकेति भाष्येऽभिमतमेतदेव च विशेषश्रुतिविरोध इत्यन्यत्रोक्तविशेषपदेन चाभिमतमिति दर्शयन् भाष्ये काङ्क्षितपूर्त्यै न्यायविवरणोक्तं संयोजयन् फलोक्त्योपसंहरति ॥ एवं चेति ॥ न वियदित्यतो नोत्पत्त्यसम्भव इत्यस्यात्र प्राप्तिं मत्वा भाष्यं व्याचष्टे ॥ नानुत्पत्तिरिति ॥ एतेन सूत्रे तत्प्रागित्यनेन तेभ्यः पूर्वप्रकृतप्राणेभ्यः प्रागित्युक्त्या तथा श्रूयमाणो मनोरूपो विषयो लब्ध इति दर्शितम् । उत्पत्तिमदिति वाच्ये नानुत्पत्तिरित्युक्तिः पूर्वोक्तोत्पत्त्याक्षेपनिरासकत्वमस्य योगस्य सूचयितुम् । एवमग्रेऽपि भाष्ये उक्तत्वादित्येतच्छ्रुतेरित्यस्य व्याख्येति भावेनाह ॥ उत्पन्नत्व इति ॥ भाष्ये तत्प्रागित्यंशव्याख्यापूर्वेति । तस्य कृत्यं वक्तुं पूर्वोक्तमनुवदति ॥ न चेति ॥ गत्यन्तरं विशेषश्रुतिविरोधेनाप्रामाण्यमित्युक्तगत्यन्तरमित्यर्थः । ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च’ इति विशेषश्रुतेरित्यन्यत्रोक्तं श्रुतेर्विशेषत्वं वक्तुं पूर्वोक्तत्वरूपं भाष्योक्तमेवेति दर्शयन् पूर्वोक्त-त्वादित्येतद्भावमाह ॥ पृथगिति ॥ तर्हि सूत्रे पृथक् श्रुतेरिति भाष्ये च पृथगुक्तत्वादित्येव वाच्यम् । न तु तत्प्रागित्यादिरूपेणेत्यतस्तत्कृत्यं व्यनक्ति ॥ न चेत्यादिना ॥ सौत्रतच्छब्दार्थविवरण-मन्येन्द्रियेभ्य इति भाष्ये च शेषोक्तिः । अक्षरार्थमाह ॥ पूर्वेति ॥ सूत्रे चोत्पन्नतयेति शेष इति भावः । कुत इति ॥ प्रमाणादिति योज्यम् । अन्यथा पूर्वार्धस्य नातीवोपयोगः स्यादिति भावः । उत्तरार्धभावमाह ॥ नेति ॥ सूक्ष्मेति ॥ नित्यान्येतानि सौक्ष्म्येणेति प्रागुक्तस्मृतेरिति भावः । अत एव भाष्ये अत्र तदनुद्धार इति भावः । अत एवेति ॥ सौक्ष्म्येणानादिनित्यत्ववादेन न ह्यमना इत्युक्तयुक्तिविरोधो नेत्यर्थः ॥ विशिष्येति ॥ विशिष्यनित्यत्वोक्तिविरोध इत्यर्थः ॥ अत इति ॥ अनुत्पत्तिश्रुतेः सूक्ष्ममनःपरत्वाज्जन्मश्रुतेरल्पोपचयविषयत्वादीशजत्वे विवादाभावाच्चेत्यर्थः ।

अभिनवचन्द्रिका

इति श्रुतेरिति ॥ नित्यत्वे हेतुतयाऽनादित्वप्रतिपादकश्रुतेरित्यर्थः ॥ विशिष्यमनस इति ॥ गौणानादित्वस्य विशिष्यप्रतिज्ञातनित्यत्वसाधकत्वायोगान् न गौणत्ववर्णनं युक्तमिति भावः । अनादित्वश्रुतेः श्रौतयुक्तिसाहित्यं वक्तुमाह – किञ्चेति ॥ अतो नित्यमेवेति ॥ अनुत्पत्तिमदेवेत्यर्थः ॥ गत्यन्तरमिति ॥ छत्रिन्यायेन उत्पत्तेः प्रतिपादकत्वं न वाच्यमित्यर्थः ॥ विशेषश्रुतित्वादिति ॥ इन्द्रियैः सह मनस एकोक्त्यभावेन छत्रिन्यायानर्हश्रुतित्वादित्यर्थः । ननु ‘मनः सर्वेन्द्रियाणि च’ इति श्रुतिगतस्य मनःशब्दस्य मनस्तत्त्वपरत्वात्, न मनोरूपेन्द्रियस्य उत्त्पत्तिसाधकत्वम् । अन्यथा – पुनर्ग्रहणं व्यर्थं स्यादित्याशंक्य निषेधति न चेति ॥ पूर्वमुत्पन्न-तयेति ॥ उत्पन्नतया पूर्वमुक्तत्वादिति सम्बन्धः । एतेन ‘मनः सर्वेन्द्रियाणि च’ इति श्रुतौ मनस उत्पन्नतया पूर्वमुक्तत्वेऽपि पूर्वोत्पन्नतया उक्त्यभावात् पूर्वमुत्पन्नतयेत्यर्थकथनमयुक्तमिति परास्तम् । ननु अन्येन्द्रियेभ्योऽपि प्रागुत्पन्नत्वाभिप्रायेणेति भाववर्णनमयुक्तम् । पूर्वोत्पत्तौ प्रमाणा-भावात् । न च ‘मनः सर्वोन्द्रियाणि च’ इति उत्पन्नतया पूर्वमुक्तिरेव मानं पश्चादुत्पन्नस्यापि पूर्वोक्तिसम्भवाद् इत्याशयेन शङ्कते – नन्विति ॥ अत एवेति ॥ सूक्ष्मरूपेण मनसः सद्भावादेव ‘न ह्यमानाः पुमांस्तिष्ठति’ इति श्रौतयुक्तिविरोधो नेत्यर्थः ।

पूर्वपक्षस्तु – नोत्पत्तिर्मनसः ‘नित्यं मनोऽनादित्वात्’ इति श्रुतेः । न चोत्पत्तिश्रुत्यनुसारेण इन्द्रियोत्पत्तिश्रुतिवद् अनादित्वश्रुतेर्गौणार्थवर्णनं युक्तमिति वाच्यम् । इन्द्रियाणामनित्यत्वमुक्त्वा विशिष्य मनसो नित्यत्वाभिधानात् । किञ्च मनसः । सादित्वे तद्विना कदाचिदनादिना पुरुषेण अवस्थातव्यम् । न च तत्सम्भवति । तथा सति तदा संसाराभावप्रसङ्गात्, मनसः संसार-कारणत्वात्, ‘मन एव मनुष्याणां कारणं बन्धमोक्षयोः’ इति स्मरणात् । अतो नित्यमेव मनः । एवञ्च युक्तियुक्तविशेषश्रुतेः प्राबल्यात् तद्विरोधेनोत्पत्तिश्रुतेरप्रामाण्या न्न श्रुतिसमन्वयेनेेश्वरस्य जगत्कारणत्वसिद्धिरिति ।

सिद्धान्तस्तु – नानुत्पत्तिर्मनसो युज्यते । उत्पन्नत्वे श्रुतिसद्भावात् । न चास्या गत्यन्तरं वाच्यम् । पृथक् मनसो जन्माभिधायकत्वेन विशेषश्रुतित्वात् । न चान्येन्द्रियवन् मनसोऽप्युत्पत्तिमत्त्वे तस्येन्द्रियान्तर्गतस्य पृथगभिधानं व्यर्थमिति वाच्यम् । अन्येन्द्रियेभ्योऽपि प्रागुत्पन्नत्वाभिप्रायेण तदुपपत्तेः । न चोत्पत्तिमत्त्वेऽनुत्पत्तिश्रुतिविरोध इति वाच्यम् । तस्याः सूक्ष्मरूपमनोविषयत्वात् । न च विशिष्य नित्यत्वोक्तिविरोधः । अन्येन्द्रियेभ्योऽल्पोपचयाभिप्रायत्वात्तस्याः । तदुक्तं ‘तदनुत्पत्तिवचनमल्पोपचयकारणात्’ इति । अतः श्रुत्यविरोधेन मनसो भगवदुत्पन्नत्वसिद्धेर्युक्तो जगत्कारणे ब्रह्मणि श्रुतिसमन्वय इति सिद्धम् ।

वाक्यार्थमुक्तावली

अभ्यधिकाशङ्कयाऽधिकरणप्रवृत्तिरिति सूचयन्ननन्तरसङ्गतिं सूचयति ॥ अत्र प्रकृतेति ॥ संशय इति तदर्थं नित्यं मनोऽनादित्वादिति श्रुतिर्मुख्यार्थोतेन्द्रियानादित्वश्रुतिवद्गौणीति चिन्ता । तदर्थमन्येन्द्रियेभ्यो विशिष्य मनसो नित्यत्वाभिधानादित्युक्तेर्गत्यन्तरं नास्त्युतास्तीति । अभ्यधिकां शङ्कां वक्तुं गतार्थतामाशङ्क्य निषेधति ॥ न चेति ॥ कुतो न वाच्यमित्यर्थः । विशेषश्रुति-रित्युक्तन्यायप्रदर्शनपरतया व्याचष्टे ॥ इन्द्रियाणामिति ॥ विशिष्येति ॥ तत्र नित्यं मन इति निर्धार्य मनोमात्रस्य नित्यत्वाभिधानादित्यर्थः ।

ननु ‘मनः सर्वेन्द्रियाणि च’ इति मनसः पृथग्जन्मवचनेन श्रुत्योः साम्यमेवेत्यतो न ह्यमना इत्युक्त्यन्तरमाह ॥ किं चेति ॥ अनादिना पुरुषेणेति ॥ अनादितः शरीरयुक्तेनेत्यर्थः । तदुक्तं ‘सर्वदा स्थूलेन सूक्ष्मेण वा पुरेण युक्तो ननु जीवः’ इति ॥ नित्यत्वमेवेति ॥ अनुत्पत्तिमदेव चेत्यर्थः । सूत्रे तदिति व्यस्तं तत्प्रागिति समस्तं च पदं तत्र प्रकृतप्राणपदसम्बन्धायितं मनः परामृश्यते ॥ नानुत्पत्तिमदिति ॥ अनुवर्तत इत्यभिप्रेत्य नानुत्पत्तिरितित्यंशं तावद्योजयति ॥ नेति ॥ न चास्या इति ॥ द्विधा ह वैति ॥ विशेषश्रुतिविरोधेनाप्रामाण्यमेव गतिरिति न वाच्य-मित्यर्थः । कुतो न वाच्यमित्यतो विशेषश्रुतिरित्युक्तसिद्धान्तन्यायं प्रदर्शयितुं तत्प्राक् तेभ्यः प्राणेभ्यः प्राक् पूर्वं तैः सहानुक्त्वा पृथगिति यावत् । श्रुतेरुत्पत्तिश्रुतेरिति सूत्रार्थमभिप्रेत्य पूर्वोत्पन्नत्वादिति भाष्यार्थमाह पृथगिति । पृथङ्नित्यत्ववत्पृथगुत्पत्यभिधानाद्विशेषश्रुतित्वमित्यर्थः । एवं सति सूत्रे तत्पृथगिति निर्देष्टव्यम् । प्रागिति निर्देशस्तु कुत इत्यतस्तद्व्यावृत्यं वक्तुमाह ॥ नन्विति ॥

प्रागुत्पन्नत्वाभिप्रायेणेति ॥ पृथग्जन्माभिधानमात्राभिप्राये इन्द्रियाणि मन इति निर्देशः स्यान्न तु मनः सर्वेन्द्रियाणि चेति निर्देश इति भावः । कुत इति प्रमाणादिति शेषः । मनसः पूर्वनिर्देशस्तु न पूर्वोत्पत्तिं गमयति । सहोत्पन्नस्यापि पूर्वनिर्देशसम्भवादुक्तेः क्रमिकत्वादिति भावः । श्रुत्या-दीत्यादिपदेन युक्तिविशिष्टोक्त्योर्गृहणम् । इत्यत आह इत्यतः प्रागित्युक्त्या सूचिते विरोधत्रय-परिहारे च शब्दसमुच्चितप्रमाणमुपन्यसतीत्यर्थः । सूत्रे तत्प्रागित्युक्त्या पूर्वोत्पन्नत्वेनाल्पोपचयः पश्चादुत्पन्नानां बहूपचयश्च सूचितः । तेनैव विरोधत्रयं परिहृतमित्याह ॥ नोत्पत्तीति ॥ नित्यं मनोऽनादित्वादिति श्रुतिविरोध इत्यर्थः । कुतो नेत्यतः सूक्ष्मरूपेण सतामल्पोपचया-विवक्षयाऽनादित्वश्रुत्युत्पत्तेरित्याह ॥ प्रलयेऽपीति ॥ प्रलये मनसः सूक्ष्मस्य सत्वभावे कस्योपचयः स्यादिति भावः ॥ तत एव न युक्तीति ॥ उक्तरीत्या मनसोऽनादित्वेनोपचितां शवियोगेऽपि मनोवियोगाभावान्न ह्यमना इत्युक्तिविरोधो नेत्यर्थः ॥ न च विशिष्येति ॥ अन्येन्द्रियाण्य-नित्यकोटौ निक्षिप्य मनसो विशिष्यमित्यत्रोक्तिविरोध इत्यर्थः ।

वाक्यार्थविवरणं

साम्प्रतमिति ॥ ‘साम्प्रतं युक्तमद्यापि’ इत्यमरः ॥ तदेति ॥ मनो विहायावस्थानसमय इत्यर्थः । तदुपपादयति ॥ मनो हीति ॥ संसाराभावप्रसङ्गादित्यत्रेष्टापत्तिं परिहरति ॥ संसार-सादित्वं त्विति ॥ गत्यन्तरमिति ॥ सम्भावितः कश्चिदर्थ इत्यर्थः ॥ पृथगिति ॥ सर्वेन्द्रिय-मध्येऽस्थापयित्वा मन इति पृथगभिधानमित्यर्थः ॥ कुतः । प्रमाणात् । अत एव । सूक्ष्मस्वरूप-सत्ताभ्युपगमादेव ॥ विशिष्येति ॥ सूक्ष्मस्वरूपसत्तयेतरेन्द्रियसाम्येन विशिष्य ‘नित्यं मनः’ इत्युक्तिरयुक्तेत्यर्थः ॥ अल्पेति ॥ यथेतरेन्द्रियाणां तैजसाहङ्कारोपचितानां भूतादिभिः पुनरुप-चयोऽस्ति न तथा मनसः, किन्तु वैकारिकाहङ्कारादेवेत्यल्पोपचय इत्याशयः ।

वाक्यार्थमञ्जरी

इन्द्रियाणामिति ॥ मनोव्यतिरिक्तेन्द्रियाणामित्यर्थः । यदाहुर्वायुपुराणे ॥ सर्वप्रमाणेति ॥ ‘सोऽनादिना पुण्येन पापेन चानुबद्धः’ इत्यादिप्रमाणेत्यर्थः । नित्यमनुत्पत्तिमत् । मन उत्पत्तिमदेव कुतस् तेभ्यः प्राणेभ्यः प्राक् पूर्वं श्रुतेरेतस्मादिति मन उत्पत्तिश्रुतेरित्यर्थः ॥ अत एवेति ॥ उक्तरीत्या मनसोऽनादित्वेन पुंसो वियोगाभावान् न ह्यमनाः पुमांस्तिष्ठतीत्युक्तयुक्तिविरोधो नेत्यर्थः ॥ न च विशेष्येति ॥ अन्येन्द्रियाण्यनित्यकोटौ निक्षिप्य विशेष्यमनसो नित्यत्वोक्तिविरोध इत्यर्थः ।

॥ इति मनोऽधिकरणम् ॥