ॐ तथा प्राणाः ॐ
अथ चतुर्थः पादः
१. अथ प्राणाधिकरणम्
सूत्रभाष्यं
युक्तिसहितश्रुतिविरोधं श्रुतीनामपाकरोत्यनेन पादेन । ‘प्राणा एवेदमग्र आसुस्तेभ्यो भूतानि जज्ञिरे । भूतेभ्योऽण्डमण्डस्यान्तस्त्विमे लोकाः । अथ प्राणा एवानादयः प्राणा नित्या’ इति काषायणश्रुतौ प्राणानामनुत्पत्तिः प्रतीयते ।
‘नोपादानं हीन्द्रियाणामतोऽनुत्पत्तिरिष्यते ।
उपादानकृता सृष्टिः सर्वलोकेषु दृश्यत’ इति भविष्यत्पर्वणि ॥
‘एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च’ (मुं.उ.२-१-३) इति च । अत उच्यते–
॥ ॐ तथा प्राणाः ॐ ॥ १ ॥
यथाऽऽकाशादयः परमात्मन उत्पद्यन्ते तथा प्राणा अपि ।
तत्त्वप्रदीपिका
युक्तिसहिताभिः श्रुतिभिर्विरोधं श्रुतीनां निराकरोत्यनेन पादेन प्राणविचारात्मकेन प्रायः । तेषु युक्तेरुपजीव्यत्वेन तद्विरोधस्य परिहरणीयत्वात् । ननु यद्यपि श्रुतीनां केवलानां समबलानां मिथो विरोधो विचारणया परिहरणीय इति युज्यते, आसां मुख्यवृत्तिरासां गौणीति, आसामसौ विषय आसामयमिति वा । यत्र युक्तिसहिताभिः श्रुतिभिः श्रुतयो विरुध्यन्ते तत्र न विचारणावकाशः । बलवद्विरोधे गौणार्थत्वाश्रयणस्य प्राप्तत्वात् । अतस्सिद्धार्थत्वात्कृतमत्र मीमांसयेति ॥ नायं दोषः । सयुक्तिकाभिरेव निर्णयश्रुतिभिः परिहरिष्यमाणत्वाद्विरोधस्य । विषयविवेकस्य वा प्रदर्शयिष्य-माणत्वात्तत्र तत्र । अस्मिन्पादे प्रायः प्राणाः समस्ता व्यस्ता वा विषयः । अत्र तूत्पद्यन्ते वा नवेति संशयः । श्रुतिविप्रतिपत्तिः संशयबीजम् । नोत्पद्यन्त इति पूर्वः पक्षः । अनुत्पत्तिश्रुतेः सयुक्तिकत्वा-दुत्पत्तिश्रुतेर्गौणार्थत्वयोगात् । ‘प्राणा एवेदमग्र आसुस्तेभ्यो भूतानि जज्ञिरे’ इति भूतकारणत्वश्रुतेः, ‘तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति’ इत्यादिषु देहपाते देहिनां सहोत्क्रान्तिगत्यादिश्रुतेः प्रलये च सुषुप्त इव व्यापारस्यैवोपरमादिति । अत्र सूत्रमवतारयति । तथा प्राणाः । यथाऽऽकाशादयो जीवपर्यन्ताः परमात्मन उत्पद्यन्त उक्तन्यायेन तथा प्राणा अप्युत्पद्यन्ते परमात्मन एव । तत्रोक्तन्यायानुकर्षणार्थं तथेत्युक्तम् ।
तत्त्वप्रकाशिका
एतत्पादार्थं दर्शयति ॥ युक्तीति ॥ अत्रापि पूर्ववत् श्रुतीनां परस्परविरोधपरिहार एव पदार्थः । युक्तिसाहित्यस्य पूर्वत्रापि साम्यात् । अत्रत्ययुक्तीनां श्रुत्यादिसिद्धत्वेन प्राबल्यात्पादभेदः । अध्यात्म-विषयतया च । तत्रादावीश्वरस्य श्रुतिसमन्वयेन जगत्कारणत्वसिद्ध्यर्थमिन्द्रियोत्पत्तिविषयश्रुति-विरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । जगत्कारणे ब्रह्मणि सर्वश्रुतिसमन्वयो निरूपितः । तत्र प्राणोत्पत्तिविषयश्रुतीनां विरोधेनाप्रामाण्ये तदसिद्धेः स परिहर्तव्यो भवति । सर्वजगदन्तःपातिनः प्राणा एव विषयः । किमुत्पत्तिमन्तो न वेति सन्देहः । संशयबीजं श्रुतिविगानं दर्शयन् पूर्वपक्षं सूचयति ॥ प्राणा इति ॥ अथ तस्माद् इति च प्राणानामुत्पत्तिः श्रूयत इति शेषः । प्राणा नोत्पत्ति-मन्तः ‘प्राणा एवानादयः’ इति श्रुतेः । न चोत्पत्तावपि श्रुतिरस्तीति वाच्यम् । अस्याः स्पष्टार्थाया निरवकाशत्वेन प्राबल्यात् । प्राणा नोत्पत्तिमन्तो निरुपादानत्वाद् व्यतिरेकेण घटवदिति युक्तियुक्तत्वेनापि प्राबल्यात् । न चात्रासिद्ध्यादिशङ्का कर्तव्या नोपादानमिति स्मृतिगृहीतत्वात् । अतः प्रबलश्रुतिविरोधादुत्पत्ति श्रुतिरप्रमाणमेवेति नेश्वरस्य श्रुतिसमन्वयेन जगत्कारणत्वसिद्धिरिति भावः । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ उत्पत्तिमन्त एव प्राणाः । आकाशादीना-मुत्पत्तिमत्त्वे कथितयुक्तिसमुदायादेवेत्यर्थः । अत्र पुनर्विप्रतिपत्त्यभावेन कारणस्याविचारा-त्सिद्धवत्कृत्य परमात्मन इत्युक्तम् ।
गुर्वर्थदीपिका
तथा प्राण इत्यत्र दर्शनस्पर्शनादिप्रकृष्टाप्रकृष्टचेष्टाहेतुत्वात्स्वस्वविषयं प्रतिद्रवणाख्यचेष्टाधि-करणत्वाद्वेन्द्रियाणि प्राण इत्युच्यते । पूर्वत्रापि साम्यादित्यत्र साम्येऽपीत्यर्थः । अत्र पुनर्विप्रति-पत्त्यभावेनेत्यस्य सर्वथा विप्रतिपत्त्यभावे अधिकरणान्तरारम्भासम्भवेन परमात्मरूपकारणे विप्रतिपत्त्यसम्भवादित्यर्थः । नन्वल्पाक्षरसूत्रेषु बह्वर्थसूचनापेक्षी सूत्रकारः । ‘गौण्यसम्भवात्’ इति सूत्रं वियदधिकरणे प्राणाधिकरणे च कुतो नासूत्रयदिति चेदित्थम् । वियदधिकरणे आकाशपद-वाच्ययोरव्याकृताकाशतदभिमानिनोर्भूतभूताभिमानिनोश्चोत्पत्तिश्रुतेरनुस्यूतत्वमेव मुख्यत्वम् । अनादिश्रुतेर्गौणत्वं तूक्तेषु चतुर्ष्वप्यननुस्यूतत्वमेव । अनादित्वश्रुतिस्तु न सर्वविषयेति भवति गौणी । ‘भूतेषु कथमप्यवृत्तेः’ इति वचनान्न तत्र प्राणाधिकरणवदेकैकस्य सूक्ष्मरूपेण विद्यमानत्वं स्थूलरूपेणाविद्यमानत्वं च । इह त्वनादित्वस्य गौणत्वमेकैकेन्द्रियस्य सूक्ष्मरूपेण वर्तमानत्वं स्थूलरूपेणावर्तमानत्वं च । कस्मिंश्चिद्विद्यमानत्वं च ।
ननु तत्राप्येवं कुतो गौणत्वमिति चेन्न । भूताभिमानिविनायकचैतन्येऽव्याकृताकाशे तदभिमानि- लक्ष्मीचैतन्ये च स्थूलसूक्ष्मभेदाभावात् । अस्तु तर्हि तदित्यत्राप्येकस्मिन्निन्द्रियेऽनादित्वस्य सर्वथाऽभावो गौणत्वमिति चेन्न । सर्वेन्द्रियाणामपि स्थूलसूक्ष्मरूपसहिततया सादित्वानादित्व-साम्येनैकस्मिन्सत्वस्यापरस्मिन्सर्वथाऽसत्त्वस्य चासम्भवादेव । वियदधिकरणे तु सजातीयेषु स्थूलरूपेणैवानादित्वस्य सत्त्वाद्भूताकाशे तु तत्साम्येनानादित्वस्य शतशः प्रयत्नेऽप्यसम्भवात् । सम्भवत्सूक्ष्मरूपानादित्वस्य च प्रकरणविरुद्धस्याऽऽश्रयितुमशक्यत्वात्कथमप्यवृत्तेरित्युक्तम् । तथा प्राणा इत्यत्रातिदेशे हि तत्रोक्तन्यायेनैवात्रापि गौणत्वबुद्धिस्स्यादतः प्रमेयविशेषसूचनायात्र पुनः सूत्ररचना । एवं च व्यर्थं सत्किमप्यर्थान्तरं ज्ञापयतीति न्यायेन प्रेक्षावतस्सूत्रकारस्यैकाकारद्विःप्रयोगे स्यादेवार्थान्तरबुद्धिर्विवेकिनाम् । ‘प्रतिज्ञानुपरोधात्’ इति सूत्रं तु प्रतिज्ञाहानिरिति पूर्वसूत्रोक्ता-निष्टापादनविपर्यये पर्यवसानरूपत्वान्न पुनरुक्तम् । तच्च पूर्वसूत्रे गौणीद्वैविध्यवत्प्रतिज्ञाद्वैविध्या-भावसूचनार्थम् । प्रतिज्ञाहानिरित्येव सूत्ररचनायां ह्येकाकारपूर्वसूत्रवदत्राप्यर्थद्वैविध्यशङ्का स्यादेव । उक्तविधया प्राचीनसूत्रार्थविशेषतया सूत्ररचनायां तु सुगमोऽत्रार्थद्वैविध्याभावः । एवं च द्वेधाऽपि सार्थक्यमस्य सूत्रस्य । अतोऽतीवचतुरः सूत्रकारः ।
भावबोधः
‘श्रुतिप्रायोपपत्तिभिः । अविरोधश्चतुर्थे तु पादे सम्यक् समर्थ्यते’ इत्यनुव्याख्यानं मनसि निधायाह– अत्र युक्तीनामिति ॥ अनेन युक्तिसहितेति भाष्ये श्रुतिसिद्धत्वेन प्रबलेत्यादावुप-स्कर्तव्यमित्युक्तं भवति ।
‘अध्यात्मप्रवणो भूत्वा तस्य सन्निहितत्वतः’
इत्यनुव्याख्यानं मनसि निधायाह– अध्यात्मविषयतया चेति ॥ तत्रादाविति ॥ पूर्वाधिकरणेऽदृष्टानियमादि अनाद्यविद्याकर्मादीत्युक्त्या कर्मादिपदोक्तज्ञानकरणत्वे नोपक्षिप्ता-नामिन्द्रियाणामुत्पत्तेरत्र विचारादनन्तरसङ्गतिरिति ज्ञातव्यम् । अत्र सर्वेष्वधिकरणेषु ईश्वरस्य श्रुतिसमन्वयेनोक्तमशेषजगत्कारणत्वमयुक्तमुत युक्तमिति प्रधानचिन्तानुवृत्तिर्द्रष्टव्या । अत एवात्र प्रत्यधिकरणं श्रुतिसमन्वयेन जगत्कारणत्वसिद्ध्यर्थमित्याद्युक्तम् । तदयुक्तत्वयुक्तत्वे च ‘तथा प्राणाः’ इत्यादौ साक्षात् सर्वजगत्कारणत्वाक्षेपपरिहाराभ्यां ‘सप्तगतेर्विशेषितत्वात्’ इत्यादौ श्रुतिप्रामाण्याक्षेपपरिहाराभ्यामिति ज्ञातव्यम् । अत्र प्राणाः किमनुत्पत्तिमन्त उतोत्पत्तिमन्त इति चिन्ता । तदर्थं तदुत्पत्तिस्तदनुत्पत्तिश्रुतिविरुद्धा न वेति । तदर्थं ‘प्राणा एवेदमग्र आसुः’ इति तदनुत्पत्तिश्रुतिः किं युक्तियुक्तत्वेन निरवकाशोत सावकाशेति । तदर्थं ‘नोपादानं हीन्द्रियाणाम्’ इति स्मृत्युक्तयुक्तेर्गत्यन्तरं नास्त्युतास्तीति । तदर्थमिन्द्रियाणामुपचयादिरूपोत्पत्तौ श्रुतियुक्त्यादि-विशेषप्रमाणं नास्त्युतास्तीति । उत्पत्तावपि श्रुतिरिति ।
‘एतस्माज्जायते प्राणो मनःसर्वेन्द्रियाणि च’
इति श्रुतिरित्यर्थः । प्राणानामुत्पत्त्यङ्गीकारे ‘प्राणा एवानादय’ इत्यादिस्पष्टार्थवद्विशेषश्रुतिविरोध इति न्यायविवरणं मनसि निधायाह– अस्याः स्पष्टार्थाया इति ॥
ननूत्पत्तिश्रुतेरपि‘ इन्द्रियाणि जायन्त’ इत्युक्तत्वेन स्पष्टार्थतया निरवकाशत्वात् कथं ततोऽस्याः प्राबल्यमित्यतः ‘नोपादानं हीन्द्रियाणाम्’ इति भाष्योक्तयुक्तिमाह– प्राणा इत्यादिना ॥ व्यतिरेकेणेति ॥ यद्यप्यन्वयदृष्टान्तो ब्रह्मास्ति तथापि व्यतिरेकव्याप्तिं विना व्यभिचारशङ्काया अनिरासाद् उपादानकृता सृष्टिरिति भाष्योदाहृतस्मृत्यनुसारेण व्यतिरेक एवोक्त इति ज्ञातव्यम् । यथा यस्माद्युक्तिसमुदायाद् आकाशादयः परमात्मन उत्पद्यन्ते तथा तस्मादेव युक्तिसमुदायात् प्राणा अपि परमात्मन उत्पद्यन्त इति भाष्यार्थमभिप्रेत्याह– उत्पत्तिमन्त एवेति ॥ अत्र पुनः विप्रतिपत्त्याभावेनेति । तेज आदेर्ब्रह्मान्यकार्यत्वे घर्मात् स्वेददृष्टेरितिवदत्र प्राणानां ब्रह्मान्यकार्यत्वे प्रापकाभावेन विप्रतिपत्त्यभावेनेत्यर्थः ।
भावदीपः
अस्य पूर्वपादसाङ्कर्यमुद्भाव्य द्वेधा भेदमाह ॥ अत्रापीति ॥ तथैव प्रतिनयं दर्शितत्वाद् अन्यथा तत्र पूर्वपक्षानुदयादिति भावः ॥ अत्रत्येति ॥ ‘श्रुतिप्रायोपपत्तिभिः । अविरोधश्चतुर्थे तु पादे सम्यक्समर्थ्यते’ इत्यसदितिनयानुव्याख्याने ‘अध्यात्मप्रवणो भूत्वा तस्य सन्निहितत्वतः’ । इत्युपासनापादीयानुभाष्ये चोक्तेरिति भावः ॥ तत्रादाविति ॥ अध्यात्मं विचार्यमाणेषु आदावित्यर्थः । मुख्यप्राणश्चेन्द्रियाणीति सङ्क्षेपभाष्यदिशाऽभ्यर्हितत्वेन श्रेष्ठस्यादौ विचार्यत्वेऽपि सर्वप्रेरकस्य तस्येन्द्रियविषयचिन्तानन्तरमेव चिन्तावसर इति तथालब्धात्मन एव सङ्ख्या-परिमाणादिरूपधर्मचिन्तावसर इति तथा इन्द्रियसामान्यजन्मचिन्तानन्तरमेतद्विशेषे मनःप्रभृतौ चिन्तावसर इति तच्चिन्तात आदाविन्द्रियजन्मचिन्ता अवसरप्राप्तेतिभावेनादावित्युक्तम् । अत्र सिद्ध्यर्थमित्यनेन शास्त्रे विरोधपरिहारादित्यनेनाध्याये श्रुतीत्यनेन पादे चान्तर्भावसङ्गतिरुपपादिता । एवमग्रेऽपि । प्रबलयुक्तिसहित श्रुतीत्यपि योज्यम् । सिद्ध्यर्थमित्येतद् व्यनक्ति ॥ जगत्कारण इति ॥ यद्वा पूर्वसङ्गतिमाह ॥ जगत्कारण इति ॥ एवमग्रेऽपि द्वेधा योज्यम् । जन्मादिसूत्र-सङ्गत्यर्थमाह ॥ सर्वजगदन्तःपातिन इति ॥ श्रुतौ प्राणा एवानादय इत्यस्य पौनरुक्त्यमाशङ्क्य निगमपरतयार्थमाह ॥ अथ तस्मादिति ॥ अण्डादिहेतुभूतकारणत्वाद् लयवर्तित्वाद्वेत्यर्थः । एतेन भाष्ये पूर्वांशोदाहरणमनादय इत्यस्योपपादकत्वेनेति दर्शितम् । इति चेति भाष्यानुवादः ॥ श्रुतिरस्तीति ॥ इदं सर्वमसृजत’ इति सामान्यश्रुतिः ‘एतस्माज्जायते’ इत्यादिविशेषश्रुतिश्चा-स्तीत्यर्थः । तत्राद्यायाः सामान्यश्रुतेर्बाधाय पूर्वपक्षन्यायविवरणे स्पष्टार्थवद्विशेषश्रुतिविरोध इत्युक्तम् । तत्र सामान्यव्यवधानाभावरूपविशेष श्रुतित्वे हेतुरिति भावेनाह ॥ अस्याः स्पष्टार्थाया इति ॥ अनुत्पत्तिश्रुतेरित्यर्थः । द्वितीयायाः सिद्धान्तीयविशेषश्रुतेर्बाधाय नोपादानमिति भाष्योक्तयुक्तिमाह ॥ प्राण इति ॥ एवं च युक्तिद्वयोक्तिरपि सफलेति बोध्यम् ॥ व्यतिरेकेणेति ॥ अन्वयदृष्टान्तस्य ब्रह्मणः सम्भवेऽप्युपादानकृता सृष्टिरित्युत्तरार्धानुरोधादेवमुक्तम् । स्मृतावपि तथोक्तेर्बीजं चन्द्रिकायामुक्तम् ॥ अत इति ॥ निरवकाशत्वनिरुपादानत्वयुक्त्युपेतत्वात्प्रबलेत्यर्थः ।
अत्र यथा यैर्न्यायैस्तथा तैरेव न्यायैरिति भाष्यार्थं मत्त्वा सूत्रे तथाशब्दस्तथान्यत्प्रतिषेधा-दित्यत्रेव प्रागुक्तयुक्तिपरामर्शी साध्यपरामर्शी चेति भावेन सूत्रभाष्ययोरर्थमाह ॥ उत्पत्तिमन्त एवेति ॥ पराधीनविशेषावाप्तिरूपोत्पत्तिमन्त एवेत्यर्थः । तत्रोक्तन्यायानुकर्षार्थं तथेत्युक्तमिति तत्वप्रदीपोक्तेः ॥ कथितेति ॥ अश्रुतेः । उत्पत्तिश्रुतिबाहुल्यादल्पशक्तित्वादेकस्याप्यनुत्पत्तिशब्दस्य ब्रह्मशब्दवन्मुख्यामुख्यत्वसम्भवादित्युक्तयुक्तिसमुदायादित्यर्थः ॥ विप्रतिपत्तीति ॥ अन्यजातत्व-विवादाभावेनेत्यर्थः ॥ अविचारादिति ॥ तेजोऽत इत्यादिवद्ब्रह्मजातत्वोक्त्यर्थं सूत्रान्तरा-करणादित्यर्थः ।
अभिनवचन्द्रिका
एतत्पादार्थमिति ॥ ‘अध्यायस्य एकार्थत्वात् पादभेदः किं निबन्धन इत्यतो विरोधेऽप्य-वान्तरभेदेनेति भावेन’ इति वर्तते । तस्य एतत्पादप्रतिपाद्यं दर्शयतीत्यनेन सम्बन्धः । ननु भाष्यकारीयं पादप्रतिपाद्यकथनमयुक्तम् । अस्यार्थस्य पूर्वपादार्थाऽभिन्नत्वेन पादभेदाभाव-प्रसङ्गादित्याशङ्कामनूद्य समाधत्ते – अत्रापीत्यादिना ॥ अत्रापीति निपातसमुदायो यद्यपीत्यर्थे । ‘अत्रत्ययुक्तीनाम्’ इति वाक्यस्योपक्रमे ‘तथापि’ इति ग्राह्यम् ॥ पूर्वपक्षं च सूचयतीति ॥ ‘नोपादानं हीन्द्रियाणाम्’ इति स्मृत्युदाहरणेन सूचयतीत्यर्थः ॥ अत्र पुनर्विप्रतिपत्त्यभावेनेति ॥ अत्र विप्रतिपत्तिशब्देन ब्रह्मकारणकत्वविरुद्धार्थप्रतिपादकं वाक्यमुच्यते । अन्यकारण-कत्वप्रापकाभावात् कारणमविचारयित्वैव सिद्धवत्कृत्य ‘परमात्मन’ इत्युक्तमित्यर्थः ।
वाक्यार्थमुक्तावली
एतत्पादार्थमिति ॥ अध्यायस्यैकार्थत्वात् पादभेदः किं निबन्धन इत्यत अविरोधेऽप्य-वान्तरभेदेनेति वर्तते ॥ तस्यैतत्पादप्रतिपाद्यं दर्शयतीत्यनेन सम्बन्धः । श्रुति प्रायोपपत्तिभिः । ‘अविरोधश्चतुर्थे तु पादे सम्यक् समर्थ्यते’ इत्यनुव्याख्यानानुसारेण युक्तिसहितेति भाष्यस्य श्रुति-सिद्धत्वेनैव प्रबलयुक्तिसहितेत्यर्थं हृदि कृत्वा तद्व्यावृत्याशङ्कामनूद्य व्याचष्टे ॥ अत्रापीत्या-दीनाम् ॥ अत्रापीति निपातसमुदायो यद्यपीत्यर्थे । अत्र युक्तीनामित्यतः पूर्वं तथापीत्युपस्कर्तव्यम् । अन्यथाऽनन्वयात् । अत्रापीत्यस्यास्मिन् पादेऽपीत्यर्थोक्तौ अर्थ इत्येव पूर्णत्वात् पादार्थ इति पादपदवैयर्थ्यं च । ‘अध्यात्मप्रवणो भूत्वा तस्य सन्निहितत्वतः’ इत्यनुव्याख्यानं मनसि निधायाह ॥ अध्यात्मविषयतया चेति ॥ अध्यात्मपदेनात्मानं शरीरमधिकृत्य वर्तमानानीन्द्रियाण्युच्यन्ते । पादस्य प्रायिकत्वादन्तिमोपान्त्याधिकरणयोः शरीरविचारेऽपि नासङ्गतिः । यद्वक्ष्यति ‘इन्द्रियादीनामाश्रयं शरीरं तत्प्रसंगनिधापितं विषयः’ इति । तत्त्वप्रदीपे च ‘‘युक्तिसहिताभिः श्रुतिभिर्विरोधं श्रुतीनामपाकरोत्यनेन पादेन प्राणविचारात्मकेन प्रायेण’’ इति । विस्तरस्तु प्रमेयमुक्तावल्याम् ।
तत्रादाविति ॥ तत्र विचार्यतया बुद्धिसन्निहितेषु प्राणोत्पत्तिसङ्ख्यापरिमाणादिषु आदा-वित्युत्पत्तेः प्राथमिकत्वात् । एकैकदेशमनआदिविचारापेक्षया समुदायविचारस्य प्रथमप्राप्तत्वादादौ प्रथमेऽस्मिन्नधिकरणे इन्द्रियोत्पत्तिविषयश्रुतिविरोधपरिहारादित्यर्थः । जीवस्वरूपविचारानन्तरं तदिन्द्रियविचारादिति वा जीवस्याप्रतिबिम्बत्वश्रुतिर्बाह्योपाध्यधीनप्रतिबिम्बत्वाभिप्रायेणेति पूर्वत्र निर्णीते बाह्योपाधिरूपमनआदीन्द्रियविचारादिति वानन्तरसङ्गतिः ॥ किमिति ॥ अत्र सर्वेष्व-प्यधिकरणेष्वीश्वस्य श्रुतिसमन्वयेनोक्तमशेषजगत्कारणत्वमयुक्तमुत युक्तमिति प्रधानचिन्ताऽनुवृत्ति-र्दृष्टव्येति दर्शयितुं प्रत्यधिकरणं श्रुतिसमन्वयेन जगत्कारणसिध्यर्थमित्युक्तम् । अत्र किं प्राणा अनादय उतोत्पद्यन्त इति चिन्ता । तदर्थं प्राणादित्वश्रुतिर्निरवकाशत्वेन स्मृतिगृहीतनिरूपा-दानत्वयुक्तिसाहित्येन च प्रबलौ तत्सावकाशात् स्मृतेश्च विषयान्तरमस्तीति । पूर्वपक्षं सूचयतीति । प्राणा एवानादयः नोपादानमिति श्रुतिस्मृत्युदाहरणादिति भावः । न वियदश्रुतेरित्युक्तन्यायमुद्धरति प्राणा इति ॥ अस्तित्वित्युक्तन्यायसाम्यमपाकरोति । न चोत्पत्तावपीति ॥ कुतो न वाच्य-मित्यतस्तत्र स्पष्टार्थवत् श्रुतिरित्युक्तन्यायं प्राणा एवेदमग्र आसुरिति भाष्ये श्रुत्युदाहरणसूचितमाह ॥ अस्या इति ॥ एतेन वियदधिकरणे गौण्यसम्भवादित्यनादित्वश्रुतेर्गौणानादित्वपरत्वेनोक्तत्वा-त्तन्न्यायेन गतार्थतेति निरस्तम् । प्राणा एवेदमग्र आसुस्तेभ्यो भूतानीति प्रलये प्राणानाम-वस्थानमुक्त्वा तेभ्यो भूतानीति भूतोत्पत्तिमभिधायाथ प्रलयावस्थितत्वात्प्राणा एवानादयः प्राणा नित्या इति सयुक्तिकसावधारणमुक्तानादित्वसेश्वरवन्मुख्यत्वे गौणत्वेन सावकाशत्वाद्बलवद्विरोध एव गौणार्थस्याश्रयणीयत्वादुत्पत्तिश्रुतेः प्राबल्यायोगादिति भावः ।
प्रकारान्तरेण प्राबल्यमाह प्राणा इति ॥ असिध्यादीत्यादिपदेन बाधव्यभिचारौ गृह्येते । इष्यत इति साध्यस्य प्रामाणिकस्य उपादानकृता सृष्टिरिति व्यतिरेकव्याप्तेश्चोक्तेः । एतेन ब्रह्मणोऽन्वय-दृष्टान्तत्वसम्भवाद्व्यतिरेकाश्रयणमयुक्तमिति निरस्तम् । ननु भाष्ये आकाशदृष्टान्तेन प्राणोत्पत्ति-कथनमयुक्तम् । ईशदृष्टान्तेन तदभावोक्तिसम्भवादित्यतो भाष्यार्थमाह ॥ उत्पत्तिमन्त एवेति ॥ एतेन यथा येन प्रकारेण यया युक्त्याऽकाशदय उत्पद्यन्ते तथा तेन प्रकारेण तयैव युक्त्या प्राणा उत्पद्यन्त इति सूत्रार्थ उक्तो भवति । अत्र पुनर्विप्रतिपत्त्यभावेनेति ॥ तेजआदेर्ब्रह्मान्यकार्यत्वे धर्मात्स्वेदादिदृष्टेरितिवदत्र प्राणानां ब्रह्मान्यकार्यत्वे प्रापकाभावेन विप्रतिपत्त्यभावेनेत्यर्थः ।
वाक्यार्थविवरणं
ननु तर्हि पादभेदानुपपत्तिः । न चात्र युक्तिसहितश्रुतिविरोधपरिहारः क्रियते । तत्र नेति पादभेद इति वाच्यम् । कुत इति चेत्तत्राह ॥ युक्तिसाहित्यस्येति ॥ तर्हि कथं पादभेद इत्यतस्तं दर्शयति ॥ अत्रत्येति ॥ तत्रादाविति ॥ अध्यात्मं विचार्यमाणेष्वित्यर्थः । श्रुतीति ॥ प्रबलयुक्तिसहितश्रुतीति सर्वत्र योज्यम् । अन्यथा पादासङ्गतिः स्यादिति ध्येयम् । जन्मादिसूत्र-सङ्गत्यर्थमाह ॥ सर्वजगदन्तःपातिन इति ॥ तस्मादिति ॥ प्रलये सत्त्वादेवेत्यर्थः ॥ अस्याः स्पष्टार्थाया इति ॥ अनुत्पत्तिश्रुतेरित्यर्थः ॥ कथितेति ॥ अश्रुतेरुत्पत्तिश्रुतिबाहुल्याच्चेत्याद्युक्त-युक्तियुक्तत्वादित्यर्थः ।
वाक्यार्थमञ्जरी
यथा वियदादयो जातास्तथा प्राणा इन्द्रियाण्यपि जायन्त इत्यर्थः ॥ विप्रतिपत्त्यभावेनेति ॥ तेजआदेर्ब्रह्मान्यकार्यत्वे धर्मात्स्वेदादिदृष्टिवदत्र प्राणानां ब्रह्मान्यकार्यत्वे प्रापकाभावेन विप्रतिपत्त्य-भावेनेत्यर्थः ।
ॐ गौण्यसम्भवात् ॐ
सूत्रभाष्यम्
॥ ॐ गौण्यसम्भवात् ॐ ॥ २ ॥
अनादित्वश्रुतिर्गौणानादित्वापेक्षया । मुख्यासम्भवात् ।
‘नित्यान्येतानि सौक्ष्म्येण हीन्द्रियाणि तु सर्वशः ।
तेषां भूतैरुपचयः सृष्टिकाले विधीयते ॥
परेण साम्यसम्प्राप्तेः कस्य स्यान्मुख्यनित्यता’ ॥ इति हि भविष्यत्पर्वणि ।
तत्त्वप्रदीपिका
‘नित्यान्येतानि सौक्ष्म्येण हीन्द्रियाणि तु सर्वशः ।
तेषां भूतैरुपचयः सृष्टिकाले विधीयत’
इति वचनात्प्रलये सूक्ष्मरूपमात्रस्यैव स्थित्यवगमान्नित्यांशस्य तनीयस्त्वेनानादित्वश्रुते-र्गौणार्थत्वादितरस्य महीयस्त्वेनेतरश्रुतेर्मुख्यार्थत्वात् । तात्विकदेवोत्तमानां प्राकृतदेहाधिष्ठि-तेन्द्रियव्यापारपूर्वकत्वाद्भूतसृष्टेर्भूतकारणत्वव्यपदेशोपपत्तेः । गत्यादेश्च भाक्तत्वेन वक्ष्यमाणत्वात् ।
तत्त्वप्रकाशिका
नन्वाकाशोत्पत्तिसिद्ध्यर्थमनुत्पत्तौ श्रुत्यभावो हेतुरुक्तः । कथमसाविह सम्भवति श्रुतेर्विद्य-मानत्वादित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे ॥ गौणीति ॥ सत्यमस्त्यनुत्पत्तिश्रुतिरिति तथापि नासौ प्राणानामनुत्पत्तिं वक्ति किं तु गौणानुत्पत्तिवादिन्येव । मुख्यानुत्पत्तेरसम्भवात् । मुख्यासम्भवे गौणार्थाङ्गीकारस्य न्यायप्राप्तत्वादिति भावः । ‘एतस्माज्जायते’ इत्यादि श्रुत्यसम्भवोऽपि द्रष्टव्यः । किं तद्गौणानादित्वं प्राणानां कथं च मुख्यासम्भवः प्रत्युतोत्पत्तिरेव न सम्भवत्युपादानाभावादित्यत आह ॥ नित्यानीति ॥ उपचयात्पूर्वमसमर्थानि न संसारकारणानि स्युरित्यत उक्तम् ॥ सृष्टिकाल इति ॥ प्रलये वियुक्तांशानां प्रतिसृष्टिकालमिति भावः । अत्राहङ्कारकारणत्वस्याप्यनिषेधादविरोधः । अहङ्कारोत्पन्नभूतानामपि सूक्ष्मप्राणैरस्त्युपचय इति तत्राप्यविरोधः । मुख्यनित्यतायां स्वातन्त्र्यं भवति । अनेन यावद्विकारमित्यादियुक्तयो गृहीता भवन्ति ।
गुर्वर्थदीपिका
उपचयात्पूर्वमसमर्थानीत्यस्यास्मिन्सर्गे उपचयेऽपि पूर्वसर्गे उपचयाभावान्न संसारकारणतेति मन्दाशङ्कायां प्रये वियुक्तानां प्रतिसृष्टिकाले उपचयोऽस्तीति ‘सृष्टिकाले विधीयत’ इति श्रुतिः परिहारमाहेत्यर्थः । ‘तेभ्यो भूतानि जज्ञिरे’ इत्यस्याविरोधायाऽऽह अहङ्कारोत्पन्नेति ॥ तत्रापि भूतानामिन्द्रियोत्पन्नत्वेऽपि ।
भावबोधः
अन्यथोत्पत्तिश्रुतिबाहुल्यासम्भवादिति वियदधिकरणीयभाष्यानुसारेणासम्भवादित्ये-तत्प्रकारान्तरेण व्याचष्टे– एतस्माज्जायत इति ॥ श्रुत्यसम्भवोऽपि द्रष्टव्य इति ॥ अनेन ‘आत्मैवेदमग्र आसीत्, स प्राणमसृजत, स प्राणान्’ इत्यादिवचनादनादित्व एव स्पष्टार्थविशेष-श्रुतिविरोधादिति न्यायविवरणमपि व्याख्यातं भवति । प्रतिसृष्टिकालमिति ॥ यस्मिन् प्रलय-कालेऽनुपचयस्तदा न समर्थान्येव । यस्मिंस्तु सृष्टिकाले समर्थानि तदास्त्येवोपचय इत्यर्थः ।
ननु इन्द्रियाणां भूतैरुपचये तैजसाहंकारकार्यत्ववाचि‘तैजसानीन्द्रियाण्याहुः’ इत्यादि प्रमाणविरोध इत्यत आह– अत्राहङ्कारेति ।
ननु तथापि तामसाहंकारे कार्याणां भूतानां ‘प्राणा एवेदमग्र आसुः, तेभ्यो भूतानि जज्ञिरे’ इति भाष्योदाहृतश्रुतौ कथं प्राणकारणकत्वोक्तिरित्यत आह– अहङ्कारोत्पन्नेति । ननु प्रागभावा-प्रतियोगित्वादिरूपसाम्यसम्प्राप्तिरिष्टैवेत्यत आह– मुख्यनित्यतायामिति ॥ अनेनेति ॥ परेण साम्यसम्प्राप्तेरित्यनेनेत्यर्थः ।
भावदीपः
अनुत्पत्तिं पराधीनविशेषावाप्त्यभावरूपानुत्पत्तिं न वक्तीत्यर्थः ॥ मुख्येति ॥ अत्राभिमत-पराधीनविशेषावाप्तिरूपोत्पत्त्यभावरूपाया इत्यर्थः । नन्वत्र कथमसम्भवयुक्तिमात्रेण सयुक्तिकायाः श्रुतेर्गौणत्वं ‘प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम्’ इत्युक्तेरित्यतः ‘आत्मैवेदमग्र आसीत्’ ‘स प्राणमसृजत’ स प्राणानित्यादिवचनादनादित्व एव स्पष्टार्थवद्विशेषश्रुतिविरोधादिति न्याय-विवरणोक्त्या जन्मश्रुतिबलाच्चेति भावेनाह ॥ एतस्मादिति ॥ एतेन न्यायविवरणस्थादिपदेन भाष्योक्तैतस्मादित्यादिश्रुतिग्रह इति सूचितम् । अत्रादिपदेन स प्राणानित्यादि श्रुतिग्रहः । स्मृतौ पूर्वार्धव्यावर्त्यं चोद्यमाह ॥ किं तदिति ॥ प्रलये सूक्ष्मरूपमात्रस्यैव स्थित्यवगमेन तस्य नित्यांशस्य तनीयस्त्वेनानादित्वश्रुतेर्गौणत्वमुक्तं भवति । तृतीयार्धव्यावर्त्यमाह ॥ कथं चेति ॥ द्वितीयार्ध-व्यावर्त्यमाह ॥ प्रत्युतेति ॥ एतेन निरुपादानत्वरूपविशेषशङ्कानिरासार्थं गौणीति पुनर्योगारम्भ इति सूचितम् । तथा निरूपादानत्वोक्तिः सूक्ष्मेन्द्रियाभिप्राया । जन्मश्रुतिरुपचितस्थूलेन्द्रियपरेति भावः । सृष्टिकाल इत्युक्तेः प्रकृतानुपयोगं हृद्याशङ्क्य कृत्यमाह ॥ उपचयादिति ॥ तथा च यदा नोपचितानि प्रलये तदा न समर्थानि यदा तु शक्तानि सृष्टिकाले तदोपचितानीति भावः । तैजसात्तु विकुर्वाणादिन्द्रियाणि दशाभवन्निति द्वितीयस्कन्धादौ तथा विशिष्टकार्यशक्तित्वाद्देवा वैकारिकाः स्मृताः । ‘अतिजाज्वल्यमानत्वात्तैजसानीन्द्रियाण्यपि । तामसानि तु भूतानि यतस्तावदभूत्त्रयम्’ इति द्वितीयस्कन्धपञ्चमाध्यायतात्पर्योक्तपाद्मस्मृत्यादौ च तैजसाहङ्कारकार्यत्वोक्तिविरोधं निराह ॥ अत्रेति ॥
ननु तथापि तामसानि तु भूतानि त्वित्याद्युक्त्या तामसाहंकारकार्याणां भूतानां कथं तेभ्यो भूतानि जज्ञिर इति भाष्योक्तश्रुतौ प्राणकारणकत्वोक्तिरित्यत आह ॥ अहंकारेति ॥ स्मृतौ तृतीयार्धं व्यनक्ति ॥ मुख्यनित्यतायामिति ॥ पराधीनविशेषावाप्त्यभावरूपायामित्यर्थः । स्वातन्त्र्यं च द्वयोर्विरुद्धमिति भावः ॥ अनेनेति ॥ सौत्रासम्भवशब्दार्थविवरणपरेण परेणेत्यर्धेनेत्यर्थः । जन्मश्रुतिबाहुल्यादिरादिपदार्थः । तत्त्वप्रदीपे तु चकाराद्विभक्तशक्तित्वाच्चेत्युत्तरसूत्रे चकारेण सङ्ग्रह उक्तः । एतेन पूर्वसूत्रे तथाशब्देनानुकृष्टानामेव हेतूनामुत्तरसूत्राभ्यां विवरणमिति सूचितम् ।
अभिनवचन्द्रिका
हेतुरुक्त इति ॥ ‘न वियदश्रुतेः’ इति सूत्रोक्तो हेतुः ‘अनादिर्वाऽयमाकाशः’ इति श्रुतिर्गौणत्वोक्त्या उक्तः समर्थित इत्यर्थः ॥ कथमसाविति ॥ ‘प्राणा एवाऽनादयः’ इति श्रुतेर्विद्यमानत्वाद् असौ अश्रुतेरिति हेतुः, इह प्राणविषये, कथं सम्भवतीत्याशङ्कां पूर्वश्रुतिवत्, अस्यापि श्रुतेर्गौणार्थत्वप्रतिपादनेन परिहरत्सूत्रमुपन्यस्य व्याचष्ट इत्यर्थः । यद्यपि ‘तथा प्राणा’ इत्येकेनैव सूत्रेणालम् । ‘अस्ति त्विति’ सूत्रोक्तार्थस्यातिदेशवत् ‘गौण्यसम्भवात्’ इत्यादि सूत्रार्थस्याप्यतिदेष्टुं शक्यत्वात् तथापि अत्र ‘अस्ति तु’ इति सूत्रार्थस्यैवाऽतिदेशः न तु ‘श्रुतेः’ इति हेतोरिति विज्ञायेत, तन्मा विज्ञायीति, ‘गौण्यसम्भवाः’ इति सूत्रं कृतम् । एवमपि ‘अश्रुते’रित्यस्यैवाऽतिदेशः न सर्वस्येति विज्ञायेत तन्मा विज्ञायि । किन्तु सर्वातिदेश इति ज्ञापनाय ‘प्रतिज्ञानुपरोधाच्च’ इति सूत्रं कृतमिति सूत्रद्वयमर्थवदिति । ‘असम्भवात्’ इति सौत्रपदं प्रकारान्तरेण व्याचष्टे – एतस्माज्जायत इतीति ॥ श्रुत्यसम्भवोऽपि सौत्रासम्भवशब्दार्थो द्रष्टव्य इत्यर्थः ॥ प्रलये वियुक्तानामिति ॥ उपचायकभूतैरित्यर्थः ।
ननु ‘तेषां भूतैः’ इति इन्द्रियाणां भूतेषु उपचयकथनमयुक्तम् । ‘तैजसानीन्द्रियाण्याहुः’ इति स्मृतौ अहङ्कारकारणत्वस्य स्मरणादित्यत आह– अत्राहङ्कारेति ॥ अत्र ‘भूतैरुपचय’ इति स्मृतौ अहङ्कारकारणत्वस्याप्यनिषेधलिङ्गेन स्वीकारविज्ञानादविोध इत्यर्थः । अहङ्कारकारण-कत्वस्वीकारेण भूतकारणकत्वस्याविरोधोपपादनमयुक्तम् । अन्योपादानकत्वस्याऽन्योपादानकत्व-विरोधित्वादित्यत आह – अहङ्कारोत्पन्नेति ॥ अङ्कारोत्पन्नानामपि ॥ भूतानां सूक्ष्मप्राणैरुपचयः प्रमाणदृष्टोऽस्तीति तत्राप्युभयोपादानकत्वस्वीकारेऽप्यविरोध इत्यर्थः । ‘सूक्ष्मप्राणैः’ इति विशिंषता तेभ्यो भूतानि जज्ञिरे’ इति भूतानां प्राणजन्यत्वस्य प्रागुक्तत्वाद् इदानीं पुनरिन्द्रियाणां भूतजन्यत्वाभिधानादन्योन्याश्रय इति शङ्का निराकृता । केषाञ्चित् सूक्ष्मप्राणानां भूतोपादानत्वं, तदन्येषान्तु भूतोपचितत्वमित्यङ्गीकारात् । ननु अस्तु मुख्यनित्यत्वं, परेण साम्यसम्प्राप्तिः कुत इत्यत आह– मुख्यनित्यतायामिति ॥ स्वप्राप्यविशेषाणां पराधीनत्वाभावस्य स्वातन्त्र्येणा-विनाभावादिति भावः ॥ अनेनेति ॥ ‘परेण साम्यसम्प्राप्तेः’ इत्यनेनेत्यर्थः । ‘यावद्विकारम्’ इत्यादियुक्तय इति ॥ अल्पशक्तित्वादियुक्तय इत्यर्थः । ततश्चायं प्रयोगः प्राणा उत्पत्तिमन्तः, अल्पशक्तित्वादिति ।
पूर्वक्षस्तु – न प्राणा उत्पत्तिमन्तः, ‘प्राणा एवानादयः’ इति श्रुतेः । न चोत्पत्तावपि श्रुतिरस्तीति वाच्यम् । अनुत्पत्तिश्रुतेः स्पष्टार्थतया निरवकाशत्वेन प्राबल्यात् । ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च’ इति श्रुतेः प्रादुर्भावपरतयापि योजयितुं शक्यत्वादविस्पष्टार्थत्वेन दौर्बल्यात्, प्राणा नोत्पत्तिमन्तः निरुपादानत्वादिति युक्तियुक्तत्वाच्च । न चाऽसिद्धिः ‘नोपादानं हीन्द्रियाणाम्’ इति स्मृतिसिद्धत्वात् । अतः प्रबलश्रुतिविरोधादुत्पत्तिश्रुतिरप्रमाणमेवेति नेश्वरस्य श्रुतिसमन्वयेन जगत्कारणत्वसिद्धिरिति ।
सिद्धान्तस्तु – उत्पत्तिमन्त एव प्राणाः । आकाशस्योत्पत्तिसाधकानां हेतूनामिहापि सद्भावात् । नन्वाकाशोत्पत्तिसिद्ध्यर्थं श्रुत्यभावो हेतुरुक्तः । न चासाविह सम्भवति । श्रुतेर्विद्यमान-त्वादिति चेत्, सत्यम्, अस्ति श्रुतिः, तथापि नासौ मुख्यार्था किन्तु गौणार्था । परमात्मना साम्यप्रसङ्गेन मुख्यार्थाऽसम्भवात्, प्राणा उत्पत्तिमन्तो ऽल्पशक्तित्वादिति युक्तिविरुद्धत्वाच्च । ‘स इदं सर्वमसृजत’ इति प्रतिज्ञाविरोधाच्च । अतः श्रुत्यविरोधेन प्राणानां परमात्मोत्पन्नत्वसिद्धेर् युक्तं श्रुतिसमन्वयेन ब्रह्मणो जगत्कारणत्वमिति सिद्धम् ।
वाक्यार्थमुक्तावली
यद्यपि तथा प्राणा इत्यतिदेशेनैव गौणीत्यादिकं सर्वमुक्तप्रायमन्यथा अस्त्वित्यादि सूत्रेणापि भाव्यम् । तथापि गौण्यसम्भवादित्यत्रोत्पत्तिबाहुल्यसम्भवादित्युक्त्याऽस्त्वित्यादिसूत्रार्थसूचनात् । निरुपादानत्वादिशङ्कानिरासायानादित्वश्रुतिगतिप्रतिपादने आदरमाधायेदं सूत्रं कृतमिति ध्येयम् ।
अन्यथोत्पत्तिश्रुतिबाहुल्यासम्भवादिति वियदधिकरणीयभाष्यानुसारेणासम्भवा-दित्येतत्प्रकारा-न्तरेण व्याचष्टे तस्मादिति ॥ इत्यादीत्यादिपदेनात्मैवेदमग्र आसीत्’ ‘स प्राणमसृजत सप्राणान्’ इत्यादिकं गृह्यते तेन स्पष्टार्थवच्छ्रुतिरिति सिद्धान्तन्यायोऽप्युक्तो भवति ॥ किं तद्गौणा-नादित्वमिति ॥ सूक्ष्मरूपेण नित्यानां पराधीनोपचयभागलाभात्पराधीनविशेषलाभाभावरूपमुख्या-नादित्वाभावाद्गौणमनादित्वमिति परिहाराभिप्रायः । यद्वा सूक्ष्मरूपस्यैकस्यैवानुत्पत्तिरित्यनादित्व-श्रुतेरल्पविषयत्वाद्गौणत्वम् उपचितावयवानामनेकेषां भावाद् उत्पत्तिश्रुतेर्बहुविषयत्वेन मुख्यत्वमिति भावः । तदुक्तं तत्वप्रदीपे । नित्यांशस्य कनीयस्त्वेनानादित्वश्रुतेर्गौणत्वादितरांशस्य महीय-स्त्वेनेतरश्रुतेर्मुख्यार्थत्वादिति ।
उपचयात्पूर्वमपि सम्मतिहेतुत्वे उपचयवैयर्थ्यं तदभावे तदानीं तदभावः स्यादिति वाच्यम् । प्रलये सामर्थ्यानभ्युपगमात् । सृष्टिकाले तदभ्युपगमादिति तदेतदाह ॥ उपचयादिति ॥ प्रतिसृष्टि-कालमुपचये कालक्रमेण संसाराधिक्यं स्यादित्यत आह ॥ प्रलये वियुक्तेति ॥ इन्द्रियाणां भूतैरुपचये तैजसानीन्द्रियाण्याहुरिति वाक्यविरोध इत्यत आह ॥ अत्रेति ॥ तामसाहङ्कारकार्याणां भूतानां कथं तेभ्यो भूतानि जज्ञिर इति प्राणकार्यत्वोक्तिरित्यत आह ॥ अहङ्कारेति ॥ ननु मुख्यनित्यत्वं प्रागभावप्रध्वंसाप्रतियोगितालक्षणमुभयत्र सममेवेति साम्यसंप्राप्तिरिष्टैवेत्यत आह ॥ मुख्यनित्यतायामिति ॥ पराधीनविशेषलाभाभावरूपमुख्यं नित्यतायां स्वतन्त्रं भवति । यथा च परेण साम्यमेवं रूपमनिष्टमित्यर्थः ॥ अनेनेति ॥ गौणीति सूत्रेणेत्यर्थः । असम्भवादित्यंशेन परेण साम्यसंप्राप्त्या मुख्यासम्भवोक्त्या विभक्तशक्तित्वसूचनाय यावद्विकारमित्युक्त्या युक्तिः । स्याच्चैक-स्येत्यत्रोक्तगौणमुख्यत्वापेक्षया एकस्यैवोत्पत्तिमत्वानुत्पत्तिमत्वव्यवस्थाघटकयुक्तिः । उत्पत्तिश्रुत्य-सम्भवोक्त्या अस्त्विति सूत्रोक्तयुक्तिश्चेत्यर्थः ।
वाक्यार्थविवरणं
श्रुतेरिति ॥ प्राणा एवानादय इति श्रुतेरित्यर्थः ॥ अनुत्पत्तिम् ॥ मुख्यामिति शेषः । भूतैरुपचयोपपादनार्थं सृष्टिकाल इत्युक्तमित्याशयेनोपपादयति ॥ उपचयादिति ॥ प्रलये इत्यर्थः ॥ इत्युक्तम् ॥ इत्याशयनोक्तम् । उपचयस्यैव सृष्टित्वेन तस्मिन् सत्युपोद्बलितत्वेन समर्थानि सन्ति संसारकारणानि भवन्तीति भावः । इन्द्रियाणां भूतैरुपचयोक्त्या सृष्टिकाले सूक्ष्मभागावस्थानमेव नास्तीति प्राप्नोति । तथा चानादित्वश्रुतिर्निर्विषयैव स्यादित्यतस्तेषामित्यस्यार्थमाह ॥ वियुक्तांशा-नामिति ॥ सृष्टिकाले पुरुषदेहारम्भकेन्द्रियांशाः प्रलयेऽनेन वियुक्ता सन्तः ये मूलरूपं प्राप्तास्तेषा-मिन्द्रियाणामित्यर्थः । सृष्टिकाल इत्येकवचनेनैतत्सृष्टिकाल एवोपचयो नोत्तरकल्पीयसृष्टिकाल इति प्राप्नोतीत्यत आह ॥ प्रतिसृष्टिकालमितीति ॥ नन्विन्द्रियाणां भूतैरुपचये ‘तैजसानीन्द्रियाण्याहुः’ इति तैजसाहङ्कारकार्यत्ववाचिप्रमाणविरोध इत्यत आह ॥ अत्रेति ॥ अथवा ।
ननु यदि प्रलये वियुक्तांशानामिन्द्रियांशानां भूतैरुपचयरूपा सृष्टिरुच्यते तर्हि सूक्ष्मेन्द्रियाणि सन्त्येव स्युः स्थूलान्यप्यहङ्कृतेः’ इति सूक्ष्मेन्द्रियाणां तैजसाहङ्कारादुपचयोक्तेस्तद्विरोध इत्यत आह ॥ अत्राहङ्कारेति ॥ तथा च तेषां प्रलये वियुक्तांशानां सृष्टिकाल आदौ तैजसाहङ्कारादुपचितानां पश्चाद्भूतैरुपचयो विधीयत इति भाष्ये प्रमाणार्थो द्रष्टव्यः ॥ यद्वा ॥ ‘तैजसात्तु विकुर्वाणा-दिन्द्रियाणि दशाभवन्’ इति द्वितीयस्कन्धे तैजसाहङ्कारकार्यत्वोक्तिविरोध इत्यत आह ॥ अत्राहङ्कारेति ॥ प्रमाण इत्यर्थः । इत्थं हि पौराणिकी प्रक्रिया । सर्वेषामपि तत्त्वानां सूक्ष्मरूपेण नित्यत्वावगमादादौ सूक्ष्मरूपेणावस्थितस्य महत्तत्त्वस्य गुणत्रयैरुपचय एव तस्योत्पत्तिस्तथाऽ-हङ्कारतत्त्वसूक्ष्मभागस्यापि महत्तत्त्वेनोपचय एव तस्योत्पत्तिः । तच्चाहङ्कारतत्त्वं वैकारिकतैजस-तामसभेदेन त्रिविधम् । तत्र मनसः सूक्ष्मरूपस्य वैकारिकाहङ्कारादुपचय एव तस्योत्पत्ति-र्देवतादेहादेश्च स्वरूपेणैवोत्पत्तिः । तथा भूतसूक्ष्माणामपि तामसाहङ्कारादुपचय एव भूता-नामुत्पत्तिः । तथा च तैजसाहङ्कारात्किञ्चिदुपचितानामिन्द्रियाणां तामसाहङ्कारात् पश्चादुत्पन्नैरत एव किञ्चित् स्थूलैरपि भूतैः पुनरुपचयो भवति । ततश्चातिदृढानि भवन्तीति तैजसाहङ्कार-कार्यत्वस्यात्रानिषेधादविरोध इत्यर्थः । यथोक्तं भागवततात्पर्ये । ‘सूक्ष्मेन्द्रियाणि सन्त्येव स्युः स्थूलान्यप्यहङ्कृतेः । तेषां भूतैरुपचयः सृष्टिकाले विधीयत’ इति । अहङ्कृतेस्तेजसाहङ्कारादित्यर्थः । नन्वथापि तामसाहङ्कारकार्याणां भूतानां ‘प्राणा एवेदमग्र आसुस्तेभ्यो भूतानि’ इति प्राणशब्द-वाच्येन्द्रियेभ्यः कथमुत्पत्तिरुच्यतेऽतो विरोध इत्यत आह ॥ अहङ्कारेति ॥ तामसाहङ्कारेत्यर्थः ॥ सूक्ष्मप्राणैः ॥ सूक्ष्मेन्द्रियैः । ननु तैजसाहङ्कारकार्याणामिन्द्रियाणां भूतैरुपचयमुक्त्वा तेषां पुनः प्राणैरुपचयकथनेऽन्योन्याश्रयस्स्यादिति चेत् । उच्यते येषां तैजसाहङ्कारोप्तन्नेन्द्रियाणां भूतैरुपचयस् तैरेव पुनर्भूतानामुपचये हि स स्यात् । न चैवम् । किंनामाहङ्कारोत्पन्नभूतानां सूक्ष्मेन्द्रियैरेव । एवं च सूक्ष्मप्राणैरुपचितैर्भूतैस्तैजसाहङ्कारोत्पन्नेन्द्रियाणामुपचयकथनेन व्यक्तिभेदान्नान्योन्याश्रय इति ।
ननु परेणेति भाष्ये यदि प्राणानां सर्वथोत्पत्त्यभावरूपमुख्यनित्यता स्यात् तर्हि परेण साम्यं स्यादित्यापादने प्रागभावप्रतियोगित्वरूपसाम्यमिष्टमेवेत्यतः परेण साम्यं व्याख्याति ॥ स्वातन्त्र्य-मिति ॥ तथा च स्वातन्त्र्यरूपसाम्यसम्प्राप्तेरित्यर्थो द्रष्टव्यः ॥ युक्तय इति ॥ ‘प्राणाद्या उत्पत्तिमन्तः । विकारित्वात्’ इत्यादिप्रागुक्तयुक्तय इत्यर्थः ॥ अनेनेति ॥ उक्ततर्के विपर्यय-पर्यवसानेऽस्वातन्त्र्यलाभात् तेन चाल्पशक्तित्वलाभादिति भावः । नित्यानीत्यनेन सूक्ष्मरूपेण नित्यत्वरूपं गौणानादित्वं, परेणेत्यनेन मुख्यासम्भवस्तेषामित्यनेनोपादानं चोक्तं भवतीति ध्येयम् ।
वाक्यार्थमञ्जरी
प्राणानादित्वश्रुतिः सूक्ष्मरूपेणानादित्वरूपगौणानादित्वपरा कुतः मुख्यानादित्वासम्भवात्तथा तदुत्पत्तिश्रुतिबाहुल्यासम्भवादित्यर्थः । अन्यथोत्पत्तिश्रुतिबाहुल्या सम्भवादिति वियदधिकरणीय-भाष्यानुरोधेनाह ॥ एतस्माज्जायत इति ॥ नन्विन्द्रियाणामुपचयं विना संसारकारणत्वमस्ति न वा नाद्य उपचयवैयर्थ्याद् द्वितीये आह ॥ उपचयादिति ॥ प्रलये वियुक्तानामिति ॥ प्रलयकाले स्वोपचयकारणभूतैर्वियुक्तानामिन्द्रियाणां प्रतिसृष्टिकालं प्राग्वियुक्तभूतैः पुनरुपचय इत्यर्थः । तथा च यस्मिन्प्रलयकालेऽनुपचयस्तदा संसारकारणत्वं नास्त्येव यदा सृष्टिकाले संसारकारणत्वं तदोपचयोस्त्येऽवेति नोक्तदोष इति भावः । नन्विन्द्रियाणां भूतैरुपचयाङ्गीकारोऽनुपपन्नस् तथात्वे तैजसानीन्द्रियाण्याहुरिति तेषां तैजसाहंकारकार्यत्वप्रतिपादकप्रमाणविरोधादित्यत आह ॥ अत्रा-हङ्कारेति ॥ तैजसाहंकारोत्पन्नानामेवेन्द्रियाणां भूतैरुपचयमात्रमुच्यते न त्वहङ्कारकार्यत्वं निषिध्यत इत्यर्थः । नन्वथापि ‘प्राणा एवेदमग्र आसुस्तेभ्यो भूतानि जज्ञिरे’ इति भूतानामिन्द्रियजन्यत्व-कथनमयुक्तम् । तथात्वे तामसानि तु भूतानीति तेषां तामसाहंकारकार्यत्वप्रतिपादकप्रमाण-विरोधादित्यत आह ॥ अहंकारोत्पन्नेति ॥ अन्योन्याश्रयवारणाय सूक्ष्मेत्युक्तं केषाञ्चिदेव सूक्ष्मप्राणानां भूतोपचयकारणत्वं तदन्येषां भूतोपचितत्वमिति व्यक्तिभेदेनान्योन्याश्रयत्वाभावादिति भावः । ननु प्रागभावाप्रतियोगित्वादिना साम्यसम्प्राप्तिरिष्टैवेत्यत आह ॥ मुख्यनित्यतायामिति ॥ पराधीनविशेषतादिराहित्यादेरेव मुख्यनित्यताशब्दार्थत्वादिति भावः ॥ अनेनेति ॥ परेण साम्य-सम्प्राप्तेरिति स्वातन्त्र्यमापादयता तेषामस्वातंत्र्यसूचनेनाल्पशक्तित्वादियुक्तयोऽपि सङ्गृहीता इत्यर्थः ।