१९ अदृष्टाधिकरणम्

ॐ अदृष्टानियमात् ॐ

१९. अथ अदृष्टाधिकरणम्

सूत्रभाष्यम्

प्रतिबिम्बानां मिथो वैचित्र्ये कारणमाह –

॥ ॐ अदृष्टानियमात् ॐ ॥ ५१ ॥

अनादिविद्याकर्मादिवैचित्र्याद्वैचित्र्यम् ।

तत्त्वप्रदीपिका

अनादिविद्याविद्याकर्मतत्संस्कारवैचित्र्याद्वैचित्र्यम् । तच्च स्वाभाविकम् । अनादीत्युक्तत्वात् ।

तत्त्वप्रकाशिका

अत्र ब्रह्मणि श्रुतिसमन्वयसिद्ध्यर्थं जीवस्येश्वरप्रतिबिम्बत्वविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । हरौ सर्वश्रुतीनां समन्वयो निरूपितः । तत्र जीवप्रतिबिम्बताविषयश्रुतीनां विरोधेनाप्रामाण्ये समन्वयानुपपत्तिरित्यसौ निरसनीय एव । प्रकृतो जीव एव विषयः । भगवत्प्रति-बिम्बो न वेति सन्देहः । श्रुतिविगानं सन्देहबीजम् । ‘रूपं रूपम्’ इति श्रुतिरेका । प्रकरणवशा-द्विरुद्धश्रुत्यन्तरमनुमीयते । न जीवा भगवत्प्रतिबिम्बा इति पूर्वः पक्षः । तथा श्रुतेर्विद्यमानत्वात् । न च प्रतिबिम्बत्वश्रुतिविरोधः । अन्यश्रुतेः सयुक्तिकत्वात् । अस्ति खल्वयं जीवानामन्योन्यं भेदः सुरनरतिर्यगादिरूपः । न चैकप्रतिबिम्बानां मिथो वैचित्र्यं सम्भवति । भवति चेद्भवत्वेको भगव-त्प्रतिबिम्बः । तदयं प्रयोगः । न जीवा एकप्रतिबिम्बा भेदवत्त्वाद् घटपटवदिति । अतः सयुक्तिक-श्रुतिविरोधात्प्रतिबिम्बत्वश्रुतिरप्रमाणमिति नोक्तसमन्वयसिद्धिरित्येवं प्राप्ते सिद्धान्तयत्सूत्रमवतारयति ॥ प्रतिबिम्बानामिति । जीवानां प्रतिबिम्बत्वमभ्युपेत्य तेषां वैचित्र्ये कारणान्तरमाह सूत्रकार इत्यर्थः । सूत्रं व्याचष्टे ॥ अनादीति ॥ न वैचित्र्यान्यथानुपपत्त्या सर्वेषां प्रतिबिम्बत्वाभावो वाच्यः । अशेषजीवानां भगवत्प्रतिबिम्बत्वेऽपि विद्याद्यदृष्टवैचित्र्येण देवदानवमानवादिवैचित्र्यस्यो-पपत्तेः । ‘यथाप्रज्ञं हि सम्भवाः’ इत्यादिश्रुतेः । न चादृष्टवैचित्र्यमेवासम्भावितम् । तस्यापि पूर्वादृष्टवैचित्र्यादुपपत्तेः । तस्याप्येवमनादित्वादिति भावः ।

गुर्वर्थदीपिका

‘प्रकरणवशात्’ इत्यस्य श्रुतिद्वयविरोधपरिहारात्मकपादाख्यप्रकरणवशादित्यर्थः । अस्मि-न्नधिकरणेऽपि श्रुतिविरोधाभावे नेदमधिकरणमस्मिन्पादे निबध्नीयात् । निबबन्ध च सूत्रकारः । अतोऽस्मिन्नप्यधिकरणे विरुद्धा काचित् श्रुतिरनुमीयत इति भावः । इदं च स्पष्टं भाष्य-कृताऽनुक्तत्वादेवोक्तम् । वस्तुतस्तु ‘नायं तस्यापि कश्चन’ इति श्रुतिरेवाप्रतिबिम्बत्वघटिका स्यादित्यतो नासर्वज्ञता भाष्यकारस्येति ज्ञेयम् । अस्ति खल्वयं जीवानामन्योन्यं भेदः । सुरासुरनरतिर्यगादिरूप इत्यत्र सुरत्वं सात्त्विकत्वेनोत्तमजीवत्वम्, असुरत्वं तामसत्वेनाधमजीवत्वं, नरत्वं मिश्रत्वेन मध्यमजीवत्वं, तिर्यक्त्वमभिलापाद्यशक्तत्वेन मन्दजीवत्वम्, आदिपदेन ततोऽप्यतिमन्दस्थिरजीवत्वम्, उक्तदेवादिष्ववान्तरतारतम्यं, सुराणां सुखरूपत्वम्, असुराणां दुःखरूपत्वं, नराणामुभयरूपत्वं, चेत्यादिवैलक्षण्यं भेदपदेन गृह्यते । न चैकप्रतिबिम्बानां मिथो वैचित्र्यमित्यत्र विचित्राकारस्वस्वबिम्बमूर्तिसादृश्येनाऽऽकारवैचित्र्यमात्रसम्भवेऽपि सुखदुःख-नीचोच्चत्वादिस्वभाववैचित्र्ये कारणाभावादिति भावः । भवति चेदित्यत्र कथञ्चित्प्राथमिकः पुरुषो भवति चेत्प्रतिबिम्बो भवतु । ततोऽन्येषां भगवत्प्रतिबिम्बत्वं तत्साम्ये सत्येव स्यान्न तु ततो नीचमध्यमादिरूपत्वे । उक्तविधया मिथो वैचित्र्ये कारणाभावादिति भावः । न जीवा एकप्रति-बिम्बाभेदवत्वाद्घटपटवदित्यत्र दशदर्पणप्रतिफलितैकमुखप्रतिबिम्बेषु भेदवत्त्वहेतोर्व्यभिचारो न शङ्कनीयः । स्वभाववैचित्र्यस्यैव भेदवत्त्वपदेन विवक्षितत्वात् । घटपटवदित्यस्य दर्पणे प्रदृश्यमान-घटपटप्रतिबिम्बवदित्यर्थः । प्रतिबिम्बतामङ्गीकृत्य भेदेनैकप्रतिबिम्बता नेति साधयतो घटपट-प्रतिबिम्बावेव दृष्टान्ततयाऽभिमतौ, न तु घटपटौ । तयोः प्रतिबिम्बत्वस्यैवाभावेनैक-प्रतिबिम्बत्वस्याप्रसक्तप्रतिषेधत्वापातादिति ज्ञेयम् । विद्याकर्मादीति भाष्ये विद्यापदेन तत्त्वज्ञानं, मिथ्याज्ञानं, मिश्रज्ञानं चोच्यते । कर्म पुण्यपापरूपम् । आदिपदेन तत्तद्योग्यतादिकं गृह्यते । तत्तत्स्वरूपाख्योपाधावनादिकालमारभ्योक्तविधया ज्ञानवैचित्र्यात्कर्मवैचित्र्यात्तदुभयनिदानी-भूतयोग्यतावैचित्र्याच्च, दर्पणगतमालिन्यादिदोषवैचित्र्यात्तत्र प्रतिफलितप्रतिबिम्बवैचित्र्यवदुच्चनीच-मध्यमत्वादिस्वभाववैचित्र्यमित्यर्थः । टीकायां विद्याद्यदृष्टेति वदता भाष्योदितं विद्यादिकं सर्वं सूत्रे एकप्रकारतयाऽदृष्टत्वादतीन्द्रियत्वाच्चादृष्टपदेनैव सङ्गृहीतमिति सूचितम् । विद्यादिरूपमदृष्टं विद्याद्यदृष्टमित्यर्थः । वस्तुतस्तु देवानामनादिकालमारभ्य सुकृतित्वेऽसुराणां दुष्कृतित्वे नराणा-मुभयविधत्वे तेष्वप्यवान्तरवैचित्र्ये सर्वाविवादाद्विप्रतिपन्नविद्यायोग्यतयोर् वैचित्र्यानुमापकत्वाच्चा-दृष्टमेव स्वपदेनोदितम् अन्यच्च सूचितं सूत्रकृतेति ज्ञेयम् । कस्तूरीप्रतिबिम्बे परिमादर्शनाद्भगवत आनन्दरूपत्वे सर्वेषामप्यानन्दरूपतेति न शङ्का नापि समाधानं जलादिगतप्रतिबिम्बेष्व-प्रतिफलितसूर्योष्णत्वस्य सूर्यकान्तोपलप्रतिफलितप्रतिबिम्बे उपाधिमहिम्ना सूर्योष्णत्वस्यापि प्रतिफलनवदयोग्यजीवेष्वप्रतिफलितानन्दादेरपि योग्यजीवाख्यप्रतिबिम्बेषु स्वरूपभूतोपाधिमहिम्ना प्रतिफलनमिति विवेको द्रष्टव्यः ।

भावबोधः

अत्रानन्तरसङ्गतिः ‘आभास एव’ इति पूर्वसूत्रोक्तप्रतिबिम्बभूतजीवानाम् इत्यर्थकप्रतिबिम्बा-नामिति भाष्य एव स्पष्टं प्रतीयते ॥ भगवदिति ॥ अत्र जीवः किं भगवत्प्रतिबिम्बो न भवत्युत भवतीति चिन्ता । तदर्थं रूपमिति श्रुतिर्वैचित्र्यरूपयुक्त्योपोद्बलितयाऽनुमित्याऽप्रतिबिम्बत्वश्रुत्या बाध्यत उत नेति । तदर्थं प्रतिबिम्बभूतानां जीवानां वैचित्र्यरूपा युक्तिरेकभगवत्प्रतिबिम्बत्वे किं नोपपद्यत उतादृष्टादिवैचित्र्यरूपप्रकारान्तरेणोपपद्यत इति ॥ प्रकरणवशादिति ॥ श्रुतीनां परस्परविरोधपरिहारात्मकपादरूपप्रकरणवशात् श्रुत्यन्तरं प्रतिबिम्बत्वाभावप्रतिपादकमनुमीयत इत्यर्थः । यद्यपि ‘नैवांशो न सम्बन्धः’ इति प्रत्यक्षश्रुतिरस्ति; तथापि प्रतिरूपपदोपेतत्वेन स्पष्टं प्रतिबिम्बत्वप्रतिपादक ‘रूपं रूपम्’ इति श्रुतिवत् स्पष्टप्रतिबिम्बत्वाभावप्रतिपादकप्रत्यक्ष-श्रुत्यभावाभिप्रायेणैवमुक्तमिति ज्ञातव्यम् । वैचित्र्यमनाभासत्वकारणमिति न्यायविवरणोक्तयुक्तिं विवृणोति– अस्ति खल्विति ॥ जीवानां सामान्यत आभासत्वेऽपीति न्यायविवरणाभिप्रायमाह– अशेषजीवानां भगवत्प्रतिबिम्बत्वेऽपीति ॥ अदृष्टस्य विद्याकर्मादिरूपस्यानियमात् ‘वैचित्र्या-दिति’ सूत्रव्याख्यानपरमनादीत्यादिभाष्यं व्याचष्टे– विद्यादृष्टवैचित्र्येणेति ॥ अनेन विशेषादृष्टाद्वैचित्र्योपपत्तेरिति न्यायविवरणमित्युक्ततात्पर्यकं भवति ।

भावदीपः

भाष्ये श्रुतिविगानानुक्तेः कथमेतदित्यत आह ॥ रूपं रूपमिति ॥ प्रकरणेति ॥ न सम्बन्ध इत्यतीताधिकरणोदाहृतबिम्बप्रतिबिम्बभावरूपसम्बन्धनिषेधकं श्रुत्यन्तरमिह भाष्ये सन्देहबीज-त्वेनोदाहृतमित्यनुमीयते । सन्देहबीजत्वेन श्रुतिविगानोक्तेः पूर्वाधिकरणभाष्येषु प्रकृतत्वादित्यर्थः । प्रतिरूपो बभूवेति न सम्बन्ध इति श्रुतिविगानं सन्देहबीजमित्येव वाच्ये एवमुक्तिर्भाष्यानुक्तं श्रुतिविगानवचनं निर्बीजमिति शङ्काव्युदासाय तथैव प्रस्तावादिति युक्तिसूचनाय । एवमन्यत्रा-प्यूह्यमिति सूचनाय चेति ॥ तथा श्रुतेरिति ॥ न सम्बन्धम् इति श्रुतेरित्यर्थः । वैचित्र्यमनाभासत्वे कारणमित्यन्यत्रोक्तयुक्तिं हेत्वसिद्धिनिरासपूर्वं व्यनक्ति ॥ अस्ति खल्विति ॥ भेदो वैचित्र्यम् । भेदवत्त्वाद् वैचित्र्यवत्त्वादित्यर्थः ॥ अत इति ॥ यतो घटादिवन्मिथो भेदवत्त्वेनैकप्रतिबिम्बत्वायोगो न सम्बन्ध इति श्रुतिश्चास्ति अत इत्यर्थः । प्रतिबिम्बत्वस्यैवासिद्धेः कथं तद्वैचित्र्ये कारणोक्ति-रित्यतो व्याचष्टे ॥ जीवानामिति ॥ बिम्बवैचित्र्यभ्रान्तिं निराह ॥ कारणान्तरमिति ॥ बिम्बवैचित्र्यादन्यदेव अदृष्टादिवैचित्र्यरूपमित्यर्थः । बिम्बसामर्थ्यरूपं तु कारणं स्थानविशेषा-त्प्रकाशादिवदित्यत्र भक्तिपादे वक्ष्यत इति भावः । जीवानां सामान्यत आभासत्वेऽपि विशेषादृष्टा-द्वैचित्र्योपपत्तेरित्यन्यत्रोक्त्यनुरोधेन भाष्यं हेतुत्वेन व्याकुर्वन्साध्यमाह ॥ न वैचित्र्येति ॥ एतेन सूत्रे आभास एवेत्यनुवृत्तिः सूचिता । अत एव पूर्वसूत्रे प्रथमान्तनिर्देशः ॥ इत्यादिश्रुतेरित्यादि । ऐतरेये आदिपदेन च रमणीयचरणरमणीयां योनिमापद्यन्त इत्यादेर्ग्रहः । अनादीत्युक्तिसाफल्यं व्यनक्ति ॥ न चादृष्टेत्यादि ॥

अभिनवचन्द्रिका

अत्र ब्रह्मणीति ॥ ननु – इदं सूत्रत्रयं पूर्वाधिकरणशेषो नाधिकरणान्तरम् । ‘आभास एव च’ इति पूर्वसूत्रोक्तप्रतिबिम्बत्वे मिथो वैचित्र्यानुपपत्तिरूपबाधकोद्धारमात्रस्येह करणात्, साध्यनिर्देशाभावाच्च । एवमपि अस्याऽधिकरणान्तरत्वे ‘प्रकाशादिवत्’ इत्यस्याप्यधिकरणाऽन्तरत्वं स्यादिति चेत्, सत्यमेवं तथापि तदधीनत्वे सति तत्सदृशत्वरूपप्रतिबिम्बत्वे बाधकस्यैवाभावात् कृत्वा चिन्तया प्रवृत्तमिदं सूत्रत्रयम् । ‘प्रकाशादिवन्नैवं परः’ इत्यादि सूत्रवन् न पूर्वाधिकरणशेषो युक्त इति सूचनाय, अधिकरणान्तरं कृतम् । अत एव टीकायां ‘जीवानां प्रतिबिम्बत्वमभ्युपेत्य तेषां वैचित्र्ये कारणमाह’ इत्युक्तम् ॥ रूपं रूपमित्येकेति ॥ इतः परं न सम्बन्धो नापेक्ष्यो जीवः परस्येत्यपरे’ति वाक्यं लेखकदोषाद् उच्छिन्नमिह द्रष्टव्यम् । यद्यपि अनंशत्वश्रुतेर्गतिरुक्ता, तथापि ‘न सम्बन्ध’ इत्यस्य गतेरनुक्तत्वाद् युक्ता संदेहबीजता । अवश्यं चैरदेवं विज्ञेयम् । ‘रूपं रूपम्’ इत्येकां श्रुतिमुदाहृत्य, श्रुत्यन्तरानुदाहरणे कारणाभावात् । अत्रैव ‘प्रकरणवशाद् विरुद्धं श्रुत्यन्तरमनुमीयत’ इति वाक्यं प्रक्षिप्तम् । अवश्यं चैतदेवं विज्ञेयम् । श्रुतेरपि प्रत्यक्षसिद्धत्वेन अनुमितत्वोक्त्ययोगात् । न च अप्रतिबिम्बत्वप्रतिपादकश्रुतेरप्रत्यक्षत्वाद् अनुमितत्वोक्तिरिति वाच्यम् । प्रत्यक्षश्रुतेः प्रबलत्वेन अनुमितश्रुत्या सन्देहपूर्वपक्षोक्त्ययोगात् । अस्मिन्पादे अस्याधिकरणस्य प्रासङ्गिकत्वेन पादे निवेशमात्रेण विरुद्धश्रुत्यनुमानायोगाच्च । अस्मदादीन्प्रति श्रुतेरप्रत्यक्षत्वेऽपि, सर्वज्ञत्वाद् भाष्यकारस्य सा तत्प्रत्यक्षैवेति तेन वक्तव्यत्वाच्च । न हि जानन्नपि भाष्यकारो ऽवश्यमुदाहर्तव्यामपि श्रुतिं नोदाजहारेति सम्भवति । अनुदाहरणे कारणाभावात् ।

चन्द्रिकाभावबोधयोस्तु गङ्गाजलानुप्रविष्टक्षुद्रनदीजलवत् तद्वाक्यं सेव्यमेवेत्याशयेन व्याख्यातम् ॥ कारणान्तरमाहेति ॥ अत्रान्तरशब्दः प्रक्षिप्तः । मूलकोशेषु अदर्शनात्, कारणमाहेति यथावस्थितभाष्ये अनुपपत्त्यभावेन अन्तरशब्दमेलने कारणाभावाच्च ॥ भगवत्प्रतिबिम्बत्वेऽपीति ॥ प्रतिबिम्बत्वाङ्गीकारेऽपि न वैचित्र्यानुपपत्तिः । दर्पणाद्युपाधिगतमालिन्यादिदोषवशाद् एकप्रतिबिम्बेष्वपि प्रतिमुखेषु श्यामत्वादिवैचित्र्यवद् धर्माधर्माद्यागंतुककारणवैचित्र्येण जीवेष्वपि वैचित्र्यसम्भवादिति भावः ।

वाक्यार्थमुक्तावली

जीवेश्वरप्रतिबिम्बत्व इति ॥ पूर्वसूत्रोक्तेति पूरणीयम् । तेनान्तरसङ्गतिः ॥ भगवदिति ॥ जीवो भगवत्प्रतिबिम्बो न वेति चिन्ता । तदर्थं जीवस्य भगवत्प्रतिबिम्बत्वश्रुतिः किमेकं ब्रह्मप्रतिबिम्बवत्वे वैचित्र्ययोग इति युक्त्यनुगृहीता तया प्रतिबिम्बत्वाभावश्रुतिरबाधितोत नेति । तदर्थं बिम्बस्यैकत्वेऽप्यदृष्टादिवैचित्र्याद्वैचित्र्यं युज्यते न वेति ॥ प्रकरणादिति ॥ श्रुतिद्वय-विरोधपरिहारस्यात्र पादे प्रसक्तत्वादित्यर्थः । नैवांशो न सम्बन्ध इत्यस्येष्टत्वादनुमीयत इत्युक्तम् । प्रतिबिम्बानां मिथो वैचित्र्ये कारणमाहेति सूचितं वैचित्र्यमित्युक्तपूर्वपक्षमाह– भवति चेदिति ॥ भेदवत्वादिति वैजात्यवत्वादित्यर्थः । तेनैकप्रतिबिम्बेष्वनेकोपाधिवशादनेकेषु न व्यभिचारः । प्रतिबिम्बस्याक्षिप्तत्वात्तत्र मिथो वैचित्र्ये कारणनिरूपणमयुक्तमित्यत आह ॥ जीवानामिति ॥ अभ्युपेत्य रूपं रूपमिति श्रुत्या सिद्धवत्कृत्य तर्ह्येकबिम्बप्रतिबिम्बानां वैचित्र्यं निष्कारणं प्रसज्यते बिम्बवैचित्र्यरूपकारणाभावादित्यतः कारणान्तरमाहेत्यर्थः । एतेन विशेषकारणमित्युक्तन्यायो विवृतः । केचित्तु तदधीनत्वे सति तत्सदृशत्वरूपप्रतिबिम्बत्वे बाधकस्यैवाभावात् प्रतिफलन-रूपप्रतिबिम्बत्वमभ्युपेत्य तत्र बाधकपरिहाराय प्रतिबिम्बवैचित्र्ये कारणमाहेत्यर्थः । कारणमाहेत्येव पाठ इति चाहुः । अन्ये तु ईशशक्तेरेव कारणत्वात्कारणान्तरमाहेत्यन्तरशब्दप्रयोग इत्याहुः । सूत्रे ज्ञ आभास एवचेत्यन्वेति । अनुवर्तितसूत्रे चोऽप्यर्थस्तथापीत्यर्थे । अनियमादित्येतद्बुध्या विविच्यावर्तते । तस्य चाभास एव इत्यनेन षष्ठीबहुवचनान्ततया विपरिणतेनान्वयः । जीवाः परस्परप्रतिबिम्बा एव न त्वप्रतिबिम्बा अशेषजीवानां भगवत्प्रतिबिम्बत्वेऽपि प्रवाहतोऽनादि-विद्याकर्मसंस्काररूपादृष्टस्यानियमाद् वैचित्र्यादनियमात् । प्रतिबिम्बानां वैचित्र्यसम्भवादिति सूत्रार्थमभिप््रोत्य भाष्यभावमाह ॥ न वैचित्र्येत्यादिना ॥

तत्त्वसुबोधिनी

अनन्तरसङ्गतिराभास एवेति पूर्वसूत्रोक्तप्रतिबिम्बभूतजीवानामित्यर्थकप्रतिबिम्बानामिति भाष्ये एव स्पष्टं प्रतीयते ॥ प्रकरणवशाद् विरुद्धश्रुत्यन्तरमनुमीयत इति ॥ ‘न सम्बन्ध’ इत्यती-ताधिकरणोदाहृतं बिम्बप्रतिबिम्बभावरूपसम्बन्धनिषेधकं श्रुत्यन्तरमिह भाष्ये सन्देहबीजत्वे-नोदाहृतमिति अनुमीयते । सन्देहबीजत्वेन श्रुतिविगानोक्तेः पूर्वाधिकरणभाष्ये प्रकृतत्वादित्यर्थः । यद्वा श्रुतीनां परस्परविरोधपरिहारात्मकपादरूपप्रकरणवशात् श्रुत्यन्तरं प्रतिबिम्बत्वाभाव-प्रतिपादकमनुमीयत इत्यर्थः । यद्यपि न सम्बन्ध इति प्रत्यक्षश्रुतिरस्ति तथापि रूपं रूपमिति प्रतिबिम्बत्वप्रतिपादकस्पष्टश्रुतिवत् स्पष्टप्रतिबिम्बत्वाभावप्रतिपादक श्रुत्यभावाभिप्रायेणैवमुक्तमिति ध्येयम् ॥ अन्यश्रुतेरिति ॥ प्रतिबिम्बत्वाभावबोधकश्रुतेर् वैचित्र्यानुपपत्तिरूपयुक्तियुक्तत्वादित्यर्थः । तामेवोपपादयति ॥ अस्तीति ॥ अस्तु भेदस् तत् किमित्यत आह ॥ न चेति ॥ तथा च वैचित्र्यान्यथानुपपत्या अनेकेषां नैकप्रतिबिम्बत्वमिति भावः । अस्तु प्रतिबिम्बत्वं तथापि नानेकेषामित्याह ॥ भवति चेदिति ॥ अदृष्टस्येत्यादिभाष्यं व्याचष्टे ॥ विद्यादीति ॥ कथमनेन पूर्वादृष्टोपयोगः समर्थित इत्यत आह ॥ दोषेति ॥

वाक्यार्थविवरणम्

प्रकरणवशादिति ॥ परस्परश्रुतिविरोधपरिहारप्रकरणवशादित्यर्थः ॥ तद्विरुद्धश्रुत्यन्तरम् ॥ प्रतिबिम्बत्वाप्रतिपादकमिति यावत् । रूपं रूपमिति श्रुतिबलात् प्रतिबिम्बत्वमेव वक्तव्यमित्याग्रह-श्चेत्तत्राह ॥ भवति चेदिति ॥ प्रतिबिम्बो भवति चेदित्यर्थः । वैचित्र्याभावादिति भावः । सूत्रे वैचित्र्यवाची अनियमशब्दः । नियमो नामैकप्रकारत्वम् । अवैचित्र्यमिति यावत् । अनियमो नामानेकप्रकारत्वम् । वैचित्र्यमिति ध्येयम् ॥ यथाप्रज्ञम् ॥ योग्यतानुसारेणेत्यर्थः । कारणाभावादिति भावः ॥ वैचित्र्यस्य ॥ सुरनरादिरूपप्रतिबिम्बवैचित्र्यस्य ।

वाक्यार्थमञ्जरी

श्रुतिविगानमेव दर्शयति ॥ रूपं रूपमिति ॥ प्रकरणवशादिति ॥ श्रुतीनां परस्पर-विरोधपरिहारात्मकपादरूपप्रकरणवशात् श्रुत्यन्तरं प्रतिबिम्बत्वाभावप्रतिपादकमनुमीयत इत्यर्थः । यद्यपि नैवांशो नैव सम्बन्ध इत्यादिप्रत्यक्षश्रुतिरस्ति तथापि तस्याः स्पष्टं प्रतिबिम्बत्वाभाव-प्रतिपादकत्वाभावादेवमुक्तमिति ध्येयम् । भेदः वैचित्र्यम् एवमग्रेऽपि ॥ भवत्वेक इति ॥ तथा च श्रुत्यन्तरविरोधादिति भावः । जीवानामीश्वरप्रतिबिम्बत्वेऽप्यन्योन्यवैचित्र्यं सम्भवति कुतो ऽदृष्टानां योग्यतादीनामनियमाद्वैचित्र्यादित्यर्थः ॥ कारणान्तरमिति ॥ पूर्ववाद्युक्तैकप्रतिबिम्बत्वा-भावरूपनिमित्तं विना निमित्तान्तरमित्यर्थः ।


ॐ अभिसन्ध्यादिष्वपि चैवम् ॐ

सूत्रभाष्यम्

॥ ॐ अभिसन्ध्यादिष्वपि चैवम् ॐ ॥ ५२ ॥

इच्छाद्वेषसुखदुःखादिवैचित्र्यं चादृष्टादेव । चशब्देन प्रतिक्षणवैचित्र्यं च ।

तत्त्वप्रकाशिका

किं वैचित्र्यस्यादृष्टकारणकल्पनया रागद्वेषमोहादीनां दोषाणामेव तन्निमित्तत्वोपपत्तेरित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे ॥ अभिसन्धीति ॥ न दोषवैचित्र्यादेतद्वैचित्र्यं वाच्यम् । तस्यापि सादित्वेन कारणगवेषणेऽदृष्टस्यैव ग्राह्यत्वादिति भावः । पूर्वदोषवैचित्र्यादुत्तरोपपत्तौ किमदृष्टेनेत्यत आह ॥ च शब्देनेति ॥ सङ्गृहीतमिति शेषः । दोषवैचित्र्यस्यादृष्टवैचित्र्यं विना जीववैचित्र्य-निमित्तत्वे तदभावेऽप्येकस्मिन्पुंसि प्रतिक्षणवैचित्र्यं न स्यात् । अस्ति चैतदतस्तदन्यथानुपपत्त्याऽ-दृष्टमेव कारणं ग्राह्यमिति भावः ।

गुर्वर्थदीपिका

अभिसन्धिपदेन रागरूपेच्छा गृह्यते । आदिपदेन द्वेषसुखदुःखादिकं गृह्यत इति भावेनाऽऽह इच्छा द्वेष इति भाष्यम् । अभि स्वेष्टसाधनमन्नपानादिकमभिमुखीकृत्य मध्ये मध्ये सन्धीयत इति व्युत्पत्त्याऽपि रागादेः कादाचित्कत्वसूचनायेच्छेत्यल्पाक्षरपदं नोपादत्त सूत्रकारः । तदभावेऽ-प्येकस्मिन् पुंसि प्रतिक्षणवैचित्र्यं न स्यादित्यस्य तदभावे रागद्वेषादिदोषाभावदशायामेकस्मिन्पुंसि जितमनस्के योगीश्वरे प्रतिक्षणवैचित्र्यं देहोपचयापचयादिकमित्यर्थः ।

भावदीपः

उक्तशङ्कानिरासाप्रतीतेर्भाष्यभावोक्त्या तां निराह ॥ न दोषेत्यादि ॥

वाक्यार्थमुक्तावली

तटस्थः शङ्कते किं वैचित्र्यस्येति ॥ न च विद्याया अदृष्टसामग्रीत्वात्तत्कथमदृष्टत्वमिति वाच्यम् । यथाप्रतिज्ञं सम्भवा इत्युक्तेः पूर्वभावीयप्रतिज्ञायाः सुरनरादिभवनहेतुत्वेन कार्यदशाया-मदृष्टत्वात् । रागादिदोषाणान्तु योऽस्मिन् भवे रागद्वेषमोहदुःखादिप्रचुरोऽल्पसुखवान् स तिर्यक् । यस्तु रागाद्यप्रचुरः समसुखः स नरः । यस्त्वल्परागाद्याभासः संपूर्णसुखः ससुर इति । रागादि-वैचित्र्यस्य सुरादिवैचित्र्यप्रयोजकत्वोपपत्तेः । सुखस्य दोषत्वं वैषयिकत्वेन छत्रिन्यायेन वा विद्याया अदृष्टत्वोक्तिरपि छत्रिन्यायेन वा घटनीया । अभिसंध्यादिषु अभिसन्धिरिच्छा ॥ रागद्वेषमोहादि-विशेषेष्वप्येवं वैचित्र्यम् । चशब्दात्प्रतिक्षणवैचित्र्यं च । अदृष्टानियमात् । न केवलमाभास इत्यपिपदमिति सूत्रार्थं हृदि कृत्वाह ॥ न दोषेति ॥ प्रतिक्षणवैचित्र्यमिति ॥ क्षणादयः क्षणिका इत्युक्तरीत्येति भावः ।

वाक्यार्थविवरणं

सूत्रे । अभिसन्धिः । रामः । अदृष्टस्यैवेति ॥ अदृष्टवैचित्र्यस्यैव कारणतया ग्राह्यत्वादित्यर्थः ॥ पूर्वदोषेति ॥ पूर्वपूर्वरागादिरूपदोषवैचित्र्यादुत्तरोत्तररागादिवैचित्र्योपपत्तौ किमदृष्टवैचित्र्य-कल्पनयेत्यर्थः ॥ आहेति ॥ व्यतिरेकव्यभिचारान्न तस्य हेतुत्वमित्याहेत्यर्थः । तदभावेऽपि ॥ दोषवैचित्र्याभावेऽपि ॥ एकस्मिन्निति ॥ अविचित्ररागादिमत्येकस्मिन्नित्यर्थः ॥ प्रतिक्षणेति ॥ उच्चनीचत्वादिरूपवैचित्र्यमित्यर्थः ।

वाक्यार्थमञ्जरी

इच्छादिष्वपि एवं वैचित्र्यमदृष्टवैचित्र्यादेवेत्यर्थः ॥ उत्तरेति ॥ उत्तरदोषवैचित्र्यादेवेत्यर्थः । तदभावे दोषवैचित्र्याभावे ।