१८ अंशाधिकरणम्

ॐ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ

१८. अथ अंशाधिकरणम्

सूत्रभाष्यम्

‘अंशा एव हीमे जीवा अंशी हि परमेश्वरः ।

स्वयमंशैरिदं सर्वं कारयत्यचलो हरिः’ ॥

इति गौपवनश्रुतौ अंशत्वं जीवस्योपलभ्यते ।

‘नैवांशो न सम्बन्धो नापेक्ष्यो जीवः परस्य ।

तथाऽपि तु यथायोगं फलदः प्रभुरेकराट् ।

न नियम्यः स कस्यापि स सर्वस्य नियामकः’ ॥

इति च भाल्लवेयश्रुतौ ।

अतो ब्रवीति –

॥ ॐ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ ॥४३॥

‘मां रक्षतु विभुर्नित्यं पुत्रोऽहं परमात्मनः’ । ‘अवः परेण पितरं यो अस्यानुवेद पर एनावरेण’ (ऋ.सं. १-१६४-१८) । ‘यस्तद्वेद स पितुष्पिताऽसत्’ (म.ना.उ. २-४) । ‘यस्ता विजानात्स पितुष्पिताऽसत्’ (ऋ.सं. १-१६४-१६) ।

‘द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।

तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति’ ॥ (मुं.उ.३-१-१)

इत्यादिना नानाव्यपदेशादंशो जीवः । तथा च पाराशर्यायणश्रुतिः –

‘अंशो ह्येष परस्य योऽयं पुमानुत्पद्यते च म्रियते च नाना ह्येनं व्यपदिशन्ति पितेति पुत्रेति भ्रातेति च सखेति च’ इति । ‘अन्यः परोऽन्यो जीवो नासावस्य कुतश्चन । नायं तस्यापि कश्चन’ इत्यन्यथा च काषायणश्रुतिः । ‘ब्रह्म दाशा ब्रह्म क्रितवाः, ब्रह्मैवेमे दाशा’ इत्यभेदेनाप्येकेऽधीयते । तथा चाग्निवेश्यश्रुतिः – ‘अंशो ह्येष परस्य भिन्नं ह्येनमधीयिरेऽभिन्नं ह्येनमधीयिर’ इति । वाराहे च–

‘पुत्रभ्रातृसखित्वेन स्वामित्वेन यतो हरिः ।

बहुधा गीयते वेदैर्जीवोंऽशस्तस्य तेन तु ॥

यतो भेदेन तस्यायमभेदेन च गीयते ।

अतश्चांशत्वमुद्दिष्टं भेदाभेदौ न मुख्यत’ ॥ इति ।

तत्त्वप्रदीपिका

‘नानाव्यपदेशः’ पितृपुत्रत्वादिनानाप्रकारसम्बन्धव्यपदेशः । ‘अवः परेण’ इत्यस्यायमर्थः । अवो ऽवरः जीव इति यावत् । योऽवरो ऽस्य स्वस्य जगतो वा पितरं यथावद्वेद, परेण न तु स्वतः, स तु परो भवति । अनेनावरभूतेन दर्शनक्रममपेक्ष्य । स्वरूपदृष्ट्यनन्तरं हि भगवन्तं पश्यति ।

‘स्त्रियः सतीः’ इत्यस्यायमर्थः । स्त्रियः सतीः पुंस आहुर्वेदादिशब्दैः । अभिमान्यपेक्षया चायं व्यपदेश उपपद्यते । ज्ञानदृष्टिमानेव तान्पश्यति नाज्ञानी । कविः पुत्रो ब्रह्मा । ‘‘यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मा’’ इति श्रुतेः ‘तेने ब्रह्म हृदा य आदिकवय’ इत्यादिस्मृतेश्च । स एव आ समन्ताद्वेद यस्तानि च्छन्दांसि विशिष्टत्वेन जानाति, साक्षाद्विष्णुवाचकत्वेन, स पितुर्विष्णोः पिता भवति व्यञ्जकत्वात् ।

नानाव्यपदेशोंऽशत्वं पर्यवसाययतीत्यत्र प्रमाणमाह– तथा चेत्यादिना ॥ ‘अन्यथाव्यपदेशः’ सम्बन्धराहित्यव्यपदेशः पितृत्वादिना लोकवदानुरूप्या भावापेक्षया परस्यानुपकार्यत्वापेक्षया च, न तु सर्वथा । नियम्यनियामकलक्षणस्य तत्र तत्र प्रसिद्धत्वात् । ‘न सम्बन्धो नापेक्ष्यो जीवः परस्य’ इत्युक्त्वाऽपि ‘स सर्वस्य नियामकः’ इति ह्याह । अभेदेनाप्येकेऽधीयते, अतश्चांशः । न च क्वाप्य-भेदस्याध्ययनात्स्वरूपांशत्वमापतति, बहुत्वाद्भेदश्रुतीनां तदनुग्रहो न्याय्य इति । न हि मुख्याऽभेदोक्तिः, तद्गुणसारत्वादिति गत्युक्तेश्च । उक्तं चानुव्याख्याने–

‘स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि ।

सादृश्ये चैक्यवाक्सम्यक्सावकाशा यथेष्टतः’ ॥ इति ।

तत्त्वप्रकाशिका

अत्र परमात्मनि श्रुतिसमन्वयसिद्ध्यर्थं जीवविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । हरौ श्रुतिसमन्वयो निरूपितः । स च जीवविषयश्रुतिविरोधेनाप्रामाण्येऽनुपपन्नः स्यादिति निराकार्यः । प्रकृतो जीवोऽत्र विषयः । किमीश्वरांशो न वेति सन्देहः । संशयबीजं श्रुतिविगानं दर्शयति ॥ अंशा एवेति ॥ तत्र न जीवो हरेरंशः नाप्यनंश इति निर्णयो युज्यत इति पूर्वः पक्षः । न तावदंशत्वं निर्णेतुं शक्यम् । नैवांश इति श्रुतेः । न च तत्र परस्येति जीवान्तरविवक्षा । तथापीत्यादिवाक्यशेषविरोधात् । नाप्यनंशत्वनिर्णयः । ‘अंशा एव’ इति श्रुतेः । न च विकल्पेनाविरोधो यवव्रीहिश्रुत्योरिव वस्तुविकल्पायोगात् । ‘अंशा एव’ नैवांश इति सावधारणत्वात् । न च देशकालविभेदेन व्यवस्थितो विकल्पः । विशेषप्रमाणमन्तरेण तादृश-निश्चयायोगात् । न च जीवेशाभेदस्य सयुक्तिकं निरस्तत्वादनंशत्वश्रुतिर्बलवतीति वाच्यम् । अभेदाभावेऽप्यंशत्वस्याविरोधात् । समस्तपटाद्भिन्नस्याप्येकस्य तन्तोस्तदंशत्वदर्शनात् । अतः श्रुतिद्वयस्यापि नानात्वादप्रामाण्यमेवेति नोक्तसमन्वयो युक्त इति प्राप्ते सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥

जीवः परमात्मनोंऽशो भवत्येव । मां रक्षत्वित्यादिना नानाप्रकारेण जीवस्येशसम्बन्धित्व-व्यपदेशात् । तत्सम्बन्धित्वमेव तदंशत्वमिति वक्ष्याम इति भावः । यः पराद्धरेरवमो जीवोऽस्य जगतः पितरं वेदानेनावरेणायं परो जात इति व्यपदिश्यते तज्ज्ञानं च दुर्लभं को नु सर्वज्ञकल्पः प्रजासु ब्रह्म प्रावोचत् कस्य चैतदेवं मनो ज्ञानमाधिक्येन जातमित्यर्थः । यस्तद् ब्रह्म वेद स तस्य पितुः पिताभवदित्यर्थः । या भगवन्मूर्तयो मदुपास्याः स्त्रीलिङ्गशब्दवाच्यास्ता एव परमपुरुषानाहुः । यस्ताः पश्यति स एव चक्षुष्मान् यश्च जानाति स तस्य जगत्पितुरभिव्यञ्जकत्वात् पिताभवदित्यर्थः । एतद्दीर्घतमो वाक्यम् । नानाव्यपदेशादंशो जीव इत्यत्र श्रुतिं चाह ॥ तथा चेति ॥ हेत्वन्तरेणैतत्समर्थयति ॥ अन्य इति ॥ अन्यथा वक्ष्यमाणाभेदापेक्षया । एतत् श्रुतिद्वयेन जीवेशयोर्भेदाभेदावुच्येते । न चान्यतरश्रुतिबाधो युक्तः । न च साक्षाद्भेदाभेदावुपपन्नौ । विरोधात् । अतः श्रुतिद्वयान्यथानुपपत्त्या भेदमङ्गीकृत्याभेदस्थानेंऽशत्वं वक्तव्यमिति भावः । उक्तं चाभेदश्रुतयोंऽशत्वादिति । भेदाभेदोक्त्यन्यथानुपपत्त्यांऽशो जीव इत्यत्रापि श्रुतिमाह ॥ तथा चेति ॥ समस्तसूत्रार्थे स्मृतिं चाह ॥ वाराहे चेति ॥

गुर्वर्थदीपिका

यवव्रीहिश्रुत्योरिवेति वैधर्म्यदृष्टान्तः । यवव्रीहिश्रुत्योरिवेह वस्तुद्वयविषयत्वाभावात् । एकस्मिन्वस्तुनि च विकल्पायोगादित्यर्थः । अभेदाभावेऽपीति तार्किकरीत्या पूर्वपक्षः । तस्य मते एकतन्तोः पटांशत्वात्ततोऽत्यन्तभिन्नत्वाच्च । ‘यस्ता विजानात्स पितुः पिताऽसत्’ इति श्रुतिसमाख्ययाऽयं परो जात इति व्यपदिश्यत इत्युक्तम् । ज्ञाताऽपरो जीवः परस्यापि पितेति फलितोऽर्थः । एतद्देवमित्यत्र उद्दिश्येति शेषः । एष पूर्वोक्तश्चासौ देवश्चेति विग्रहः । मे मम सम्बन्धिन्य इत्यस्य तात्पर्यकथनं मदुपास्या इति ॥ शत्रन्तपश्यत्पदस्य तात्पर्यकथनं पश्यतीति । ई इत्यस्यार्थकथनं स एवेति । मे इत्यनेनोक्त उपासको मुनिः क इत्यत आह एतद्दीर्घतमोवाक्य-मिति ॥ दीर्घतमसो ऋषेर्वाक्यं दीर्घतमोवाक्यम् । अन्यथा च काषायाणश्रुतिरिति भाष्येऽर्थानुसारेण ‘ब्रह्मदाशा ब्रह्मकितवा’ इत्यारभ्य ‘अभेदेनाप्येके अधीयत’ इत्यन्तं वाक्यं प्राग्योजनीयम् । ‘अन्यः परो अन्यो जीवो नासावस्य कुतश्चन । नायं तस्यापि कश्चन’ इति काषायणश्रुतिः । अन्यथोक्ता-भेदादन्यथा भेदेनेति यावत् । अधीयत इति योग्यक्रियाध्याहारेण पूर्ववाक्यं पश्चाद्योजनीयम् । यत्तु नानाव्यपदेशाद् द्वासुपर्णेत्यादिभेदव्यपदेशाद् अन्यथा भेदादन्यथा ऐक्येनेति यावद् दाश-कितवादित्वमधीयते । अतो भिन्नाभिन्नत्वाज्जीवोंऽश इति व्याख्यानं तत्तु न सूत्रकृतोऽभिमतम् । तथा सति नानाव्यपदेशादैक्यव्यपदेशाच्चेत्यवक्ष्यत् । ‘एके दाशकितवादित्वमधीयते’ एके ‘अन्यथा चाधीयत’ इति सूत्रखण्डस्य वैयर्थ्यमेव स्यात् । अन्यथा चैके अधीयते ततोऽपीति व्याख्यानमपि सूत्रस्याल्पाक्षरताभङ्गादुपेक्षणीयम् । तथाऽप्युत्तरांशस्य पुनर्वैयर्थ्यमेव । तस्मादधीयत एक इत्युक्त्वा अन्यथा चेति वदता चशब्दात्पूर्वक्रियामाकृष्य ततोऽन्यथा च केचिदधीयते । अपि ततोऽप्युक्तविधया भेदाभेदव्यपदेशादंश इत्यंशत्वे हेत्वन्तरमेवोत्तरवाक्येन सङ्गृहीतम् । पूर्ववाक्येन च नानाव्यपदेशाद् भेदव्यपदेशादित्येवोक्ते पौनरुक्त्यप्रसङ्गात्केवलं तदीयत्वस्फोरकपितृत्वभ्रात्रादित्वेन नानाव्यपदेशादंश इति प्राथमिको हेतुरुक्त इति सौत्रपदरत्नावलिमहिम्ना लब्धोऽर्थः । अतः सूत्रपदपद्मवासनां वायुरेव सङ्गृहीतुं दक्षो न त्वपरः कोऽपि सुरः । किमुतान्यो दानवो मानवो वा ।

भावबोधः

अनन्तरसङ्गतिं सूचयति– विषयमिति ॥ प्रकृतो जीव इति ॥ ईश्वराधीनकर्तृत्ववत्त्वेन पूर्वाधिकरणे प्रकृत इत्यर्थः । तथा च ‘तद्गुणसारत्वात्’ इत्यत्र यदीश्वरसादृश्यमुक्तं जीवस्य यच्च ‘परात्तु तच्छ्रुतेः’ इति परमात्माधीनत्वमुक्तं तदुभयरूपस्यांशत्वस्यात्र समर्थनादनन्तरसङ्गतिरिति भावः । यथोक्तमनुव्याख्याने ‘सादृश्यं चांशतास्य तु’ इति । व्याख्यातं च सुधायामस्य जीवस्य परमेश्वरांशता तु तत्सादृश्यम्, ‘च’ शब्दात्तदधीनसत्तादित्वं चेत्यर्थ इति ॥ किमिति ॥ अत्र न वेत्यनन्तरमित्यनिर्णय उत ईश्वरांश एवेति शेषपूरणेन व्याख्येयम् । अत्र जीवः किमीश्वरांश उत नेति चिन्ता । तदर्थं श्रुत्योः सावधारणतया निरवकाशत्वेन परस्परविरोधेनाप्रामाण्यमेवोत भिन्नांशत्वस्वरूपांशत्वाभावविषयत्वेनाविरोधात् प्रामाण्यमिति । तदर्थं परमात्मांशत्वे जीवानां मत्स्यादिसाम्यं प्राप्नोत्युत नेति । तदर्थं मत्स्यादिभ्यो जीवानां प्रवृत्त्यादौ भगवदधीनत्वादि-रूपवैलक्षण्यं नास्त्युतास्तीति । तदर्थं तत्र प्रमाणं नास्त्युतास्तीति । भाष्ये विशिष्य पूर्वपक्षानुक्तेर् न्यायविवरणे च नानाश्रुतेरप्रामाण्यमिति अंशत्वानंशत्वश्रुत्योः परस्परविरोधेनाप्रामाण्यमित्य-निर्णयेनैव पूर्वपक्षोक्तेस्तदनुसारेण पूर्वपक्षमाह– तत्र न जीव इति ॥ वाक्यशेषविरोधादिति ॥ तथा च युक्तेरप्रयोजकत्वेन तदुपोद्बलितश्रुतेः प्राबल्यमिति भावः । वक्ष्याम इति । ‘अंशो ह्येष’ इति ‘पुत्रभ्रात्रि’त्यादिश्रुतिस्मृत्युदाहरणेनेत्यर्थः । परेणेति तृतीया पञ्चम्यर्थ इत्याह– परादिति ॥ जात इति व्यपदिश्यत इति शेषोक्तिः । कुत इत्यस्य तात्पर्यं कस्य वेति ॥ अधीत्यस्याधिकत्वेनेत्यर्थः । स्त्रियः सतीरिति ऋचमादितो व्याचष्टे– या इति ॥ मे इति षष्ठ्यर्थः ॥ मदुपास्या इति ॥ को वक्तीत्यत आह– एतद्दीर्घतमो वाक्यमिति ॥ उक्तं चेति ॥ अनुव्याख्यान इति शेषः ।

भावदीपः

किमीश्वरांशो न वेतीति वक्ष्यमाणपूर्वपक्षानुगुण्याय जीवानां ब्रह्मांशत्वं निर्णेतुं शक्यमुत नेति सन्देहकोटिप्रदर्शने कार्येऽप्येवमुक्तिर् भाष्ये श्रुतिविगानरूपसन्देहबीजोक्त्यनुरोधेन वा एवं संशय-कोटिकीर्तने तद्विरुद्धसिद्धान्तकोटिरर्थलब्धेति वा बोध्यम् । नानाश्रुतेरप्रामाण्यमित्यन्यत्रोक्त्यनुरोधेन श्रुतिद्वयाप्रामाण्यमुपपादयन् अनिर्णयेन पूर्वपक्षमाह ॥ तत्रेत्यादिना ॥ श्रुतिशेषोक्तेरुपयोगं व्यनक्ति ॥ न चेत्यादि ॥ अंशा एवेति श्रुतेरिति भाष्ये श्रुतिशेषोक्तिः । सिद्धान्ते भिन्नांशत्वोपपादक-तयोपयोज्यत इति भावः । श्रुतिद्वयस्थावधारण व्यावर्त्यमाशङ्क्य बीजोक्त्या निरस्यति ॥ न चेति ॥ व्रीहिभिर्यजेत यवैर्यजेतेति श्रुत्योरित्यर्थः । उक्तं च जैमिनिसूत्रे द्वादशस्य तृतीयपादे एकार्थास्तु विकल्प्येरन् समुच्चये चावृत्तिः स्यात् प्रधानस्येति व्रीहीणां यवानां चोभयेषामपि पुरोडाशप्रकृतित्वेन पुरोडाशसाधनत्वरूपैकार्थेन विरोधप्राप्तौ कदाचिद् व्रीहीणामनुष्ठानं प्रयोगान्तरे च यवानामिति विकल्पस्तथेत्यर्थः ॥ वस्त्विति ॥ अनुष्ठानरूपक्रियायाः कृतिसाध्यत्वे-नैच्छिकत्वेऽपि इह जीवाख्ये वस्तुनि अंशत्वमनंशत्वं चायुक्तमित्यर्थः । अवधारणस्यान्यथो-पपत्तिमाशङ्क्य देशादिविशेषोक्तिरहितसामान्यश्रुतिद्वयोक्त्या लब्धं समाधिमाह ॥ न च देशेत्यादिना ॥ यथा एकस्यैव वस्तुनो घटादेर्देशकालभेदेन सत्त्वमसत्त्वं च तथेत्यर्थः । श्रुतावंशैरिदं कारयतीति कर्तृत्वकारयितृत्वाभ्यां जीवपरयोर्भेदप्रतीतेरंशत्वोक्तिरयुक्तेति प्रतीतं विरोधमाशंक्य भिन्नस्याप्यंशत्वं सदृष्टान्तमाह ॥ न चेत्यादिना ॥ समस्तपटाद्भिन्नस्यापीति ॥ यद्यपि समस्तपटेन सर्वतन्तूनामत्यंताभेद एकैकस्य तु खण्डपटेनात्यन्तभेदः समस्तेन तु भेदाभेदौ । यथोक्तम् ‘अंशिनो हि पटाद्या ये भिन्नैरेव परस्परम् । अंशैरंशिन उच्यन्ते नैवमेव हि चेतना’ इति इतरव्यपदेशादित्यधिकरणानुव्याख्याने सुधायां चांशिना भिन्नाभिन्ना इति ॥ तथापि भेदांश-मात्रस्यायमनुवादः । उक्तं सर्वं नानाश्रुतेरप्रामाण्यमित्यन्यत्रोक्तनानात्वोपपादकमिति दर्शयन्नर्थत-स्तदनुवादेन फलोक्त्योपसंहरति ॥ अत इति ॥ विकल्पेन वान्यतरबाधेन वा निर्णयासम्भवा-दित्यर्थः । श्रुतेरिति जात्येकवचनमिति भावेन श्रुतिद्वयस्येत्युक्तम् । नानात्वाद् भिन्नार्थत्वादित्यर्थः । सूत्रे परस्येति ज्ञ इति च पदद्वयानुवृत्तिं मत्वा भाष्यं सूत्रानुरोधेन व्युत्क्रमेण व्याचष्टे ॥ जीव इति ॥ अनिर्णयपूर्वपक्षनिरासाय भवत्येवेत्युक्तिः ॥ वक्ष्याम इति ॥ अंशो ह्येष इत्यादिप्रमाणै-रित्यर्थः । जीवेशसम्बन्धपरत्वप्रतीत्यर्थं शेषोक्त्या श्रुत्यर्थमाह ॥ य इति ॥ परेणेत्यस्य परादित्यर्थः । अवोऽवमः । एना एनेन अनेनेत्यर्थः । द्वितीयाटौ स्वेनः । कवीयमानः क इह प्रवोचद्देवं मनः कुतो अधिप्रजातमित्युत्तरार्धमवतारयति ॥ तज्ज्ञानं च दुर्लभमिति ॥ इह प्रजासु । कुतः कस्य । ब्रह्मपरत्वस्फोरणायोत्तरार्धोक्तिः । न हीशादन्यस्य ज्ञानं दुर्लभमिति भावः । अत एव ब्रह्मेति शेषोक्तिस् तच्छब्दपरामर्शविषयं दर्शयन् ‘स्त्रियः सतीस्ताम् उमे पुंस आहुः पश्यदक्षण्वान्न-विचेतदन्धः । कविर्यः पुत्रः स इमाचिकेतेति पूर्ववाक्यद्वयमपि व्याचष्टे ॥ या इति ॥ तच्छब्द-श्रवणाद्या इत्युक्तिः । मे मत्सम्बन्धिन्यः मदुपास्या इति यावत् । उ एव । मे इत्यस्मच्छब्दस्याहं शतधा सहस्रधा चेत्यादाविवेश्वरवाचित्वभ्रमनिरासायाह ॥ एतदिति ॥ दीर्घतमा नाम कश्चिदृषिः । अतो मदुपास्या इति व्याख्या युक्तेति भावः । सूत्रादावन्यथा चेति चशब्दो हेतुसमुच्चय इति भावेनाह ॥ हेत्वन्तरेणेति ॥ तत्त्वप्रदीपरीत्यांशो ह्येष इत्येतदपेक्षयैवेति प्रतीतिनिरासायाह ॥ वक्ष्यमाणेति ॥ दृष्टभेदानुसारेण तासामर्थोपपत्तेरित्यन्यत्रोक्तिसूचितं भावमाह ॥ एतच्छ्रुतिद्वयेनेत्यादिना ॥ अभेदस्थानेंशत्वमित्यत्रैतदधिकरणानुभाष्यसंमतिमाह ॥ उक्तं चेति ॥ समस्तसूत्रार्थ इति ॥ नानाव्यपदेशादंशो जीव इत्यर्थे अन्यथाऽधीयते दाशकितवादित्वमधीयते अतश्चांश इत्यर्थे चेत्यर्थः ।

अभिनवचन्द्रिका

श्रुतिसमन्वयो निरूपित इति ॥ वाक्यान्वयेन जीवविषयकवक्ष्यमाणश्रुतेः, जीवार्थकत्व-मङ्गीकृत्य समन्वयोऽभिहितः । जीवविषये च श्रुतेरप्रामाण्ये भगवति समन्वयोऽनुपपन्नः स्यादिति भावः ॥ किमीश्वरांशो न वेति ॥ यद्यप्ययं संशयो न वक्ष्यमाणपूर्वपक्षकोट्यवलम्बी, तथापि जीवो नेश्वरांश इत्यपि पूर्वपक्षः कार्य इति द्योतयितुमेवं प्रदर्शितः । पूर्वपक्षमाह– तत्रेति ॥ यद्यपि सिद्धान्ते अंशत्वसाधनादनंश इत्येव पूर्वपक्षः कार्यः, तथापि यावान् सूत्रनिरस्यो विपर्ययः, स सर्वोऽपि पूर्वपक्ष इति दर्शयितुमयं पूर्वपक्षो दर्शितः । अयं च ‘श्रुती अनिर्णायके’ इति विपर्ययः, श्रुत्या ‘अंश’ इति निर्णये कृते अर्थान्निरस्तो भवति’ इति सूत्रनिरस्यो भवति । व्रीहियवश्रुत्योरिव व्यवस्थितविकल्पेनाऽविरोधमाशंक्य निषेधति – न चेति ॥ वस्तुविकल्पेति ॥ भवेत्तत्र विकल्पः श्रुतिद्वयोक्तक्रियायाः श्रुत्युक्तसाधनयोर्द्वयोरन्यतरोपादानेन स्वेच्छया निष्पादयितुं शक्यत्वात् । इह तु सिद्धस्वरूपस्य जीवस्य इच्छानुसारेण अंशत्वानंशत्वयोरयोगेन विकल्पो न युज्यत इति भावः । बाधकान्तरमाह– अंशा एवेति ॥ व्यवस्थितविकल्पमाशङ्क्य निषेधति– न चेति ॥ एकस्यैव सिन्धुनद्याः परभागे स्थित्या ब्राह्मण्यं, तत्परभागे स्थित्याऽ-ब्राह्मण्यामितिवत्, जीवस्य भूलोकादिस्थित्याऽनंशत्वं स्वर्गादिस्थित्यांऽशत्वमिति देशभेदेन वा, एकस्यैव सुद्युम्नस्य कालभेदेन स्त्रीत्वपुंस्त्ववत्, इदानीमनंशत्वं कालान्तरेंऽशत्वमिति कालभेदेन वा, व्यवस्थितो विकल्पो भविष्यतीति न वक्तव्यमित्यर्थः ॥ विशेषप्रमाणमन्तरेणेति ॥ सुद्युम्नादौ ‘आचार्यानुग्रहात्कामं लब्ध्वा पुस्त्वं व्यवस्थया’ इत्यादि प्रमाणसद्भावान् निर्णयो युज्यते । प्रकृते तु प्रमाणाभावान्न निर्णयो युज्यत इति भावः ॥ अत इति ॥ अस्यैव विवरणं श्रुतिद्वयस्यापि नानात्वादिति ॥ श्रुत्योश्च नानात्वं नाम परस्परविरुद्धत्वमिति बोध्यम् । ‘अवः परेण पितरं यो अस्यानुवेद पर एनावरेण कवीयमानः क इह प्रवोच देवं मनः कुतो अधिप्रजातम्’ इति ऋचः पूर्वार्धं व्याचष्टे – यः परादिति ॥ अवरस्य जगत्पितृवेत्तृत्वेऽपि जगत्पितुस् तज्जातत्वव्यपदेशः कुतः । देवदत्तस्य स्वज्ञातपुत्रत्वव्यपदेशाभावादित्यत आह – तज्ज्ञानं च दुर्लभमिति ॥ चशब्दो हिशब्दार्थः । यस्मात्तज्ज्ञानं दुर्लभं तस्मात्तज्ज्ञात इति व्यपदिश्यत इत्यर्थः । देवदत्तस्य स्वज्ञातपुत्रत्वव्यपदेशाभावेऽपि परमेश्वरस्य स युज्यत एव । असतः सत्तासम्बन्धवद् अनभिव्यक्तव्यक्तेरपि उत्पत्तिशब्दार्थत्वादिति भावः । न च तज्ज्ञानस्य दुर्लभत्वमसिद्धम्, उत्तारार्धे तथोक्तत्वादिति भावेनोत्तरार्धं व्याचष्टे – को नु सर्वज्ञकल्प इति ॥ ‘स्त्रियः सतीस्ताम् उभे पुंस आहुः पश्यदक्षण्वान्नविचेतदन्धः । कविर्यः पुत्रः स ईमाचिकेत यस्ता विजानात् सवितुष्पितासत्’ इति ऋचं व्याचष्टे – या भगवन्मूर्तय इति ॥ ऋषिज्ञानमवश्यं सम्पादनीयमिति भावेनाह– एतद्दीर्घतमोवाक्यमिति ॥ श्रुतिं चाहेति ॥ सूत्रार्थे स्मृतेर्वक्ष्ममाणत्वात् तद्विवक्षयाऽयं चः पठितः ॥ हेत्वन्तरेणेति ॥ हेत्वन्तरप्रतिपादकसूत्रखंडव्याख्यानेनैतत्समर्थयत इत्यर्थः ॥ अभेदस्थानेंऽशत्वमिति ॥ सम्बन्धित्वमित्यर्थः । भिन्नेऽपि अत्यन्तं प्रीत्यास्पदे भृत्ये ‘अयमेव राजा’ इत्यादि प्रयोगदर्शनादिति भावः ॥ उक्तं चेति ॥ अनुव्याख्यान इति शेषः ।

वाक्यार्थमुक्तावली

जीवस्य परात्तु तच्छ्रुतेरिति यत्पराधीनत्वमुक्तं यच्च तद्गुणसारत्वादिति ईश्वरसादृश्यं तदुभय-रूपम् अंशत्वम् इह समर्थ्यत इत्यनन्तरसङ्गतिः ॥ यथोक्तम् ॥ सादृश्यं चांशताऽस्य तु इति । सुधायां च चशब्दात्तदधीनसत्तादित्वं चेति ॥ किमीश्वरांशो न वेति सन्देह इति ॥ अत्र नेत्यस्यानंश इत्यर्थः । अत एव न जीवो हरेरंशो नाप्यनंश इति निर्णयो युज्यत इति ॥ उभयोरनिर्णयेन पूर्वपक्षं प्रतिज्ञाय न तावदंशत्वं निर्णेतुं शक्यं नाप्यनंशत्वमिति निर्णय इति विवरणं क्रियते । न्यायविवरणे च नानाश्रुतेरप्रामाण्यमित्युभयश्रुत्यप्रामाण्येन पूर्वपक्षं प्रापय्य दृष्टभेदानुसारेण तासामर्थोपपत्तेः । अप्रामाण्यकल्पनस्य च विपरीतज्ञानमूलत्वादित्युभयप्रामाण्येन सिद्धान्तितम् । सूत्रे चांशो नानेति अंशनिर्णयेन प्रकाशादिवन्नेत्यत्र स्वरूपांशत्वाभावेनानंशत्वनिर्णयेन सिद्धान्तो वर्तिष्यते । ततश्च जीवानां ब्रह्मांशत्वमनंशत्वं वा निर्णेतुमशक्यमुत शक्यमिति चिन्ता । तदर्थमंशा एव नैवानंश इति सावधारण श्रुत्योर्निरवकाशत्वेनाप्रामाण्यमुत विभिन्नांशत्वरूपांशाभावपरत्वेनो-भयोरपि प्रामाण्यमिति । तदर्थमंशत्वनिर्णये मत्स्यावतारादिसाम्यप्रसङ्गो भवति न वेति ॥ सन्देहबीजमिति ॥ सावधारणश्रुत्योरवधारणमहिम्नांशत्वानंशत्वकोट्युपस्थापकत्वं विरुद्धत्वादेवा-निर्णयकोट्युपस्थापकत्वमिति भावः । भावबोधे तु अत्र न वेत्यनन्तरम् इत्यनिर्णय उतेश्वरांश एवेति निर्णयो वेति शेषः । ततश्च जीवः किमीश्वरांश इति निर्णयो न सम्भवत्युत सम्भवतीत्युक्तम् । टीकायामपि सन्देहात्मकपूर्वपक्षकोटिकीर्तनेन तद्विरुद्धसिद्धान्तकोटिरर्थलब्धेति पृथङ्नोक्तेत्युक्तम् । चन्द्रिकायामपि जीवानां किं ब्रह्मांशत्वं निर्णेतुमशक्यमुत शक्यमिति चिन्तेत्युक्तम् । केचित्तु यद्यपीश्वरांशो न वेति संशयेन वक्ष्यमाणपूर्वकोटाववलम्बी । तथापि जीवो नेश्वरांश इत्यपि पूर्वपक्षः कार्य इत्यपि द्योतयितुम् । अत एवांश इति सिद्धान्तो वर्तिष्यत इत्याहुः । भाष्ये सावधारणतया निरवकाशश्रुतिरित्युक्तपूर्वपक्षन्यायं विवृण्वन् पूर्वपक्षमाह ॥ नैवांश इति ॥ श्रुतेः सावकाशत्व-माशङ्क्य तत्परिहारव्याजेन वाक्यशेषोदाहरणकृत्यमाह ॥ न च तत्रेति ॥ श्रुतौ सम्बन्ध इत्यस्य विवरणं नापेक्ष्यत इति । तथापि जीवेनानुपकृतत्वेऽपि योग्यतामनतिक्रम्य फलदः । न च योग्यता-पेक्षायां स्वातन्त्र्यभङ्ग इत्युक्तम् ॥ एकराडिति ॥ तदपेक्षा च लीलया दण्डावलम्बनमिव वैभवेनेति भावेनोक्तं प्रभुरिति ॥ न च विकल्पेनेति ॥ कुतो न विकल्पेनाविरोध इति चेदत्र वक्तव्यम् । यागसाधनीभूतपुरोडाशस्य यजमानेच्छया व्रीहिभिर्यवैर्वा संपादयितुं शक्यत्वेनोभयप्रकृतिकत्वात् । अव्यवस्थितविकल्पाश्रयणेन व्रीहिभिर्यजेत यवैर्यजेतेति श्रुत्योरिव किमत्राव्यवस्थितो विकल्पः । उत देशकालादिभेदेन व्यवस्थितो विकल्प इति विकल्पं ह्रदि निधायाद्यमाह ॥ यवेति ॥ पुरोडाशस्य साध्यत्वादिच्छानुसारेणोभयप्रकृतिकत्वसम्भवेन यवव्रीहिश्रुत्योरव्यवस्थितविकल्पः सम्भवति । व्रीहिभिरेव यवैरेवेति । निरवधारणत्वाज्जीवस्य सिद्धं स्वरूपत्वेनेच्छानुसारेणांशत्वानंशत्वरूपोभय-प्रकृतिकत्वासम्भवेन यवव्रीहिश्रुत्योरिवाव्यवस्थितो वस्तुविकल्पोऽनयोरुपपद्यते । अंशा एव नैवांश इति सावधारणत्वेनोभयप्रकृतिकतया सावकाशत्वस्य कल्पयितुमशक्यत्वादिति भावः । द्वितीय-माशङ्क्य निषेधति ॥ न चेति ॥ होलकादीनां देशभेदेनाचारत्वानाचारत्ववदश्वालम्भनस्य कालभेदेनाचारत्वनाचारत्ववच्च देशकालभेदेनांशत्वानंशत्वयोर्व्यवस्थितेऽपि विकल्पो नेति भावः ॥ विशेषप्रमाणमिति ॥

अश्वालम्भं गवालम्भं सन्यासं पलपैतृकम् ।

देवरेण सुतोत्पत्तिं कलौ पञ्च विवर्जयेत् ॥

इत्यश्वालम्भस्य कालभेदकर्तव्यत्वे विशेषप्रमाणवदत्र प्रमाणाभावात् । एतेनैतदपि निरस्तम् । केषाञ्चिज्जीवानामंशत्वं केषाञ्चिदनंशत्वमिति व्यक्तिभेदेन व्यवस्थितविकल्पः किं न स्यादिति विशेषप्रमाणाभावात् । अंशा एव हि मे जीवा इति सर्वेषामंशस्योक्तत्वादिति भावः । ननु मत्स्यादिभेदानिमित्तकोंऽशशब्द इति जीवानामंशत्वे भेद एव प्रवृत्तिनिमित्तं स्यात् । न च प्राङ्निरस्त इत्यनंशत्वश्रुतिर्भेदसाधकप्रत्यक्षादिसाहाय्याब्दलवतीत्याशंक्य निषेधति ॥ न च भेदाभावेति ॥ मत्स्यादिष्विवाभेदाभावेऽपि निमित्तविशेषेणांशशब्दवाच्यत्वाविरोधाद् इत्यर्थः । अभेदाभावेऽप्यंशत्वं कुत्र दृष्टमित्यत आह ॥ समस्तेति ॥ विशिष्टपटाद्भिन्नस्य ततः पृथुतरस्या-प्येकस्य तन्तोरयं पटस्तदंश इत्यनुभवादित्यर्थः । अत एव समस्तपटादखण्डपटाद्भिन्नस्येत्युक्तम् । सुधायां च सिद्धान्ते त्वंशत्वं, सादृश्यं चांशताऽस्य त्विति निर्वक्तुम् । अंशत्वं नारम्भकत्वम् । परमात्मनोऽनारब्धत्वात् । नापि खण्डत्वमच्छेद्यत्वात् । न च प्रदेशत्वम् । पटादिवदनित्यत्व-प्रसङ्गाद् इति प्रसक्तप्रतिषेधदशायां समस्तपटाद्विभक्ते ततोऽत्यन्तभिन्नेऽपि तन्त्वादौ खण्डत्वे-नांशत्वमुक्तमिति ज्ञेयम् । परादिति सूत्रात्परस्येत्यनुषङ्गमभिप््रोत्य नानाव्यपदेशाद् रक्ष्यत्वपुत्र-त्वादिनानाप्रकारेण जीवस्येशसम्बन्धित्व व्यपदेशाज् ज्ञः परस्यांश इत्यभिप््रोत्य प्रवृत्तभाष्यभावमाह ॥ ज्ञ इति ॥

ननु रक्ष्यत्वपुत्रत्वादिव्यपदेशेन रक्ष्यत्वादिकमस्तु अंशत्वं कुत इत्यत आह ॥ तत्सम्बन्धित्व-मेवेति ॥ रक्ष्यत्वपुत्रत्वाद्यविनाभूततदधीनत्वतत्सादृश्यलक्षणतत्सम्बन्धित्वमेव तदंशत्वमिति । विभिन्नांशोऽल्पशक्तिः स्यात् किञ्चित्सादृश्यमात्रयुक्’ इत्यत्र वक्ष्याम इत्यर्थः । रक्ष्यत्वादिव्यपदेशे तदधीनत्वलाभात् । पुत्रत्वादिव्यपदेशेन सादृश्यलाभात् । तदधीनसारूप्यस्यैवांशशब्दार्थत्वस्य सादृश्यं चांशतास्य त्वित्यनुव्याख्याने चशब्दात्तदधीनत्वं चेति सुधायां चोक्तत्वादिति ज्ञेयम् । परेणेत्यस्यार्थः परादिति ॥ जायत इति ॥ व्यपदिश्यत इति शेषोक्तिः । जीवेन ज्ञातत्वमात्रेण पुत्रव्यपदेशेऽपि प्रसङ्ग इत्यतः कवीयमानः क इह प्रवोचद्देवं मनः कुतोऽधिप्रजातमित्युत्तरार्धं प्रवृत्तमिति भावेन तदवतारयति ॥ तद्ज्ञानं चेति ॥ इत्युत्तरार्धं वक्तीति शेषः । तथा च परमात्मज्ञानस्यातिदुर्लभत्वेन प्रागनभिव्यक्तस्य ब्रह्मणो ज्ञानेनाभिव्यक्तत्वेन पुत्रत्वव्यवहारः । यज्ञदत्तादिज्ञानस्यादुर्लभत्वाद् देवदत्तादिना ज्ञातत्वेऽपि तत्पुत्रत्वाव्यवहार इति नातिप्रसङ्ग इति भावः । अन्यथा प्रकृतानुपयुक्तस्योत्तरार्धस्येहाव्याख्येत्वप्रसङ्ग इति बोध्यम् । व्यवहारगोचरत्वा-भावेऽपीश्वरज्ञानस्य दुर्लभत्वाज् ज्ञानमात्रेण गौण्या जनितत्वव्यपदेश विषयत्वमिति भावेनोत्तरार्धं प्रवृत्तमिति भावेनावतारयति तद्ज्ञानं चेति । दुलभमित्युत्तरार्धं वक्तीति शेषः । उत्तरार्धं व्याचष्टे कोन्विति ॥ को वा कवीयमानः सर्वज्ञकल्प इह प्रजासु ब्रह्मेति शेषः । प्रवोचत् प्रावोचत् । कुतः कस्य च दैवं देवविषयं मनः ज्ञानम् ।

ननु मनःशब्द इन्द्रिये रूढः । सत्यम् अनुवेदेति ज्ञानस्य प्रकृतत्वादिति भावेनोक्तम् ॥ एतदिति ॥ अधि आधिक्येन प्रजातमित्यर्थः । यस्तद्वेदेति नानाव्यपदेशरूपं वाक्यान्तरं व्याचष्टे ॥ यस्तदिति ॥ असदित्यस्य प्रतिपदम् अनुभवदिति । स्त्रियःसतीस्ता उमे पुंस आहुः पश्यदक्षण्वान्नविचेतदन्धः ॥ कविर्यः पुत्रः स इमा चिकेत यस्ताविजानात्सपितुष्पिता सत्’ । इति वामनसूक्त एव अवः परेणेत्यतःपूर्वं विद्यमानाम् ऋचं व्याचष्टे ॥ या भगवन्मूर्तय इति ॥ या मे सम्बन्धिन्यः मदुपास्याः स्त्रियः स्त्रीलिङ्गवाच्याः सतीः सतीभवत्यः न तु व्यवस्थितस्त्रियः । सतीर् निर्दुष्टा वा । ता उत एव पुंसः परमपुरुषानाहुः । यस्ता इत्यनुकृष्यते । यः पुरुषस् ताः पश्यन् पश्यति स एव अक्षण्वान् चक्षुष्मान् नविचेतत् स अन्धः । यः कविः सर्वज्ञः पुत्रो भगवत्पुत्रो विरिञ्चः स एवेमा भगवन्मूर्तीश् चिकेतत् सम्यग् जानाति । यश्च ता विजानाज् जानाति सस् तस्य जगत्पितुरभिव्यञ्जकत्वात्पिता अभवदित्यर्थः । मदुपास्या इति को वक्तीत्यत आह ॥ एतद्दीर्घेति ॥ नानाव्यपदेशादिति ॥ नानाव्यपदेशेऽप्यंशत्वं कुत इत्याशङ्कायामिति शेषः । सूत्रार्थे स्मृतेर्वक्ष्यमाणत्वात् श्रुतिं चेति चशब्दः । यद्वा न केवलं परमाप्तबादरायणवाक्यादवसीयते श्रुतिं चेत्यर्थः । अत एव तथा च तथैव पाराशर्यायणश्रुतिरिति भाष्यार्थः ॥ हेत्वन्तरेति ॥ पूर्वं रक्ष्यत्वपुत्रत्वादिसम्बन्धव्यपदेशात्तदधीनसारूप्यलक्षणमंशत्वमङ्गीकार्यमित्युक्तम् । अधुना भेदाभेदान्यथानुपपत्तिलक्षणहेत्वन्तरेणैतदंशत्वं समर्थयत्सूत्रखण्डं व्याचष्टे इत्यर्थः । पूर्वोक्तादन्यथेति प्रतीतिनिरासायाह ॥ वक्ष्यमाणाभेदापेक्षयेति ॥ एके शाखिनः परस्परांशं कितवादित्वमप्यधीयते जीवस्य ब्रह्माभेदमधीयत इति यावत् । अन्यथा वा अन्यः परो अन्यो जीव इति भेदं चाधीयत एके यतोऽतश्च जीवोंश इत्यर्थः । भाष्ये नासावस्य कुतश्च नेत्यस्यायमर्थः । असौ परमात्मा अस्य जीवस्य कुतश्चन केनापि प्रकारेण नोपकर्तेति । अन्यःपरोऽन्यो जीव इत्यंशस्यैव प्रकृतोप-योगान्नासावस्येत्यंशस्योदाहरणं व्यर्थमिति चेन्न । जीवस्य परोपकार्यत्ववत्परस्यापि जीवोपकार्यत्वे परोऽपि जीवांशः प्रसज्येत । तदधीनत्वप्राप्तेः पुत्रत्वेन गुणाः पितुरिति न्यायेन तत्सादृश्येन जीवस्य तदंशत्वे सादृश्यस्योभयत्र सत्त्वेनेश्वरोऽपि जीवांशः प्रसज्येतेत्यतो नासावस्योदाहरणं ब्रह्मण उपकार्यत्वाभावान्न जीवाधीनत्वम् अत एव तेन गुणलाभाभावान्न तन्निरूपितसादृश्यमस्येति न तदंशत्वमिति । अत एव तत्त्वप्रदीपे अन्यथा व्यपदेशः पितृत्वादिना लोकसारूप्याभावापेक्षया परस्यानुपकार्यत्वापेक्षया चेति । अन्यथा चाप्यधीयत एके इत्ययमंशः पूर्वत्रापि योजितो बोध्यः । अत एव नैवांशो न सम्बद्धो नापेक्ष्यो जीवः परस्येत्यत्र जीवस्यानंशत्वमुक्त्वा तर्हि किमंशित्वमिति शङ्कानिरासाय सम्बन्धो नापेक्ष्यो जीवः परस्येत्यंशत्वं निषिध्यत इति ज्ञेयम् ॥ उक्तञ्चेति ॥ अनुव्याख्यायामिति शेषः ।

तत्त्वसुबोधिनी

अनन्तरसङ्गतिं सूचयन् विषयमाह ॥ प्रकृतो जीव इति ॥ ईश्वराधीनकर्तृत्वेन पूर्वाधिकरणे प्रकृत इत्यर्थः । परमात्माधीनत्वमुक्तम् । तदुभयरूपस्यांशत्वस्यात्र समर्थनाद् अनन्तरसङ्गतिरिति भावः । नैवांश इति भाष्यस्यायमर्थः । जीवपरस्परानाह । स्वरूपांशो नैव जीवः परस्परेण सम्बद्धो न स्वसम्बन्धेन परमात्मनि दुःखित्वापादकसम्बन्धवान् नेत्यर्थः । जीवः परेणापेक्ष्यो न, जीवापेक्षः परस्परं नास्तीत्यर्थः । भाष्ये विशिष्य पूर्वपक्षानुक्तेर् न्यायविवरणे च नानाश्रुतेरप्रामाण्यमिति अनिर्णयेनैव पूर्वपक्षोक्तेस् तदनुसारेणैवानिर्णयेन पूर्वपक्षमाह ॥ तत्र न जीव इति ॥ भाष्ये वाक्यशेषोदाहरणनिवर्त्याशंकामुत्थापयति ॥ न चेति ॥ वाक्यशेषविरोधादिति ॥ तत्र यथायोग्यफलदातृत्वरूपविष्णुलिङ्गस्य सत्त्वाज् जीवान्तरविवक्षायां तद्विरोधः स्यादित्यर्थः । एतदर्थमेव वाक्यशेषोदाहरणमिति भावः ॥ वस्तुविकल्पायोगादिति ॥ अंशत्वानंशत्वयोः परस्परविरुद्धत्वेन एकस्य विरुद्धरूपद्वयवत्तायोगादित्यर्थः । प्रकारान्तरेणानंशत्वश्रुतिः किं न व्याख्यायत इत्यत आह ॥ अंशा एवेति ॥ द्वयोरपि समबलत्वेन एकानुपूर्वीत इति भावः । अंशत्वस्याविरोधादिति ॥ तथा च युक्तेरप्रयोजकत्वेन तदुपोब्दलितश्रुतेः प्राबल्यमिति भावः । तत्सम्बन्धित्वव्यपदेशेऽपि तदंशत्वं कुत इत्यत आह ॥ तत्सम्बन्धित्वमेवेति ॥ वक्ष्याम इति ॥ अंशो ह्येष इत्यादिश्रुतिस्मृत्युदाहरणेनेत्यर्थः । परेणेति तृतीया पञ्चम्यर्थ इत्याह ॥ परादिति ॥ जात इति व्यपदिश्यत इति शेषोक्तिः । कवीयमान इत्यस्यार्थः सर्वज्ञकल्प इति । इहेत्यस्य प्रजास्विति । ब्रह्मेति शेषोक्तिः । कुत इत्यस्य तात्पर्यं कस्य वेति । दैवं देवविषयम् । मन इत्यस्यार्थो ज्ञानं मन ज्ञाने इति धातोर् अधीत्यस्याधिकत्वेनेत्यर्थः । ब्रह्म दाशा इत्यस्यायमर्थः दाशा दाशवाच्याः कितवाः कितवशब्दवाच्या जीवा ब्रह्म । ब्रह्म इमे दाशा एव । अन्यः परः जीवाज् जीवो ऽन्यः परात् । असावीश्वरः कुतश्चन केनापि प्रकारेण नोपकर्तव्यः । अयं जीवस् तस्येश्वरस्य कुतश्चन नोपकर्ता । स्त्रियः सतीत्यृचमादितो व्याचष्टे ॥ या इति ॥ मे इति षष्ट्यर्थो मदुपास्या इति को वक्तीत्यत आह ॥ एतद्दीर्घतमोवाक्यमिति ॥ उक्तं चानुव्याख्यान इति भावः ।

वाक्यार्थविवरणं

विकल्पेनेति ॥ कदाचिदंशः, कदाचिदनंश इति विकल्पेनेत्यर्थः ॥ वस्त्विति ॥ यवव्रीहि-द्रव्ययोर्भिन्नत्वात् तत्र युक्तो विकल्पः । अत्र त्वेकस्मिन्नेव जीवेंऽशत्वानंशत्वरूपविरुद्धधर्मद्वया-लिङ्गितत्वप्राप्तेर्न विकल्पो युक्त इत्यर्थः । तत्र व्यक्तिभेदवदत्र तदभावादिति भावः । विकल्पपक्षे दूषणान्तरमाह ॥ अंशा एवेति ॥ यवव्रीहिश्रुत्योर्निरवधारणत्वेन युक्तस्तत्र विकल्पः । अत्र त्वंशा एवेति श्रुतानंशत्वस्य निषिद्धत्वान्नैवांश इति श्रुतावंशत्वस्य निषेधादतो न विकल्पावसर इत्यर्थः ॥ व्यवस्थित इति ॥ कस्मिंश्चिद्देशे कस्मिंश्चन काले केचिज्जीवा अंशाः केचन जीवा अनंशा इति व्यवस्थित विकल्प इत्यर्थः ॥ निरस्तत्वादिति ॥ अंशत्वस्याभेदाविनाभूतत्वेन तदभावेऽयोगा-दित्याशयः । तथा च ‘जीवोंऽशो न भवति । अभेदशून्यत्वात् । घटवत्’ । इत्यनुमानमुक्तं भवति । अत्राप्रयोजकमाह ॥ अभेदाभावेऽपीति ॥ व्यभिचारं चाह ॥ समस्तेति ॥ नानात्वात् । परस्पर-विरुद्धार्थप्रतिपादकत्वात् । भाष्ये कस्यापीत्यस्य केनापीत्यर्थः । कुत इत्यतस्तत्साधनीभूतस्य ज्ञानस्यैव कस्याप्यसम्भवादित्याहुः ॥ कस्य वेति ॥ दैवं मन इति ॥ तद्वै दैवं मनो येनानन्द्येव भवतीति श्रुतेः । मे मदुपास्याः स्त्रिय इति भगवत्स्त्रीमूर्तीनां स्वोपास्यत्वं दीर्घतमा वक्ति । न चैतद्युक्तम् । ‘नैनमस्त्री पुमांन् ब्रुवन्’ इति भगवत्स्त्रीमूर्तिध्यानस्य निषिद्धत्वात् । अत एवोक्तं प्राक् प्रकृत्यधिकरणे । निषेधस्त्वज्ञेयतामात्रार्थः’ इति । अतः कथमेतदित्यत आह ॥ स्त्रीलिङ्गवाच्या इति ॥ स्त्रीलिङ्गान्तशब्दवाच्या इत्यर्थः । न विचेतदित्यस्य व्याख्यानं न जानातीति । ई इत्यस्यार्थ एवेति । आ इत्यस्यार्थः सम्यगिति । मदुपास्या इति को वक्तीत्यत आह ॥ एतदिति ॥ दीर्घतमा ऋषिः ॥ हेत्वन्तरेणेति ॥ सम्बन्धित्वरूपनानाव्यपदेशेनांशत्वं समर्थ्य भेदाभेदव्यपदेशा-न्यथानुपपत्तिरूपहेत्वन्तरेणैतदंशत्वं समर्थयत इत्यर्थः ॥ वक्ष्यमाणेति ॥ दाशकितवादित्वमिति वक्ष्यमाणेत्यर्थः । तथा च ‘दाशकितवादित्वमधीयतेऽन्यथा चाप्यधीयत’ इति सूत्रेऽन्वयो द्रष्टव्यः । दाशकितवाद्यभेदेनाधीयते, तदपेक्षयाऽन्यथा चाप्यधीयते । तथा च भेदाभेदव्यपदेशा-न्यथानुपपत्तिरुक्ता भवतीति ध्येयम् ॥ अन्यतरेति ॥ भेदाभेदश्रुत्योर्मध्येऽन्यतरेत्यर्थः । उभयोरपि स्पष्टतया निरवकाशत्वेनार्थान्तरकल्पनाऽनवकाशादिति भावः । भाष्ये ‘अन्यः परोऽन्यो जीवो नासावस्य कुतश्चन । नायं तस्यापि कुतश्चन’ इति श्रुतेः । परो भगवान् जीवादन्यः । जीवश्च परमात्मनोऽन्य इति प्रतिज्ञाद्वयम् । तत्र हेत्वाकाङ्क्षायां विरुद्धधर्माधिकरणत्वादित्याह ॥ नासा-वित्यादिना ॥ असौ भगवान् कुतश्चन कारणादस्य जीवस्योपकर्तव्यो न । जीवकृतोपकारवान्न भवतीति यावत् । जीवस्तु तत्कृतोपकारवानिति पूरणीयम् । परो ऽयं जीवः कुतश्चन कारणात्तस्यापि परमात्मन उपकर्ता न । परमात्मा च तस्योपकर्तेति चन्द्रिकोक्तरीत्याऽर्थो ज्ञातव्यः । असौ परो ऽस्य जीवस्य भृत्यो न । अयं च जीवस्तस्यापि परमात्मनः स्वामी नेत्यर्थो ज्ञातव्यः । अस्य तस्येति षष्ठ्योः स्वस्वामिभावार्थकत्वेन पूर्ववदध्याहाराभावादिति प्राहुः । असौ परः । अस्य जीवस्य ये दुःखादिधर्मास्तद्वान्न भवति । अयं जीवस्तस्य परमात्मनो ये धर्माः सार्वज्ञाद्यास्तद्वान्न भवतीत्यर्थ इत्यप्याहुः । भाष्ये तस्य हरेरंशत्वं जीवस्योद्दिष्टमित्यन्वयः ॥ भेदाभेदेति ॥ जीवानां भेदो मत्स्यादीनामभेद इति विवेकः ।

वाक्यार्थमञ्जरी

यवव्रीहिश्रुत्योरिति ॥ यथा यवैर्यजेत व्रीहिभिर्यजेतेति श्रुत्योर्यवैर्वा यजेत व्रीहिभिर्वा यजेतेत्य व्यवस्थितविकल्पेन विरोधपरिहारस्तथा जीवोंऽशो वाऽनंशोऽस्त्वित्यव्यवस्थितविकल्पेनांशानंश श्रुत्योर्विरोधपरिहार इत्यर्थः ॥ वस्तुविकल्पेति ॥ तत्र श्रुतिद्वयस्य निरवधारणत्वेनोक्तरीत्या विकल्पसम्भवेऽपि प्रकृते श्रुतिद्वयस्य सावधारणत्वेनोभयथाऽर्थग्रहे एकस्मिञ्जीवाख्ये वस्तुन्यंशत्वा-नंशत्वरूपद्वैरूप्यायोगादित्यर्थः ॥ न चेति ॥ यथैकस्यैव घटस्य देशकालभेदेन सत्त्वासत्त्वे तथेत्यर्थः ॥ समस्तेति ॥ अत्र सर्वेषां तन्तूनां पटाद्भेदाभेदाङ्गीकारादेकस्येत्युक्तम् एकस्यापि तन्तोः खण्डपटाद्भेदाभेदाङ्गीकारात् समस्तपटेति नानात्वाद् विरुद्धार्थप्रतिपादकत्वात् । ॐ अंशो नाना-व्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ । जीवः परमात्मनोंश एव कुतः नानाव्यपदेशात् पितापुत्रत्वादिनानाप्रकारेण तस्येशसम्बन्धित्वोक्तेः । किं च ब्रह्मदाशाब्रह्मकितवा इत्येके शाखिनः दाशा मत्स्यग्राहिणः ब्रह्मकितवा वञ्चका ब्रह्मेत्येवं ब्रह्मणो दाशकितवादित्वं दाशकितवोपलक्षितसर्वजीवाभेदमधीयन्ते पठन्ति एके च अन्यः परोऽन्यो जीव इत्यन्यथा च भेदेनाधीयते अत एतदुभयान्यथानुपपत्त्यांशत्वमित्यर्थः ॥ वक्ष्याम इति ॥ अंशो ह्येषः पुत्रभ्रात्रित्यादिश्रुतिस्मृत्युदाहरणेनेति शेषः । परेणेत्यस्यार्थः परादिति अव इत्यस्यावम इति जात इति व्यपदेश इति शेषोक्तिर् व्यञ्जकत्वादिति भावः ॥ तज्ज्ञानं च दुर्लभमिति ॥ कवीयमानः क इह प्रवोचद्देवं मनः कुतो अधिप्रजातमित्युत्तरार्धं तज्ज्ञानं च दुर्लभमित्याहेत्यर्थः । तद्व्याचष्टे ॥ कोन्विति ॥ कवीयमान इत्यस्यार्थः सर्वज्ञकल्प इति इहेत्यस्य प्रजास्विति ब्रह्मेति शेषोक्तिः कुत इत्यस्य तात्पर्यं कस्य चेति अधीत्यस्याधिक्येनेति ‘स्त्रियः सतीस्ताम् उमे पुंस आहुः पश्यदक्षण्वान्नविचेतदन्धः कविर्यः पुत्रः सईमाचिकेतयस्ताविजानात्सपितुष्पितातसत्’ इति ऋचं व्याचष्टे ॥ य इति ॥ ताम् उ इत्यस्यार्थस् तानेवेति । उ इत्यस्यार्थ एवेति आङोऽर्थः सम्यगिति । मदुपास्या इति को वक्तीत्याकाङ्क्षायामाह ॥ एतद्दीर्घतमो वाक्यमिति ॥ उक्तं चानुव्याख्याने ।


ॐ मन्त्रवर्णात् ॐ

सूत्रभाष्यम्

॥ ॐ मन्त्रवर्णात् ॐ ॥ ४४ ॥

‘पादोऽस्य विश्वा भूतानि’ (ऋ.सं. १०-९०-३) इति ।

तत्त्वप्रकाशिका

श्रुत्या चैतमर्थं साधयत्सूत्रं पठित्वा तां श्रुतिमुदाहरति ॥ मन्त्रेति ॥ पादोंऽशः ।

गुर्वर्थदीपिका

श्रुत्या चैतमर्थं साधयदितीत्यत्र यद्यपि भाष्यकारोदीरितसूत्रोपलक्षितपाराशर्यायणश्रुतौ ‘अंशो ह्येष’ इति साक्षादंशत्वमप्युदीरितम् । तथापि ‘नानाव्यपदेशात्’ इति सूत्रकृता साक्षात्सङ्गृहीतश्रुतौ सूत्रशेषोपात्तश्रुतिद्वये चांशत्वस्यानुकीर्तनात्साक्षादंशत्वकथनरूपत्वान्न पूर्वसूत्रस्यापि वैयर्थ्य-मित्यूह्यम् । श्रौतांशत्वे विवदमानं प्रति साधकयुक्तिप्रतिपादकश्रुतिस्मृतिसङ्ग्रहायोत्तरसूत्रद्वयम् । अतो न गतार्थतेति ज्ञेयम् ।

वाक्यार्थमुक्तावली

अपेराकर्षः । ज्ञः परस्यांश इत्यनुवृत्तिरत्रानुसन्धेया ।

तत्त्वसुबोधिनी

कथमनेनांशत्वमुक्तमित्यतः पाद इत्येतद् अंशपरतया व्याख्याति ॥ पादोंऽश इति ॥

वाक्यार्थमञ्जरी

पादोऽस्येति श्रुतेश्च जीव ईशांश इत्यर्थः ।