१८ अंशाधिकरणम्

ॐ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ

१८. अथ अंशाधिकरणम्

सूत्रभाष्यम्

‘अंशा एव हीमे जीवा अंशी हि परमेश्वरः ।

स्वयमंशैरिदं सर्वं कारयत्यचलो हरिः’ ॥

इति गौपवनश्रुतौ अंशत्वं जीवस्योपलभ्यते ।

‘नैवांशो न सम्बन्धो नापेक्ष्यो जीवः परस्य ।

तथाऽपि तु यथायोगं फलदः प्रभुरेकराट् ।

न नियम्यः स कस्यापि स सर्वस्य नियामकः’ ॥

इति च भाल्लवेयश्रुतौ ।

अतो ब्रवीति –

॥ ॐ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ ॥४३॥

‘मां रक्षतु विभुर्नित्यं पुत्रोऽहं परमात्मनः’ । ‘अवः परेण पितरं यो अस्यानुवेद पर एनावरेण’ (ऋ.सं. १-१६४-१८) । ‘यस्तद्वेद स पितुष्पिताऽसत्’ (म.ना.उ. २-४) । ‘यस्ता विजानात्स पितुष्पिताऽसत्’ (ऋ.सं. १-१६४-१६) ।

‘द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।

तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति’ ॥ (मुं.उ.३-१-१)

इत्यादिना नानाव्यपदेशादंशो जीवः । तथा च पाराशर्यायणश्रुतिः –

‘अंशो ह्येष परस्य योऽयं पुमानुत्पद्यते च म्रियते च नाना ह्येनं व्यपदिशन्ति पितेति पुत्रेति भ्रातेति च सखेति च’ इति । ‘अन्यः परोऽन्यो जीवो नासावस्य कुतश्चन । नायं तस्यापि कश्चन’ इत्यन्यथा च काषायणश्रुतिः । ‘ब्रह्म दाशा ब्रह्म क्रितवाः, ब्रह्मैवेमे दाशा’ इत्यभेदेनाप्येकेऽधीयते । तथा चाग्निवेश्यश्रुतिः – ‘अंशो ह्येष परस्य भिन्नं ह्येनमधीयिरेऽभिन्नं ह्येनमधीयिर’ इति । वाराहे च–

‘पुत्रभ्रातृसखित्वेन स्वामित्वेन यतो हरिः ।

बहुधा गीयते वेदैर्जीवोंऽशस्तस्य तेन तु ॥

यतो भेदेन तस्यायमभेदेन च गीयते ।

अतश्चांशत्वमुद्दिष्टं भेदाभेदौ न मुख्यत’ ॥ इति ।

तत्त्वप्रदीपिका

‘नानाव्यपदेशः’ पितृपुत्रत्वादिनानाप्रकारसम्बन्धव्यपदेशः । ‘अवः परेण’ इत्यस्यायमर्थः । अवो ऽवरः जीव इति यावत् । योऽवरो ऽस्य स्वस्य जगतो वा पितरं यथावद्वेद, परेण न तु स्वतः, स तु परो भवति । अनेनावरभूतेन दर्शनक्रममपेक्ष्य । स्वरूपदृष्ट्यनन्तरं हि भगवन्तं पश्यति ।

‘स्त्रियः सतीः’ इत्यस्यायमर्थः । स्त्रियः सतीः पुंस आहुर्वेदादिशब्दैः । अभिमान्यपेक्षया चायं व्यपदेश उपपद्यते । ज्ञानदृष्टिमानेव तान्पश्यति नाज्ञानी । कविः पुत्रो ब्रह्मा । ‘‘यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मा’’ इति श्रुतेः ‘तेने ब्रह्म हृदा य आदिकवय’ इत्यादिस्मृतेश्च । स एव आ समन्ताद्वेद यस्तानि च्छन्दांसि विशिष्टत्वेन जानाति, साक्षाद्विष्णुवाचकत्वेन, स पितुर्विष्णोः पिता भवति व्यञ्जकत्वात् ।

नानाव्यपदेशोंऽशत्वं पर्यवसाययतीत्यत्र प्रमाणमाह– तथा चेत्यादिना ॥ ‘अन्यथाव्यपदेशः’ सम्बन्धराहित्यव्यपदेशः पितृत्वादिना लोकवदानुरूप्या भावापेक्षया परस्यानुपकार्यत्वापेक्षया च, न तु सर्वथा । नियम्यनियामकलक्षणस्य तत्र तत्र प्रसिद्धत्वात् । ‘न सम्बन्धो नापेक्ष्यो जीवः परस्य’ इत्युक्त्वाऽपि ‘स सर्वस्य नियामकः’ इति ह्याह । अभेदेनाप्येकेऽधीयते, अतश्चांशः । न च क्वाप्य-भेदस्याध्ययनात्स्वरूपांशत्वमापतति, बहुत्वाद्भेदश्रुतीनां तदनुग्रहो न्याय्य इति । न हि मुख्याऽभेदोक्तिः, तद्गुणसारत्वादिति गत्युक्तेश्च । उक्तं चानुव्याख्याने–

‘स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि ।

सादृश्ये चैक्यवाक्सम्यक्सावकाशा यथेष्टतः’ ॥ इति ।

तत्त्वप्रकाशिका

अत्र परमात्मनि श्रुतिसमन्वयसिद्ध्यर्थं जीवविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । हरौ श्रुतिसमन्वयो निरूपितः । स च जीवविषयश्रुतिविरोधेनाप्रामाण्येऽनुपपन्नः स्यादिति निराकार्यः । प्रकृतो जीवोऽत्र विषयः । किमीश्वरांशो न वेति सन्देहः । संशयबीजं श्रुतिविगानं दर्शयति ॥ अंशा एवेति ॥ तत्र न जीवो हरेरंशः नाप्यनंश इति निर्णयो युज्यत इति पूर्वः पक्षः । न तावदंशत्वं निर्णेतुं शक्यम् । नैवांश इति श्रुतेः । न च तत्र परस्येति जीवान्तरविवक्षा । तथापीत्यादिवाक्यशेषविरोधात् । नाप्यनंशत्वनिर्णयः । ‘अंशा एव’ इति श्रुतेः । न च विकल्पेनाविरोधो यवव्रीहिश्रुत्योरिव वस्तुविकल्पायोगात् । ‘अंशा एव’ नैवांश इति सावधारणत्वात् । न च देशकालविभेदेन व्यवस्थितो विकल्पः । विशेषप्रमाणमन्तरेण तादृश-निश्चयायोगात् । न च जीवेशाभेदस्य सयुक्तिकं निरस्तत्वादनंशत्वश्रुतिर्बलवतीति वाच्यम् । अभेदाभावेऽप्यंशत्वस्याविरोधात् । समस्तपटाद्भिन्नस्याप्येकस्य तन्तोस्तदंशत्वदर्शनात् । अतः श्रुतिद्वयस्यापि नानात्वादप्रामाण्यमेवेति नोक्तसमन्वयो युक्त इति प्राप्ते सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥

जीवः परमात्मनोंऽशो भवत्येव । मां रक्षत्वित्यादिना नानाप्रकारेण जीवस्येशसम्बन्धित्व-व्यपदेशात् । तत्सम्बन्धित्वमेव तदंशत्वमिति वक्ष्याम इति भावः । यः पराद्धरेरवमो जीवोऽस्य जगतः पितरं वेदानेनावरेणायं परो जात इति व्यपदिश्यते तज्ज्ञानं च दुर्लभं को नु सर्वज्ञकल्पः प्रजासु ब्रह्म प्रावोचत् कस्य चैतदेवं मनो ज्ञानमाधिक्येन जातमित्यर्थः । यस्तद् ब्रह्म वेद स तस्य पितुः पिताभवदित्यर्थः । या भगवन्मूर्तयो मदुपास्याः स्त्रीलिङ्गशब्दवाच्यास्ता एव परमपुरुषानाहुः । यस्ताः पश्यति स एव चक्षुष्मान् यश्च जानाति स तस्य जगत्पितुरभिव्यञ्जकत्वात् पिताभवदित्यर्थः । एतद्दीर्घतमो वाक्यम् । नानाव्यपदेशादंशो जीव इत्यत्र श्रुतिं चाह ॥ तथा चेति ॥ हेत्वन्तरेणैतत्समर्थयति ॥ अन्य इति ॥ अन्यथा वक्ष्यमाणाभेदापेक्षया । एतत् श्रुतिद्वयेन जीवेशयोर्भेदाभेदावुच्येते । न चान्यतरश्रुतिबाधो युक्तः । न च साक्षाद्भेदाभेदावुपपन्नौ । विरोधात् । अतः श्रुतिद्वयान्यथानुपपत्त्या भेदमङ्गीकृत्याभेदस्थानेंऽशत्वं वक्तव्यमिति भावः । उक्तं चाभेदश्रुतयोंऽशत्वादिति । भेदाभेदोक्त्यन्यथानुपपत्त्यांऽशो जीव इत्यत्रापि श्रुतिमाह ॥ तथा चेति ॥ समस्तसूत्रार्थे स्मृतिं चाह ॥ वाराहे चेति ॥

गुर्वर्थदीपिका

यवव्रीहिश्रुत्योरिवेति वैधर्म्यदृष्टान्तः । यवव्रीहिश्रुत्योरिवेह वस्तुद्वयविषयत्वाभावात् । एकस्मिन्वस्तुनि च विकल्पायोगादित्यर्थः । अभेदाभावेऽपीति तार्किकरीत्या पूर्वपक्षः । तस्य मते एकतन्तोः पटांशत्वात्ततोऽत्यन्तभिन्नत्वाच्च । ‘यस्ता विजानात्स पितुः पिताऽसत्’ इति श्रुतिसमाख्ययाऽयं परो जात इति व्यपदिश्यत इत्युक्तम् । ज्ञाताऽपरो जीवः परस्यापि पितेति फलितोऽर्थः । एतद्देवमित्यत्र उद्दिश्येति शेषः । एष पूर्वोक्तश्चासौ देवश्चेति विग्रहः । मे मम सम्बन्धिन्य इत्यस्य तात्पर्यकथनं मदुपास्या इति ॥ शत्रन्तपश्यत्पदस्य तात्पर्यकथनं पश्यतीति । ई इत्यस्यार्थकथनं स एवेति । मे इत्यनेनोक्त उपासको मुनिः क इत्यत आह एतद्दीर्घतमोवाक्य-मिति ॥ दीर्घतमसो ऋषेर्वाक्यं दीर्घतमोवाक्यम् । अन्यथा च काषायाणश्रुतिरिति भाष्येऽर्थानुसारेण ‘ब्रह्मदाशा ब्रह्मकितवा’ इत्यारभ्य ‘अभेदेनाप्येके अधीयत’ इत्यन्तं वाक्यं प्राग्योजनीयम् । ‘अन्यः परो अन्यो जीवो नासावस्य कुतश्चन । नायं तस्यापि कश्चन’ इति काषायणश्रुतिः । अन्यथोक्ता-भेदादन्यथा भेदेनेति यावत् । अधीयत इति योग्यक्रियाध्याहारेण पूर्ववाक्यं पश्चाद्योजनीयम् । यत्तु नानाव्यपदेशाद् द्वासुपर्णेत्यादिभेदव्यपदेशाद् अन्यथा भेदादन्यथा ऐक्येनेति यावद् दाश-कितवादित्वमधीयते । अतो भिन्नाभिन्नत्वाज्जीवोंऽश इति व्याख्यानं तत्तु न सूत्रकृतोऽभिमतम् । तथा सति नानाव्यपदेशादैक्यव्यपदेशाच्चेत्यवक्ष्यत् । ‘एके दाशकितवादित्वमधीयते’ एके ‘अन्यथा चाधीयत’ इति सूत्रखण्डस्य वैयर्थ्यमेव स्यात् । अन्यथा चैके अधीयते ततोऽपीति व्याख्यानमपि सूत्रस्याल्पाक्षरताभङ्गादुपेक्षणीयम् । तथाऽप्युत्तरांशस्य पुनर्वैयर्थ्यमेव । तस्मादधीयत एक इत्युक्त्वा अन्यथा चेति वदता चशब्दात्पूर्वक्रियामाकृष्य ततोऽन्यथा च केचिदधीयते । अपि ततोऽप्युक्तविधया भेदाभेदव्यपदेशादंश इत्यंशत्वे हेत्वन्तरमेवोत्तरवाक्येन सङ्गृहीतम् । पूर्ववाक्येन च नानाव्यपदेशाद् भेदव्यपदेशादित्येवोक्ते पौनरुक्त्यप्रसङ्गात्केवलं तदीयत्वस्फोरकपितृत्वभ्रात्रादित्वेन नानाव्यपदेशादंश इति प्राथमिको हेतुरुक्त इति सौत्रपदरत्नावलिमहिम्ना लब्धोऽर्थः । अतः सूत्रपदपद्मवासनां वायुरेव सङ्गृहीतुं दक्षो न त्वपरः कोऽपि सुरः । किमुतान्यो दानवो मानवो वा ।

भावबोधः

अनन्तरसङ्गतिं सूचयति– विषयमिति ॥ प्रकृतो जीव इति ॥ ईश्वराधीनकर्तृत्ववत्त्वेन पूर्वाधिकरणे प्रकृत इत्यर्थः । तथा च ‘तद्गुणसारत्वात्’ इत्यत्र यदीश्वरसादृश्यमुक्तं जीवस्य यच्च ‘परात्तु तच्छ्रुतेः’ इति परमात्माधीनत्वमुक्तं तदुभयरूपस्यांशत्वस्यात्र समर्थनादनन्तरसङ्गतिरिति भावः । यथोक्तमनुव्याख्याने ‘सादृश्यं चांशतास्य तु’ इति । व्याख्यातं च सुधायामस्य जीवस्य परमेश्वरांशता तु तत्सादृश्यम्, ‘च’ शब्दात्तदधीनसत्तादित्वं चेत्यर्थ इति ॥ किमिति ॥ अत्र न वेत्यनन्तरमित्यनिर्णय उत ईश्वरांश एवेति शेषपूरणेन व्याख्येयम् । अत्र जीवः किमीश्वरांश उत नेति चिन्ता । तदर्थं श्रुत्योः सावधारणतया निरवकाशत्वेन परस्परविरोधेनाप्रामाण्यमेवोत भिन्नांशत्वस्वरूपांशत्वाभावविषयत्वेनाविरोधात् प्रामाण्यमिति । तदर्थं परमात्मांशत्वे जीवानां मत्स्यादिसाम्यं प्राप्नोत्युत नेति । तदर्थं मत्स्यादिभ्यो जीवानां प्रवृत्त्यादौ भगवदधीनत्वादि-रूपवैलक्षण्यं नास्त्युतास्तीति । तदर्थं तत्र प्रमाणं नास्त्युतास्तीति । भाष्ये विशिष्य पूर्वपक्षानुक्तेर् न्यायविवरणे च नानाश्रुतेरप्रामाण्यमिति अंशत्वानंशत्वश्रुत्योः परस्परविरोधेनाप्रामाण्यमित्य-निर्णयेनैव पूर्वपक्षोक्तेस्तदनुसारेण पूर्वपक्षमाह– तत्र न जीव इति ॥ वाक्यशेषविरोधादिति ॥ तथा च युक्तेरप्रयोजकत्वेन तदुपोद्बलितश्रुतेः प्राबल्यमिति भावः । वक्ष्याम इति । ‘अंशो ह्येष’ इति ‘पुत्रभ्रात्रि’त्यादिश्रुतिस्मृत्युदाहरणेनेत्यर्थः । परेणेति तृतीया पञ्चम्यर्थ इत्याह– परादिति ॥ जात इति व्यपदिश्यत इति शेषोक्तिः । कुत इत्यस्य तात्पर्यं कस्य वेति ॥ अधीत्यस्याधिकत्वेनेत्यर्थः । स्त्रियः सतीरिति ऋचमादितो व्याचष्टे– या इति ॥ मे इति षष्ठ्यर्थः ॥ मदुपास्या इति ॥ को वक्तीत्यत आह– एतद्दीर्घतमो वाक्यमिति ॥ उक्तं चेति ॥ अनुव्याख्यान इति शेषः ।

भावदीपः

किमीश्वरांशो न वेतीति वक्ष्यमाणपूर्वपक्षानुगुण्याय जीवानां ब्रह्मांशत्वं निर्णेतुं शक्यमुत नेति सन्देहकोटिप्रदर्शने कार्येऽप्येवमुक्तिर् भाष्ये श्रुतिविगानरूपसन्देहबीजोक्त्यनुरोधेन वा एवं संशय-कोटिकीर्तने तद्विरुद्धसिद्धान्तकोटिरर्थलब्धेति वा बोध्यम् । नानाश्रुतेरप्रामाण्यमित्यन्यत्रोक्त्यनुरोधेन श्रुतिद्वयाप्रामाण्यमुपपादयन् अनिर्णयेन पूर्वपक्षमाह ॥ तत्रेत्यादिना ॥ श्रुतिशेषोक्तेरुपयोगं व्यनक्ति ॥ न चेत्यादि ॥ अंशा एवेति श्रुतेरिति भाष्ये श्रुतिशेषोक्तिः । सिद्धान्ते भिन्नांशत्वोपपादक-तयोपयोज्यत इति भावः । श्रुतिद्वयस्थावधारण व्यावर्त्यमाशङ्क्य बीजोक्त्या निरस्यति ॥ न चेति ॥ व्रीहिभिर्यजेत यवैर्यजेतेति श्रुत्योरित्यर्थः । उक्तं च जैमिनिसूत्रे द्वादशस्य तृतीयपादे एकार्थास्तु विकल्प्येरन् समुच्चये चावृत्तिः स्यात् प्रधानस्येति व्रीहीणां यवानां चोभयेषामपि पुरोडाशप्रकृतित्वेन पुरोडाशसाधनत्वरूपैकार्थेन विरोधप्राप्तौ कदाचिद् व्रीहीणामनुष्ठानं प्रयोगान्तरे च यवानामिति विकल्पस्तथेत्यर्थः ॥ वस्त्विति ॥ अनुष्ठानरूपक्रियायाः कृतिसाध्यत्वे-नैच्छिकत्वेऽपि इह जीवाख्ये वस्तुनि अंशत्वमनंशत्वं चायुक्तमित्यर्थः । अवधारणस्यान्यथो-पपत्तिमाशङ्क्य देशादिविशेषोक्तिरहितसामान्यश्रुतिद्वयोक्त्या लब्धं समाधिमाह ॥ न च देशेत्यादिना ॥ यथा एकस्यैव वस्तुनो घटादेर्देशकालभेदेन सत्त्वमसत्त्वं च तथेत्यर्थः । श्रुतावंशैरिदं कारयतीति कर्तृत्वकारयितृत्वाभ्यां जीवपरयोर्भेदप्रतीतेरंशत्वोक्तिरयुक्तेति प्रतीतं विरोधमाशंक्य भिन्नस्याप्यंशत्वं सदृष्टान्तमाह ॥ न चेत्यादिना ॥ समस्तपटाद्भिन्नस्यापीति ॥ यद्यपि समस्तपटेन सर्वतन्तूनामत्यंताभेद एकैकस्य तु खण्डपटेनात्यन्तभेदः समस्तेन तु भेदाभेदौ । यथोक्तम् ‘अंशिनो हि पटाद्या ये भिन्नैरेव परस्परम् । अंशैरंशिन उच्यन्ते नैवमेव हि चेतना’ इति इतरव्यपदेशादित्यधिकरणानुव्याख्याने सुधायां चांशिना भिन्नाभिन्ना इति ॥ तथापि भेदांश-मात्रस्यायमनुवादः । उक्तं सर्वं नानाश्रुतेरप्रामाण्यमित्यन्यत्रोक्तनानात्वोपपादकमिति दर्शयन्नर्थत-स्तदनुवादेन फलोक्त्योपसंहरति ॥ अत इति ॥ विकल्पेन वान्यतरबाधेन वा निर्णयासम्भवा-दित्यर्थः । श्रुतेरिति जात्येकवचनमिति भावेन श्रुतिद्वयस्येत्युक्तम् । नानात्वाद् भिन्नार्थत्वादित्यर्थः । सूत्रे परस्येति ज्ञ इति च पदद्वयानुवृत्तिं मत्वा भाष्यं सूत्रानुरोधेन व्युत्क्रमेण व्याचष्टे ॥ जीव इति ॥ अनिर्णयपूर्वपक्षनिरासाय भवत्येवेत्युक्तिः ॥ वक्ष्याम इति ॥ अंशो ह्येष इत्यादिप्रमाणै-रित्यर्थः । जीवेशसम्बन्धपरत्वप्रतीत्यर्थं शेषोक्त्या श्रुत्यर्थमाह ॥ य इति ॥ परेणेत्यस्य परादित्यर्थः । अवोऽवमः । एना एनेन अनेनेत्यर्थः । द्वितीयाटौ स्वेनः । कवीयमानः क इह प्रवोचद्देवं मनः कुतो अधिप्रजातमित्युत्तरार्धमवतारयति ॥ तज्ज्ञानं च दुर्लभमिति ॥ इह प्रजासु । कुतः कस्य । ब्रह्मपरत्वस्फोरणायोत्तरार्धोक्तिः । न हीशादन्यस्य ज्ञानं दुर्लभमिति भावः । अत एव ब्रह्मेति शेषोक्तिस् तच्छब्दपरामर्शविषयं दर्शयन् ‘स्त्रियः सतीस्ताम् उमे पुंस आहुः पश्यदक्षण्वान्न-विचेतदन्धः । कविर्यः पुत्रः स इमाचिकेतेति पूर्ववाक्यद्वयमपि व्याचष्टे ॥ या इति ॥ तच्छब्द-श्रवणाद्या इत्युक्तिः । मे मत्सम्बन्धिन्यः मदुपास्या इति यावत् । उ एव । मे इत्यस्मच्छब्दस्याहं शतधा सहस्रधा चेत्यादाविवेश्वरवाचित्वभ्रमनिरासायाह ॥ एतदिति ॥ दीर्घतमा नाम कश्चिदृषिः । अतो मदुपास्या इति व्याख्या युक्तेति भावः । सूत्रादावन्यथा चेति चशब्दो हेतुसमुच्चय इति भावेनाह ॥ हेत्वन्तरेणेति ॥ तत्त्वप्रदीपरीत्यांशो ह्येष इत्येतदपेक्षयैवेति प्रतीतिनिरासायाह ॥ वक्ष्यमाणेति ॥ दृष्टभेदानुसारेण तासामर्थोपपत्तेरित्यन्यत्रोक्तिसूचितं भावमाह ॥ एतच्छ्रुतिद्वयेनेत्यादिना ॥ अभेदस्थानेंशत्वमित्यत्रैतदधिकरणानुभाष्यसंमतिमाह ॥ उक्तं चेति ॥ समस्तसूत्रार्थ इति ॥ नानाव्यपदेशादंशो जीव इत्यर्थे अन्यथाऽधीयते दाशकितवादित्वमधीयते अतश्चांश इत्यर्थे चेत्यर्थः ।

अभिनवचन्द्रिका

श्रुतिसमन्वयो निरूपित इति ॥ वाक्यान्वयेन जीवविषयकवक्ष्यमाणश्रुतेः, जीवार्थकत्व-मङ्गीकृत्य समन्वयोऽभिहितः । जीवविषये च श्रुतेरप्रामाण्ये भगवति समन्वयोऽनुपपन्नः स्यादिति भावः ॥ किमीश्वरांशो न वेति ॥ यद्यप्ययं संशयो न वक्ष्यमाणपूर्वपक्षकोट्यवलम्बी, तथापि जीवो नेश्वरांश इत्यपि पूर्वपक्षः कार्य इति द्योतयितुमेवं प्रदर्शितः । पूर्वपक्षमाह– तत्रेति ॥ यद्यपि सिद्धान्ते अंशत्वसाधनादनंश इत्येव पूर्वपक्षः कार्यः, तथापि यावान् सूत्रनिरस्यो विपर्ययः, स सर्वोऽपि पूर्वपक्ष इति दर्शयितुमयं पूर्वपक्षो दर्शितः । अयं च ‘श्रुती अनिर्णायके’ इति विपर्ययः, श्रुत्या ‘अंश’ इति निर्णये कृते अर्थान्निरस्तो भवति’ इति सूत्रनिरस्यो भवति । व्रीहियवश्रुत्योरिव व्यवस्थितविकल्पेनाऽविरोधमाशंक्य निषेधति – न चेति ॥ वस्तुविकल्पेति ॥ भवेत्तत्र विकल्पः श्रुतिद्वयोक्तक्रियायाः श्रुत्युक्तसाधनयोर्द्वयोरन्यतरोपादानेन स्वेच्छया निष्पादयितुं शक्यत्वात् । इह तु सिद्धस्वरूपस्य जीवस्य इच्छानुसारेण अंशत्वानंशत्वयोरयोगेन विकल्पो न युज्यत इति भावः । बाधकान्तरमाह– अंशा एवेति ॥ व्यवस्थितविकल्पमाशङ्क्य निषेधति– न चेति ॥ एकस्यैव सिन्धुनद्याः परभागे स्थित्या ब्राह्मण्यं, तत्परभागे स्थित्याऽ-ब्राह्मण्यामितिवत्, जीवस्य भूलोकादिस्थित्याऽनंशत्वं स्वर्गादिस्थित्यांऽशत्वमिति देशभेदेन वा, एकस्यैव सुद्युम्नस्य कालभेदेन स्त्रीत्वपुंस्त्ववत्, इदानीमनंशत्वं कालान्तरेंऽशत्वमिति कालभेदेन वा, व्यवस्थितो विकल्पो भविष्यतीति न वक्तव्यमित्यर्थः ॥ विशेषप्रमाणमन्तरेणेति ॥ सुद्युम्नादौ ‘आचार्यानुग्रहात्कामं लब्ध्वा पुस्त्वं व्यवस्थया’ इत्यादि प्रमाणसद्भावान् निर्णयो युज्यते । प्रकृते तु प्रमाणाभावान्न निर्णयो युज्यत इति भावः ॥ अत इति ॥ अस्यैव विवरणं श्रुतिद्वयस्यापि नानात्वादिति ॥ श्रुत्योश्च नानात्वं नाम परस्परविरुद्धत्वमिति बोध्यम् । ‘अवः परेण पितरं यो अस्यानुवेद पर एनावरेण कवीयमानः क इह प्रवोच देवं मनः कुतो अधिप्रजातम्’ इति ऋचः पूर्वार्धं व्याचष्टे – यः परादिति ॥ अवरस्य जगत्पितृवेत्तृत्वेऽपि जगत्पितुस् तज्जातत्वव्यपदेशः कुतः । देवदत्तस्य स्वज्ञातपुत्रत्वव्यपदेशाभावादित्यत आह – तज्ज्ञानं च दुर्लभमिति ॥ चशब्दो हिशब्दार्थः । यस्मात्तज्ज्ञानं दुर्लभं तस्मात्तज्ज्ञात इति व्यपदिश्यत इत्यर्थः । देवदत्तस्य स्वज्ञातपुत्रत्वव्यपदेशाभावेऽपि परमेश्वरस्य स युज्यत एव । असतः सत्तासम्बन्धवद् अनभिव्यक्तव्यक्तेरपि उत्पत्तिशब्दार्थत्वादिति भावः । न च तज्ज्ञानस्य दुर्लभत्वमसिद्धम्, उत्तारार्धे तथोक्तत्वादिति भावेनोत्तरार्धं व्याचष्टे – को नु सर्वज्ञकल्प इति ॥ ‘स्त्रियः सतीस्ताम् उभे पुंस आहुः पश्यदक्षण्वान्नविचेतदन्धः । कविर्यः पुत्रः स ईमाचिकेत यस्ता विजानात् सवितुष्पितासत्’ इति ऋचं व्याचष्टे – या भगवन्मूर्तय इति ॥ ऋषिज्ञानमवश्यं सम्पादनीयमिति भावेनाह– एतद्दीर्घतमोवाक्यमिति ॥ श्रुतिं चाहेति ॥ सूत्रार्थे स्मृतेर्वक्ष्ममाणत्वात् तद्विवक्षयाऽयं चः पठितः ॥ हेत्वन्तरेणेति ॥ हेत्वन्तरप्रतिपादकसूत्रखंडव्याख्यानेनैतत्समर्थयत इत्यर्थः ॥ अभेदस्थानेंऽशत्वमिति ॥ सम्बन्धित्वमित्यर्थः । भिन्नेऽपि अत्यन्तं प्रीत्यास्पदे भृत्ये ‘अयमेव राजा’ इत्यादि प्रयोगदर्शनादिति भावः ॥ उक्तं चेति ॥ अनुव्याख्यान इति शेषः ।

वाक्यार्थमुक्तावली

जीवस्य परात्तु तच्छ्रुतेरिति यत्पराधीनत्वमुक्तं यच्च तद्गुणसारत्वादिति ईश्वरसादृश्यं तदुभय-रूपम् अंशत्वम् इह समर्थ्यत इत्यनन्तरसङ्गतिः ॥ यथोक्तम् ॥ सादृश्यं चांशताऽस्य तु इति । सुधायां च चशब्दात्तदधीनसत्तादित्वं चेति ॥ किमीश्वरांशो न वेति सन्देह इति ॥ अत्र नेत्यस्यानंश इत्यर्थः । अत एव न जीवो हरेरंशो नाप्यनंश इति निर्णयो युज्यत इति ॥ उभयोरनिर्णयेन पूर्वपक्षं प्रतिज्ञाय न तावदंशत्वं निर्णेतुं शक्यं नाप्यनंशत्वमिति निर्णय इति विवरणं क्रियते । न्यायविवरणे च नानाश्रुतेरप्रामाण्यमित्युभयश्रुत्यप्रामाण्येन पूर्वपक्षं प्रापय्य दृष्टभेदानुसारेण तासामर्थोपपत्तेः । अप्रामाण्यकल्पनस्य च विपरीतज्ञानमूलत्वादित्युभयप्रामाण्येन सिद्धान्तितम् । सूत्रे चांशो नानेति अंशनिर्णयेन प्रकाशादिवन्नेत्यत्र स्वरूपांशत्वाभावेनानंशत्वनिर्णयेन सिद्धान्तो वर्तिष्यते । ततश्च जीवानां ब्रह्मांशत्वमनंशत्वं वा निर्णेतुमशक्यमुत शक्यमिति चिन्ता । तदर्थमंशा एव नैवानंश इति सावधारण श्रुत्योर्निरवकाशत्वेनाप्रामाण्यमुत विभिन्नांशत्वरूपांशाभावपरत्वेनो-भयोरपि प्रामाण्यमिति । तदर्थमंशत्वनिर्णये मत्स्यावतारादिसाम्यप्रसङ्गो भवति न वेति ॥ सन्देहबीजमिति ॥ सावधारणश्रुत्योरवधारणमहिम्नांशत्वानंशत्वकोट्युपस्थापकत्वं विरुद्धत्वादेवा-निर्णयकोट्युपस्थापकत्वमिति भावः । भावबोधे तु अत्र न वेत्यनन्तरम् इत्यनिर्णय उतेश्वरांश एवेति निर्णयो वेति शेषः । ततश्च जीवः किमीश्वरांश इति निर्णयो न सम्भवत्युत सम्भवतीत्युक्तम् । टीकायामपि सन्देहात्मकपूर्वपक्षकोटिकीर्तनेन तद्विरुद्धसिद्धान्तकोटिरर्थलब्धेति पृथङ्नोक्तेत्युक्तम् । चन्द्रिकायामपि जीवानां किं ब्रह्मांशत्वं निर्णेतुमशक्यमुत शक्यमिति चिन्तेत्युक्तम् । केचित्तु यद्यपीश्वरांशो न वेति संशयेन वक्ष्यमाणपूर्वकोटाववलम्बी । तथापि जीवो नेश्वरांश इत्यपि पूर्वपक्षः कार्य इत्यपि द्योतयितुम् । अत एवांश इति सिद्धान्तो वर्तिष्यत इत्याहुः । भाष्ये सावधारणतया निरवकाशश्रुतिरित्युक्तपूर्वपक्षन्यायं विवृण्वन् पूर्वपक्षमाह ॥ नैवांश इति ॥ श्रुतेः सावकाशत्व-माशङ्क्य तत्परिहारव्याजेन वाक्यशेषोदाहरणकृत्यमाह ॥ न च तत्रेति ॥ श्रुतौ सम्बन्ध इत्यस्य विवरणं नापेक्ष्यत इति । तथापि जीवेनानुपकृतत्वेऽपि योग्यतामनतिक्रम्य फलदः । न च योग्यता-पेक्षायां स्वातन्त्र्यभङ्ग इत्युक्तम् ॥ एकराडिति ॥ तदपेक्षा च लीलया दण्डावलम्बनमिव वैभवेनेति भावेनोक्तं प्रभुरिति ॥ न च विकल्पेनेति ॥ कुतो न विकल्पेनाविरोध इति चेदत्र वक्तव्यम् । यागसाधनीभूतपुरोडाशस्य यजमानेच्छया व्रीहिभिर्यवैर्वा संपादयितुं शक्यत्वेनोभयप्रकृतिकत्वात् । अव्यवस्थितविकल्पाश्रयणेन व्रीहिभिर्यजेत यवैर्यजेतेति श्रुत्योरिव किमत्राव्यवस्थितो विकल्पः । उत देशकालादिभेदेन व्यवस्थितो विकल्प इति विकल्पं ह्रदि निधायाद्यमाह ॥ यवेति ॥ पुरोडाशस्य साध्यत्वादिच्छानुसारेणोभयप्रकृतिकत्वसम्भवेन यवव्रीहिश्रुत्योरव्यवस्थितविकल्पः सम्भवति । व्रीहिभिरेव यवैरेवेति । निरवधारणत्वाज्जीवस्य सिद्धं स्वरूपत्वेनेच्छानुसारेणांशत्वानंशत्वरूपोभय-प्रकृतिकत्वासम्भवेन यवव्रीहिश्रुत्योरिवाव्यवस्थितो वस्तुविकल्पोऽनयोरुपपद्यते । अंशा एव नैवांश इति सावधारणत्वेनोभयप्रकृतिकतया सावकाशत्वस्य कल्पयितुमशक्यत्वादिति भावः । द्वितीय-माशङ्क्य निषेधति ॥ न चेति ॥ होलकादीनां देशभेदेनाचारत्वानाचारत्ववदश्वालम्भनस्य कालभेदेनाचारत्वनाचारत्ववच्च देशकालभेदेनांशत्वानंशत्वयोर्व्यवस्थितेऽपि विकल्पो नेति भावः ॥ विशेषप्रमाणमिति ॥

अश्वालम्भं गवालम्भं सन्यासं पलपैतृकम् ।

देवरेण सुतोत्पत्तिं कलौ पञ्च विवर्जयेत् ॥

इत्यश्वालम्भस्य कालभेदकर्तव्यत्वे विशेषप्रमाणवदत्र प्रमाणाभावात् । एतेनैतदपि निरस्तम् । केषाञ्चिज्जीवानामंशत्वं केषाञ्चिदनंशत्वमिति व्यक्तिभेदेन व्यवस्थितविकल्पः किं न स्यादिति विशेषप्रमाणाभावात् । अंशा एव हि मे जीवा इति सर्वेषामंशस्योक्तत्वादिति भावः । ननु मत्स्यादिभेदानिमित्तकोंऽशशब्द इति जीवानामंशत्वे भेद एव प्रवृत्तिनिमित्तं स्यात् । न च प्राङ्निरस्त इत्यनंशत्वश्रुतिर्भेदसाधकप्रत्यक्षादिसाहाय्याब्दलवतीत्याशंक्य निषेधति ॥ न च भेदाभावेति ॥ मत्स्यादिष्विवाभेदाभावेऽपि निमित्तविशेषेणांशशब्दवाच्यत्वाविरोधाद् इत्यर्थः । अभेदाभावेऽप्यंशत्वं कुत्र दृष्टमित्यत आह ॥ समस्तेति ॥ विशिष्टपटाद्भिन्नस्य ततः पृथुतरस्या-प्येकस्य तन्तोरयं पटस्तदंश इत्यनुभवादित्यर्थः । अत एव समस्तपटादखण्डपटाद्भिन्नस्येत्युक्तम् । सुधायां च सिद्धान्ते त्वंशत्वं, सादृश्यं चांशताऽस्य त्विति निर्वक्तुम् । अंशत्वं नारम्भकत्वम् । परमात्मनोऽनारब्धत्वात् । नापि खण्डत्वमच्छेद्यत्वात् । न च प्रदेशत्वम् । पटादिवदनित्यत्व-प्रसङ्गाद् इति प्रसक्तप्रतिषेधदशायां समस्तपटाद्विभक्ते ततोऽत्यन्तभिन्नेऽपि तन्त्वादौ खण्डत्वे-नांशत्वमुक्तमिति ज्ञेयम् । परादिति सूत्रात्परस्येत्यनुषङ्गमभिप््रोत्य नानाव्यपदेशाद् रक्ष्यत्वपुत्र-त्वादिनानाप्रकारेण जीवस्येशसम्बन्धित्व व्यपदेशाज् ज्ञः परस्यांश इत्यभिप््रोत्य प्रवृत्तभाष्यभावमाह ॥ ज्ञ इति ॥

ननु रक्ष्यत्वपुत्रत्वादिव्यपदेशेन रक्ष्यत्वादिकमस्तु अंशत्वं कुत इत्यत आह ॥ तत्सम्बन्धित्व-मेवेति ॥ रक्ष्यत्वपुत्रत्वाद्यविनाभूततदधीनत्वतत्सादृश्यलक्षणतत्सम्बन्धित्वमेव तदंशत्वमिति । विभिन्नांशोऽल्पशक्तिः स्यात् किञ्चित्सादृश्यमात्रयुक्’ इत्यत्र वक्ष्याम इत्यर्थः । रक्ष्यत्वादिव्यपदेशे तदधीनत्वलाभात् । पुत्रत्वादिव्यपदेशेन सादृश्यलाभात् । तदधीनसारूप्यस्यैवांशशब्दार्थत्वस्य सादृश्यं चांशतास्य त्वित्यनुव्याख्याने चशब्दात्तदधीनत्वं चेति सुधायां चोक्तत्वादिति ज्ञेयम् । परेणेत्यस्यार्थः परादिति ॥ जायत इति ॥ व्यपदिश्यत इति शेषोक्तिः । जीवेन ज्ञातत्वमात्रेण पुत्रव्यपदेशेऽपि प्रसङ्ग इत्यतः कवीयमानः क इह प्रवोचद्देवं मनः कुतोऽधिप्रजातमित्युत्तरार्धं प्रवृत्तमिति भावेन तदवतारयति ॥ तद्ज्ञानं चेति ॥ इत्युत्तरार्धं वक्तीति शेषः । तथा च परमात्मज्ञानस्यातिदुर्लभत्वेन प्रागनभिव्यक्तस्य ब्रह्मणो ज्ञानेनाभिव्यक्तत्वेन पुत्रत्वव्यवहारः । यज्ञदत्तादिज्ञानस्यादुर्लभत्वाद् देवदत्तादिना ज्ञातत्वेऽपि तत्पुत्रत्वाव्यवहार इति नातिप्रसङ्ग इति भावः । अन्यथा प्रकृतानुपयुक्तस्योत्तरार्धस्येहाव्याख्येत्वप्रसङ्ग इति बोध्यम् । व्यवहारगोचरत्वा-भावेऽपीश्वरज्ञानस्य दुर्लभत्वाज् ज्ञानमात्रेण गौण्या जनितत्वव्यपदेश विषयत्वमिति भावेनोत्तरार्धं प्रवृत्तमिति भावेनावतारयति तद्ज्ञानं चेति । दुलभमित्युत्तरार्धं वक्तीति शेषः । उत्तरार्धं व्याचष्टे कोन्विति ॥ को वा कवीयमानः सर्वज्ञकल्प इह प्रजासु ब्रह्मेति शेषः । प्रवोचत् प्रावोचत् । कुतः कस्य च दैवं देवविषयं मनः ज्ञानम् ।

ननु मनःशब्द इन्द्रिये रूढः । सत्यम् अनुवेदेति ज्ञानस्य प्रकृतत्वादिति भावेनोक्तम् ॥ एतदिति ॥ अधि आधिक्येन प्रजातमित्यर्थः । यस्तद्वेदेति नानाव्यपदेशरूपं वाक्यान्तरं व्याचष्टे ॥ यस्तदिति ॥ असदित्यस्य प्रतिपदम् अनुभवदिति । स्त्रियःसतीस्ता उमे पुंस आहुः पश्यदक्षण्वान्नविचेतदन्धः ॥ कविर्यः पुत्रः स इमा चिकेत यस्ताविजानात्सपितुष्पिता सत्’ । इति वामनसूक्त एव अवः परेणेत्यतःपूर्वं विद्यमानाम् ऋचं व्याचष्टे ॥ या भगवन्मूर्तय इति ॥ या मे सम्बन्धिन्यः मदुपास्याः स्त्रियः स्त्रीलिङ्गवाच्याः सतीः सतीभवत्यः न तु व्यवस्थितस्त्रियः । सतीर् निर्दुष्टा वा । ता उत एव पुंसः परमपुरुषानाहुः । यस्ता इत्यनुकृष्यते । यः पुरुषस् ताः पश्यन् पश्यति स एव अक्षण्वान् चक्षुष्मान् नविचेतत् स अन्धः । यः कविः सर्वज्ञः पुत्रो भगवत्पुत्रो विरिञ्चः स एवेमा भगवन्मूर्तीश् चिकेतत् सम्यग् जानाति । यश्च ता विजानाज् जानाति सस् तस्य जगत्पितुरभिव्यञ्जकत्वात्पिता अभवदित्यर्थः । मदुपास्या इति को वक्तीत्यत आह ॥ एतद्दीर्घेति ॥ नानाव्यपदेशादिति ॥ नानाव्यपदेशेऽप्यंशत्वं कुत इत्याशङ्कायामिति शेषः । सूत्रार्थे स्मृतेर्वक्ष्यमाणत्वात् श्रुतिं चेति चशब्दः । यद्वा न केवलं परमाप्तबादरायणवाक्यादवसीयते श्रुतिं चेत्यर्थः । अत एव तथा च तथैव पाराशर्यायणश्रुतिरिति भाष्यार्थः ॥ हेत्वन्तरेति ॥ पूर्वं रक्ष्यत्वपुत्रत्वादिसम्बन्धव्यपदेशात्तदधीनसारूप्यलक्षणमंशत्वमङ्गीकार्यमित्युक्तम् । अधुना भेदाभेदान्यथानुपपत्तिलक्षणहेत्वन्तरेणैतदंशत्वं समर्थयत्सूत्रखण्डं व्याचष्टे इत्यर्थः । पूर्वोक्तादन्यथेति प्रतीतिनिरासायाह ॥ वक्ष्यमाणाभेदापेक्षयेति ॥ एके शाखिनः परस्परांशं कितवादित्वमप्यधीयते जीवस्य ब्रह्माभेदमधीयत इति यावत् । अन्यथा वा अन्यः परो अन्यो जीव इति भेदं चाधीयत एके यतोऽतश्च जीवोंश इत्यर्थः । भाष्ये नासावस्य कुतश्च नेत्यस्यायमर्थः । असौ परमात्मा अस्य जीवस्य कुतश्चन केनापि प्रकारेण नोपकर्तेति । अन्यःपरोऽन्यो जीव इत्यंशस्यैव प्रकृतोप-योगान्नासावस्येत्यंशस्योदाहरणं व्यर्थमिति चेन्न । जीवस्य परोपकार्यत्ववत्परस्यापि जीवोपकार्यत्वे परोऽपि जीवांशः प्रसज्येत । तदधीनत्वप्राप्तेः पुत्रत्वेन गुणाः पितुरिति न्यायेन तत्सादृश्येन जीवस्य तदंशत्वे सादृश्यस्योभयत्र सत्त्वेनेश्वरोऽपि जीवांशः प्रसज्येतेत्यतो नासावस्योदाहरणं ब्रह्मण उपकार्यत्वाभावान्न जीवाधीनत्वम् अत एव तेन गुणलाभाभावान्न तन्निरूपितसादृश्यमस्येति न तदंशत्वमिति । अत एव तत्त्वप्रदीपे अन्यथा व्यपदेशः पितृत्वादिना लोकसारूप्याभावापेक्षया परस्यानुपकार्यत्वापेक्षया चेति । अन्यथा चाप्यधीयत एके इत्ययमंशः पूर्वत्रापि योजितो बोध्यः । अत एव नैवांशो न सम्बद्धो नापेक्ष्यो जीवः परस्येत्यत्र जीवस्यानंशत्वमुक्त्वा तर्हि किमंशित्वमिति शङ्कानिरासाय सम्बन्धो नापेक्ष्यो जीवः परस्येत्यंशत्वं निषिध्यत इति ज्ञेयम् ॥ उक्तञ्चेति ॥ अनुव्याख्यायामिति शेषः ।

तत्त्वसुबोधिनी

अनन्तरसङ्गतिं सूचयन् विषयमाह ॥ प्रकृतो जीव इति ॥ ईश्वराधीनकर्तृत्वेन पूर्वाधिकरणे प्रकृत इत्यर्थः । परमात्माधीनत्वमुक्तम् । तदुभयरूपस्यांशत्वस्यात्र समर्थनाद् अनन्तरसङ्गतिरिति भावः । नैवांश इति भाष्यस्यायमर्थः । जीवपरस्परानाह । स्वरूपांशो नैव जीवः परस्परेण सम्बद्धो न स्वसम्बन्धेन परमात्मनि दुःखित्वापादकसम्बन्धवान् नेत्यर्थः । जीवः परेणापेक्ष्यो न, जीवापेक्षः परस्परं नास्तीत्यर्थः । भाष्ये विशिष्य पूर्वपक्षानुक्तेर् न्यायविवरणे च नानाश्रुतेरप्रामाण्यमिति अनिर्णयेनैव पूर्वपक्षोक्तेस् तदनुसारेणैवानिर्णयेन पूर्वपक्षमाह ॥ तत्र न जीव इति ॥ भाष्ये वाक्यशेषोदाहरणनिवर्त्याशंकामुत्थापयति ॥ न चेति ॥ वाक्यशेषविरोधादिति ॥ तत्र यथायोग्यफलदातृत्वरूपविष्णुलिङ्गस्य सत्त्वाज् जीवान्तरविवक्षायां तद्विरोधः स्यादित्यर्थः । एतदर्थमेव वाक्यशेषोदाहरणमिति भावः ॥ वस्तुविकल्पायोगादिति ॥ अंशत्वानंशत्वयोः परस्परविरुद्धत्वेन एकस्य विरुद्धरूपद्वयवत्तायोगादित्यर्थः । प्रकारान्तरेणानंशत्वश्रुतिः किं न व्याख्यायत इत्यत आह ॥ अंशा एवेति ॥ द्वयोरपि समबलत्वेन एकानुपूर्वीत इति भावः । अंशत्वस्याविरोधादिति ॥ तथा च युक्तेरप्रयोजकत्वेन तदुपोब्दलितश्रुतेः प्राबल्यमिति भावः । तत्सम्बन्धित्वव्यपदेशेऽपि तदंशत्वं कुत इत्यत आह ॥ तत्सम्बन्धित्वमेवेति ॥ वक्ष्याम इति ॥ अंशो ह्येष इत्यादिश्रुतिस्मृत्युदाहरणेनेत्यर्थः । परेणेति तृतीया पञ्चम्यर्थ इत्याह ॥ परादिति ॥ जात इति व्यपदिश्यत इति शेषोक्तिः । कवीयमान इत्यस्यार्थः सर्वज्ञकल्प इति । इहेत्यस्य प्रजास्विति । ब्रह्मेति शेषोक्तिः । कुत इत्यस्य तात्पर्यं कस्य वेति । दैवं देवविषयम् । मन इत्यस्यार्थो ज्ञानं मन ज्ञाने इति धातोर् अधीत्यस्याधिकत्वेनेत्यर्थः । ब्रह्म दाशा इत्यस्यायमर्थः दाशा दाशवाच्याः कितवाः कितवशब्दवाच्या जीवा ब्रह्म । ब्रह्म इमे दाशा एव । अन्यः परः जीवाज् जीवो ऽन्यः परात् । असावीश्वरः कुतश्चन केनापि प्रकारेण नोपकर्तव्यः । अयं जीवस् तस्येश्वरस्य कुतश्चन नोपकर्ता । स्त्रियः सतीत्यृचमादितो व्याचष्टे ॥ या इति ॥ मे इति षष्ट्यर्थो मदुपास्या इति को वक्तीत्यत आह ॥ एतद्दीर्घतमोवाक्यमिति ॥ उक्तं चानुव्याख्यान इति भावः ।

वाक्यार्थविवरणम्

विकल्पेनेति ॥ कदाचिदंशः, कदाचिदनंश इति विकल्पेनेत्यर्थः ॥ वस्त्विति ॥ यवव्रीहि-द्रव्ययोर्भिन्नत्वात् तत्र युक्तो विकल्पः । अत्र त्वेकस्मिन्नेव जीवेंऽशत्वानंशत्वरूपविरुद्धधर्मद्वया-लिङ्गितत्वप्राप्तेर्न विकल्पो युक्त इत्यर्थः । तत्र व्यक्तिभेदवदत्र तदभावादिति भावः । विकल्पपक्षे दूषणान्तरमाह ॥ अंशा एवेति ॥ यवव्रीहिश्रुत्योर्निरवधारणत्वेन युक्तस्तत्र विकल्पः । अत्र त्वंशा एवेति श्रुतानंशत्वस्य निषिद्धत्वान्नैवांश इति श्रुतावंशत्वस्य निषेधादतो न विकल्पावसर इत्यर्थः ॥ व्यवस्थित इति ॥ कस्मिंश्चिद्देशे कस्मिंश्चन काले केचिज्जीवा अंशाः केचन जीवा अनंशा इति व्यवस्थित विकल्प इत्यर्थः ॥ निरस्तत्वादिति ॥ अंशत्वस्याभेदाविनाभूतत्वेन तदभावेऽयोगा-दित्याशयः । तथा च ‘जीवोंऽशो न भवति । अभेदशून्यत्वात् । घटवत्’ । इत्यनुमानमुक्तं भवति । अत्राप्रयोजकमाह ॥ अभेदाभावेऽपीति ॥ व्यभिचारं चाह ॥ समस्तेति ॥ नानात्वात् । परस्पर-विरुद्धार्थप्रतिपादकत्वात् । भाष्ये कस्यापीत्यस्य केनापीत्यर्थः । कुत इत्यतस्तत्साधनीभूतस्य ज्ञानस्यैव कस्याप्यसम्भवादित्याहुः ॥ कस्य वेति ॥ दैवं मन इति ॥ तद्वै दैवं मनो येनानन्द्येव भवतीति श्रुतेः । मे मदुपास्याः स्त्रिय इति भगवत्स्त्रीमूर्तीनां स्वोपास्यत्वं दीर्घतमा वक्ति । न चैतद्युक्तम् । ‘नैनमस्त्री पुमांन् ब्रुवन्’ इति भगवत्स्त्रीमूर्तिध्यानस्य निषिद्धत्वात् । अत एवोक्तं प्राक् प्रकृत्यधिकरणे । निषेधस्त्वज्ञेयतामात्रार्थः’ इति । अतः कथमेतदित्यत आह ॥ स्त्रीलिङ्गवाच्या इति ॥ स्त्रीलिङ्गान्तशब्दवाच्या इत्यर्थः । न विचेतदित्यस्य व्याख्यानं न जानातीति । ई इत्यस्यार्थ एवेति । आ इत्यस्यार्थः सम्यगिति । मदुपास्या इति को वक्तीत्यत आह ॥ एतदिति ॥ दीर्घतमा ऋषिः ॥ हेत्वन्तरेणेति ॥ सम्बन्धित्वरूपनानाव्यपदेशेनांशत्वं समर्थ्य भेदाभेदव्यपदेशा-न्यथानुपपत्तिरूपहेत्वन्तरेणैतदंशत्वं समर्थयत इत्यर्थः ॥ वक्ष्यमाणेति ॥ दाशकितवादित्वमिति वक्ष्यमाणेत्यर्थः । तथा च ‘दाशकितवादित्वमधीयतेऽन्यथा चाप्यधीयत’ इति सूत्रेऽन्वयो द्रष्टव्यः । दाशकितवाद्यभेदेनाधीयते, तदपेक्षयाऽन्यथा चाप्यधीयते । तथा च भेदाभेदव्यपदेशा-न्यथानुपपत्तिरुक्ता भवतीति ध्येयम् ॥ अन्यतरेति ॥ भेदाभेदश्रुत्योर्मध्येऽन्यतरेत्यर्थः । उभयोरपि स्पष्टतया निरवकाशत्वेनार्थान्तरकल्पनाऽनवकाशादिति भावः । भाष्ये ‘अन्यः परोऽन्यो जीवो नासावस्य कुतश्चन । नायं तस्यापि कुतश्चन’ इति श्रुतेः । परो भगवान् जीवादन्यः । जीवश्च परमात्मनोऽन्य इति प्रतिज्ञाद्वयम् । तत्र हेत्वाकाङ्क्षायां विरुद्धधर्माधिकरणत्वादित्याह ॥ नासा-वित्यादिना ॥ असौ भगवान् कुतश्चन कारणादस्य जीवस्योपकर्तव्यो न । जीवकृतोपकारवान्न भवतीति यावत् । जीवस्तु तत्कृतोपकारवानिति पूरणीयम् । परो ऽयं जीवः कुतश्चन कारणात्तस्यापि परमात्मन उपकर्ता न । परमात्मा च तस्योपकर्तेति चन्द्रिकोक्तरीत्याऽर्थो ज्ञातव्यः । असौ परो ऽस्य जीवस्य भृत्यो न । अयं च जीवस्तस्यापि परमात्मनः स्वामी नेत्यर्थो ज्ञातव्यः । अस्य तस्येति षष्ठ्योः स्वस्वामिभावार्थकत्वेन पूर्ववदध्याहाराभावादिति प्राहुः । असौ परः । अस्य जीवस्य ये दुःखादिधर्मास्तद्वान्न भवति । अयं जीवस्तस्य परमात्मनो ये धर्माः सार्वज्ञाद्यास्तद्वान्न भवतीत्यर्थ इत्यप्याहुः । भाष्ये तस्य हरेरंशत्वं जीवस्योद्दिष्टमित्यन्वयः ॥ भेदाभेदेति ॥ जीवानां भेदो मत्स्यादीनामभेद इति विवेकः ।

वाक्यार्थमञ्जरी

यवव्रीहिश्रुत्योरिति ॥ यथा यवैर्यजेत व्रीहिभिर्यजेतेति श्रुत्योर्यवैर्वा यजेत व्रीहिभिर्वा यजेतेत्य व्यवस्थितविकल्पेन विरोधपरिहारस्तथा जीवोंऽशो वाऽनंशोऽस्त्वित्यव्यवस्थितविकल्पेनांशानंश श्रुत्योर्विरोधपरिहार इत्यर्थः ॥ वस्तुविकल्पेति ॥ तत्र श्रुतिद्वयस्य निरवधारणत्वेनोक्तरीत्या विकल्पसम्भवेऽपि प्रकृते श्रुतिद्वयस्य सावधारणत्वेनोभयथाऽर्थग्रहे एकस्मिञ्जीवाख्ये वस्तुन्यंशत्वा-नंशत्वरूपद्वैरूप्यायोगादित्यर्थः ॥ न चेति ॥ यथैकस्यैव घटस्य देशकालभेदेन सत्त्वासत्त्वे तथेत्यर्थः ॥ समस्तेति ॥ अत्र सर्वेषां तन्तूनां पटाद्भेदाभेदाङ्गीकारादेकस्येत्युक्तम् एकस्यापि तन्तोः खण्डपटाद्भेदाभेदाङ्गीकारात् समस्तपटेति नानात्वाद् विरुद्धार्थप्रतिपादकत्वात् । ॐ अंशो नाना-व्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ । जीवः परमात्मनोंश एव कुतः नानाव्यपदेशात् पितापुत्रत्वादिनानाप्रकारेण तस्येशसम्बन्धित्वोक्तेः । किं च ब्रह्मदाशाब्रह्मकितवा इत्येके शाखिनः दाशा मत्स्यग्राहिणः ब्रह्मकितवा वञ्चका ब्रह्मेत्येवं ब्रह्मणो दाशकितवादित्वं दाशकितवोपलक्षितसर्वजीवाभेदमधीयन्ते पठन्ति एके च अन्यः परोऽन्यो जीव इत्यन्यथा च भेदेनाधीयते अत एतदुभयान्यथानुपपत्त्यांशत्वमित्यर्थः ॥ वक्ष्याम इति ॥ अंशो ह्येषः पुत्रभ्रात्रित्यादिश्रुतिस्मृत्युदाहरणेनेति शेषः । परेणेत्यस्यार्थः परादिति अव इत्यस्यावम इति जात इति व्यपदेश इति शेषोक्तिर् व्यञ्जकत्वादिति भावः ॥ तज्ज्ञानं च दुर्लभमिति ॥ कवीयमानः क इह प्रवोचद्देवं मनः कुतो अधिप्रजातमित्युत्तरार्धं तज्ज्ञानं च दुर्लभमित्याहेत्यर्थः । तद्व्याचष्टे ॥ कोन्विति ॥ कवीयमान इत्यस्यार्थः सर्वज्ञकल्प इति इहेत्यस्य प्रजास्विति ब्रह्मेति शेषोक्तिः कुत इत्यस्य तात्पर्यं कस्य चेति अधीत्यस्याधिक्येनेति ‘स्त्रियः सतीस्ताम् उमे पुंस आहुः पश्यदक्षण्वान्नविचेतदन्धः कविर्यः पुत्रः सईमाचिकेतयस्ताविजानात्सपितुष्पितातसत्’ इति ऋचं व्याचष्टे ॥ य इति ॥ ताम् उ इत्यस्यार्थस् तानेवेति । उ इत्यस्यार्थ एवेति आङोऽर्थः सम्यगिति । मदुपास्या इति को वक्तीत्याकाङ्क्षायामाह ॥ एतद्दीर्घतमो वाक्यमिति ॥ उक्तं चानुव्याख्याने ।


ॐ मन्त्रवर्णात् ॐ

सूत्रभाष्यम्

॥ ॐ मन्त्रवर्णात् ॐ ॥ ४४ ॥

‘पादोऽस्य विश्वा भूतानि’ (ऋ.सं. १०-९०-३) इति ।

तत्त्वप्रकाशिका

श्रुत्या चैतमर्थं साधयत्सूत्रं पठित्वा तां श्रुतिमुदाहरति ॥ मन्त्रेति ॥ पादोंऽशः ।

गुर्वर्थदीपिका

श्रुत्या चैतमर्थं साधयदितीत्यत्र यद्यपि भाष्यकारोदीरितसूत्रोपलक्षितपाराशर्यायणश्रुतौ ‘अंशो ह्येष’ इति साक्षादंशत्वमप्युदीरितम् । तथापि ‘नानाव्यपदेशात्’ इति सूत्रकृता साक्षात्सङ्गृहीतश्रुतौ सूत्रशेषोपात्तश्रुतिद्वये चांशत्वस्यानुकीर्तनात्साक्षादंशत्वकथनरूपत्वान्न पूर्वसूत्रस्यापि वैयर्थ्य-मित्यूह्यम् । श्रौतांशत्वे विवदमानं प्रति साधकयुक्तिप्रतिपादकश्रुतिस्मृतिसङ्ग्रहायोत्तरसूत्रद्वयम् । अतो न गतार्थतेति ज्ञेयम् ।

वाक्यार्थमुक्तावली

अपेराकर्षः । ज्ञः परस्यांश इत्यनुवृत्तिरत्रानुसन्धेया ।

तत्त्वसुबोधिनी

कथमनेनांशत्वमुक्तमित्यतः पाद इत्येतद् अंशपरतया व्याख्याति ॥ पादोंऽश इति ॥

वाक्यार्थमञ्जरी

पादोऽस्येति श्रुतेश्च जीव ईशांश इत्यर्थः ।


ॐ अपि स्मर्यते ॐ

सूत्रभाष्यम्

॥ ॐ अपि स्मर्यते ॐ ॥ ४५ ॥

‘ममैवांशो जीवलोके जीवभूतः सनातन’ (भ.गी.१५-७) इति ।

तत्त्वप्रकाशिका

स्मृत्याप्येतमर्थं साधयत्सूत्रं पठित्वा तां स्मृतिमुदाहरति ॥ अपीति ॥ जीवलोके जीवच्छरीरे जीवभूतो जीवाख्यः ।

भावदीपः

श्रुत्या चेति ।

अभिनवचन्द्रिका

तथा सतीति ॥ जीवस्येश्वरांशत्वे सति मत्स्यादिसाम्यापातान् न जीवस्येश्वरांशत्वमिति पूर्वेण सम्बन्धः । अस्तु जीवस्यांशत्वं तथापि न मत्स्यादिसाम्यं मत्स्यादीनां महत्त्वापादक-स्यांशत्वस्य विजातीयत्वादित्यत उक्तम्– अंशत्वाविशेषादिति ॥ अंशत्वे तारतम्यादर्शनाज् जीवस्यांऽशत्वे मत्स्यादिसाम्यमवर्जनीयमिति भावः । मत्स्याद्यसाम्यमिति ॥ अंशत्वविषये मत्स्याद्यसाम्यं चार्थ इत्यर्थः । यद्यपि सूत्रे अनंशत्वश्रुतेः साक्षाद् गतिर्नोक्ता, तथापि अर्थात् सिध्यतीति भाष्ये तथोक्तम् ॥ जीवानामिति ॥ जीवानां मत्स्यादीनां च भगवदंशत्वेन श्रौतत्वाविशेषेऽपि आनन्दादिसाम्यं न प्रयुज्यत इत्यर्थः । तत्र हेतुमाह– मत्स्यादीनामिति ॥ न चांशत्वाविशेषादिति ॥ अंशत्वे विशेषस्य क्वाप्यदर्शनाज् जीवा भिन्नांशाः, मत्स्यादयस्त्व-भिन्नांशा इति भेदाभेदानुपपत्तिरिति नेति भावः । अंशत्वाऽविशेषेऽपीति ॥ अंशत्वोक्त्य-विशेषेऽपीत्यर्थः ।

वाक्यार्थमुक्तावली

अत्र एवमित्यस्याकर्षः । यतोऽत इत्यध्याहारः । ज्ञः परांश इत्यनुवृत्तिः । ततश्च यतो ज्ञ एवं स्मर्यतेऽतोऽपि परस्यांश इत्यर्थः ॥ सनातनो नित्यः ॥

तत्त्वसुबोधिनी

जीवलोके जीवभूत इत्यस्यास्मिंल्लोके जीवात्मक इत्यन्यथा प्रतीतिनिरासायाह ॥ जीवलोक इत्यादिना ॥

वाक्यार्थमञ्जरी

न केवलमंशत्वं श्रूयते किन्तु ममैवांश इति स्मर्यतेऽपीत्यर्थः ।


ॐ प्रकाशादिवन्नैवं परः ॐ

सूत्रभाष्यम्

अनंशत्वश्रुतेर्गतिं चाह–

॥ ॐ प्रकाशादिवन्नैवं परः ॐ ॥ ४६ ॥

अंशत्वेऽपि न मत्स्यादिरूपी पर एवंविधः । यथा तेजोंऽशस्यैव कालाग्नेः खद्योतस्य च नैकप्रकारता । यथा जलांशस्यामृतसमुद्रस्य मूत्रादेश्च । यथा च पृथिव्यंशस्य मेरोर्विष्टादेश्च । अभिमानिदेवतापेक्षयैतत् ।

तत्त्वप्रदीपिका

अंशत्वेऽपि न मत्स्यादिरूपी भगवान् जीववद्भिन्नो दुःखी वा भवति । अतो जीवस्यानंशत्व-श्रुतिः । यथा तेजसश्च तदंशस्य कालाग्नेश्चैकोऽग्निदेवोऽभिमानी न तस्य स्वरूपभेदः, तथाऽत्र न स्वरूपभेदः । अभिमानिदेवतापेक्षयैतदिति भाष्यात् । खद्योतस्तु तेजोंऽशोऽप्यन्यो जीवः । तथा जलांशभूतावमृतसमुद्रो मूत्रादिश्च । तथाऽपि तयोर्नैकप्रकारता । जलाभिमानी वरुणोऽमृतसमुद्रस्य च । मूत्राद्यभिमानी भिन्नोऽस्ति । एवं पृथिव्यामपि गमनीयम् ।

‘भिन्नांशस्यैव जीवस्य बन्धमोक्षौ न मे क्वचित् ।

अभिन्नांशास्तु मत्स्याद्यास्तेजसः कालवह्निवत् ।

जीवा भिन्नांशकास्तत्र तेजसः प्रतिबिम्बवत्’ ॥ इति च वैलक्षण्ये ।

‘स्वात्मानं परमं विष्णुं विदित्वाऽपि स राघवः ।

दैत्यानां मोहनार्थाय दर्शयामास मूढताम्’ ॥ इति च पाद्मे ।

‘नित्यपूर्णसुखज्ञप्तिस्वरूपोऽसौ यतो विभुः ।

अतोऽस्य राम इत्याख्या तस्य दुःखं कुतोऽण्वपि ॥

तथाऽपि लोकशिक्षार्थमदुःखो दुःखवर्तिवत् ।

अन्तर्हितां लोकदृष्ट्या सीतामासीत्स्मरन्निव ॥

ज्ञापनार्थं पुनर्नित्यसम्बन्धं स्वात्मनः श्रिया ।

अयोध्याया विनिर्गच्छन्सर्वलोकस्य चेश्वरः ।

प्रत्यक्षं तु तया सार्धं जगामानादिरव्ययः ।

नाक्षत्रमासगणितं त्रयोदशसहस्रकम् ।

ब्रह्मलोकसमं चक्रे समस्तं क्षितिमण्डलम् ॥

रामो रामो राम इति सर्वेषामभवत्तदा ।

सर्वो राममयो लोको यदा रामस्त्वपालयत्’ ॥ इति च स्कान्दे ।

तत्त्वप्रकाशिका

न जीवस्येश्वरांशत्वं युक्तम् । तथा सत्यंशत्वाविशेषान्मत्स्यादिसाम्यापातादनंशत्व-श्रुतिविरोधाच्चेत्याशङ्कां परिहरत्सूत्रमवतारयति ॥ अनंशत्वेति ॥ मत्स्याद्यसाम्यं चार्थः । सूत्रं व्याचष्टे ॥ अंशत्वेऽपीति ॥ जीवानां मत्स्यादीनां च भगवदंशत्वाविशेषेऽपि न सर्वसाम्यम् । मत्स्यादीनां स्वरूपांशत्वाज् जीवानां भिन्नांशत्वात् । न चांशत्वाविशेषाद्भेदाभेदानुपपत्तिः । कालाग्निखद्योतादिष्वग्न्याद्यंशेष्वंशत्वाविशेषेऽपि तद्दर्शनादिति भावः । ननु कालाग्निखद्योतादीनां तेजःप्रभृतिभूतकार्याणां भेदाभेदसाम्यात्कथमत्रैते दृष्टान्ता इत्यत आह ॥ अभिमानीति ॥ तेजोजलपृथिव्यभिमानिनां कालाग्न्यमृताब्धिमेवाभिमानिनामभिन्नत्वात्खद्योताद्यभिमानिनां भिन्नत्वाद्युक्तं दृष्टान्तत्वमिति भावः ।

गुर्वर्थदीपिका

मत्स्याद्यसाम्यं चार्थ इत्यत्रांशत्वेऽपीति शेषः । न चांशत्वाविशेषाद्भेदाभेदानुपपत्तिरित्यत्र जीवानां चांशत्वाविशेषाज्जीवेषु भेदो मत्स्यादिष्वभेद इत्यनुपपत्तिरित्यर्थः । कालाग्निखद्योता-दीनामित्यत्र कालाग्निखद्योतप्रकाशयोरमृतसमुद्रजलमूत्रजलयोर्मेरुविष्ठारूपपृथिव्यंशयोश्च जडयो-रुभयोरप्युपादानभूततेजोमहाजलपृथिवीकार्यत्वेन भेदाभेदसाम्यात्कथं द्वैविध्यमित्यर्थः । खद्योता-द्यभिमानिनां तु भिन्नत्वादित्यनेनेदमभिप््रौति यथा सर्वगृहाभिमानिन्यपि यजमानिनी स्वगृहस्थतुच्छ-धूलीशिशुमलमूत्रादौ तद्योग्यामेव काञ्चिद्दासीमभिमानिनीं करोति । तथा प्रकृतेऽपि तेज-आद्यभिमानिन्योऽतिसमर्था अग्न्यादिदेवतास् तुच्छखद्योतप्रकाशमूत्रमलादिषु स्वतोऽत्यन्तभिन्नां स्वाधीनतया स्वस्या एवांशभूतां काञ्चिदपकृष्टदेवतामभिमानिनीं करोति । कालाग्न्यमृतसमुद्रमेर्वादौ प्रशस्तवस्तुनि गृहस्थधनकनकादि प्रशस्तवस्तुषु यजमानिनी स्वयमिव स्वांशमेव तत्रतत्राभिमानिनं करोति । अतस्तेजोजलपृथिव्याद्यंशेषु क्वचिद्भेदस्य क्वचिदभेदस्य च दर्शनाद्भगवदंशभूतेष्वपि तुच्छजीवेषु भेदोऽतिसमर्थमत्स्यकूर्मादिष्वभेद इति विभागोपपत्तेरिति । यद्यपि मेरौ मेरुनामकः कश्चिन्मेर्वभिमानी पुमानप्यस्ति । तथाऽपि पृथिवीत्वजात्याक्रान्तत्वात्पृथुत्वात् (प्रशस्तत्वाच्च) मेरौ साक्षात्पृथिव्यंशोऽपि कश्चिदस्त्यतो न विरोध इति ज्ञेयम् । ‘प्रकाशादिवन्नैवं पर’ इति सूत्रस्य मत्स्याद्यंशरूपी पर एवं हीनजीवांशवन्न, किंतु साक्षादभिन्न एव । तत्कथमिव प्रकाशादिवत् । यथा द्विविधप्रकाशादिषु स्वरूपभूतास्तेजोंशादयः नीचखद्योताद्यंशवन्न तथेति सूत्रपदयोजनिकां हृदि निधायाऽऽह– अंशत्वेऽपीत्यादिना ॥ तथा चायमभिसन्धिस्सूत्रकारस्य यथा प्रकृष्टप्रकाशा-दिषु मूलभूततेजआदिदेवतानां प्रकृष्टांशैः कालाग्न्याद्यभिमानिभूतस्वांशैरत्यन्ताभेद एव । अप्रकृष्ट-खद्योतादिप्रकाशाद्यभिमान्यंशदेवताभिरत्यन्तभेदः स्वाधीनत्वेनांशता च । एवमंशी भगवानप्यति-समर्थमत्स्याद्यंशेष्वत्यन्ताभिन्न एव । स्वाधीनतयांशपदवाच्येष्वसमर्थजीवाख्यांशेष्वत्यन्तभिन्न एवेति । एवं च जीवस्यानंशत्वप्रतिपादिका श्रुतिर् मत्स्यकूर्मादिस्वरूपांशत्ववदंशत्वाभावपरा । अतो न कश्चित्क्षुद्रोपद्रव इति ।

भावबोधः

जीवानामशत्वं सूत्रत्रयेणोक्त्वा अनंशत्वश्रुतेर्गतिं चाह । मत्स्यादिसाम्यप्रतीतिनिरासायाह– मत्स्याद्यसाम्यं चार्थ इति ॥ अन्यथोत्तरसूत्रपञ्चके मुखतो मत्स्याद्यसाम्यस्यार्थत अनंशत्व-श्रुतिगतेश्च प्रतीतेरवतारभाष्यस्य न्यूनत्वप्रसङ्गादिति भावः ॥ भेदाभेदेति ॥ जीवादीनां भेदो मत्स्यादीनामभेद इत्यर्थः ।

‘सूर्यमण्डलमान्येकस्तत्प्रकाशाभिमानवान् ।

सूर्योऽथ सप्तमाब्धेश्च बाह्योदस्य च वारिपः ॥

कठिनत्वेन मेर्वादिपृथिव्या अपि देवता ।

धरादेव्येवमेवैको भगवान् विष्णुरव्ययः ॥

नानावताररूपेण स्थितः पूर्णगुणः सदा ।

विण्मूत्राद्यभिमानिन्यो यथाऽपभ्रष्टदेवताः ॥

सूर्यादिभ्यस्तथैवायं संसारी परमात् पृथक् ॥’

इति भाष्यविवरणपरानुव्याख्यानं मनसि निधाय भाष्यं व्याचष्टे– तेजो जलेति ॥

भावदीपः

सूत्रे पूर्वस्माच्चापिशब्दयोरन्यतराकर्षं सूचयति ॥ चार्थ इति ॥ च शब्दार्थ इत्यर्थः । मत्स्यादेर्जीवसाम्यनिरासमात्रपरत्वप्रतीतेर्जीवेषु मत्स्याद्यसाम्योक्तिपरतयापि दृष्टान्तभाष्योक्त्यनुरोधेन सूत्रभाष्ययोरर्थमाह ॥ जीवानामिति ॥ दृष्टान्तोक्तेर्वैयर्थ्यनिरासायाह ॥ न चांशत्वेति ॥ भेदाभेदसाम्यादिति ॥ ‘खण्डिते भेद ऐक्यं च’ इत्युक्त्योपादानोपादेययोर्भेदाभेदस्वीकारात् । कार्यमात्रे भेदाभेदौ समौ । इह तु जीवानां भेदो मत्स्यादेरभेद इति कथं दृष्टान्त इत्यर्थः । अनंशत्वश्रुतिगतिस्तु सूत्रपञ्चकव्याख्यानानन्तरं विवरिष्यते इति भावः ।

वाक्यार्थमुक्तावली

जीवानामंशत्वं सूत्रत्रयेणोक्त्वाऽनंशत्वश्रुतिं चाहेति प्रतीयते । तथात्वे मत्स्यादिसाम्यापातात् स्वोक्तावतारो न भाष्यारूढः स्याद्भाष्यावतारस्य सूत्राक्षरानुगुण्यं च न स्यात् । उत सूत्रपञ्चके मुखतो मत्स्याद्यसाम्यस्यार्थतोऽनंशत्वश्रुतेर्गतेश्च प्रतीतेरवतारभाष्यस्य न्यूनत्वप्रसङ्गात् । सूत्रे अपिरनुवर्तते । एवमावर्तते । ततश्चैवमपि ज्ञपरयोरंशत्वेन श्रुत्युक्तत्वाविशेषेऽपि परो मत्स्यादिरूपी परमात्मा एवं जीववद्भिन्नांशो न कथं प्रकाशादिवत् प्रकाशशब्दे न तेजोंऽशः कालाग्निरुच्यते । अभिमानिव्यपदेशश्चायम् । यथा प्रकाशो ऽतिशयितप्रकाशवान्, तेजोंऽशः कालाग्न्यभिमानी खद्योताभिमानिवन्न, जलांशो ऽमृताब्ध्यभिमानीच मूत्राद्यभिमानिवन्न, पृथिव्यंशः मेर्वाद्यभिमानी च विश्वाभिमानिवन्न । कालाग्न्याद्यभिमानिनां तेज आद्यभिमान्यंशानामंश्यभिन्नत्वात् खद्योताभि-मानिनां तदत्यन्तभिन्नत्वादिति सूत्रार्थं हृदि निधायांशत्वेऽपीत्यादिभाष्यभावमाह ॥ जीवाना-मित्यादिना ॥ यद्यप्यनुव्याख्याने, ‘सूर्यमण्डलमान्येकस् तत्प्रकाशाभिमानवान् । सूर्योऽथ सप्तमाब्धेश्च बाह्योदस्य च वारिपः । कठिनत्वेन मेर्वादेः पृथिव्या अपिदेवताः । धरादेव्यैवमेवेको भगवान् विष्णुरव्ययः । नानावताररूपेण स्थितः पूर्णगुणः सदा । विण्मूत्राद्यभिमानिन्यो यथाऽप-भ्रष्टदेवताः । सूर्यादिभिस्तथैवायं संसारी परमात्पृथक्’ इति । प्रकाशादिवदित्यस्य यथा प्रकाशः सौरप्रकाशाभिमानी आदित्यः खद्योताभिमानिजीववन्नेति प्रकाशशब्दस्यालोकाख्यगुण-परत्वमङ्गीकृत्य तदभिमानिनो मण्डलाभिमानिसूर्यस्वरूपांशत्वम् । खद्योतादेस्तद्भिन्नांशत्वमिति व्याख्यातम् । तथा पीह प्रकाशशब्देन प्रकाशगुणककालाग्निपरत्वम् । तस्य चाग्निदेवस्वरूपां-शपरत्वम् । खद्योतादेस्तद्भिन्नांशत्वमिति रीत्यन्तरेण व्याख्यातम् । कालाग्निखद्योतादिष्वग्न्याद्यंशे-ष्विति टीकायां यथा तेजसस् तदंशस्य कालाग्नेश्चैकोऽग्निदेवोऽभिमानीति तत्त्वप्रदीपे स्पष्टत्वात् । केचित्तु अनुव्याख्यानानुसारेण तेजोंऽशः प्रकाशः खद्योतश्च । तत्र तेजोऽभिमानी सूर्यो ऽंशेन प्रकाशाभिमानी च खद्योताभिमानी त्वन्यो जीवः स च तेजोंऽशाभिमानित्वसाम्येन सूर्यांश इत्युच्यत इत्याहुः । भेदाभेदसाम्यादित्यर्थः ।

ननु सादृश्यं चांशताऽस्य तु’ इत्यनुव्याख्याने ‘विभिन्नांशोऽल्पशक्तिः स्यात्किञ्चित्सादृश्य-मात्रयुक्’ । इत्येतद्भाष्योक्तरीत्या तदधीनत्वे सति तत्सदृशत्वरूपे अंशत्वे प्रतिज्ञाते टीकायां जीवस्येश्वरांशत्वं युक्तम् । तथा सत्यंशत्वाविशेषान् मत्स्यादिसाम्यापातादिति मत्स्यादिसाम्य-चोदनमयुक्तम् । चोदने वा नैवं जीव इति सूत्रे वक्तव्यं न तु नैवंपर इति चेन्न । मत्स्यादि-साम्यापातादित्यस्य मत्स्यादेर्जीवसाम्यापातादित्यर्थसम्भवात् । तदधीनसारूप्यमंशत्वमित्यंश-शब्दनिर्वचनस्याधिकरणमथनलभ्यत्वात् । सामान्यत अंशित्वे साधितेंऽशशब्दवाच्यत्वा-विशेषान्मत्स्यादिसाम्ये चोदिते मत्स्यादेर्जीवविलक्षणांशत्वोक्त्या मत्स्यादिसाम्यव्यवच्छेदः स्यात् । अत एवांशत्वश्रुतेरभिन्नांशत्वाभावपरत्वेनात्रगतेश्चात्रोक्तेरविरोधात् । तदुक्तं तत्वप्रदीपे । अतो जीवस्यांशतानाम किञ्चित्सादृश्यमात्रयुक्तत्वमिति मथितोऽर्थ इति ।

तत्त्वसुबोधिनी

जीवानामंशत्वं सूत्रत्रयेणोक्त्वाऽनंशत्वश्रुतेर्गतिं चाहेति प्रतीतिनिरासायाह ॥ मत्स्याद्यसाम्यं चार्थ इति ॥ अन्यथोत्तरसूत्रपञ्चके मुख्यतो मत्स्याद्यसाम्यस्यार्थतो ऽनंशत्वश्रुतिगतेश्च प्रतीतेरवतारभाष्यस्य (न) न्यूनत्वप्रसङ्गादिति भावः ॥ भेदाभेदेति ॥ जीवानां भेदो मत्स्यादीना-मभेद इत्यर्थः ।

वाक्यार्थविवरणम्

तद्दर्शनात् ॥ भेदाभेदेत्यर्थः ॥ भेदाभेदेति ॥ कार्यकारणयोर्भेदाभेदनियमादित्यर्थः ।

वाक्यार्थमञ्जरी

परो मत्स्यादिरूपो परमात्मा एवं जीववद् भिन्नांशो न कथं प्रकाशाद्यभिमानिवदित्यर्थः । चार्थश् चशब्दार्थः ॥ भेदाभेदानुपपत्तिरिति ॥ मत्स्यादीनामभेदो जीवानां भेद इत्यनुपपत्तिरित्यर्थः ॥ भेदाभेदसाम्यादिति ॥ उभयोरपि खण्डितत्वेन स्वोपादानेन तेजआदिना भिन्नाभिन्नत्वेन कालाग्न्यादेरभेदः खद्योतादेर्भेद इति कथमित्यर्थः ।


ॐ स्मरन्ति च ॐ

सूत्रभाष्यम्

॥ ॐ स्मरन्ति च ॐ ॥ ४७ ॥

‘एते स्वांशकलाः पुंसः कृष्णस्तु भगवान्स्वयम्’ (भागवते) ।

‘अतः परं यदव्यक्तमव्यूढगुणबृंहितम् ।

अदृष्टाश्रुतवस्तुत्वात्स जीवो यः पुनर्भवः’ (भागवते) ॥

‘स्वांशश्चाथो विभिन्नांश इति द्वेधांऽश इष्यते ।

अंशिनो यत्तु सामर्थ्यं यत्स्वरूपं यथास्थितिः ॥

तदेव नाणुमात्रोऽपि भेदः स्वांशांशिनोः क्वचित् ।

विभिन्नांशोऽल्पशक्तिः स्यात्किञ्चित्सादृश्यमात्रयुक्’ ॥ इति वाराहे ।

‘न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः’ (भ.गी.११-४३) इत्यादि ।

तत्त्वप्रदीपिका

‘जगृहे पौरुषं रूपम्’ इत्यारभ्य प्रस्तुतावतारा एत इत्युच्यन्ते । एते पुरुषस्य स्वांशकलाः । स्वांशरूपाः कलाः स्वांशकलाः । कल्प्यन्त इति च कलाः । स्वांशकला इत्युक्तेऽपि भेदाभेदाशङ्का स्यादिति कृष्णो भगवान्स्वयमेवेत्युक्तम् । ‘नाणुमात्रोऽपि भेदः स्वांशांशिनोः’ इति चोपरिप्रमाण-वाक्यम् । अतः पुरुषोत्तमाज्जडाच्च यत्परम् अन्यदित्यर्थः । ‘कस्तं त्वनादृत्य परानुचिन्ताम्’ इतिवत् । अव्यक्तम् अनैन्द्रियकम् । अनादिकालाददृष्टाश्रुतवस्तुत्वादनपोढसत्त्वादि गुणबृंहितं स जीव इत्युच्यते । अंशिनो यत्तु सामर्थ्यं जगत्सृष्ट्यादौ यत्स्वरूपं ज्ञानानन्दादि यथा स्थितिर् देशतः कालतो गुणतो व्याप्तत्वेन तदेव स्वांशस्य । ‘न त्वत्समोऽस्ति’ इत्यादि च कृष्णं प्रति पार्थवचनम् । उक्तं चात्र भगवतैवान्यत्र–

‘यथैव कृष्णकेशस्य कृष्णस्य ब्रह्मताऽखिला ।

दर्शिता चैव पार्थाय निस्सीमाः शक्तयोऽस्य हि ॥’ इति ।

अतो जीवस्यांशत्वं नाम किञ्चित्सादृश्यमात्रयुक्तत्वमिति मथितार्थः ।

तत्त्वप्रकाशिका

ननु तत्र तथात्वेऽपि जीवानां मत्स्यादीनां स्वरूपांशत्वं चाभेदः किं न स्यादित्याशङ्कां स्मृतिभिः परिहरत्सूत्रमुपन्यस्य ताः स्मृतीरुदाहरति ॥ स्मरन्ति चेति ॥ परमपुरुषांशैः सर्वमवतिष्ठत इत्युक्ते के तेंऽशा इत्याशङ्कायां सविस्तरं वराहादीनां भगवदंशत्वमुक्त्वा जीवानामपि तदुक्तम् । ‘ऋषयो मनवो देवा मनुपुत्रा महौजसः । कलाः सर्वे हरेरेव सप्रजापतयः स्मृताः’ इति । तत्र वराहादीनां स्वरूपांशत्वमभिधीयते । एते परमपुरुषस्य स्वरूपांशविभागाः स्वयं कृष्णो भगवान्मूलरूप्येव । वराहादयो लोकं मृडयन्तीति जीवानामंशत्वेनोक्तानां भिन्नत्वमुच्यते । यदतः परमपुरुषाद्भिन्न-मकार्यमनाद्यनपगतसत्त्वादिगुणयुक्तं चैतन्यं स जीवः । यश्चादृष्टाश्रुतभगवत्स्वरूपत्वात्संसरतीति । कृष्णशब्दश्च नारायणेऽपि दृष्टः ‘कृष्णो मुक्तैरिज्यते वीतमोहैः’ इत्यादौ मत्स्यादीनां जीवानां च स्वरूपास्वरूपांशलक्षणयोगित्वाच्चांशिना भेदाभेदाविति भावेन स्वरूपास्वरूपांशलक्षणं तावत्स्मृत्या दर्शयति ॥ स्वांशश्चेति ॥ यत्स्वरूपं यथानन्दादि यथास्थितिर्यथासर्वोत्तमत्वादि तदेव स्वरूपांशस्य भवति । एतच्च स्वरूपांशलक्षणं कृष्णाद्यवतारेष्वस्तीति स्मृत्याह ॥ नेति ॥ जीवेषु विभिन्नांशलक्षणं त्वनुभवसिद्धम् ।

गुर्वर्थदीपिका

वराहादयो लोकं मृडयन्तीत्यत्र ‘इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे’ इति स्मृत्या वराहादयो लोकं मृडयन्ति । लोकास्तु तैः पाल्या इति भेदोक्त्या च जीवानां भिन्नांशत्वमिति भावः । मत्स्यादीनां स्वांशत्वेन विशेषणादभिन्नांशत्वम् । ऋषय इत्युत्तरश्लोके जीवानां केवलं कला इत्येवोक्तेर्भिन्नांशत्वमिति भावेनाऽऽह जीवानामिति ॥ व्यक्तिरुत्पत्तिस्तद्रहितमकार्यमिति भावेनाऽऽह– अकार्यमिति ॥ पुनर्भवनं पुनर्भव इति व्युत्पत्त्या संसारवाचकमपि पुनर्भवपदं पुनःपुनर्भवतीति व्युत्पत्त्या संसारिणमेव वक्तीत्याह संसरतीति ॥ देहसम्बन्धान्निमित्ताज्जीवांशस्य प्राकृतदेहेन सम्यग्बन्धनं निर्बन्धोऽस्तीति हेतोरित्यर्थः । अत एव सूत्रसूचितश्रुतौ स्मृतौ च जीवा बन्धादिसंयुताः ।

भावबोधः

सर्वमवतिष्ठत इत्युक्त इति ।

‘भावयन्नेव सत्त्वेन लोकान् वै लोकभावनः ।

लीलावतारनुगतस्तिर्यङ्नरसुरादिषु’ ॥

इत्यनेनेत्यर्थः । एते वराहाद्याः स्वांशरूपाः कलाः । कृष्णस्तु वसुदेवपुत्रः, न स्वयं भगवानित्यन्यथाप्रतीतिनिरासाय स्वांशकला इत्यस्य फलितप्रदर्शनपरतया कृष्णस्त्विति पदम् एते प्रेाक्ता अवतारा मूलरूपो हरिः स्वयमेवेति ॥ भागवततात्पर्यानुसारेण व्याचष्टे– स्वयं भगवानिति ॥ अनेन ‘तु‘ शब्द एवार्थ इत्युक्तं भवति । वराहादयो लोकं मृण्डयन्तीति । अनेनैत इत्यनूद्य भगवान् स्वयमित्यन्तेन मूलरूपाभेदः,

‘इन्द्रादिव्याकुलं लोकं मृडयन्ति युगे युगे’ ।

इत्यनेन लोकसुखदत्वं चोच्यत इत्युक्तं भवति । ‘अतः’ जडेश्वररूपयोः ‘परम्’ अव्यूढगुणबृंहितम् । अनादिकाले कदाचिदप्यनपगतसत्त्वादिरूपम् । ‘अदृष्टाश्रुतवस्तुत्वात् पुनर्भवः’ इति भागवततात्पर्यानुसारेणातः परम्’ इत्यादि व्याचष्टे– यदत इति ॥ परमित्यस्यार्थो भिन्नमिति । अव्यक्तमित्यस्य आकार्यमिति ॥ व्यूढगुणेत्यस्यानाद्यनपगतेति । वस्तुशब्दार्थो भगव-त्स्वरूपेति ॥ पुनर्भव इत्यस्य संसरतीति ॥ तदेव स्वरूपांशस्य भवतीति शेषोक्तिः । अत्र ‘अपि स्मर्यते’ इत्यनेन जीवस्येश्वरांशत्वे स्मृतिरुक्ता । ‘स्मरन्ति च’ इत्यनेन त्वंशत्वेऽपि मत्स्या-द्यवताराणां स्वरूपांशत्वं जीवानां भिन्नांशत्वमित्यत्र स्मृतिरुक्तेति भेदः ।

भावदीपः

सूत्रे बहुवचनानुरोधादाह ॥ स्मृतिभिरिति ॥ इत्युक्त इति ॥ प्रथमस्कन्धे तृतीयेऽध्याये ‘जगृहे पौरुषं रूपम्’ इत्यादिना यस्यांशांशे न सृज्यन्ते देवतिर्यङ्नरादय इत्यन्तेनोक्त इत्यर्थः । सृष्ट्युक्त्यैवावस्थितिरपि लब्धेत्यवतिष्ठत इत्युक्त इत्युक्तम् । यद्वा ‘भावयन्नेव सत्त्वेन लोकान्वै लोकभावन’ इति । ‘लीलावतारानुगतस्तिर्यङ्नरसुरादिषु’ इति द्वितीयाध्यायान्तिमश्लोकेनेत्यर्थः ॥ उक्त्वेति ॥ ‘द्वितीयं तु भवायास्य रसातलगतां महीम् । उद्धरिष्यन्नुपादत्त यज्ञेशः सौकरं वपुर् इत्यादिनेत्यर्थः । यद्यपि ‘स एव प्रथमं देवः कौमारं सर्गमाश्रितः’ इति कुमारावतारस्य प्रथममुक्तेः कुमारादीनामित्यनुवादो युक्तः । तथापि भगवदवतारवदन्यस्यापि कुमाराख्यजीवस्य सत्वात्तद् भ्रान्तिनिरासाय वा जीवास्तत्प्रतिबिम्बांशा वराहाद्याः स्वयं हरिरिति ॥ नारायणवराहाद्याः परमं रूपमीशितुः । जैवं तु प्रतिबिम्बाख्यम् इति च तत्रैव तात्पर्योक्तब्रह्मवैवर्तपाद्मस्मृत्योरनुरोधेन वा वराहादीनामित्युक्तम् । तदुक्तं भगवदंशत्वमुक्तमित्यर्थः । कुत्रेत्यतस्तत्पठति ॥ ऋषय इति ॥ एतदित्येतच्छब्देनाव्यवहितऋष्यादिजीवपरामर्शभ्रान्तिं निराह ॥ तत्र वराहादीनामिति ॥ कला-शब्दार्थो विभाग इति । तात्पर्योक्तार्थमाह ॥ मूलरूप्येवेति ॥ ब्रह्मलिङ्गस्फोरणाय ‘इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे’ इत्युत्तरार्धार्थमाह ॥ वराहादय इति ॥ अतःपरमित्यादि व्याचष्टे ॥ जीवानामिति ॥ ऋषय इत्यादिनोक्तानामित्यर्थः । क्रमेण स्मार्तपदानामर्थोऽतः परमपुरुषा-दित्यादि । पुनर्भवः संसारी कृष्णस्त्वित्यस्य मूलरूप्येवेति कथं व्याख्येत्यत आह ॥ कृष्णेति ॥ कृष्णो यज्ञैरिज्यते सोमपूतैः कृष्णो वीरैरिज्यते विक्रमद्भिः । ‘कृष्णो वन्यैरिज्यते संमृशानैः कृष्णो मुक्तैः’ इति द्वितीयाध्यायभारततात्पर्योक्तस्मृतौ त्रिपाद्यां मूलरूपार्थत्वस्यास्पष्टत्वेऽप्यंत्यपादे मुक्तैरित्याद्युक्त्या मूलरूपत्वप्रतीतेरिति भावः ॥ भेदाभेदाविति ॥ यथायोगमन्वयः । वक्ष्यमाणस्मृत्यनुरोधादाह ॥ यथा सर्वोत्तमत्वादीति ॥ कृष्णेति ॥ गीतायामर्जुनेन कृष्णं प्रति ‘न त्वत्समोऽस्ति’ इत्याद्युक्तेरिति भावः ।

अभिनवचन्द्रिका

जीवानां मत्स्यादीनामिति ॥ मत्स्यादीनामिव जीवानां स्वरूपांशत्वं किं न स्यादित्यर्थः ॥ इत्यक्त इति ॥ ‘भावयन्नेष सत्त्वेन लोकान्वै लोकभावनः । लीलावतारानुगतस् तिर्यङ्नरसुरादिषु’ इत्यनेनोक्त इत्यर्थः ॥ उक्तेति ॥ द्वितियन्तु भावायाऽस्य रसातलगतां महीम् । उद्धरिष्यन्नुपादत्त यज्ञेशः सौकरं वपुः’ इत्यादिनोक्तेत्यर्थः ॥ एते परमपुरुषस्येति ॥ ‘पुंस’ इत्यस्य व्याख्यानं ‘परमपुरुषस्य’ इति । ‘स्वांशकला’ इत्यस्य व्याख्यानं ‘स्वरूपांशाविभागा’ इति । ‘स्वयं भगवान् कृष्ण’ इति अन्वयं प्रदर्श्य मूलरूप्येव’ इति कृष्णशब्दस्य तुशब्देन सह व्याख्यानम् । नारायण एवेत्यर्थः । ‘एते स्वांशकलाः पंुसः’ इति पूर्वार्थस्य ‘इन्द्रारि व्याकुलं लोकं मृडयन्ति’ इत्युत्तरार्धेन सम्बन्ध इत्यभिप्रेत्याह– वराहादयो लोकं मृडयन्ति’ इति ॥ ततश्च एते स्वांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् । इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे’ इति भागवतश्लोकस्य एवं योजना । पुंसः परमपुरुषस्य, स्वांशकलाः स्वरूपांशविभागाः, भगवान् कृष्णः, स्वयमेव मूलरूपी नारायणत्मक इति यावत् । एते वराहाद्याः, इन्द्रारिरव्याकुलं लोकं युगे युगे रक्षन्तीति । सिंहावलोकनन्यायेन कृष्णशब्दस्य मूलरूपिनारायणवाचित्वे प्रतिज्ञापूर्वकं प्रमाणमाह– कृष्णशब्दश्चेति ॥ भाष्ये एते स्वांशकला इति । अत्रायं विवेकः ‘एते स्वांशकला इत्यारभ्य स जीवो यः पुनर्भव’ इत्यन्तं भागवतवचनम्, ‘न त्वत्समश्चाभ्याधिकः कुतोऽन्य’ इति गीतावचनम् ।

वाक्यार्थमुक्तावली

परमपुरुषांशैरिति ॥ ‘भावयन्नेव सत्त्वेन लोकान्वे लोकभावनः । लीलावतारानुगतस्तिर्यङ्-नरसुरादिभिः’ इत्यनेनेत्यर्थः ॥ सविस्तरं वराहादीनामिति ॥ द्वितीयन्तु ‘रसायास्य रसातलगतां महीं’ इत्यादिनेत्यर्थः । यद्यपि ‘स एव प्रथमं देवः कौमारं सर्गमास्थितः’ इत्युक्तेः कुमारादीनामिति वक्तव्यम् । तथापि सनत्कुमारान्तर्यामित्वेनैव लोकरक्षकत्वाद्वराहादीनामित्युक्तम् । सनत्कुमार-नामासौ ब्रह्मचर्यवपुर्हरिः । ‘सनत्कुमारमपरं ब्रह्मपुत्रं विवेशह’ इति तात्पर्योक्तेरिति ज्ञेयम् । एते वराहाद्यास्वांशकलाः कृष्णस्तु वसुदेवपुत्रस्तु स्वयं भगवान् स्वयमंश्येवेत्यन्यथा प्रतीतिं वारयन्नंश-कलाशब्दयोः पौनरुक्त्यं परिहरन्नेते प्रेाक्ता अवतारा मूलरूपी हरिः स्वयम्’ ‘एवेति भागवततात्पर्यं मनसि निधाय एते स्वांशकला इत्यनूद्य स्वयं भगवान् कृष्णस्तु कृष्ण एव मूलरूप्येवेति मूलरूपात्यन्ताभेदो विधीयत इति भावेन व्याचष्टे ॥ एते परमपुरुषस्येति ॥ स्वरूपांश इत्युक्तावेवाभेदसिद्धावपि भेदाभेदशङ्कानिवृत्यर्थं कृष्णो मूलरूप्येवेत्युक्तमिति तत्त्वप्रदीपे । पुंसः परमपुरुषस्य स्वरूपांशविभागा एते वाराहादय इत्यस्य विधेयान्तरप्रतिपादनपरमिन्द्रादिव्यापृतं लोकं मृडयन्ति युगेयुगे इत्युत्तरार्धं सङ्ग्रहेण व्याचष्टे ॥ वराहादय इति ॥ मृडयन्ति रक्षन्ति सुखयन्ति वा । यदव्यक्तं यःपुनर्भव इति यच्छब्दद्वयदर्शनात्स जीव इति विधेयमावर्तते इति भावेन अतो जडेश्वरयोः परम् अव्यूढगुणबृंहितम् अनादिकाले कदाप्यनपगतसत्त्वादिरूपम् अदृष्टाश्रुतवस्तुत्वा-त्पुनर्भवतीति भागवततात्पर्यं मनसि निधाय व्याचष्टे ॥ यदत इत्यादिना ॥ प्रकाशादिवन्नैवंपर इत्युक्तेर्मत्स्यादेरभिन्नांशत्वं जीवानां भिन्नांशत्वमित्यत्र विषये स्मरन्ति ग्रन्थं कुर्वन्ति व्यासादयः । स्मरणं ग्रन्थकृतिः । स्मरन्ति चेत्यादेरिति भागवततात्पर्योक्तेः । व्यासकृतग्रन्थस्यान्योक्त्यनुवाद-रूपत्वान्नानुपपत्तिः । न केवलं मत्स्यादिनामभिन्नांशत्वे, जीवानां भिन्नांशत्वे स्मरन्ति किंनाम स्वरूपास्वरूपांश लक्षणयोगित्वयुक्तिसिद्धं तदिति सौत्रश्चशब्दः । किं तत्स्वरूपास्वरूपांश-लक्षणम् । कथं मत्स्यादौ जीवेषु तत्सिद्धिरित्यतः । स्मरन्तीति बहुवचनात्तदपि स्मरन्तीत्यर्थ इति भावेन स्वांशश्चेत्यादिभाष्यं व्याचष्टे मत्स्यादीनामित्यादिना ॥

तत्त्वसुबोधिनी

सर्वमवतिष्ठत इत्युक्त इति ॥ ‘व्याख्यन्नेव सत्त्वेन लोकान् वै लोकभावनः । लीलावतारानु-गतस् तिर्यङ् नर सुरादिषु’ इत्यनेनेत्यर्थः ॥ तदुक्तमिति ॥ अंशत्वयुक्तमित्यर्थः ॥ कुत इत्यत आह ॥ ऋषय इति ॥ एते वराहाद्याः स्वांशरूपाः कलाः । कृष्णस्तु वसुदेव पुत्रः स्वयं भगवान् इत्यन्यथाप्रतीतिनिरासाय स्वांशकला इत्यस्य फलितप्रदर्शनपरतया कृष्णस्त्विति ॥ एते प्रेाक्ता अवताराः । मूलरूपं हरिः स्वयमेव इति भागवततात्पर्यानुसारेण व्याचष्टे ॥ स्वयं भगवानिति ॥ अनेन तुशब्द एवार्थ इत्युक्तं भवति ॥ वराहादयो लोकं मृडयन्तीति ॥ अनेनैतद् इत्यनूद्य ‘भगवान् स्वयम्’ इत्यन्तेन मूलारूपाभेदः ‘इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे इत्यनेन सुखदत्वं चोच्यत इत्युक्तं भवति । अतः परमित्यादि व्याचष्टे ॥ यदत इति ॥ परमित्यस्यार्थः भिन्नमिति ॥ अव्यक्तमित्यस्याकार्यमिति ॥ अव्यूढगुणेत्यस्य ‘अनाद्यनपगतेति । वस्तुशब्दार्थो भगवत्स्वरूपेति । पुनर्भव इत्यस्य संसरतीति ॥ ननु कृष्णशब्दस्यावताररूपे एव प्रयोगात् कथं कृष्णो मूलरूपीति व्याख्यातमित्यत आह ॥ कृष्णशब्दश्चेति ॥ प्रयोगस्थलमाह ॥ कृष्ण इति ॥ तदेव स्वरूपांशस्य भवतीति शेषोक्तिः । ननु न जीवस्य भिन्नांशत्वं, भिन्नांशलक्षणाभावाद् इत्यत आह ॥ जीवेष्विति ॥ भगवत्स्वरूपानादित्वादिकं त्वनुभवसिद्धमिति भावः ।

वाक्यार्थविवरणम्

अभेदः ॥ भगवत्त्वरूपांशत्वमित्यर्थः ॥ अभिधीयते ॥ ‘एते स्वांशकला इत्यनेनेति शेषः । पुंस इत्यस्य व्याख्यानं परमपुरुषस्येति ॥ स्वरूपांशविभागा इति पाठः । मूलरूपभगवदंशः पद्मनाभः । तस्मादेव च नानावतारा भवन्ति । पश्चात्तेनैव चैकीभूता भवन्ति । अत एवोद्वबर्हात्मनः केशान्’ इति पद्मनाभकेशत्वमेव कृष्णरामयोरुक्तम् । ‘एतन्नानावताराणां निधानं बीजमव्ययम् । यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादय इति च तत्रैव प्रथमस्कन्धे चतुर्थाध्याये स्पष्टमुक्तम् । अतः पुंसः परमपुरुषस्य मूलरूपिणो भगवतः स्वांशकला स्वरूपभूतो योंऽशः पद्मनाभस्तस्य कला विभागा विभज्यन्त’ इति विभागास्तस्माद्विभक्तास्तदुद्भूतास्तस्माद्बहिर्निर्गता इति यावदिति योज्यम् । अत्र ‘स्वांशकला एत’ इत्युद्दिश्य कृष्ण इति विधेयम् । ‘इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे’ इत्यस्यार्थमाह ॥ वराहादय इति ॥ मृडयन्ति । सुखयन्ति । मृड् सुखन इति धातोः । उच्यते । अतः परमित्यनेनेति शेषः । कृष्णो मूलरूप्येवेति व्याख्यातम् । तत्र कृष्णशब्दस्य मूलरूपिवाचित्वे प्रयोगं दर्शयति ॥ कृष्णशब्दश्चेति ॥ ‘कृष्णो यज्ञैरिज्यते सोमपूतैः । कृष्णो वीरैरिज्यते विक्रमद्भिः । कृष्णो वन्यैरिज्यते संमृशानैः । कृष्णो मुक्तैरिज्यते वीतमोहैः’ इति द्वितीयाध्यायनिर्णयोदाहृतस्मृतिरियम् । एतद्विभिन्नांशलक्षणं जीवेष्वस्तीति स्मृत्या वक्तव्यम् । कुतस्तन्नोक्तमित्यत आह ॥ जीवेष्विति ॥

वाक्यार्थमञ्जरी

जीवस्याभिन्नांशत्वं मत्स्यादेरभिन्नांशत्वं च स्मृतिकर्तारः स्मरन्ति चेत्यर्थ इत्युक्त इति ॥ प्रथमभागवते ‘जगृहे पौरुषं रूपम्’ इत्यादिना ‘यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः’ इत्यन्ते-नोक्त इत्यर्थः । द्वितीयं तु ‘भवायास्य रसातलगतां महीम् । उद्धरिष्यन्नुपादत्त यज्ञेशः सौकरं वपुः’ इत्यादिनोक्तेरित्यर्थः । ‘इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे’ इत्युत्तरार्धं व्याचष्टे ॥ वराहादय इति ॥ मृडयन्ति सुखयन्तीत्यभिधीयत इति सम्बन्धः । परमित्यस्यार्थोऽभिन्नमिति । अव्यक्त-मित्यस्याकार्यमिति अव्यूढगुणेत्यस्यानाद्यनपगतेति वस्त्वित्यस्य भगवत्स्वरूपेति पुनर्भव इत्यस्य संसारीति इत्युच्यत इत्यन्वयः कृष्णशब्दस्यावतारे प्रसिद्धत्वेन कथं मूलरूप्येवेति व्याख्यानमित्यत आह ॥ कृष्णशब्दश्चेति ॥ ईज्यते पूज्यते इदं वाक्यं मुक्तवर्गसेव्ये मूलरूपे प्रयुक्तमिति भावः । तदेवस्वरूपांशस्य भवतीति शेषोक्तिः । कृष्णाद्यवतार इति तस्य कृष्णं प्रत्यर्जुनवाक्यत्वादिति भावः ।


ॐ अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॐ

सूत्रभाष्यम्

॥ ॐ अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॐ ॥ ४८ ॥

परानुज्ञया प्रवृत्तिः, परतो बन्धनिवृत्तिश्च जीवस्य प्रतीयते, अंशत्वेऽपि देहसम्बन्धात् । ‘य आत्मानमन्तरो यमयति’ । ‘तमेवं विद्वान्’ (तै.आ. ३-१२) त्यादिना । न तु परस्य । ‘वासुदेवः सङ्कर्षणः प्रद्युम्नोऽनिरुद्धोऽहं मत्स्यः कूर्मो वराहो नारसिंहो वामनो रामो रामः कृष्णो बुद्धः कल्किरहं शतधाऽहं सहस्रधाऽहममितोऽहमनन्तोऽहं नैवैते जायन्ते न म्रियन्ते नैषामनुज्ञा न बन्धो न मुक्तिः सर्व एव ह्येते पूर्णा अजरा अमृताः परमाः परानन्दा’ इति हि चतुर्वेदशिखायाम् । युज्यते च ज्योतिरादिवद् यथाऽऽदित्यो वियद्गतस्तत्प्रकाशश्चैकप्रकारः । ‘शुक्लं कृष्णं कनीनिका’ (ऐ.आ.२-१-५) इति तदंशस्याप्यक्ष्णो देहसम्बन्धान्न तादृशी शक्तिः । तदनुग्राह्यत्वं तेनैवावृतिपरिहारश्च । यथा बाह्यामृतजलस्यामृतसमुद्रस्य चैकत्वं तदंशस्यापि श्लेष्मणस्तदनुग्राह्यत्वं तेनैव विरोधिनिवृत्तिश्च । मोक्षधर्मे च–

‘यत्किञ्चिदिह लोकेऽस्मिन्देहबद्धं विशांपते ।

सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः ॥

ईश्वरो हि महद्भूतं प्रभुर्नारायणो विराट् ।

भूतान्तरात्मा विज्ञेयः सगुणो निर्गुणोऽपि च ॥

भूतप्रलयमव्यक्तं शुश्रूषुर्नृपसत्तम’ ॥ इति ।

वाराहे च–

‘अंशाश्च देहयोग्यत्वाज्जीवा बन्धादिसंयुताः ।

अनुग्राह्याश्चेश्वरेण न तु मत्स्यादिको हरिः ॥

ओहबन्धयोग्यत्वाद्यथासूर्यप्रभाक्षिणी ।

यथाऽमृतसमुद्रस्य श्लेष्मादेश्च द्विरूपता ।

अनुग्राह्यत्वमन्यस्य तेनैवावृतिरोधनम्’ ॥ इति ।

तत्त्वप्रदीपिका

जीवस्य प्रवृत्तये परानुज्ञाऽपेक्षितैव । शतधानामाष्टशतवाच्यत्वेन । शतर्चिन इतिवत्सामीप्याद-विरोधः । सहस्रधा सहस्रनामवाच्यत्वेन । अमितो ऽसङ्ख्येयः । ‘शुक्लं कृष्णं कनीनिका’ इत्यादित्यसादृश्यात्तदंशत्वमक्ष्णः । ‘अथ यदेतदादित्यस्य शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णम्’ ‘अथ यदेतदक्ष्णः शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णम्’ इति श्रुतेः ।

‘कनीनिका परः कृष्णं सगुणो निर्गुणोऽपि च ।

अगुणोऽगुणदेहत्वात्सगुणो गुणधारणात् ।

ऐर्श्यादिगुणित्वाद्वा वासुदेव उदीर्यते’ ॥ इत्याग्नेये ।

भूतप्रलयस्थानभूताऽव्यक्तशब्दिता श्रीः शुश्रूषुरित्युक्तत्वात् । ‘ये चाप्यक्षरमव्यक्तम्’ इति स्मृतेश्च । यथा सूर्यप्रभाक्षिणी सूर्यांशत्वेनोदितेऽपि मिथो विलक्षणे सूर्य एव स्वप्रकाशाभिमानी न तत्रानुग्राह्यानुग्राहकभावः । अक्ष्यभिमान्यन्यो जीवोऽस्ति स तु तदनुग्राह्यः । देहसम्बन्धनिबन्धनं दुःखं चाऽप्नोति । तेनैव तस्य व्यापारविरोधिनो विषयावृत्तिभूतस्य तमसः परिहारः । एवं द्वितीयदृष्टान्तेऽपि योजनीयम् । तत्र विरोधि पित्तम् ।

तत्त्वप्रकाशिका

एवं जीवानां मत्स्यादीनां चांशिना भेदाभेदसद्भावान्नैकविधतेत्युक्तम् । युक्त्यन्तरेणैकविधतां पराकुर्वत्सूत्रमुपन्यस्य व्याचष्टे ॥ अनुज्ञेति ॥ जीवानां प्रवृत्तिमोक्षयोरंशिपरमात्माधीनत्वात्तेषां मत्स्यादीनां चांशत्वसाम्येऽपि नैकविधतेत्यर्थः । केन प्रतीयत इत्यत आह ॥ देहेति ॥ परानुज्ञया प्रवृत्तिः परतो बन्धनिवृत्तिश्च जीवस्येत्यत्र क्रमेण श्रुती चाह ॥ य इति ॥ मत्स्यादीनामपि प्रवृत्तिमोक्षयोरीश्वराधीनत्वात्कथं न जीवविधतेत्यत आह ॥ नेति ॥ तदेव कुत इत्यत आह ॥ वासुदेव इति ॥ शतधा नारायणादिः । सहस्रधा विश्वादिः । अमितोऽतिबहुरूपः परादिः । अनन्तोऽजितादिः । यदुक्तं जीवोंऽश्यधीनप्रवृत्त्यादिमान् देहसम्बन्धित्वादिति तद्व्याप्त्यभावान्न युज्यत इत्यत आह ॥ युज्यते चेति ॥ तदेव स्फुटयति यथेति ॥ आदित्यो मण्डलाभिमानी वियद्गतस्तत्प्रकाशाभिमानी तदंशश्चैकप्रकारोऽनुज्ञादिरहितः । ‘त्रिवृदिव वै चक्षुः शुक्लं कृष्णं कनीनिका’ इति श्रुतावक्ष्णः सूर्यमण्डलसाम्योक्त्या तदंशत्वमुच्यते । अत एव तदभिमानिनोऽपि तदभिमान्यंशत्वं तस्य चापभ्रष्टस्य देहदोषलिप्तत्वादंश्यधीनप्रवृत्त्यादिमत्त्वमिति भावः । आवरणं तमः । एवमुत्तरत्राप्यभिमानिविवक्षा द्रष्टव्या । विरोधी पित्तधातुः । अत्रायं प्रयोगो भवति । जीवः स्वांश्यधीनप्रवृत्त्यादिमान् स्वांशिकर्मानिर्मितशरीरसम्बन्धित्वादपभ्रष्टवदिति । यदुक्तं मत्स्यादीनां नांश्यधीनप्रवृत्त्यादिमत्वमिति । तदसत् । तेषामप्युक्तविधदेहसम्बन्धित्वात् । तथा च न विशेषः । अथ देहसम्बन्धित्वेऽपि नांश्यधीनप्रवृत्तित्वं तर्हि तत्रैव हेतोर्व्यभिचार इत्यत आह ॥ मोक्षधर्मे चेति ॥ शुश्रूषुस् तस्येति शेषः । अवतारप्रसङ्गे चैतदुक्तम् । अत्राप्ययं प्रयोगः । मत्स्यादिः स्वांश्यधीनप्रवृत्त्यादिर्न भवति स्वांशिकर्मानिर्मितदेहासम्बन्धित्वाद् वियद्गतप्रकाशाद्यभिमानि-वदिति । अत एव दृष्टान्तो विवृतः । सूत्रार्थे स्मृतिं चाह ॥ वाराहे चेति ॥ देहयोग्यत्वादित्युक्त्या मुक्तानामपि सङ्ग्रहो भवति । सूर्यप्रभाक्षिणी नैकप्रकारे ।

गुर्वर्थदीपिका

ओहबन्धयोग्यत्वादित्यादिना वदिष्यति । ‘अनुज्ञापरिहारौ परानुज्ञया’ परितो विहरणाख्या ऐहिका प्रवृत्तिः संसारपरिहारश्चेति द्वौ भवतः । अतोऽप्यसौ भिन्नांश इति सूत्रार्थं हृदि निधायाऽऽह परानुज्ञया प्रवृत्तिरित्यादिना । अन्यथा प्रवृत्तिरूपार्थस्यासूत्रितत्वप्रसङ्गाद्देह-सम्बन्धमात्रस्य परमात्मन्यपि सत्त्वाच्चोक्तैव योजना भाष्यकारस्याभिमता । देहसम्बन्धादिति विशेषणं विविधसांसरिकनिर्बन्धपरिहारासमर्थस्य जीवस्य परानुज्ञयैवेति स्वोक्तहेतुदृढीकरणार्थमिति ज्ञेयम् । केन प्रतीयत इत्यत्र केन निमित्तेनेत्यर्थः । अक्ष्णः सूर्यमण्डलसाम्योक्त्येत्यत्र अक्षिपदेन गोकं गृह्यते । न चक्षुरिन्द्रियम् । तस्य केवलं सूर्याभिमानित्वाद्गोकाभिमानिनी काचनाऽप-कृष्टदेवताऽप्यस्ति । सा च सूर्याद्भिन्नैवेति विज्ञेयम् । स्वांशिकर्मानिर्मितशरीरसम्बन्धित्वादित्यत्र वियद्गतसूर्यप्रकाशाभिमानिनि स्वांशिकर्मनिर्मितसूर्यशरीरसम्बन्धिनि व्यभिचारपरिहाराय स्वांशि-कर्मानिर्मितेति विशेषणमिति ज्ञेयम् । भूतानां प्रलयो यस्मिन्निति भूतप्रलयम् । अव्यक्तमव्यक्त-तत्त्वम् । अहं शुश्रुषुरिति वैशम्पायनस्यैव न तावदिदं वाक्यम् । स्वस्याव्यक्ततत्त्वसेवकत्वाभावात् । भगवदवतारकथायामव्यक्ततत्त्वस्य स्वातन्त्र्येण प्रस्तावायोगाच्च । अतो भूतप्रलयमव्यक्तम् । अव्यक्ततत्त्वाभिमानिनी श्रीस् तस्य प्रागुक्तनारायणस्य शुश्रूषुः सेवाकर्त्रीत्येवार्थो वक्तव्यः । अत एतदभिमानिनी प्रकृतिः प्राकृतदेहादिकं च तन्न बध्नातीति हेतुं सूचयितुमेतद्वाक्योदाहरणमिति भावेनाऽऽह तस्येति शेष इति । अत एव शुश्रूषुरिति स्त्रीलिङ्गप्रयोग इति भावः । स्वांशि-कर्मानिर्मितदेहासम्बन्धित्वादित्यत्र स्वांशिकर्मानिर्मितो यो मत्स्यादिनां देहस् तदसम्बन्धित्वं मत्स्यादिषु नास्ति । अतः स्वरूपासिद्धिरिति चेन्न देहपदेन पाञ्चभौतिकदेहस्यैव ग्रहणात् । अतो न स्वरूपासिद्धिः । तर्हि देहसम्बन्धित्वादित्येवालमिति चेन्न । सौरप्रभाभिमानिनि सूर्यांशे भौतिकसूर्यदेहसम्बन्धिनि च साधनवैकल्यं स्यात् । अतः स्वांशिकर्मानिर्मितेत्युक्तम् । एवं च स्वांशिकर्मनिर्मितसूर्यदेहे स्वांशिकर्मानिर्मितत्वाभावेन तत्कर्मानिर्मितदेहो ऽस्मदादिदेह एव स्यात् । तेन च प्रभाभिमानिदेवताया न बन्धकः सम्बन्ध इति न दृष्टान्ते साधनवैकल्यम् । नापि स्वरूपासिद्धिरिति ज्ञेयम् ।

भावबोधः

‘स एव दशधा प्रेाक्तो विष्णुर्मत्स्यादिरूपकः ।

शतं नारायणाद्यात्मा विश्वाद्यात्मसहस्रकः ।

परादिरूपो बहुधा सोऽनन्तात्माऽजितादिकः ॥’

इति बृहदारण्यकभाष्योदाहृतप्रमाणानुसारेणाऽऽह– शतधा नारायणादिरित्यादिना ।

‘देहदोषैश्च दुष्टत्वादपभ्रष्टाख्यदेवताः ।

अन्याः सूर्यादिदेवेभ्यो ह्यनुग्राह्याश्च तैः सदा’ ॥

इत्यनुव्याख्यानं मनसि निधाय भाष्यं व्याचष्टे– तस्य चापभ्रष्टस्येति ॥ शरीरसम्बन्धि-त्वस्याभिन्नांशेऽपि सत्त्वाद्व्यभिचारस्ततो स्वांशिकर्माऽनिर्मितेत्युक्तम् । शरीरसम्बन्धित्वं तद्योग्य-त्वम् । तेन न मुक्तेषु भागासिद्धिः ॥ इत्यत आहेति ॥ तथा च स्वांशिकर्माऽनिर्मित-भौतिकशरीरसम्बन्धित्वस्य विवक्षितत्वान्न व्यभिचार इति भावः । शुश्रूषुस्तस्येति शेष इति । समस्तश्लोकव्याख्यानं तु– शरीराणि हि भौतिकानि भवन्ति, भूतानि चेश्वरबुद्धिजानि, तत्कथं तानि बध्नीयुरित्यर्थः । अत्रेश्वरो हीत्यादिनाऽन्ये हेतवोऽभिधीयन्ते– विराट्, नित्याभिव्यक्तरूपः । वरदो मोक्षदः । सगुणः स्वातन्त्र्यादिगुणवान् । भूतानि प्रलीयन्ते यस्मिन् तद् अव्यक्तं तदभिमानिदेवता तस्य शुश्रूषुर्लिङ्गव्यत्यासश्छान्दस इति गीताभाष्यटीकयाऽवगन्तव्यम् । अस्त्वे-तन्मूलरूपविषयमवताराणां तु देहसम्बन्धित्वं तु स्यादेवेत्यत अवतारप्रसङ्गे चैतदुक्तमतोऽनवताराश्च पृथक् शङ्क्या इति गीताभाष्यं मनसि निधायाऽऽह– अवतारप्रसङ्ग इति ॥ ‘यत्तद्दर्शितवान् ब्रह्मरूपं हयशिरोधरम्’ इति हयग्रीवावतारप्रसङ्ग एतस्योक्तत्वात् । युक्तिसाम्यात् सर्वावतारेष्वपि देहसम्बन्धशङ्का न कार्येति भावः । स्वरूपासिद्धिदृष्टान्तसाधनवैकल्यं च परिहर्तुं स्वांशिकर्माऽ-निर्मितेत्युक्तम् । स्वांशिकर्मनिर्मितदेहसम्बन्धित्वस्य दृष्टान्ते सत्त्वेऽपि पक्षे तदभावान्नञ्द्वयगर्भ-त्वम् । तथा च पक्षे विशेष्याभावेन दृष्टान्ते विशेषणाभावेन विशिष्टाभावोऽनुगत इति भावः । ‘प्रकाशादिवत्’ इत्यनेनास्मदादीनां जीवानां च स्वरूपांशत्वभिन्नांशत्वात्मके उक्तवैषम्ये तेज-आद्यभिमानिवह्न्यादिदेवतांशयोः कालाग्न्याद्यभिमानिखद्योताद्यभिमानिनोः स्वरूपांशत्वभिन्नांशत्व-रूपं वैषम्यं दृष्टान्तितम् । ‘ज्योतिरादिवत्’ इत्यनेन त्वंशत्वेऽप्यवताराणां जीवानां च असाम्ये हेत्वन्तरत्वेनोक्तदेहासम्बन्धसम्बन्धप्रयुक्ते अंश्यननुग्राह्यत्वानुग्राह्यत्वयो रूपवैषम्ये सूर्यमण्डला-द्यभिमानिन्यादित्यां शयोर्वियद्गतप्रकाशाद्यभिमानि अक्षिगोलकाद्यभिमानिनोः परदेहसम्बन्धा-सम्बन्धप्रयुक्तमंश्यननुग्राह्यत्वानुग्राह्यत्वरूपं वैषम्यं दृष्टान्तितमिति भेदष् टीकायामेव स्पष्टः ।

भावदीपः

भाष्यं व्याचष्टे ॥ जीवानामिति ॥ केनेति ॥ निमित्तेनेत्यर्थः । शतं नारायणाद्यात्मा विश्वाद्यात्मसहस्रकः । परादिरूपो बहुधा सोऽनंतात्माऽजितादिक इति चतुर्थाध्याय बृहद्भाष्यादिशाऽर्थमाह ॥ शतधेति ॥ अपौनरुक्त्यायोक्तममितेति ॥ बहुरूप इति ॥ सूर्यमण्डलमान्येकस्तत्प्रकाशाभिमानवान् इत्याद्यनुभाष्यदिशा भाष्यं व्याचष्टे ॥ आदित्य इति ॥ सूर्यमण्डलसाम्योक्त्येति ॥ ‘अथ यदेतदादित्यस्य शुक्लम्भाः सैवर्गथयन्नीलं परः कृष्णम् अथ यदेतदक्ष्णः शुक्लं भाः सैवर्क अथ यन्नीलं परः कृष्णम्’ इति । तत्त्वप्रदीपोदाहृतछान्दोग्य-प्रथमाध्यायस्थ श्रुत्यन्तरोक्तस्याक्षिगतस्य शुक्लादिरूपत्रयवत्त्वेनादित्यसाम्यस्य त्रिवृदिव वै चक्षुः’ इत्यैतरेये कथितत्वादित्यर्थः । देहसम्बन्धादित्यादिभाष्यस्थदेहदोषैश्च दुष्टत्वादपभ्रष्टाख्यदेवता इत्याद्यनुभाष्यदिशा भावमाह ॥ तस्य चेति ॥ आवृतीत्यस्याज्ञानभ्रान्तिं निराह ॥ तम इति ॥ अन्धकार इत्यर्थः । सूत्रे हेतुदृष्टान्तोक्त्याऽभिमतं प्रयोगप्रकारं दुर्ज्ञानत्वाद्दर्शयति ॥ अत्रायमिति ॥ स्वरूपांशे व्यभिचारव्युदासाय स्वांशिकर्मानिर्मितेति । प्रकाशाद्यभिमानिरूपांशसम्बन्धिशरीरस्य सूर्यमण्डलाद्यभिमानिरूपस्वांशिकर्मानिर्मितत्वान् न व्यभिचारः । न च जीवांशिनो भगवतः पुण्यपापकर्म नेति वाच्यम् । तदभावादेव तेनानिर्मितत्वोपपत्तेरिति भावः ॥ इत्यत आहेति ॥ स्मृतौ यत्किञ्चिज्जीवजातं देहसम्बद्धं तत्सर्वम् ईश्वरबुद्धिजैः पञ्चभिर्भूतैराविष्टम् । भूतप्रलयं भूतसम्बन्धाधीनप्रलयोपेतम् अकार्यत्वादव्यक्तशब्दितमिति जीवानां देहबन्धमुक्त्वा ईश्वरो हीत्यादिनांशिनो नारायणस्यैव निर्गुणादिशब्दैर्देहासम्बन्धस्योक्तत्वादिति भावः ॥ शुश्रूषु-स्तस्येति ॥ देहबद्धं भूतप्रलयमव्यक्तं जीवजातं तस्य प्रकृतनारायणस्य शुश्रूषुः श्रोतुमिच्छावज् जिज्ञासु इति योजना सूचिता । तत्त्वप्रदीपे तु भूतप्रलयस्थानभूताव्यक्तशब्दिता श्रीः प्रकृत-नारायणस्य शुश्रूषुः ‘ये चाप्यक्षरमव्यक्तम्’ इति स्मृतेरिति प्रकारान्तरेण योजितमित्युक्तं चन्द्रिकायाम् । नवमे प्रमेयदीपिकायां तु कृष्णस्य मानुषवपुष्ट्वं कुतो नेत्यत आहेत्यवतार्य शरीराणि हि भौतिकानि भवन्ति । भूतानि चेश्वरबुद्धिजानि तत्कथमवतारान्निबध्नीयुरित्यर्थः । अत्रेश्वरो हीत्यादिनान्ये हेतवोऽभिधीयन्ते विराट् नित्याभिव्यक्तरूपः वरदो मोक्षदः सगुणः स्वातन्त्र्यादिगुणवान् भूतानि प्रलीयन्ते यस्मिन् तद् अव्यक्तम् । तदभिमानिदेवता तस्य शुश्रूषुर् लिङ्गव्यत्यासश् छान्दस इति व्याख्यानं कृतम् । नन्वीश्वरो हीत्यादिनांशिनो नारायणस्यैव निर्गुणादिशब्दैर्देहासम्बन्ध उक्तो न त्ववताराणामंशानामित्यत आह ॥ अवतारप्रसङ्गे चेति ॥ प्रकरणादवतारविषयमेवेदं वाक्यं नारायणशब्दस्त्वंशांश्यभेदाभिप्राय इत्यर्थः । तथा चोक्तं गीताभाष्ये नवमे अवतारप्रसङ्गे चैतदुक्तमतो नावताराश्च पृथक् शङ्क्या इति व्याख्यातं च तत्रैव टीकायां यत्तद्ददृशिवान्ब्रह्मा रूपं हयशिरोधरमिति हयग्रीवावतारप्रसङ्ग इत्यादि ॥ अत्रापीति ॥ मत्स्यादेरंश्यधीनप्रवृत्तिर्नेत्यत्रापीत्यर्थः । अत्र स्वांशिकर्मनिर्मितदेहसम्बन्धित्वादित्युक्तावार्जवं दृष्टान्ते साधनानुगतिश्चास्ति तथाप्यसिद्धिनिरासाय नञ्द्वयप्रक्षेपः । तथा च दृष्टान्ते स्वांशिकर्मा-निर्मितत्वाभावेन पक्षे देहसम्बन्धित्वाभावेन पक्षदृष्टान्तयोः साधनानुगम इति भावः । ननु सूत्रभाष्ययोः स्पष्टमप्रतीतोऽप्ययं प्रयोगः कस्मादुच्यते इत्यत आह ॥ अत एवेति ॥ एवं रूपप्रयोगस्याभिमतत्वादेव पूर्वं भाष्ये यथादित्येत्यादिना ज्योतिरादिवदिति दृष्टान्तो विवृत इत्यर्थः । शेषमाह ॥ नैकप्रकारे इति ॥

अभिनवचन्द्रिका

जीवानां प्रवृत्तिमोक्षयोरिति ॥ जीवानां प्रवृत्त्यादौ भगवदधीनत्वान् मत्स्यादीनां तदभावाद् उभयोरंशत्वोक्तिसाम्येऽपि नैकप्रकारतेत्यर्थः । स्वांशिकर्मानिर्मितेति ॥ स्वांशिकर्मा-निर्मितप्राकृतदेहसम्बन्धित्वादित्यर्थः । भाष्ये यत्किञ्चिदिति ॥ हे विशांपते इह चेतनवर्गे अस्मिन् लोके, यत्किञ्चिद् देहबद्धं, तत्सर्वम्, ईश्वरबुद्धिनिर्मितैः, पञ्चभिर्भूतैः, आविष्टं बद्धमिति यावत् । ईश्वरस्तु महद्भूतम् । नारायणो मुक्ताश्रयः । अत एव प्रभुः । विशेषेण राजत इति विराट् । नित्यमुक्तः । भूतान्तरात्मा भूतान्तर्यामी । विज्ञेयो मुमुक्षुभिः । सगुणः स्वातन्त्र्यादिगुणवान् । निर्गुणः सत्त्वादिगुणशून्यः । हे नृपसत्तम, भूतप्रलयं भूतानि प्रलीयन्ते यस्मिन्तत् । अव्यक्तं महालक्ष्मीः । तस्य विष्णोः । शुश्रूषुरिति लिङ्गव्यत्ययश् छान्दसः । ईश्वरस्य नित्यमुक्तत्वान् न तस्य प्राकृतदेहसम्बन्ध इति भावः । नन्वस्तु मूलरूपस्य एवम्भूतत्वेन देहाभावः, अवतारस्य तु देहसम्बन्धः स्यादेवेत्यत आह – अवतारप्रसङ्गे चेति ॥ स्वांशिकर्मानिर्मितेति ॥ स्वांशिकर्मानिर्मितप्राकृतदेहसम्बन्धित्वादित्यर्थः । स्वरूपासिद्धिवारणाय प्राकृतेति देहविशेषणम् । तावन्मात्रस्य दृष्टान्तेऽभावेन व्याप्यत्वासिद्धिः । तत्परिहाराय स्वांशिकर्मानिर्मितेति प्राकृतदेहविशेषणमिति बोध्यम् ।

ननु – प्रकाशाभिमानिनि स्वांशिना साम्यस्यासिद्धत्वात् साध्यविकलो दृष्टान्त इत्यत आह– अत एव दृष्टान्तोऽपीति । अवतारप्रसङ्ग उदाहृतान् मोक्षधर्मवचनादेव दृष्टान्तोऽपि विवृत इत्यर्थः । यद्यपि तत्र, देवावताराणां देवसाम्यं नोक्तम्, तथापि ईश्वरावताराणामीश्वरसाम्योक्त्या न्यायसाम्येन देवावताराणामपि देवसाम्यं लब्धमिति भावः ।

वाक्यार्थमुक्तावली

ज्ञस्येति ॥ परादिति वर्तते । अनुज्ञेति तत्पूर्वकप्रवृत्तिरुच्यते । परिहारेति बन्धनिवृत्तिः । अंशत्वसाम्येऽपि ज्ञस्य देहसम्बन्धाद्धेतोः परादनुज्ञापरिहारौ ईशानुज्ञाधीनप्रवृत्तिमोक्षौ स्तः ॥ ज्योतिरादिवत् । यथा ज्योतिषोऽक्ष्यभिमानिनोपभ्रष्टस्य श्लेष्माद्याभिमानिनश्च तत्तदेहसम्बन्ध-सूर्यवरुणानुज्ञायत्तप्रवृत्यादिस्तथेत्यर्थः । परस्य मत्स्यादेर् देहसम्बन्धाभावात् । एवं जीववत्तौ नस्तः कथं ज्योतिरादिवज् ज्योतिषः प्रभाद्यभिमानिनोऽमृता बुध्यभिमानिनश्च यथा सूर्याद्यधीनप्रवृत्या नास्ति तथेति सूत्रार्थं हृदि निधाय प्रवृत्तं परानुज्ञेत्यादिभाष्यं व्याचष्टे जीवानामित्यादिना ॥ केन प्रतीयत इति प्रतीयत इत्युक्तं तक्तेन प्रकरणेनेत्यर्थः ॥ श्रुती चाहेति ॥ न केवलं देहसम्बन्धित्व-युक्तिसिद्धमेतत् श्रुती चाहेत्यर्थः ॥ इत्यत आहेति ॥

इत्यतो नैवं पर इत्यनुवृत्तिलब्धमाहेत्यर्थः । स एव दशधा प्रेाक्तो विष्णुर्मत्स्यादिरूपकः ॥ ‘शतं नारायणाद्यात्मा विश्वाद्यात्मा सहस्रधा ॥ परादिबहुधा चासावनन्तात्माजितादिकः’ इति बृहद्भाष्यं मनसि निधायाह ॥ शतधेत्यादिना ॥ यदुक्तं जीव इति ॥ उपलक्षणमेतत् । यदप्युक्तं मत्स्यादिर्नांश्यधीन प्रवृत्त्यादिमान् देहबन्धयोग्यत्वादितीत्यपि ग्राह्यम् ॥ त्रिवृदिव वै चक्षुरिति ॥ असौ आदित्यस् त्रिवृदित्यादित्यस्य रूपत्रयमुक्त्वेति पूरणीयम् ॥ कनीनिकाशब्देन केवलकृष्णवर्णं मध्यवर्त्युच्यते । तदुक्तं तत्वप्रदीपे । ‘अथ यदेतदादित्यस्य शुक्लं भाः सैवर्गथः ‘यन्नीलं परःकृष्ण’ इति श्रुतेः । कनीनिकापरः कृष्णमिति । ‘‘देहदोषैश्च दुष्टत्वादपभ्रष्टाख्यदेवताः । अन्याः सूर्यादिदेवेभ्यो ह्यनुग्राह्याश्च तैः सदेत्यनुव्याख्यानं मनसि निधाय व्याचष्टे ॥ तस्यचापभ्रष्टस्येति ॥ तम एवेति ॥ विषयावरकं प्रसिद्धं तम एवेत्यर्थः ॥ पित्तधातुरिति ॥ जलपानैः श्लेष्मे विरोधिपित्तपरिहारादिति भावः । प्रभाभिमानिसूर्यांशे व्यभिचारवारणाय स्वांशिकर्मनिर्मितेति विशेषणम् । देहसम्बन्धित्वं तद्योग्यत्वं विवक्षितम् । तेन न मुक्तेषु भागासिद्धिः । न च मत्स्यादिषु स्वांशिकर्मनिर्मितोऽस्मदादिशरीरसम्बन्धिषु व्यभिचारः । शरीरसम्बन्धित्वपदेन तद्दोषलिप्तत्वस्य विवक्षितत्वात् । न चैवं प्रभाभिमानिसूर्यांशे देहदोषलिप्तत्वाभावात्तेनैव व्यावृत्तिसिद्धौ विशेषण-वैयर्थ्यमिति वाच्यम् । तेषामस्मदादिदेहदोषलिप्तत्वाभावेऽपि स्वीयदेहदोषबद्धत्वेन व्यभिचारादिति यत्किञ्चिदित्यस्यायमर्थः । हे विशांपते प्रजानांपते राजन् यत्किञ्चिद्देहबद्धं तत्सर्वमीश्वरबुद्धिनिर्मितैः पञ्चभिर्भूतैराविष्टं बद्धम् । हि यस्मात्तस्मादीश्वरो महद्भूतं भूतेभ्योपि महत् । अत एव भूतान्तरात्मा भूतान्तर्यामी । तदुपपदनं प्रभुःशक्त इति । तथा तं कथं तानि बध्नीयुरिति भावः । हेत्वंतरमुच्यते नारायणो मुक्ताश्रयः । विराट् विशेषेण राजत इति विराट् । नित्याभिव्यक्तरूपो नित्यमुक्त इति यावत् । वरदो मोक्षदः । विज्ञेय इति क्वचित्पाठः । सगुणो निर्गुणोऽपि च । ‘अगुणो गुणदेहत्वा-त्सगुणो गुणधारणात् । ऐश्वर्यादिगुणत्वाद्वा वासुदेव इतीर्यते’ । भूतानि प्रलीयन्तेऽत्रेति भूत-प्रलयस्थानं भूताव्यक्ताभिमानिनी श्रीः ॥ शुश्रूषुस्तस्येति ॥ उक्तं च प्रमेयदीपे । भूतानि प्रलीयन्ते यस्मिन् तदव्यक्तं तदभिमानिदेवता तस्य शुश्रूषुः ॥ लिङ्गव्यत्यासश्छान्दस इति ॥ चन्द्रिकायान्तु भूतसम्बधाधीनप्रलयादित्वात् कार्यप्रवृत्तिनिमित्ताभ्यां भूतप्रलयाव्यक्तशब्दाभ्यां मुक्तो जीवसमूहस्तस्य नारायणस्य शुश्रूषुः । तत्त्वप्रदीपे तु भूतप्रलयस्थानभूताव्यक्तशब्दिता श्रीः प्रकृतस्य नारायणस्य शुश्रूषुः । ये चाक्षरमव्यक्तमिति श्रुतेरिति प्रकारान्तरेण योजितमित्युक्तमिति व्याख्यातम् । अस्त्वेतन्मूलरूपविषयम् अवताराणान्तु देहसम्बन्धित्वं स्यादेवेत्यतो ऽवतारप्रसङ्गे चैतदुक्तम् अतो नावताराश्च पृथक्शङ्क्या इति गीताभाष्यं मनसि निधायाह ॥ अवतारप्रसङ्ग इति ॥ यत्तद्दर्शितवान् ब्रह्मा रूपं हयशिरोऽभिधम्’ इति हयग्रीवावतारप्रसङ्गे तस्योक्तत्वाद्युक्तिसामान्यात्सर्वावतारेष्वपि देहसम्बन्धशङ्का न कार्येति भावः ॥ स्वांशीति ॥ अत्राप्यसिद्धिवारणाय विशेषणं ग्राह्यम् । दृष्टान्ते विशेषणाभावाद्विशिष्टाभावः । पक्षे विशेष्याभावात् ॥ अत एव दृष्टान्त इति ॥ दृष्टान्ते विशेषणाभावाद्विशिष्टाभावोपपादनेन साध्यवैकल्यं परिहर्तुमेव दृष्टान्तो विवृतः । यथादित्य इत्यादिना भाष्यकृतेति शेषः ।

तत्त्वसुबोधिनी

शतधेत्यादिभाष्यं व्याचष्टे ॥ शतधा नारायणादिरित्यादिना ॥ अत्र चापिस्मर्यत इत्यनेन जीवस्येश्वरांशत्वे स्मृतिरुक्ता । स्मरन्ति चेत्यनेन त्वंशत्वेऽपि मत्स्यादीनां स्वरूपांशत्वं, जीवानां विभिन्नांशत्वमित्यत्र स्मृतिरुक्तेति भेदः ॥ व्याप्त्यभावादिति ॥ स्थलाभावेन व्याप्तेर्वक्तुमशक्य-त्वादित्यर्थः । मत्स्यादेर्देहसम्बन्धित्वेऽपि अंश्यधीनप्रवृत्यादिमत्वाभावेन व्यभिचाराद् व्याप्त्यभावो ऽत एव परिहारग्रन्थे देहदोषसत्त्वादिति देहसम्बन्धविवरणं क्रियते इति द्रष्टव्यम् ॥ सूर्यमण्डल-साम्योक्येति ॥ ‘अथ यदेतदादित्यस्य शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णम् । अथ यदेतदक्षणः शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णम्’ इति तत्त्वप्रदीपोदाहृत श्रुत्यन्तरोक्तस्याक्षिगतस्य शुक्लादि-रूपत्रयवत्वेन आदित्यसाम्यस्य त्रिवृदिव वै चक्षुः शुक्लं कृष्णं कनीनिकेति महैतरेयोपनिषदि कथितत्वेनेत्यर्थः । तदंशत्वं सूर्यमण्डलांशत्वम् ॥ अत एवेति ॥ अक्ष्णः सूर्यमण्डलांशत्वादे वेत्यर्थः । तदभिमानिनो ऽस्याभिमानिनः । तदभिमान्यंशत्वं सूर्यमण्डलाभिमान्यंशत्वम् ॥ तस्य चेति ॥ आवृत्तिशब्दार्थमाह ॥ आवरणं तम इति ॥ एवमुत्तरत्रापि । तदंशस्यापि श्लेष्मण इत्यादौ अभिमानिविवक्षा द्रष्ठव्येत्यर्थः ॥ स्वांशीति ॥ देहदोषलिप्तत्वरूपशरीररूपभिन्नांशेऽपि सत्त्वाद्व्यभिचारः । ततः स्वांशिकर्मनिर्मितेत्युक्तम् । शरीरसम्बन्धित्वं तद्योग्यर्द्धिः । जीव इव मत्स्यादावप्यंश्यधीन प्रवृत्तिमत्वसाधकस्य स्वांशिकर्मानिर्मितदेहदोषलिप्तत्वस्य सद्भवाधीन-प्रवृत्त्यादिमत्वमेवेति न मत्स्यादीनां जीवानां च वैलक्षण्यमिति शङ्कते ॥ यदुक्तमित्यादि ॥

ननु तत्रोक्तविधदेहदोषलिप्तत्वेऽपि नांश्यधीनप्रवृत्यादिमत्वमङ्गीक्रियते । अतो नाविशेष इत्यत आह ॥ अथेति ॥ तत्रैवेति ॥ मत्स्यादावेवेत्यर्थः । तत्र स्वांशिकर्मानिर्मितदेहसम्बधित्वेऽपि अंश्यधीन प्रवृत्यादिमत्त्वाभावादिति भावः ॥ इत्यत आहेति ॥ स्यादयं व्यभिचारो यदि मत्स्यादीनां जीववद् स्वांशिकर्मानिर्मितदेहदोषलिप्तत्वं भवेत् । न च तदस्तीति भावेन परिहरतीति भावः । मोक्षधर्मे जीवनिष्ठ शुश्रूषां प्रति प्रकृतो नारायण एव विषयत्वेन सम्बध्यत इत्याह ॥ शुश्रूषुस्तस्येति ॥ एवं च भूतसम्बन्धाधीनप्रलयादिमत्वात् कार्यत्वाकार्यत्वनिमित्तकाभ्यां भूतप्रलय अव्यक्तशब्दाभ्यां मुक्तजीवसमूहस् तस्य नारायणस्य शुश्रूषुर् मोक्षार्थं जिज्ञासुरिति योजनेति भावः । समस्तश्लोकं व्याख्यातुं शरीराणि हि भौतिकानि भवन्ति, भूतानि चेश्वरबुद्धिजानि तत्कथं तानि बध्नीयुरित्यर्थः । अत्रेश्वरो हीत्यादिनेह तत्त्वान्यभिधीयन्ते । विराट् नित्याभिव्यक्तरूपः । वरदो मोक्षदः । सगुणस्वातन्त्र्यादिगुणवान् । भूतानि प्रलीयन्तेऽस्मिन्निति । अव्यक्तं तदभिमा-निदेवता । तस्य शुश्रूषुः । लिङ्गव्यत्यासश् छान्दसः ।

ननु कर्मणि द्वितीया’ इति प्राप्तद्वितीयाऽपवादभूत ‘कर्तृकर्मणोः कृति’ इति विहित षष्ठ्या अपि ‘न लोकाव्ययनिष्ठाकलर्थतॄणाम्’ इति निषेधात् ‘अपवादाभावे पुनरुत्सर्गस्थितिः’ इति न्यायेनोत्सर्गप्राप्तद्वितीयायामेव सत्यां शुश्रूषुस्तमिति वाच्यम्, तस्येति तु कथमिति चेन्न, न लोकेत्यत्र कृद्योगषष्ठ्या निषिद्धत्वेन तदसम्भवेऽपि कर्मण्यपि कर्तृत्वविवक्षया, शेषविवक्षया ‘मातुरध्येति’ ‘पितुः स्मरति’ इत्यादाविव षष्ठ्युपपत्तेः । तथा चोक्तं पदमञ्जर्याम् अत्रोदाहरणेषु कारकषष्ठ्याप्त्या प्रतिषेधः । शेषषष्ठी तु भवत्येव । ब्राह्मणस्य कुर्वन्, ओदनस्य पचन् इत्यादि बहुलप्रयोगोपलम्भादिति भावः । ननु मोक्षधर्मे यत्किञ्चिज्जीवजातं देहबद्धमित्यनेन जीवानां देहबद्धत्वमुक्त्वा ईश्वरो हीत्यादिना अंशिनो नारायणस्यैव निर्गुणादिशब्दैर् देहासम्बन्ध उक्तः । न त्ववताराणामंशानामित्यत अवतारप्रसङ्गे चैतदुक्तम् । अतो नावताराश्च पृथक् शंक्या इति गीताभाष्यं मनसि निधायाह ॥ अवतारप्रसङ्ग इति ॥ ‘यत्तद्दर्शितान् ब्रह्मा रूपं हयशिरोधरम्’ इति हयग्रीवावतारप्रसङ्गे अस्योक्तत्वेन प्रकरणादवतारविषयमेव तद्वाक्यम् । नारायणशब्दस्त्वंश्य-भेदाभिप्राय इत्यर्थः ॥ स्वांशिकर्मेति ॥ दृष्टान्तस्य साधनवैकल्यं परिहर्तुं स्वांशिकर्मा-निर्मितेत्युक्तम् । व्यभिचारवारकस्यापि व्याप्त्युपयोगित्ववत् साधनवैकल्यादिपरिहारकस्यापि व्याप्त्यु-पयोगित्वेन सार्थकत्वादिति द्रष्टव्यम् । स्वांशिकर्मनिर्मितदेहसम्बन्धित्वस्य दृष्टान्ते सत्वेऽपि पक्षे तदभावान् नञ् द्वयगर्भत्वम् । तथा च पक्षे विशेष्याभावेन दृष्टान्ते विशेषणाभावेन विशिष्टा-भावोऽनुगत इति भावः ॥ अत एवेति ॥ देहादिसम्बन्धिदोषलेपकथनादेवेत्यर्थः । दृष्टान्तः ज्योतिरादीत्युक्तो दृष्टान्तः । अक्षाद्यभिमानिनः सूर्यमण्डलाभिमानिनश्च भिन्नांशत्वकथनेन प्रकाशाभिमानिनश्चाभिन्नांशत्वकथनादेव निन्दत इत्यर्थः । ननु मुक्तानां कथं भिन्नांशत्वम् । तेषां देहसम्बन्धाभावेन दोषलेपाभावेन भिन्नांशलक्षणाभावात् । इत्यत आह ॥ देहयोग्यत्वादिति ॥

वाक्यार्थविवरणम्

पूर्वग्रन्थफलितमनुमानं वदन्नुत्तरग्रन्थमवतारयति ॥ यदुक्तमित्यादिना ॥ भाष्ये रामो रामः दाशरथिर्भार्गवश्चेत्यर्थः । अहं शतधेत्यादिभगवद्वाक्यम् ॥ व्याप्त्यभावादिति ॥ दृष्टान्ताभावेन व्याप्तिग्रहासम्भवाद्व्याप्तिज्ञानासिद्धिरिति भावः । मत्स्यादौ देहसम्बन्धित्वेऽप्यंश्यधीनप्रवृत्त्यादि-मत्त्वाभावेन व्यभिचाराद्व्याप्त्यभाव इति वा । अत एव देहदोषलिप्तत्वादिति परिहारग्रन्थे देहसम्बन्धविवरणं क्रियत इति द्रष्टव्यम् ॥ सूर्यमण्डलसाम्योक्त्येति ॥ अथ यदेतदादित्यस्य शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णम् । ‘अथ यदेतदक्ष्णः शुक्लं भाः सैवर्गथयन्नीलं परः कृष्णम्’ । अथ यदेवैतदक्ष्णः शुक्लभा सैवर्गथ यन्नीलं परः कृष्णम्’ । इति छान्दोग्यप्रथमाध्यायस्य श्रुत्यन्तरोक्त-स्याक्षिगतस्य शुक्लादिरूपत्रयत्वेनादित्यसाम्यस्य ‘त्रिवृदिवा वै चक्षुः’’ इत्यैतरेये कथितत्वादित्यर्थः ॥ तदंशत्वम् ॥ सूर्यमण्डलांशत्वम् ॥ अत एवेति ॥ अक्ष्णः सूर्यमण्डलांशत्वादेवेत्यर्थः ॥ आवरणं तम इति ॥ अक्ष्यभिमान्यपभ्रष्टस्य दुर्विषयादिप्रदर्शने प्रतिबन्धकीभूततमोनिवृत्ति-रादित्येन भवतीत्यर्थः ॥ पित्तधातुरिति ॥ श्लेष्माभिमान्यपभ्रष्टस्य श्लेष्मविरोधिपित्तधातुनिवृत्ति-वरुणेन भवतीत्यर्थः । स्वरूपभूतांशेषु मत्स्यादिषु व्यभिचारवारणाय स्वांशिकर्मानिर्मितेत्युक्तम् । एतद्विशेषणदानेऽपि न व्यभिचारपरिहार इत्याशयेनाशङ्कते ॥ यदुक्तमिति ॥ उक्तविधेति ॥ स्वांशिकर्मानिर्मितेत्यर्थः ॥ न विशेष इति ॥ जीवानां मत्स्यादीनां चेति शेषः ॥ मोक्षधर्मे चेति ॥ ‘यत्किञ्चिदिह लोकेऽस्मिन्’ इत्याद्युक्त्या स्वांशिकर्मानिर्मितभौतिकशरीरसम्बन्धित्वादिति हेतौ विवक्षितामिति ध्येयम् ।

ननु तर्हि भौतिकशरीरसम्बन्धित्वादित्येवास्तु मत्स्यादिषु व्यभिचाराभावादिति चेत् । सत्यम् । तथापि वियद्गतप्रकाशाद्यभिमानिषु व्यभिचारपरिहाराय सार्थक्यात् । वियद्गतप्रकाशाद्यभिमानिदेहस्य स्वांशिसूर्यकर्मनिर्मितत्वेन व्यभिचाराभावादिति ध्येयम् । ननु शुश्रूषुरित्यस्य ‘सनाशंश भिक्ष उरिः’ इति सूत्रेणोप्रत्ययान्तत्वादुप्रत्ययान्तस्य च ‘न लोकाव्ययेति’ षष्ठ्या निषेधाद्धरिं दिदृक्षुरितिवत् तं शुश्रूषुरिति वक्तव्यत्वेन तस्येति शेषः कथं क्रियत इति चेत् । उच्यते । कर्तृकर्मणोः कृतीतिप्राप्ता या कर्तरि कर्मणि च षष्ठी सैव न लोक’ इति निषिध्यते, न तु शेष इत्यनेन प्राप्ता । सम्बन्धमात्रे षष्ठी । प्रकृते च कर्तृकर्मणोः’ इत्यनेन षष्ठी नोच्यते येन निषेधावतारः स्यात् किन्तु शेष इति सम्बन्धमात्र एव । न ह्यस्याः प्रतिषेधोऽस्तीति । नन्वथापि शुश्रूषायां भगवतः कर्मत्वं विवक्ष्यताम् । तथा च कर्मणि द्वितीयायां प्राप्तायां तदपवादकत्वेन कर्तृकर्मणोरित्यनेन षष्ठी प्राप्ता न लोकेति तदपवादेऽपवादस्याप्यपवादे पुनरुत्सर्गस्यैव प्राप्तिरिति न्यायेन कर्मणि द्वितीयैव प्राप्ता । तथा च तमिति शेष इत्येव कुतो नोक्तमिति चेत् । सत्यम् । तर्हि साक्षाद्भगवत्कर्मकतत्पादसंसेवनादिरूपैव सेवा प्राप्नोति । न तु तत्सम्बन्धिसेवा । अनया च क्रियमाणा जगत्सर्जनादिरूपा सेवा भगव-त्सेवैव । सा न भगवत्कर्मिका । भगवत्सम्बन्धिनी तु भवति । अतः सामान्यतो भगवत्सम्बन्धि-सेवामात्रप्राप्त्यर्थं शेषे षष्ठी विवक्षितेति । तथा च तस्य शुश्रूषुरित्यस्य तत्सम्बन्धिसेवां कर्तृ-मिच्छुरिति सिद्ध्यतीति ध्येयम् । गीताभाष्यटीकानुसारेण नञा निर्दिष्टमनित्यमित्यङ्गीकृत्य षष्ठी-निषेधस्यात्राप्राप्तिरिति चात्र समाधानं द्रष्टव्यम् । स्वरूपासिद्धिसाधनवैकल्यपरिहाराय स्वांशिकर्मा-निर्मितेत्युक्तम् । स्वांशिकर्मनिर्मितशरीरसम्बन्धित्वविबक्षायां स्वरूपासिद्धिप्राप्त्या नञ्द्वयगर्भत्वम् । तथा च स्वांशिकर्मानिर्मितदेहसम्बन्धित्वस्य विशिष्टस्याभावो दृष्टान्ते विशेषणस्याभावेन । पक्षे तु विशेष्याभावेन अनुगत इति न दोषः ।

ननु पक्षे देहसम्बन्धित्वरूपविशेषस्यापि सत्त्वेन न तदभावप्रयुक्तो विशिष्टाभाव इति स्वरूपासिद्धिरिति चेत् । सत्यम् । देहे भौतिकत्वरूपविशेषणस्याभिप््रोतत्वेन विशेष्याभावप्रयुक्त-विशिष्टाभावसम्भवादिति ध्येयम् । सूत्रभाष्ययोरस्पष्टप्रतीतोऽप्ययं प्रयोगः कस्मादुच्यत इत्यत आह ॥ अत एवेति ॥ एवंरूपप्रयोगस्याभिमतत्वादेव पूर्वं भाष्ये ‘यथादित्ये’ इत्यादिना ज्योतिरादि-वदिति दृष्टान्तो विवृत इत्यर्थः ॥ अत एवेति ॥ एतदनुमाने साध्यादिवैकल्यपरिहारार्थमेवेत्यर्थः । देहसम्बन्धित्वं हेतुं कृत्वा तेन जीवानामंश्यधीनप्रवृत्तिमत्त्वसाधने मुक्तजीवेषु भौतिकदेह-सम्बन्धित्वाभावेन भागासिद्धिः स्यादतो व्याचष्टे ॥ देहयोग्यत्वादित्युक्त्येति ॥ तथा च भौतिक-देहसम्बन्धित्वं नाम तद्योग्यत्वं विवक्षितम् । योग्यत्वं च भौतिकदेहवत्त्वावच्छेदकावच्छिन्नत्वम् । तदवच्छेदकं च जीवत्वं तदवच्छिन्नत्वं मुक्तेष्वप्यस्तीति न भागासिद्धिरिति भावः ।

वाक्यार्थमञ्जरी

जीवस्य देहसम्बन्धान्निमित्तात्तदनुज्ञापरिहारौ परमात्मानुज्ञाऽधीनप्रवृत्तिमोक्षौ च स्तः कथं ज्योतिरादिवद् यथाज्योतिरादेरक्ष्यभिमान्यादेर्देहसम्बन्धात्सूर्याद्यनुज्ञाधीनप्रवृत्त्यादिस्तथेत्यर्थः ॥ कनीनिकेति ॥ तारकेत्यर्थः रक्तेत्यर्थः ॥ उत्तरत्रेति ॥ ब्रह्माण्डबाह्यजलाभिमानी वरुणो ऽन्तः शुद्धोदकसमुद्राभिमानीतदभिन्नांशः श्लेष्माभिमानी तद्भिन्नांश इति द्रष्टव्यमित्यर्थः ॥ स्वांशि-कर्मेति ॥ शरीरसम्बन्धित्वस्याभिन्नांशेऽपि सत्त्वाद्व्यभिचारस् ततः स्वांशिकर्मानिर्मितेत्युक्तं शरीरसम्बन्धित्वं च तद्योग्यत्वं तेन न मुक्तेषु भागासिद्धिः ॥ मोक्षधर्मे चेतीति । तत्र हीन-शरीराणि भौतिकानि भवन्ति भूतानि चेश्वरबुद्धिजातानि तत्कथं तानि तद्बध्नीयुरित्युक्तेरिति भावः । अक्षरार्थश्च हेविशांपते इह चेतनवर्गे अस्मिल्लोके यत्किञ्चिद्देहसम्बद्धं तत्सर्वम् ईश्वरबुद्धिजैः पञ्चभिर्भूतैराविष्टं बद्धम् ईश्वरस्तु महन् महनीयः भूतं सर्वदाविद्यमानः नारायणः मुक्ताश्रयः विराट् नित्याभिव्यक्तिरूपः सगुणः स्वातन्त्र्यादिगुणवान् भूतानि प्रलीयन्ते यस्मिन् तद् भूतप्रलयम् अव्यक्तं तदभिमानिनी रमा तस्येशस्य शुश्रूषुः सेवाकर्त्रीति प्रमेयदीपिकादावगन्तव्यः । अस्त्वेतन्मूलरूप-विषयम् अवताराणान्तु देहसम्बन्धित्वं स्यादेवेत्यत आह ॥ अवतारप्रसङ्गादिति ॥ यत्तद्दर्शितवान् ब्रह्मरूपं हयशिरोऽभिदमिति हयग्रीवावतारप्रसङ्ग इत्यर्थः ॥ स्वांशिकर्मेति ॥ देहसम्बन्धित्वा-दित्युक्ते स्वरूपासिद्धिर् दृष्टान्तस्य साधनवैकल्यता च अतः स्वांशिकर्मनिर्मितेत्युक्तम् । स्वांशि-कर्मनिर्मितदेहसम्बन्धित्वस्य दृष्टान्ते सत्त्वेऽपि पक्षे तदभावान् नञ्द्वयगर्भत्वं तथा च पक्षे विशेष्या-भावेन दृष्टान्ते विशेषणाभावेन विशिष्टाभावानुगम इति भावः ॥ अत एवेति ॥ एवं प्रयोग-द्वयस्यात्राभिमतत्वादेव ज्योतिरादिवदिति दृष्टान्तो यथेत्यादिनाविवृत इत्यर्थो ऽतो न भाष्यकारा-नभिमतमेतदिति भावः ।


ॐ असन्ततेश्चाव्यतिकरः ॐ

सूत्रभाष्यम्

॥ ॐ असन्ततेश्चाव्यतिकरः ॐ ॥ ४९ ॥

अपूर्णशक्तित्वाच्च जीवस्य न मत्स्यादिसाम्यम् । तथा च चतुर्वेदशिखायाम्– ‘तस्य ह वा एतस्य परमस्य त्रीणि रूपाणि कृष्णो रामः कपिल इति । तस्य ह वा एतस्य परमस्य पञ्चरूपाणि दशरूपाणि शतरूपाणि सहस्ररूपाण्यमितरूपाणि । तानि ह वा एतानि सर्वाणि पूर्णानि सर्वाण्यनन्तानि सर्वाण्यसम्मितानि । अथावराः सर्व एवापूर्णाः सर्व एव बध्यन्तेऽथ मुच्यन्ते च केचन’ इति ।

तत्त्वप्रदीपिका

असन्ततशक्तित्वात् ।

‘सर्वत्र सर्वकृच्चापि हयग्रीवादिरूपकः ।

ज्ञानादिरक्षको विष्णुर्जामदग्न्यादिरूपवान् ।

ज्ञानाद्युत्पादको नित्यं कृष्णादिर्दोषनाशक’ इति ब्रह्मतर्के ॥

तत्त्वप्रकाशिका

युक्त्यन्तरेण मत्स्यादीनां जीवानां चैकविध्यं निराकुर्वत्सूत्रं पठित्वा व्याचष्टे ॥ असन्तते-श्चेति ॥ जीवस्य सम्यक् शक्त्यभावान्मत्स्यादीनां तु तद्भावादंशत्वेऽप्युक्तस्याव्यतिकरो व्यत्यासा-भाव इति भावः । मत्स्यादीनां पूर्णशक्तित्वं न जीवस्येत्येतत्कुत इत्यत आह ॥ तथा चेति ॥ कृष्णादिः कश्चन व्यूहः । पञ्च नारायणादीनि । असंमितानि निरुपमानि ।

गुर्वर्थदीपिका

अपूर्णशक्तित्वाच्चेति वदता सम्यक्ततिः पूर्णता शक्त्यादिगुणैः सम्पूर्णता सन्ततिस् तदभावोऽ-सन्ततिरिति व्युत्पत्तिस्सूचिता । अथावरा अधमा जीवाश्च प्रतिमात्वाद्रूपाणीत्युच्यन्त इति योग्यपदाध्याहारेण श्रुतेस्सम्बन्धः ।

भावदीपः

भाष्यं सूत्रारूढं कुर्वन् सूत्राक्षरार्थमाह ॥ जीवस्येति ॥ ज्ञस्येत्यनुवर्तत इति भावः । उक्तस्य नैवं पर इत्युक्तस्य । ननु श्रुतौ पञ्च रूपाणीत्यादौ सामान्यतो निर्दिष्टानां विशेषोद्देशमकृत्वा त्रीणि रूपाणीति निर्दिष्टानां विशेषोद्देशे किं बीजमित्यत आह ॥ कृष्णादिः कश्चनेति ॥ प्रागुक्तत्वादाह ॥ पञ्चेति ॥ दशेत्यस्य प्रसिद्धत्वाद्वा मत्स्यः कूर्मो वराह इति प्रागुदाहृतश्रुतौ स्पष्टत्वाद्वानुक्तिः । अन्योन्यमसमानानीति भ्रमनिरासायाह ॥ निरुपमानीति ॥

वाक्यार्थमुक्तावली

सूत्रे ज्ञस्येति शेषः । ज्ञस्यासन्ततेः शक्त्या सम्यगेवाविस्तृत्वात् । असंपूर्णशक्तित्वाच्च अव्यतिकरः नैवंपर इत्युक्त व्यत्यासाभाव इत्यर्थः । साम्यं नास्तीति यावत् । इति भावेनापूर्णशक्तित्वाच्चेति भाष्यं व्याचष्टे ॥ जीवस्येत्यादिना ॥

वाक्यार्थविवरणम्

न व्यूह इति ॥ तथा चैतानि स्वतन्त्रावताराण्येव न नारायणादिपञ्चरूपादिवद् व्यूह इत्यर्थः ।

वाक्यार्थमञ्जरी

जीवस्यासन्ततेरपूर्णत्वाच्च मत्स्यादिसाम्यं नास्तीत्यस्याव्यतिकरः व्यत्यासाभाव इत्यर्थः ।

Load More