ॐ कर्ता शास्त्रार्थवत्त्वात् ॐ
१७. अथ कर्तृत्वाधिकरणम्
सूत्रभाष्यम्
ईश्वरस्यैव कर्तृत्वमुक्तम् । ‘यत्कर्म कुरुते तदभिसम्पद्यत’ (बृ.उ. ६-४-५) इति जीवस्योपलभ्यते । अत आह–
॥ ॐ कर्ता शास्त्रार्थवत्त्वात् ॐ ॥ ३३ ॥
जीवस्य कर्तृत्वाभावे शास्त्रस्याप्रयोजकत्वप्राप्तेर्जीवोऽपि कर्ता ।
तत्त्वप्रदीपिका
जीवस्य कर्तृत्वाभावे स्वर्गादिफलार्थं प्रवर्तमानं शास्त्रमनर्थकं स्यात् । तथाहि ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ ‘ब्राह्मणो न हन्तव्यः’ इत्येवञ्जातीयकं विधिप्रतिषेधात्मकमिष्टं प्रेप्सन्तमनिष्टं परिजिहीर्षन्तमधिकारिणं शास्ति ।
तत्त्वप्रकाशिका
अत्रेश्वरे श्रुतिसमन्वयसिद्ध्यर्थं जीवकर्तृत्वविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । ईश्वरे श्रुतिसमन्वय उक्तः । स च जीवकर्तृताविषयश्रुतीनां विरोधेनाप्रामाण्येऽनुपपन्नः स्यादिति तन्निरासः कार्य एव । प्रकृतो जीव एव विषयः । किं कर्ता न वेति सन्देहः । सन्देहबीजं श्रुतिविगानं दर्शयति ॥ ईश्वरस्येति ॥ ईश्वरस्यैव कर्तृत्वमुक्तमित्यनेन नान्यः कर्तेत्यादि श्रुतिं सूचयति । जीवो न कर्तेति पूर्वः पक्षः । तत्कर्तृत्वाभावस्य श्रुतत्वात् । जीवकर्तृत्वेऽप्यस्ति श्रुतिर् न चासावीश्वर-विषया । ‘तदभिसम्पद्यते’ इति फलसम्पत्तिश्रवणादिति चेन्न । अकर्तृकत्वश्रुतेः सयुक्तिकत्वेन प्राबल्यात् । समर्थितं हीश्वरस्यैवानन्ययोगेन कर्तृत्वमितरव्यपदेशादित्यादौ । अत एव द्वयोः कर्तृत्व-मित्यपि प्रत्युक्तम् । ईश्वरस्यैव कर्तृत्वाङ्गीकारे कल्पनालाघवं च स्यात् । जीवस्यापि तदङ्गीकारे तु गौरवं स्यात् । न खलु लाघवाय श्रुत्यादिसिद्धमीश्वरस्य कर्तृत्वं हातुं युक्तम् । अतः सयुक्तिक-श्रुतिविरोधेन कर्तृत्वश्रुतेरप्रामाण्यादयुक्तो नारायणे श्रुतिसमन्वय इति प्राप्ते सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ अस्त्येव जीवस्यापि कर्तृत्वम् । तदभावे विधिनिषेधशास्त्रवैयर्थ्यप्रसङ्गात् । न हि कर्तारमन्तरेणारण्यरोदनायमानशास्त्रस्य सार्थक्यं भवति । न च जडं प्रति तौ भवतो नापीश्वरं प्रति । तथा सति पुण्यपापलेपप्रसङ्गेनानीश्वरत्वापत्तेः । अतो जीवस्य कर्तृत्वाङ्गीकारे शास्त्रस्यार्थवत्त्वसिद्धेः सोऽपि कर्ताऽङ्गीकार्य इति भावः ।
भावबोधः
अनन्तरसङ्गतिं सूचयन् विषयमाह– प्रकृत इति ॥ अभिव्यक्तज्ञानानन्दबलकर्तृत्वादिगुण-स्वरूपत्वेन प्रकृत इत्यर्थः । तथा चास्त्वानन्दादीनां सतामभिव्यक्तिः, न तु कर्तृत्वस्य तस्य कदाप्यभावादिति पूर्वपक्षोत्थानात् सङ्गतिरिति भावः ॥ किमिति ॥ अत्र जीवः कर्ता न भवत्युत भवतीति चिन्ता । तदर्थं ‘यत् कर्म कुरुत’ इत्यादिजीवकर्तृत्वश्रुतिः कल्पनालाघवयुक्त्युपोद्बलितया ‘नान्यः कर्त्ता’ इति श्रुत्या बाधितोत नेति । तदर्थं जीवस्य कर्तृत्वं किं काल्पनिकमुत स्वाभाविकमिति । तदर्थं ‘नान्यः कर्ता’ इत्यादिश्रौतो निषेधः किं नोपपद्यत उतोपपद्यत इति । तदर्थं सा श्रुतिर्जीवस्य कर्तृत्वमात्रनिषेधपरोत स्वतन्त्रकर्तृत्वनिषेधपरेति । तदर्थमीश्वराधीनशक्तित्व-रूपं पराधीनकर्तृत्वं जीवस्य किं नोपपद्यत उतोपपद्यत इति । तदर्थं विधिप्रतिषेधशास्त्रस्य पराधीनकर्तृत्वादौ प्रमाणं नास्त्युतास्तीति । भाष्योक्तपूर्वोक्तश्रुत्योः सन्देहबीजत्वप्रतीतावप्यस्मिन् पादे सर्वत्र श्रुतिविगानमेव सन्देहबीजमित्यभिप्रेत्योक्तं श्रुतिविगानं सूचयति । तदुपपादयति ईश्वरस्यैव कर्तृत्वमुक्तमित्यनेनेति ॥ न्यायविवरणे इतरव्यपदेशादित्यत्रास्याः श्रुतेरुदाहृतत्वादिति भावः । ईश्वरस्यैव कर्तृत्वमिति, भाष्योक्तयुक्तिमाह– समर्थितं हीति ॥ अनेन हिताक्रियादिरूपा युक्तिरुक्ता भवति । ईश्वरस्यैव कर्तृत्वे कल्पनालाघवमिति न्यायविवरणोक्तयुक्तिमाह– ईश्वरस्यैवेति ॥ तर्हि लाघवाय जीवस्यैव कर्तृत्वं भवत्वित्यत आह– न खल्विति ॥ जीवकर्तृत्वे हिताक्रियादिदोषप्रसक्तेर्बाधकस्योक्तत्वाच्चेत्यपि ग्राह्यम् । अत्र ‘शास्त्रार्थवत्त्वात्’ इति हेतूक्त्या सूचितं जीवस्य कर्तृत्वाभाव इति भाष्ये जीवस्याकर्तृत्वे शास्त्रवैयर्थ्यादिति हेतूक्त्या सूचितं, जीवस्याकर्तृत्वे शास्त्रवैयर्थ्यादिति न्यायविवरणे चोक्तं विपक्षे बाधकतर्कमाह– तदभाव इति ॥ सौत्रप्रतिज्ञाव्याख्यानपरेण जीवोऽपि कर्तेति भाष्येण हेतुव्याख्यानपरं तस्यापि कर्तृत्वे शास्त्रार्थ-सिद्धेश्चेति न्यायविवरणं संयोजयति– अतो जीवस्येति ॥
भावदीपः
भाष्ये उक्तमित्यस्य श्रुतौ उक्तमित्यप्यर्थमुपेत्य पादसङ्गत्यर्थं तत्सूचितमाह ॥ ईश्वरस्यैवेति ॥ न कर्तेतीति ॥ स्वतन्त्रकर्ता परतन्त्रकर्ता वा नेत्यर्थः । भाष्ये श्रुतिशेषोक्तेरुपयोगं व्यनक्ति ॥ न चेत्यादिना ॥ सयुक्तिकत्वेन लाघवादिरूपयुक्तिसाहित्येनेत्यर्थः । ईश्वरस्यैव कर्तृत्वे कल्पनालाघव-मित्यन्यत्रोक्तलाघवयुक्तिं वक्तुमनुभवसिद्धजीवकर्तृत्वादप्यप्रामाणिकस्येश्वरकर्तृत्वस्य स्वीकार एव गौरवमित्याशङ्कानिवृत्तये तस्य प्रामाणिकत्वायेश्वरस्यैवेत्यादि भाष्यं व्याचष्टे ॥ समर्थितं हीति ॥ एवकारार्थोऽनन्ययोगेनेति । यद्यपीतरव्यपदेशादित्यधिकरणे जीवकर्तृत्वमेव निराकृतं तथापि क्षीरवद्धि देवादिवदपि लोके इत्यनेन तस्याप्युक्तेरिति भावः । आदिपदेन प्रवृत्तेश्च अन्यत्राभावाच्च अन्यथानुमितौ च ज्ञशक्तिवियोगात् तेजोऽतस्तथा ह्याह इत्यादिग्रहः । एवकारतात्पर्यमाह ॥ अत एवेति ॥ हिताक्रियादिना अन्यकर्तृत्वनिरासपूर्वमीशकर्तृत्वसमर्थनादेवेत्यर्थः । एतेन जीवेशयोर्द्वयोः कर्तृत्वायोगादिति युक्तिर्दर्शिता । एवं भाष्योक्तां युक्तिमुक्त्वाधुनान्यत्रोक्तां च युक्तिं व्यनक्ति ॥ ईश्वरस्यैवेति ॥ गौरवमिति ॥ विधिनिषेधशास्त्रवैयर्थ्यं तु सिद्धान्तेऽपि समम् । दारुयोषवज्जीव-स्यापि परतन्त्रकर्तृत्वोपगमादिति भावः । वैपरीत्यं किं नेत्यत आह ॥ न खल्विति ॥ नापि नान्यः कर्तेति श्रुत्या हिताक्रियादियुक्त्या च निषिद्धं जीवकर्तृत्वमुपादातुं युक्तमित्यपि योज्यम् । एतेन भाष्ये ईश्वरस्यैव कर्तृत्वमुक्तं समर्थितमित्युक्तेरुपयोगो दर्शितः ॥ अत इति ॥ द्वयोः कर्तृत्वा-योगादीश्वरस्यैव कर्तृत्वे लाघवाच्चेत्यर्थः । सयुक्तिकत्वेऽयं हेतुः । जीवोऽपि कर्तेति भाष्यार्थमाह ॥ अस्त्येवेति ॥ जीवस्याकर्तृत्वे शास्त्रस्य वैयर्थ्यादित्यन्यत्रोक्त्यनुरोधेन भाष्यार्थमाह ॥ तदभाव इति ॥ ज्योतिष्टोमेन स्वर्गकामो यजेत ब्राह्मणो न हन्तव्य इत्यादिविधिनिषेधरूपस्येत्यर्थः । तर्कस्याप्रयोजकत्वं निराह ॥ न हीति ॥ अस्त्वन्यदेव कर्तृ इत्यत आह ॥ न चेति ॥ तौ विधिनिषेधौ । नापि मुक्तं प्रति व्याहतेरिति भावः । भाष्यं सौत्रहेतोर्व्यतिरेकमुखेनोपपादकमिति भावेन तस्यापि कर्तृत्वे शास्त्रार्थसिद्धेश्चेत्यन्यत्रोक्त्यनुरोधेन भाष्यस्य विपर्यये पर्यवसानमुखेन सूत्रार्थमाह ॥ अत इति ॥ विपक्षे बाधकभावादित्यर्थः ॥ सोऽपीति ॥ सूत्रे ज्ञ इत्यनुवृत्तिरिति भावः ।
अभिनवचन्द्रिका
श्रुतिसमन्वयसिध्द्यर्थमिति ॥ ‘एष उ एव साधुकर्म कारयति’ इत्यादि श्रुतिसमन्वय-सिद्ध्यर्थमित्यर्थः ॥ अनुपपन्नः स्यादिति ॥ कर्तुरभावे ईश्वरस्य कारयितृत्वायोगादिति भावः । शङ्कते – जीवकर्तृत्वेऽपीति ॥ विवेकाग्रहोऽस्त्येवेति ॥ परमतकर्तृत्वविषये आत्मीयता-कल्पनमस्त्येवेत्यर्थः ।
वाक्यार्थमुक्तावली
अस्त्वानन्दादीनां सतामेवाभिव्यक्तिर् न तु कर्तृत्वस्य कदाप्यभावादिति पूर्वपक्षोत्थानादनन्तर-सङ्गतिः । अत्र जीवः कर्ता न भवत्युत भवतीति चिन्ता । तदर्थं यत्कर्मकुरुत इत्यादि जीवकर्तृत्व-श्रुतिः किं कल्पनालाघवादियुक्त्यनुगृहीततया नान्यः कर्तेत्यादिश्रुत्या बाधितोत नेति । तदर्थमकर्तृकत्वश्रुतिः किं सर्वथा कर्तृत्वनिषेधपरा उत स्वतन्त्रकर्तृत्वनिषेधपरा । तदर्थं जीवस्येश्वर-वत्स्वतन्त्रकर्तृत्वाभावेऽपि परतन्त्रकर्तृत्वमात्रेण विध्यादिविषयत्वमयुक्तमुत युक्तमिति ॥ श्रुतिं सूचयतीति ॥ तथा च स्ववाक्यश्रुति विरोधस्यात्रापाक्रियमाणत्वादसङ्गतिरिति निरस्तमिति भावः ॥ न कर्तेति पूर्वपक्ष इति ॥ स्वातन्त्र्येण, पारतन्त्र्येण वा न कर्तेति पूर्वपक्षः । नान्यः कर्तेति जीवस्य कर्तृत्वसामान्याभावस्य श्रुतत्वादित्यर्थः ॥ अकर्तृकत्वश्रुतेरिति ॥ कर्तृत्वसामान्यनिषेधक-श्रुतेरित्यर्थः ॥ तथा हि ॥ कर्तृत्वं जीवस्य वदन् प्रष्टव्यः, स्वतन्त्रः कर्ता परतन्त्रो वेति । आद्ये स एक एव स्वतन्त्रः कर्ता ईश्वरोऽपि वेति । आद्योत्तरत्वेन नेश्वरस्यैव कर्तृत्वमिति भाष्यं योजयति ॥ समर्थितं हीति ॥ अनन्ययोगेनान्यसहायं विना स्वातन्त्र्येणेति यावत् ॥ स्वातन्त्र्येण कर्तृत्व-मीश्वरस्यैव न तु जीवस्येतीतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिरित्यत्र समर्थितयुक्त्या साधित-मित्यर्थः । अतिदेशेन द्वितीयं दूषयति ॥ अत एव द्वयोरिति ॥ द्वितीयं दूषयितुमल्पकत्वे-नेत्युक्तन्यायमीश्वरस्यैव कर्तृत्वमुक्तमिति भाष्यसूचितमाह ॥ ईश्वरस्यैवेति ॥ ईश्वरस्यैव कर्तृत्वं जीवस्य परतन्त्रकर्तृत्वमपि नास्तीत्यङ्गीकारे कल्पनालाघवं च स्यात् । ईश्वरकर्तृत्वस्य श्रुतियुक्तिभ्यां पूर्वं समर्थितत्वेन प्रामाणिककल्पनारूपत्वादिति भावः ॥ जीवस्यापीति ॥ पारतन्त्र्येण जीवस्यापि कर्तृत्वाङ्गीकारे गौरवम् । अवश्यं नियामकतयाऽभ्युपेयेनेश्वरेणैवोपपत्तौ व्यसनितया जीवकर्तृत्वाङ्गी-कारस्यायुक्तत्वात् । दारुयोषावद्विधिनिषेधविषयत्वानुपपत्तेश्चेति भावः । लाघवाय जीवत्यागे प्रत्यक्षसिद्धे जीव एव कर्ताङ्गीक्रियताम् । ईश्वरस्त्याज्यो लाघवादित्यत आह ॥ न खल्विति ॥ प्रत्यक्षसिद्धजीवस्य कर्तृत्वे धर्मिकल्पनालाघवमस्तीत्येतावता श्रुतियुक्तिसिद्धं कर्तृत्वं हातुं शक्यम् । जीवकर्तृत्वं श्रुतावापातत उपलभ्यते न युक्तिसहमतस्त्याज्यमिति भावः । शास्त्रस्यार्थवत्त्वाज्जीवः कर्तेत्यसङ्गतमित्यतः कर्तृत्वानङ्गीकारे विपक्षे बाधकप्रदर्शनमभिप्रेत्य विपर्यये पर्यवसन्नहेतुप्रदर्शनपरं सूत्रमिति भावेन प्रवृत्तभाष्यमाह ॥ अस्त्येवेति ॥ तर्कोऽप्यप्रयोजक इत्यत आह ॥ न हीति ॥ विधिनिषेधशास्त्रं हि प्रवर्तकं तच्च विहितकर्तारमुद्दिश्य प्रवर्तते ॥ कर्तृत्वाभावे स्वोद्देश्यप्रवृत्य-हेतुत्वाद्वैयर्थ्यमिति भावः । तदेव पारिशेष्येणोपपादयति ॥ न च जडमिति ॥ अचेतनस्याविधि-नियोज्यत्वादिति भावः । भाष्ये तर्कमुक्त्वा जीवोऽपि कर्तेत्यापादकविपर्ययपर्यवसानमुच्यते नत्वापाद्यविपर्यये पर्यवसानं सूत्रप्राप्तमित्यतः स्वयमाह ॥ अत इति ॥ यत एवं जीवस्य कर्तृत्वानङ्गीकारे जडमीश्वरं चादाय न शास्त्रस्यार्थवत्वमतो जीवस्य कर्तृत्वाङ्गीकार एव शास्त्रस्यार्थवत्वसिद्धेः सोऽपि कर्ताङ्गीकार्य इत्यर्थः ॥ सूत्रे ज्ञ इत्यस्ति ॥ जीवस्य कर्तृत्वानङ्गीकारे विधिनिषेधशास्त्रस्याप्रवर्तकत्वलक्षणवैयर्थ्यं स्यात् । शास्त्रं चार्थवद् अतः शास्त्रस्यार्थवत्वाज्जीवोऽपि कर्तेति सूत्रार्थः ।
तत्त्वसुबोधिनी
अनन्तरसङ्गतिं सूचयन् विषयमाह ॥ प्रकृत इति ॥ अभिव्यक्तज्ञानानन्दबलकर्तृत्वादि-गुणस्वरूपत्वेन प्रकृत इत्यर्थः । तथा च स्वानन्दादीनां सतामभिव्यक्तिः । न तु कर्तृत्वस्य तस्य कदाप्यभावाद् इति पूर्वपक्षोत्थानाद् अनन्तरसङ्गतिरिति भावः । सन्देहबीजं श्रुतिविगानं सूचयतीति । एतच्च भाष्ये पूर्वोक्तिः श्रुत्योः सन्देहबीजत्वप्रतीतावपि अस्मिन् पादे सर्वत्र श्रुतिविगानस्यैव सन्देहबीजत्वमित्यभिप्रेत्योक्तम् । तदेवोपपादयति ॥ ईश्वरस्यैव कर्तृत्वमुक्तमित्यनेनेति ॥ न्यायविवरणे इतरव्यपदेशादित्यत्रास्य श्रुतेरुदाहृतत्वादिति भावः । शङ्कते ॥ कतृत्वेऽपीति ॥ भाष्ये तदभिसम्पद्यत इति अधिकांशोदाहरणस्य प्रयोजनं वक्तुं तद्व्यावर्त्यामाशङ्कामाह ॥ न चेति ॥ सयुक्तिकत्वेनेति ॥ ईश्वरस्यैवानन्ययोगेन कर्तृत्वरूपयुक्तिसहितत्वेनेत्यर्थः । सयुक्तिकत्वे-नेत्युक्तामेव युक्तिमाह ॥ समर्थितं हीति ॥ अत एव ॥ अनन्ययोगेनेश्वर कर्तृत्वस्य समर्थितत्वादेवेत्यर्थः । कल्पनालाघवाच्चेश्वरस्यैव कर्तृत्वमित्याह ॥ ईश्वरस्यैवेति ॥ तर्हि लाघवाय जीवस्यैवकर्तृत्वं भवत्वित्यत आह ॥ न खल्विति ॥ जीवकर्तृत्वे हिताक्रियादिदोषप्रसक्ते-र्बाधकस्योक्तत्वाच्चेत्यर्थः । अत्र शास्त्रार्थत्वोक्त्या सूचितं ‘जीवस्य कर्तृत्वाभावे’ इति भाष्ये चोक्तं विपक्षे बाधकान्तरमाह ॥ तदभाव इति ॥ ननु कर्तृत्वाभावेऽपि शास्त्रवैयर्थ्यं कुत इत्यत आह ॥ न हीति ॥ सकर्तृकत्वेऽपि जीवकर्तृत्वं कुत इत्यतः शेषादिभावेन प्रसक्तपक्षान् प्रतिषेधति ॥ न चेति ॥ विधिनिषेधबद्धत्वे जडत्वभङ्गप्रसङ्गादित्यर्थः ।
वाक्यार्थविवरणम्
भाष्ये यत्फलमुद्दिश्य कर्म कुरुते तत्फलमभिसम्पद्यते प्राप्नोतीत्यर्थः ॥ श्रुतत्वादिति ॥ नान्यः कर्ता’ इति श्रुतावन्यस्य कर्तृत्वनिषेधादिति भावः । शङ्कते ॥ जीवकर्तृत्वेऽपीति ॥ अत एवेति ॥ ईश्वरस्यैव कर्तृत्वसमर्थनादेवेत्यर्थः । ननु गौरवपरिहारायैकस्य कर्तृत्वेऽङ्गीकरणीये जीवस्यैव तत्किमिति नाङ्गीक्रियत इत्यत आह ॥ न खल्विति । वैय्यर्थ्यप्रसङ्गादित्यनेन भाष्येऽप्रयोजकत्व-प्राप्तेर्वैय्यर्थ्यप्राप्तेरिति व्याख्यातं भवति । ननु जीवस्य कर्तृत्वाभावेऽपि शास्त्रस्य न निरधिकारित्वेन वैय्यर्थ्यं प्रसज्यते । जडं प्रतीश्वरं प्रति वा विधिनिषेधात्मकशास्त्रप्रवृत्यङ्गीकारादित्यत आह ॥ न चेति ॥ न हीत्यर्थः । तौ विधिनिषेधौ । ननु कुत ईश्वरं प्रति तौ न भवत इति आशङ्काया ‘विधेर्निषेधस्य च नैव गोचरः पुमान् यदि स्याद्भवतो हि तौ हरेः । तेनैव लेपश्च भवेदमुष्य पुण्येन पापेन च नैव चासौ । लिप्येत ताभ्यां परमः स्वतन्त्रः’ इति महाभारततात्पर्यनिर्णयं हृदि निधायोत्तरमाह ॥ तथा सतीति ॥ अर्थवत्त्वेति ॥ अधिकारिप्राप्त्या सार्थक्यसिद्धेरित्यर्थः ।
वाक्यार्थमञ्जरी
अन्य ईशात् । शङ्कते ॥ जीवकर्तृत्वेति ॥ तत्कर्मफलं सम्पद्यते प्राप्यते । अनन्ययोगेन अन्यसाहाय्यत्यागेन । हि यस्मादत एवेत्यन्वयः । तथा च स्ववचनविरोध इति भावः । तर्हि लाघवाय जीवस्यैव कर्तृत्वमस्त्वित्यत आह ॥ न खल्विति ॥ ॐ कर्ताशास्त्रार्थवत्वात् ॐ । जीवः कर्तैव कुतस् तथात्वे शास्त्रस्य विधिनिषेधरूपस्य प्रयोजनवत्त्वलाभाद् अन्यथा तद्वैय्यर्थ्या-पत्तेरित्यर्थः ।
ॐ विहारोपदेशात् ॐ
सूत्रभाष्यम्
॥ ॐ विहारोपदेशात् ॐ ॥ ३४ ॥
‘स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वाऽज्ञातिभिर्वा’ (छां.उ. ८-१२-३) इत्यादि मोक्षेऽपि ।
तत्त्वप्रदीपिका
अविद्याप्रत्युपस्थापितत्वेनापरमार्थत्वान्मोक्षपर्यन्तमेव कर्तृत्वमिति चेन्नेत्याह ॥ ॐ विहारोपदेशात् ॐ ॥ ‘परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत’ इति मोक्षं प्रस्तुत्य तस्य मुक्तस्य परञ्ज्योतिःसामीप्यजुषो विहारं सञ्चरणं क्रीडां चोपदिशति– ‘स तत्र पर्येति जक्षन्क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वाऽज्ञातिभिर्वा’ इति । आदिशब्दादन्यत्र च ‘ब्रह्मविदाप्नोति परम्’ इति प्रस्तुत्य ‘सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता’ इति, तथा ‘एतमानन्दमय-मात्मानमुपसंक्रम्य । इर्माल्लोकान्कामान्नी कामरूप्यनुसञ्चरन्’ इत्यादि च । न चायं विहारोपदेशः संसारिविषयः । परब्रह्मोपसम्पत्तेः स्वरूपाभिनिष्पत्तेश्च परं संसरणस्यायुक्तत्वादनिष्टत्वाच्च ।
तत्त्वप्रकाशिका
जीवस्य स्वतः कर्तृत्वाभावेऽपि परगतकर्तृत्वे विवेकाग्रहोऽस्त्येवातस्तादृशं कर्तारं प्रति शास्त्रं प्रवर्ततामित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे ॥ विहारेति ॥ न जीवस्य काल्पनिकं कर्तृत्वं किं तु पारमार्थिकमेव । विगलिताखिलकल्पनेऽपि कैवल्ये विहारादिकर्तृत्वोपदेशादिति भावः ।
भावबोधः
पारमार्थिकमेवेति । अनेन ‘कर्ता’ इति पूर्वसूत्रादनुवृत्तस्य कर्तैव न त्वारोपितकर्तृत्ववानित्यर्थ इत्युक्तं भवति । मोक्षेऽपीत्यपिशब्दाभिप्रायमाह– विगलिताखिलकल्पनेऽपीति ॥
भावदीपः
परेति ॥ बुद्धीत्यर्थः ॥ तादृशं कर्तारम् ॥ काल्पनिककर्तारम् । भाष्यस्य सूत्रेणान्वयमुपेत्य योग्यसाध्योक्त्यार्थमाह ॥ न जीवस्येति ॥
अभिनवचन्द्रिका
तादृशकर्तारमिति ॥ काल्पनिककर्तृत्वोपेतमितित्यर्थः ।
वाक्यार्थमुक्तावली
कर्तुरीश्वस्य शरीरसन्निधानात्परगतकर्तृत्वविषये विवेकाग्रहमूलकात्मीयताकल्पनमस्त्येवेत्यर्थः । ज्ञः कर्तेव न तु काल्पनिककर्तृत्वमिति सूत्रेऽनुवृत्याऽन्वयो बोध्यः ।
तत्त्वसुबोधिनी
पारमार्थिकमेवेति ॥ अनेन कर्तेति पूर्वसूत्राद् अनुवृत्तस्य कर्तैव नत्वारोपित कर्तृत्ववानित्यर्थ इत्युक्तं भवति । मोक्षेऽपीति भाष्यस्यार्थमाह विगलिताखिलकल्पनेऽपीति ॥ विगलिताखिल-कल्पना यस्मिन् तत्तथोक्तम् ।
वाक्यार्थविवरणम्
परगतेति ॥ अन्तःकरणगतेत्यर्थः । तथा च जीवान्तःकरणयोर्विवेकाग्रहादन्तःकरणगतं कर्तृत्वं जीव आरोप्यत इति भावः ॥ तादृशं कर्तारम् ॥ आरोपितकर्तृत्ववन्तम् ॥ विगलितेति ॥ कल्पनाया अज्ञानकार्यत्वान्मोक्षे च तदभावादिति भावः ।
वाक्यार्थमञ्जरी
परगतेति ॥ ईश्वरगतेत्यर्थः ॥ विवेकाग्रह इति ॥ इदं कर्तृत्वं नेश्वरगतमपि तु मद्गतमेवेत्यात्मीयतयाकल्पनमस्त्येवेत्यर्थः । तादृशं काल्पनिककर्तृत्वोपेतम् । न जीवस्य कर्तृत्वं भ्रान्तिकल्पितं कुतः विहारस्य क्रीडाकर्तृत्वस्योपदेशान् मोक्षेऽपि जक्षन् क्रीडन्नित्यभिधानादित्यर्थः । मोक्षेऽपीत्यस्यार्थो विगलितेति ॥ निवृत्ताशेषभ्रमेऽपीत्यर्थः । अत एवाह ॥ कैवल्य इति ॥ केवलं यथार्थज्ञानादि स्वरूपाविर्भावरूप इत्यर्थः ।
ॐ उपादानात् ॐ
सूत्रभाष्यम्
॥ ॐ उपादानात् ॐ ॥ ३५ ॥
साधनाद्युपादानप्रतीतेश्च ।
तत्त्वप्रदीपिका
न केवलं शास्त्रार्थत्वाज्जीवस्य कर्तृत्वं प्रतिपद्यामहे । प्रत्यक्षत एव च सिद्धमिदमित्याह– ॐ उपादानात् ॐ ॥ छेदादिक्रियासु कुठारकाष्ठादिसाधनविषयाद्युपादानं तत्करणं च प्रतीयते । च शब्दान्न च बाधो दृश्यते ।
तत्त्वप्रकाशिका
अस्तु मोक्षे जीवस्य स्वाभाविकं कर्तृत्वं प्रामाणिकत्वात् । संसारे तु काल्पनिकमेव किं न स्यात्तावतापि च शास्त्रसार्थक्यादित्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे ॥ उपादानादिति ॥ न जीवस्य संसारेऽपि कर्तृत्वं काल्पनिकम् । मोक्षाद्यर्थं साधनाद्युपादानप्रतीतेस् ततश्च फलदर्शनात् । न हि परानुष्ठितसाधनेष्वात्मीयताकल्पनमात्रेण फलाभिसम्बन्धो भवत्यतिप्रसङ्गादिति भावः ।
गुर्वर्थदीपिका
तमसि परकृतगेहे स्वकृतत्वभ्रमेणान्तःप्रवेशेऽपि बलान्निष्कासनदर्शनेन फलाप्राप्तेरिति भावेनाऽऽह अतिप्रसङ्गादिति ॥
भावबोधः
भाष्ये साधनपदप्रयोगानुरोधादाह– संसारेऽपीति ॥ उक्तरीत्या क्रमेण शङ्काद्वयनिवर्तकत्वात् सूत्रे ‘च’ शब्दाभावः । भाष्ये तु ‘विहारोपदेशात्’ इत्यनेन युक्त्या साधितमेव कर्तृत्वस्य पारमार्थिकत्वोपपादनादित्यनेनापि प्रत्यक्षेण साध्यत इति भावेन प्रतीतेश्चेति ‘च’ शब्द इति ज्ञातव्यम् । यद्वा, ‘च’ शब्दोऽप्यर्थको भिन्नक्रम इत्यभिप्रेत्योक्तम्– संसारेऽपीति । कारयितृ-नियतत्वं कर्तृत्वं चेति भाष्येण सूत्रे ‘उभयथा च’ इति ‘च’ शब्दसम्बन्ध उक्तो भवति ।
भावदीपः
प्रत्यक्षस्याप्युक्तेरुपयोगायावतारयति ॥ अस्त्विति ॥ साध्यपूर्त्या भाष्यं व्याचष्टे ॥ न जीवस्येति ॥ चशब्दार्थमाह ॥ ततश्चेति ॥ यद्वोत्तरसूत्रे चशब्दस्यात्राप्यन्वयमुपेत्योक्तहेतुसमुच्चयेन भाष्ये प्रतीतेश्चेत्युक्तम् अत एवाग्रे टीकायां प्रत्यक्षेण चेत्यनुवादः ।
वाक्यार्थमुक्तावली
भाष्ये साधनपदप्रयोगादाह– संसारेऽपीति ॥ ज्ञः संसारेऽपि कर्तैव न तु काल्पनिककर्तृत्ववान् मोक्षार्थं साधनेतिकर्तव्यतोपादानानुभवादिति सूत्रार्थः । भाष्ये चशब्दस्तु ज्ञःकर्तेत्यनुकर्षसूचकः । चशब्दस्यार्थान्तरमाह ॥ ततः फलेति ॥ साधनोपादानप्रतीतेर्नारोपरूपत्वं साधनोपादाने फलदर्शनादित्यर्थः । यद्वा विध्यपवादरूपबाधकाभावाच्च न साधनोपादानप्रतीतेर्भ्रमत्वमिति समुच्चये चशब्दः । तदुक्तं शब्दान्न च बाधो दृश्यत इति तत्त्वप्रदीपे ।
तत्त्वसुबोधिनी
भाष्ये साधनपदप्रयोगादाह ॥ संसारेऽपीति ॥ उक्तरीत्या क्रमेण शङ्काद्वयनिवर्तकत्वात् सूत्रे चशब्दाभावः । भाष्ये तु विहारोपदेशादित्यनेन साधितमेव कर्तृत्वस्य पारमार्थिकत्वम् उपादाना-दित्यनेनापि साध्यत इति भावेन प्रतीतेश्चेति चशब्दवृत्तिर्ज्ञातव्या ।
वाक्यार्थविवरणम्
तावतापि ॥ काल्पनिककर्तृत्वाङ्गीकारेणापि ।
वाक्यार्थमञ्जरी
मोक्षाद्युद्देशेन साधनाद्युपादानस्य प्रत्यक्षसिद्धत्वान्न काल्पनिकं कर्तृत्वमित्यर्थः । अतिप्रसङ्गा-दिति ॥ परकृतभोजने स्वकृतानुसन्धानमात्रेण स्वात्मनस्तृप्तिः स्यादित्यर्थः ।
ॐ व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ॐ
सूत्रभाष्यम्
॥ ॐ व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ॐ ॥ ३६ ॥
‘आत्मानमेव लोकमुपासीत’ (बृ.उ.३-४-१५) इति क्रियायां व्यपदेशाच्च । अन्यथाऽऽत्मैव लोकमिति निर्देशः स्यात् ॥
तत्त्वप्रदीपिका
अनादेरध्ययनपरिगृहीतस्य स्वतःप्रमाणस्य शास्त्रस्याप्रयोजकत्वानुपपत्त्या प्रत्यक्षतश्च कर्तृत्व-मवधारितम् । प्रत्यक्षतोऽपि विधत्ते श्रुतिरित्याह– ‘व्यपदेशाच्च’ इत्यादि सूत्रम् । परमात्मानमेव लोकमाश्रयं स्वामिनमुपासीतेति क्रियायां कर्तृत्वेन सम्बन्धव्यपदेशाच्च जीवः कर्ता । अकर्तृत्वे जीवस्य परमात्मैव स्वात्मानमन्यं वा लोकमुपासीतेति निर्देशः स्यात् । कर्तुर्ऋते क्रियाविधि-वैयर्थ्यात् । न च परे स्वतन्त्रे नित्यनिर्दोष आप्तकामे विधिः प्रतिषेधो वा पदं निधत्त इति युज्यते । न चैतावता श्रुतिस्मृतियुक्तिसिद्धं स्वेच्छया कर्तृत्वं चालयितुं पार्यते । अतो जीवोऽपि कर्तेत्युक्तम् ।
तत्त्वप्रकाशिका
एवमुपपत्त्या प्रत्यक्षेण च साधितजीवकर्तृत्वं श्रुत्याऽपि समर्थयत्सूत्रमुपन्यस्य व्याचष्टे ॥ व्यपदेशाच्चेति ॥ ‘आत्मानमेव लोकमुपासीत’ इत्यादावुपासनादिक्रियायां कर्तृत्वेनात्मनो व्यपदेशात्तस्यापि कर्तृत्वमस्त्येव । अत्र जीव उपासीतेत्युक्त्यभावात्कथमयं जीवस्य कर्तृत्वव्यपदेश इति । मैवम् । न हि तावत्क्रिया कर्तृशून्या युक्ता । न तावज्जडं कर्तृ । जीवस्यात्र कर्तृत्वेन श्रुत्यनभिमतत्वे परमात्माऽभिप्रेतः स्यात् । अन्यथा श्रुतिवैयर्थ्यापातात् । तथा च तस्य कर्तृत्वेन व्यपदेशः स्यान्न तु कर्मत्वेन । अतो जीवस्यैवात्र कर्तृत्वमुच्यते । तथा च प्रामाणिकत्वान्न गौरवमिति भावः ।
भावदीपः
उपपत्त्येति ॥ शास्त्रार्थवत्त्वान्यथानुपपत्तिमुक्तिकालीनकर्तृत्त्वश्रवणान्यथानुपपत्तिरूपोप-पत्त्येत्यर्थः । सूत्रे चशब्दादाह ॥ श्रुत्यापीति ॥ तथा चोक्तं हटवादे प्रत्यक्षैषा कर्तृता जीवसंस्था तथागमादनुमानाच्च सर्वमिति ॥ समर्थयदिति ॥ समाहितोऽयं शब्दः प्रागस्माभिर्नामपादे छन्दोनये ॥ कर्तृत्वेनेति ॥ ‘लः कर्मणि च भावे चाकर्मकेभ्यः’ इति कर्तरि लकारविधानादिति भावः । ज्ञः कर्तेत्यनुवृत्तिं मत्वाऽर्थमाह ॥ तस्यापि कर्तृत्वमिति ॥ अन्यथेत्यादि भाष्यं व्याख्यातुं परिष्करोति । अत्रेत्यादिना तथा चेत्यन्तेन ॥ तथा चेति ॥ जीवस्याकर्तृत्वे इत्यर्थः । प्रागुक्तदोषं निराह ॥ तथा चेति ॥ श्रुत्यादिना जीवकर्तृत्वे सिद्धे सतीत्यर्थः ।
वाक्यार्थमुक्तावली
उपपत्त्येति ॥ जीवस्य हि विहितकर्तृत्वाभावे नियोज्याभावेन यजेतेत्यादिविधिशास्त्रस्यारण्य-रोदनायमानस्य वैयर्थ्यप्रसङ्ग इत्युपपत्येत्यर्थः ॥ श्रुत्यापीति ॥ ‘आत्मानमेव लोकमुपासीत’ इत्यत्र उपासीतेत्युक्तक्रियायां जीव इति कर्तृवाचकप्रथमान्तपदेन जीवस्य कर्तृत्वप्रतिपादनात् । आगमप्रमाणेनापीत्यर्थः । सूत्रे ज्ञः कर्तेत्यस्ति ज्ञस्येति विपरिणामेनाप्यनुवर्तते । ‘आत्मानमेव लोकमुपासीत’ इत्यत्रोपासीतेत्यत्र क्रियायाम् उपासनालक्षणायां जीव इति प्रथमान्तपदेन कर्तृत्व-व्यपदेशाच्च जीवः कर्तेति सूत्र खण्डार्थमभिप्रेत्य व्यपदेशाच्चेत्यन्तभाष्यभावमाह ॥ आत्मानमिति ॥ न चेदित्यादिसूत्रव्यावर्त्यं शङ्कते ॥ अत्र जीवस्येति ॥ जीव उपासीत’ इति साक्षादुक्त्यभावेऽपि अध्याहारेण जीवपदस्यान्वय इति वक्तुमध्याहारस्य श्रुतपदेनान्वयपूर्त्यभाव एव कर्तव्यत्वात् श्रुतमात्रेण नान्वय इत्याह ॥ न हि तावदिति ॥ उपासना क्रियाकर्तारं विना न सम्भवतीति कर्तृवाचकपदाध्याहारेण तावद्भवितव्यमिति भावः । एवं सामान्यतः कर्तृवाचकपदाध्याहारसिद्धि-मुक्त्वा परिशेषमाह ॥ न तावदिति ॥ ज्ञानेच्छाप्रयत्नरूपकर्तृत्वस्याचेतने शङ्कितुमनर्हत्वादिति भावः । ईश्वरवाचिपदस्याध्याहारप्रसक्तिं सम्पाद्य प्रतिषेधति ॥ जीवस्येति ॥ श्रुतिवैयर्थ्यादिति ॥ लोकमुपासीत’ इति वाक्यस्य कर्तारं विना अरण्यरोदनायमानत्वेन वैयर्थ्यप्रसङ्गादित्यर्थः । ततः किमित्यतो न चेदित्यादिव्याख्यापरम् अन्यथेत्यादिभाष्यं व्याचष्टे ॥ तथाचेति ॥ तथासति जीवस्य कर्तृत्वेनानभिप्रेतत्वे, परमात्मन एव तत्प्रसक्तौ सत्यामित्यर्थः । ततश्च न चेज्जीवस्यात्राध्यहारेण कर्तृव्यपदेशो न चेत् परमात्मन एवकर्तृत्वापत्या तस्य कर्तृत्वलाभायात्मानमिति निर्देशस्य विपर्यये प्रथमान्ततया व्यत्यासः स्यान् न तु कर्मत्वेनेति खण्डार्थ उक्तो भवति । इदानीं परिशेषेण जीवपदाध्याहार एव कार्य इत्याह ॥ अत इति ॥ यतो न जडस्य, नापीश्वस्यात्र विवक्षा अत इत्यर्थः । सूत्रचतुष्टयार्थमुपसंहरन् जीवकर्तृत्वे गौरवमिति पूर्वपक्षं प्रतिक्षिपति ॥ तथा चेति ॥
तत्त्वसुबोधिनी
तस्यापीति ॥ जीवस्यापीत्यर्थः ॥ न तावदिति ॥ तस्य ज्ञानाद्यभावादित्यर्थः ॥ अन्यथेति ॥ सर्वथा कर्तृत्वाभाव इत्यर्थः । क्रियायाः कर्तृव्याप्तत्वेन कर्त्रभावे उपासीतेति क्रियाप्रतिपादक-श्रुतिवैयर्थ्यं स्यादिति भावः । ननूभयोः कर्तृत्वे गौरवमित्यत आह ॥ तथा चेति ॥
वाक्यार्थविवरणम्
आत्मनः ॥ जीवस्य ॥ श्रुतीति ॥ उपासीतेति श्रुतीत्यर्थः । कर्तृशून्यत्वादिति भावः ॥ तस्य ॥ परमात्मनः ॥ तथा चेति ॥ एवं जीवकर्तृत्वाङ्गीकार इत्यर्थः ।
वाक्यार्थमञ्जरी
जीवः कर्तैव कुत उपासनारूपायां क्रियायां तस्य कर्तृत्वेन व्यपदेशाद् आत्मानमेव लोक-मुपासीतत्यभिधानाज् जीवस्य कर्तृत्वं न चेत्तर्हि निर्देशस्यात्मानमित्यस्य विपर्यय आत्मेति व्यत्यासः स्यादित्यर्थः । लोकं सर्वाधारम् । न हीति ॥ कर्तुः क्रियाश्रयत्वेन तदभावे निराश्रयक्रियायोगादिति भावः ।
ॐ उपलब्धिवदनियमः ॐ
सूत्रभाष्यम्
तर्हि कथमीश्वरस्यैव कर्तृत्वमित्यतो वक्ति –
॥ ॐ उपलब्धिवदनियमः ॐ ॥ ३७ ॥
यथा ज्ञाने इदं ज्ञास्यामीत्यनियमः प्रतीयते एवं कर्मण्यपि जीवस्य । ‘य आत्मानमन्तरो यमयति’ इति च श्रुतिः ।
तत्त्वप्रदीपिका
अथ कथम् ‘मतरव्यपदेशात्’ इत्यादिना कर्तृत्वनिराकरणमित्यतो वक्ति ॐ उपलब्धिवद-नियमःॐ ॥ यथा ज्ञान इदं सुरूपं सुगन्धं सुस्वरं वा ज्ञास्यामि विपरीतं न पश्यानि न जिघ्राणि न शृृणवानीत्येवं स्पृहयतोऽपि तदुपलब्धावनियमो दृश्यते । एवं चिकीर्षाविशेषवतोऽपि कर्मण्य-नियमोऽस्वातन्त्र्यं दृश्यते । अतः कर्तृत्वनिराकरणमिति ।
तत्त्वप्रकाशिका
नन्वेवं जीवस्यापि कर्तृत्वे कथमीश्वरस्यैव कर्तृत्वं पूर्वं समर्थितं कथं च श्रुतिरुपपद्येत । अतस्त-द्विरोधोऽस्त्येवेत्याशयेनाशङ्क्य तत्परिहाराय सूत्रमवतार्य व्याचष्टे ॥ तर्हीति ॥ इदं वस्त्वहं ज्ञास्यामीत्येवं निरूपितेऽपि यथा जीवस्य न ज्ञाने नियमोऽस्ति । स्वेच्छानुसारेण न ज्ञानलाभः । तथा करिष्यामीति निरूपितेऽपि कर्मणि नियमाभावादीश्वरस्य तु तद्भावात्स एव कर्ता न जीव इत्युक्तं प्राङ् न तु सर्वथा कर्तृत्वाभावादिति भावः । न चायं दृष्टान्तः साध्यसमः । न हि जिज्ञासुर्ज्ञानक्रियायामेव साक्षाद् व्याप्रियते किं तु तत्साधन एवेति । ईश्वरस्यैव नियमेन कर्तृत्वं न जीवस्येत्यत्र प्रमाणमाह ॥ य इति ॥
गुर्वर्थदीपिका
न चायं दृष्टान्तस्साध्यसम इत्यस्य परचित्तवृत्तिजिज्ञासायास्तल्लभ्यज्ञानानियमस्य च परेषाम-योग्यत्वेन निर्णेतुमशक्यत्वात्साध्यसमः सन्दिग्धः । न च स्वात्मनि द्वयमप्यनुभूयत इति वाच्यम् । अन्यस्मिन्नियमसद्भावे तस्य कर्तृत्वसम्भवेन सर्वजीवकर्तृत्वाभावसाधनोपयोग्युपलब्ध्यनियमाख्य-दृष्टान्तासिद्ध्या प्रकृतानुपयोगित्वात् । न हि जिज्ञासुरित्युत्तरवाक्येऽपि साक्षाज्ज्ञान एव तस्य व्यापारे भवत्यनिर्णयः । न हि कोऽपि साक्षात्सुहृद्दर्शनादिरूपज्ञाने व्याप्रियते । किन्तु तद्दर्शनानुकूलतद्ग्रामगमनादिव्यापारे । अतस्तदीयजिज्ञासापरावृत्त्या गमने मुखमालिन्यादिना ज्ञानाभावश्च कथमन्येनापि न गृह्यते । कथमन्यथा परदेहस्य सजीवतासिद्धिरिति भावः ।
भावदीपः
श्रुतिरिति ॥ नान्यः कर्तेति श्रुतिरित्यर्थः ॥ अत इति ॥ श्रुतिसमर्थनयोर्निरवकाशत्वा-दित्यर्थः । भाष्यं व्याचष्टे ॥ इदमिति ॥ निरूपितेऽपि उद्दिष्टेऽपीत्यर्थः । ज्ञान इत्यनेनान्वयः ॥ साध्यसम इति ॥ विप्रतिपन्न इत्यर्थः । समाधत्ते ॥ न हीति ॥ साक्षाद्व्याप्रियत इति ॥ तथात्वे हि ज्ञाननियमानुपलम्भः प्रयत्नाभावनिमित्तक इति कथञ्चित्कल्प्येत । यदा तु साधन एव व्याप्रियते तदा सुन्दरवस्त्वादिदर्शनार्थं गमनादिव्यापारे प्रत्यक्षेऽपि तज्ज्ञानानियमदर्शनं सर्वजनसिद्धमिति भावः ॥ इत्यत्र प्रमाणमिति ॥ अत्र च श्रुतावीशजीवयोः स्वातन्त्र्यास्वातन्त्र्यप्रतीतेरिति भावः ।
अभिनवचन्द्रिका
न हीति ॥ जिज्ञासुर्जीवः ज्ञानक्रियायामेव साक्षाव्द्याप्रियते स्वेच्छामात्रेण ज्ञानवान् भवति । येन दृष्टान्तः साध्यसमः स्यात् । किन्तु साधने व्याप्रियते । ततश्च कदाचिज् ज्ञानं लभते कदाचिन्नेति हेतोर् न दृष्टान्तः साध्यसमः सन्दिग्धश्च इति भावः ।
वाक्यार्थमुक्तावली
कथं च श्रुतिरिति ॥ नान्यः कर्तेत्यादिश्रुतिरित्यर्थः । सूत्रे क्रियायामित्यस्ति ॥ तत्र तस्यैवेति ॥ सप्तम्यर्थे वतिः । उपलब्धावनियमो यथैवं क्रियायामनियम इत्यर्थमभिप्रेत्य नियम-प्रकारप्रदर्शनपरं भाष्यं व्याचष्टे इदं वस्त्विति ॥ ज्ञास्यामीत्यतः परं शेषमाह ॥ एवं निरूपितेऽ-पीति ॥ इच्छितेऽपीत्यर्थः ॥ न चायं दृष्टान्त इति ॥ परकीयज्ञानस्याप्रत्यक्षत्वेन परज्ञानेष्व-नियमस्य ज्ञातुमशक्यत्वात्साध्यसमो दृष्टान्त इति वाच्यमित्यर्थः ॥ न हीति ॥ ज्ञानस्य साक्षात्प्रयत्नविषयत्वाभावाज् ज्ञानार्थं साधने यतमानस्य तदलाभं ज्ञातुं शक्यत्वादिति भावः । नियमेन कर्तृत्वमनन्याधीनेच्छादिमत्वेनाविफलप्रयत्नवत्वम् ।
तत्त्वसुबोधिनी
ननु ज्ञानेऽपि जीवस्य न नियतकर्तृत्वम् । ज्ञास्यामीति इच्छायां साक्षाज्ज्ञानस्य नियमेनालाभात् । तथा च नायं दृष्टान्त इत्याशङ्क्य निषेधति ॥ न चेति ॥ न हि जिज्ञासुरिति ॥ यदि जिज्ञासोर्ज्ञान एव साक्षाद् व्यापारस्यात् तदा नियमेन ज्ञानं सम्भवतीति वक्तव्यम् । मैवम् । किन्तु तत्साधन एव व्यापारः । साधनलाभस्तु कदाचिद्भवति कदाचिन्नेति न दृष्टान्तः साध्य सम इति भावः ।
वाक्यार्थविवरणम्
कथं च श्रुतिरिति ॥ अन्यस्य कर्तृत्वनिषेधपरा नान्यः कर्तेति श्रुतिरित्यर्थः ॥ एवं निरूपितेऽपीति ॥ एवं संकल्पितेऽपीत्यर्थः ॥ ज्ञाने ॥ तद्वस्तुज्ञाने । एतदेव विवृणोति ॥ स्वेच्छयेति ॥ कर्मणि नियमेति ॥ स्वेच्छानुसारेण कर्मकरणाभावादित्यर्थः ॥ प्राक् ॥ इतरव्यपदेशादित्यत्र ॥ साध्यसम इति ॥ ज्ञास्यामीत्येवं स्वेन संकल्पिते स्वेच्छानुसारेण ज्ञानलाभो भवत्येवेति साध्यवद्दृष्टान्तोऽपि सन्दिग्ध इत्यर्थः ॥ न हि जिज्ञासुरिति ॥ ज्ञास्यामीति ज्ञानेच्छायां सत्यां यदि साक्षात्फलीभूतज्ञान एव व्यापारवान् स्यात्तदा स्वेच्छानुसारेण ज्ञानप्राप्त्या साध्यसमत्वं दृष्टान्तस्य स्यात् । न चैवम् । न हि ज्ञानेच्छुरिच्छानन्तरं साक्षाज्ज्ञान एव व्यापारवान् भवति, किन्तु ज्ञानसाधनीभूतसन्निकर्षादिसंपादन एव । तत्साधने लाभोऽपि कदाचित् स्वेच्छानु-साराद् भवति कदाचिन्नेति । तत्साधने लाभो न स्वेच्छानुसारेण नियमेन भवतीत्यस्वातन्त्र्यमिति भावः ।
वाक्यार्थमञ्जरी
यथोपलब्धौ ज्ञानेऽनियम इच्छानुसारेण प्राप्त्यभावस्तथा क्रियायामपीत्यर्थः । निरूपिते अपेक्षिते ज्ञानविशेषणमेतत् साध्यसमः पक्षसमः कर्मणीव ज्ञानेऽप्यनियमस्य प्रत्यक्षेणानिश्चयादिति भावः । स्वज्ञाने तावदयं प्रत्यक्षः परकीये प्रकारान्तरमाह ॥ न हीति ॥ व्याप्रियते व्यापारवान्भवति येन परकीयज्ञानेच्छादेरतीन्द्रियत्वेनानिश्चय इति भावः ॥ तत्साधन इति ॥ स्वाभिलषितज्ञानाय तत्साधनं सम्पादयति तच्च प्रत्यक्षसिद्धं तथा च तेन तदनुगुणज्ञानेच्छाऽनुमानमनन्तरं फलविशेषेण ज्ञानविशेषानुमानं च सुलभमिति भावः ।
ॐ शक्तिविपर्ययात् ॐ
सूत्रभाष्यम्
कुतः ?
॥ ॐ शक्तिविपर्ययात् ॐ ॥ ३८ ॥
अल्पशक्तित्वाज्जीवस्य ।
तत्त्वप्रदीपिका
कुत एतत्– ॐ शक्तिविपर्ययात् ॐ ॥ हरेः पूर्णा शक्तिः, तद्विपरीताऽल्पाऽस्य शक्तिरिति ।
तत्त्वप्रकाशिका
ननूभयोः कर्तृत्वाविशेषेऽपीश्वरस्यैव नियमेन कर्तृत्वं न जीवस्येत्येतत् किं निबन्धनं वैलक्षण्य-मिति पृच्छति ॥ कुत इति ॥ स्वातन्त्र्यपारतन्त्र्यनिमित्तौ नियमानियमाविति परिहारं वक्तुमीश-जीवयोः स्वातन्त्र्यपारतन्त्र्ये साधयत्सूत्रं पठित्वा व्याचष्टे ॥ शक्तीति ॥ ईश्वरस्य पूर्णशक्तित्वा-त्स्वातन्त्र्यम् । जीवस्य तद्विपर्ययादस्वातन्त्र्यं प्रतीयत इति भावः ।
गुर्वर्थदीपिका
स्वातन्त्र्यपारतन्त्र्यनिमित्तौ नियमानियमाविति परिहारं वक्तुमित्यत्र न हि सूत्रकृताऽप्य-स्वातन्त्र्यमेव सूत्रयितव्यम् । शक्त्यभावः कुतस्सूत्रित इति चेन्न । अस्वातन्त्र्यमपि कुतो जीवस्येति शङ्कायां कारणतया पूर्णशक्त्यभावस्यैव वक्तव्यत्वादिति सूत्रकृतोऽभिसन्धिसम्भवादिति समाधान-मूह्यम् ।
भावदीपः
पूर्वमनियमपदं नियमस्याप्युपलक्षकं व्याख्याय तस्यैव कुत इति भाष्ये नियमपदानुषङ्ग-मुपेत्यार्थमाह ॥ नन्वित्यादिना ॥ वक्तुमिति ॥ अत इति भाष्येणेति भावः । सूत्रमुपलक्षणं मत्त्वा व्याचष्टे ॥ ईश्वरस्येति ॥ पूर्णशक्तित्वतो हरेरिति स्मृतेरिति भावः । ज्ञस्येत्यनुवृत्तिं मत्वाह ॥ जीवस्येति ॥ वक्ष्यमाणं साध्यमत्रापि संयोजयति ॥ अस्वातन्त्र्यमिति ॥
अभिनवचन्द्रिका
ननूभयोः कर्तृत्वेति ॥ उभयोर्जीवेश्वरयोः साधनान्तरसापेक्षत्वेन कर्तृत्वाविशेषेऽपि तत्कुत ईश्वरस्यैव फलस्वातन्त्र्यं न जीवस्येत्यर्थः ॥ स्वातन्त्र्यपारतन्त्र्ये इति ॥ साधनस्वातन्त्र्य-पारतन्त्र्याभ्यां फलस्वातन्त्र्यपारतन्त्र्ये इतिवक्तुमित्यर्थः । अयमाशयः – सत्यम् उभावपि जीवेश्वरौ साधनान्तरमपेक्ष्य कर्म कुरुत इति, तथापि ईश्वरस्य साधनेषु स्वातन्त्र्यात्, तदिच्छानुसारेण साधनानि लभ्यन्त इति तस्य फले स्वातन्त्र्यम् । जीवस्य तु तदभावान् न स्वातन्त्र्यमिति ।
वाक्यार्थमुक्तावली
उभयोः कर्तृत्वेति ॥ ज्ञानेच्छाप्रयत्नलक्षणकर्तृत्वाविशेषेऽपीत्यर्थः ॥ किं निबन्धनमिति ॥ प्रामाणिकत्वेऽपि किं निमित्तकमित्यर्थः ॥ स्वातन्त्र्यपारतन्त्र्येति ॥ साधनस्वातन्त्र्यनिमित्तौ फलनियमानियमाविति अत इत्यत्र वक्तुमित्यर्थः । ज्ञस्य पूर्णशक्तिविपरीताल्पशक्तित्वादस्वातन्त्र्यं प्रतीयत इति वक्ष्यमाणशेषेणान्वयं मत्वा सूत्रार्थमाह ईश्वरस्येति ॥
वाक्यार्थविवरणम्
नियमानियमौ ॥ कर्तृत्वनियमानियमौ । नियमेन कर्तृत्वतदभावाविति यावत् ।
वाक्यार्थमञ्जरी
न जीवः स्वतन्त्रः कुतः जीवशक्तेः परमात्मशक्त्यपेक्षया विपर्ययादल्पत्वादित्यर्थः ।
ॐ समाध्यभावाच्च ॐ
सूत्रभाष्यम्
॥ ॐ समाध्यभावाच्च ॐ ॥ ३९ ॥
समाध्यभावाच्चास्वातन्त्र्यं प्रतीयते ।
तत्त्वप्रदीपिका
मनस्समाधानं चातिदुष्करं जीवस्य प्रतीयते । स्मर्यते च–
‘चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् ।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ।
असंशयं महाबाहो मनो दुर्निग्रहं चलम्’ ॥ इति ।
अतश्चास्वातन्त्र्यं गम्यते ।
तत्त्वप्रकाशिका
युक्त्यन्तरेणैतत्प्रतिपादयत्सूत्रमुपन्यस्य व्याचष्टे ॥ समाधीति ॥ समाधानमलम्बुद्धि-रस्तीश्वरस्येति तस्य स्वातन्त्र्यं जीवस्य च तदभावादस्वातन्त्र्यं प्रतीयते । स्वतन्त्रस्य पूर्णकाम-त्वादिति भावः । एवं चेत्किं तर्हीत्यत आह ॥ अत इति ॥ यत एवमीशजीवयोः स्वातन्त्र्य-पारतन्त्र्ये प्रतीयेते अतः स्वातन्त्र्यपारतन्त्र्याभ्यां नियमानियमाविति भावः ।
गुर्वर्थदीपिका
सम्यक् आ मनसो धारणं बाह्यविषयेष्वप्रेष्यान्तरेव धारणं समाधानमिति व्युत्पत्तिमभि-प्रेत्याऽऽह– अलम्बुद्धिरिति ॥ न च वाच्यं मुनीनामस्त्यलम्बुद्धिरिति । ‘विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तत’ इति गीतावचनेन तेषां मुनीनामप्य-परोक्षज्ञानात्प्राग्रसशब्दवाच्याऽऽकाङ्क्षासद्भावेन सम्यगलम्बुद्धेरभावात् । भगवद्दर्शनोत्तरकालं निमित्तार्थकत्वाप्रत्ययमहिम्ना भगवत्प्रसादायत्तत्वेन स्वतोऽलम्बुद्धेरभावाद्रसोऽपीति गर्हार्थकापिपदेन ज्ञानोत्तरकालमपि भिक्षाटनादौ प्रवृत्तिदर्शनेन साऽपि न सर्वविषयेऽपीति गर्हितवान् । अतः सामस्त्येन स्वतोऽलम्बुद्धिर्भगवत एवासाधारणो धर्म इति भावस्सूत्रकारस्य ।
भावदीपः
चशब्दादाह ॥ युक्त्यन्तरेणेति ॥ अत इत्यनुवादः । स्वातन्त्र्येत्यादिव्याख्या ।
वाक्यार्थमुक्तावली
समाधिर्मनःसमाधिरलम्बुद्धिरिति यावत् । अलम्बुध्यभावेऽस्वातन्त्र्यं कुत इत्यत आह ॥ स्वतन्त्रस्येति ॥ स्वतन्त्रस्यैव पूर्णकामत्वादलम्बुध्यभावलक्षणापूर्णकामत्वेन पारतन्त्र्यमनुमीयत इति भावः ॥ एवं चेदिति ॥ यद्येवं स्वातन्त्र्यपारतन्त्र्ये प्रकृते तर्हि किं प्रकृत इत्यर्थः । अत इत्यस्य सौत्रेणानियम इत्यनेनान्वय इति भावेनाह– यत एवमिति ॥
तत्त्वसुबोधिनी
तदभावादिति ॥ अलम्बुध्यभावादित्यर्थः ।
वाक्यार्थविवरणम्
एतत् ॥ ईशजीवयोः स्वातन्त्र्यपारतन्त्र्यरूपं प्रमेयम् ॥ अलम्बुद्धिः ॥ पूर्णकामत्वम् । एवं चेत्किं तर्हीति ॥ यदीशजीवयोः स्वातन्त्र्यपारतन्त्र्ये स्तस्तर्हि किमायातं प्रकृत इत्यर्थः ।
वाक्यार्थमञ्जरी
समाधेर् अलम्बुद्धेर् जीवेऽभावाच्च तस्यास्वातन्त्र्यमित्यर्थः ॥ स्वतन्त्रस्येति ॥ स्वसत्तादौ परानपेक्षस्यैवेत्यर्थः ॥ किमिति ॥ कुत इति प्रश्नोत्तरं किमित्यर्थः ।
ॐ यथा च तक्षोभयथा ॐ
सूत्रभाष्यम्
अतः –
॥ ॐ यथा च तक्षोभयथा ॐ ॥ ४० ॥
यथा तक्ष्णः कारयितृनियतत्वं कर्तृत्वं च विद्यते एवं जीवस्यापि ।
तत्त्वप्रदीपिका
अतोऽस्वातन्त्र्यप्रमाणेभ्यः कर्तृत्वप्रमाणेभ्यश्च । यथा च तक्षोभयथा ।
तत्त्वप्रकाशिका
नन्वेवं यदि जीवस्य न स्वातन्त्र्येण कर्तृत्वमपि त्वीश्वरेच्छयैव कथं तर्हि कर्तोच्यते । स्वतन्त्रः खलु कर्तेत्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे ॥ यथेति ॥ यथा तक्षा प्रासादकारयितृनियतोऽपि कर्तोच्यते तथेश्वरनियतोऽपि जीवः कर्तेति व्यपदेष्टुं शक्यत इत्यर्थः ।
भावदीपः
सौत्रचशब्दो दार्ष्टान्तिकसमुच्चय इति भावेन भाष्ये एवं जीवस्याप्युक्तिरिति मत्वा तद्व्याचष्टे ॥ तथेश्वरेति ॥
अभिनवचन्द्रिका
जीवास्वातन्त्र्यमाक्षिपति – नन्वेवं यदीति ॥ तर्हीति ॥ श्रुतिस्मृत्यादौ कर्त्तेत्युच्यत इत्यर्थः । कर्तृशब्दो हि स्वतन्त्रकर्तृरेव प्रत्यायको नास्वतन्त्रस्य कर्तुः । यदा हि देवदत्तो यज्ञदत्तेन पुनःपुनर्बोधितः पाकक्रियां निर्वर्तयति, तमन्यो ब्रवीति किमस्य पाकस्य भवान् कर्तेति । स आह नाहमस्य पाकस्य कर्ता किन्तु यज्ञदत्त एव कर्ता अहं तु तेन बोधितः करोमीति । तेन मन्यामहे कर्तृशब्दो नास्वतन्त्रस्य प्रत्यायक इति । ततश्चैवं योजना यदि जीवोऽस्वतन्त्र एव कर्ता स्यात् तर्हि श्रुतिस्मृत्यादौ तस्य कर्तृत्वव्यपदेशो न स्यात् स्वतन्त्र एव हि खलु प्राज्ञैः कर्तेति व्यपदिश्यते, नास्वतन्त्रः । अस्ति च श्रुतिस्मृत्यादौ जीवे कर्तृशब्दस् तस्मन्नास्वतन्त्रो जीवः कर्ता, अपि तु स्वतन्त्र एवेति । एतेन जीवस्य कर्तृत्वात् कर्तरि कर्तृशब्दप्रयोगानुपपत्त्यभावेन ‘कथं तर्हि कर्तोच्यत’ इत्ययुक्तमिति परास्तम् ॥ इत्याशङ्कां परिहरदिति ॥ अस्वतन्त्रेऽपि कर्तरि कर्तृशब्दप्रयोगप्रदर्शनमुखेन आपाद्यापादकयोर् व्याप्त्यभावप्रदर्शनेन शङ्कां परिहरत् सूत्र-मुपन्यस्येत्यर्थः ।
वाक्यार्थमुक्तावली
कारयितृनियंतृत्वं कर्तृत्वं चेति भाष्येण सूत्रे उभयथा चेति चशब्दसम्बन्ध उक्तो भवति । यद्वा एवं ज्ञस्यापीति भाष्येण दार्ष्टान्तिकसमुच्चये चशब्द इत्युक्तं भवति ।
तत्त्वसुबोधिनी
कारयितृनियतत्वं कर्तृत्वं चेति भाष्येण उभयथा चेति चशब्दसम्बन्ध उक्तो भवति ।
वाक्यार्थविवरणम्
खल्वित्यनेन स्वतन्त्रः कर्ता । क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यादिति वैय्याकरणप्रसिद्धिं दर्शयति ।
वाक्यार्थमञ्जरी
स्वतन्त्रः क्रियायाम् । यथा तक्षा वर्धकी उभयथा वेतनदातृनियम्यत्वेन कर्तृत्वेन चोच्यते तथा जीवोऽपीशनियम्यः कर्तेत्यर्थः । चशब्दो दार्ष्टन्तिकसमुच्चायकः ।
ॐ परात्तु तत् श्रुतेः ॐ
सूत्रभाष्यम्
॥ ॐ परात्तु तत् श्रुतेः ॐ ॥ ४१ ॥
सा च कर्तृत्वशक्तिः परादेव ।
‘कर्तृत्वं करणत्वं च स्वभावश्चेतना धृतिः ।
यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया’ ॥ इति हि पैङ्गिश्रुतिः ।
तत्त्वप्रदीपिका
अयमनयोर्दृष्टान्तदार्ष्टान्तिकयोर्विशेषः । यद्यपि तक्ष्णः कारयित्रा द्रव्यदानादिना नियतत्वं, तथाऽपि न तु तक्षणादिशक्तिस्तन्नियत्ता । जीवस्य तु सा च कर्तृत्वशक्तिः परादेव ।
तत्त्वप्रकाशिका
ननु किं तक्ष्ण इव जीवस्य कर्तृत्वशक्तिर्जीवाधीनैवेश्वराधीनता तु वचनवेतनदानादिवदुत कर्तृत्वशक्तिरपीश्वराधीना । यद्याद्यस्तर्हि ईश्वरस्यैव कर्तृत्वमिति गतः पक्षः । द्वितीये न जीवस्य कर्तृत्वमित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे ॥ परादिति ॥ नास्माभिस्तत्कर्तृत्वसामर्थ्यं जीवाधीनमुच्यते येनापसिद्धान्तः स्यात् किं तु परमात्माधीनमेव । तथा श्रुतेरिति भावः ।
गुर्वर्थदीपिका
वचनवेतनदानादीत्यत्र विष्टिगृहीतकर्तृसङ्ग्रहाय वचनमपि सङ्गृहीतम् । बलवतो बलात्कार-वचनमित्यर्थः । वेतनदाता हि बहिरेव स्थित्वा कारयति न तु तान् क्षणमन्तः प्रविश्य तत्कर-चरणादिकमपि प्रेरयति । भगवांस्तु ‘योऽन्तः प्रविश्य’ इति स्मृतेर्जीवान्तः प्रविश्य तदीय-वाङ्मनःकरचरणादिकमपि फलाभिमुखीकृत्य कारयति । अतः कर्तृत्वमपि भगवदधीनमिति भावः ।
भावबोधः
परमात्माऽधीनमेवेति ॥ अनेन परा देवेति भाष्येण सौत्रस्तुशब्दोऽवधारणार्थो व्याख्यात इत्युक्तं भवति ।
भावदीपः
गतः पक्ष इति ॥ एतेन कर्तृशक्तेरीशायत्तत्वोक्तेः पूर्वोक्तिविरोधनिरासः फलमिति दर्शितम् ॥ द्वितीय इति ॥ दारुप्रतिमावदिति भावः । परात्तु परादेवेत्युक्त्यवधारणव्यावर्त्योक्तिपूर्वं भाष्यं व्याचष्टे ॥ नास्माभिरिति ॥
अभिनवचन्द्रिका
ननु अत्र भाष्ये ‘कर्तृत्वं च युज्यत’ इति कर्तृत्वसमर्थनमयुक्तम् । पूर्वपक्षिणा कर्तृशब्द-प्रयोगानुपपत्तेरेवाऽऽशङ्कितत्वादित्यतस्तदभिप्रायमाह ॥ तथेश्वरनियतोऽपीति वचनवेतनदानादि-वदिति ॥ अत्र ‘दिवा’ इति प्रक्षिप्तम् । ततश्चैवं पाठ ईश्वराधीनता तु वचनवेतनदानादुतेति ॥ इत्याशङ्कामिति ॥ द्वितीयपक्षस्वीकारमुखेन आद्यपक्षस्याऽनङ्गीकारान् न तत्रोक्तो दोष इति परिहरत्सूत्रमुपन्यस्येत्यर्थः । एतेन द्वितीयेन तस्य कर्तृत्वमिति शङ्काया अनेन सूत्रेणाऽपरिहारात् ‘इत्याशङ्कां परिहरत् सूत्रम्’ इत्ययुक्तमिति परास्तम् ।
क्यार्थमुक्तावली
वचनवेतनेति ॥ वचनं मृदुवचनम् आदिपदेन विष्टिग्रहणम् । तुशब्दोऽवधारणेऽप्यर्थे । अत एव भाष्ये सा चेत्युक्तम् । शक्तिरिति विभज्यानुवर्तते । ज्ञस्य कर्तृत्वशक्तिरपि परादेव तत्र श्रुतेरिति सूत्रार्थमभिप्रेत्य व्याचष्टे ॥ नास्माभिरिति ॥
तत्त्वसुबोधिनी
परादेवेति भाष्येण सौत्रस्तुशब्दोऽवधारणार्थो व्याख्यातः ।
वाक्यार्थविवरणम्
गतः पक्ष इति ॥ तथा चापसिद्धान्त इति ज्ञेयम् ।
वाक्यार्थमञ्जरी
वचनवेतनेति ॥ इत्थं कुर्विति वचनानुसारेण करणे न द्रव्यदानादिना च तक्ष्णः शक्तेः कारयित्रधीनत्ववदित्यर्थः ॥ गतः पक्ष इति ॥ तथाचापसिद्धान्त इति भावः ॥ न जीवस्येति ॥ कर्तृत्वशक्तेरीश्वराधीनत्वे तस्यैव कर्तृत्वादिति भावः । जीवस्य कर्तृत्वशक्तिः परात्तु इशादेव कुतस् तच्छ्रुतेस् तस्य कर्तृत्वशक्तेरीश्वराधीनत्वस्यैव कर्तृत्वं करणत्वं चेति श्रुतिसिद्धत्वादित्यर्थः ।