१६ पुंस्त्वाधिकरणम्

ॐ पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॐ

१६. अथ पुंस्त्वाधिकरणम्

सूत्रभाष्यम्

‘विज्ञानात्मा सह देवैश्च सर्वैः’ (प्र.उ. ४-११) । ‘स आनन्दः स बलः स ओजः स परेणामुं लोकं नीयते स विमुच्यत इति जीवस्य ज्ञानानन्दादिरूपत्वमुच्यते । ‘स दुःखाद्विमुक्त आनन्दी भवति । सोऽज्ञानाद्विमुक्तो ज्ञानी भवति । सोऽबलाद्विमुक्तो बली भवति । स नित्यो निरातङ्कोऽवतिष्ठत’ इति पैङ्गिश्रुतावनानन्दादिरूपत्वं प्रतीयते । अत आह–

॥ ॐ पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॐ ॥ ३१ ॥

यथा बालस्य सदेव पुंस्त्वं यौवनेऽभिव्यज्यत एव सतामेवानन्दादीनां व्यक्त्यपेक्षया तदुक्तिः ।

‘बलमानन्द ओजश्च सहो ज्ञानमनाकुलम् ।

स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्विभोः’ इति च गौपवनश्रुतिः ॥

तत्त्वप्रदीपिका

‘विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र’ इति षट्प्रश्ने । ‘स आनन्दः स बलः स ओजः’ इत्यादि श्रुत्यन्तरे ॥ ॐ पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॐ ॥ यथा बालस्याव्यक्तमपि सदेव पुंस्त्वं स्त्रीत्वं वा यौवनेऽभिव्यज्यते, एवं पूर्वमनभिव्यक्तानां सतां ज्ञानानन्दादीनां साधनपरिपाकेऽभिव्यक्त्यपेक्षया श्रुतिषु तथोक्तिः । एवं जीवस्य प्रसाधितं ज्ञानस्वरूपत्वम् । न च ज्ञानमात्रात्मकत्वं ‘ज्ञ’ इति सूत्रात्, यदाह बौद्धः । न ह्यहमिदं जानामीति प्रतीयमानं ज्ञातृत्वमकस्मादेवापवादनीयम् । अतिप्रसङ्गात् । अतः स्वसंवेद्यत्वं सिद्धम् ।

ननु प्रत्यक्षस्य सुखादिगुणस्याश्रयसापेक्षत्वेन तदाश्रय आत्माऽनुमीयत इति न स्वतः सिद्ध्यति । न । सुखादिप्रत्यक्षस्यैव तदुपलम्भात्मकत्वादनवसरादनुमितेः । अहं सुखी जानाम्यह-मिति विशेषणस्योपलम्भो विशेष्योपलम्भनान्तरीयकः । धर्मिग्राहकेण च गृहीते तत्स्वरूपे नानुमान-मुपयुज्यते । तद्विशेषे तु क्वचिदनुमानमागमो वा न निवार्यते । सुखादिप्रत्यय आत्मनो न प्रतीतिरिति चेत्तर्हि किं निराश्रयमेव सुखादि प्रतीयते, उताहो साश्रयमिति वाच्यम् । आद्ये कल्पेऽनुभवविरोधः । गुणत्वासिद्धेस्तदाश्रयात्मासिद्धिश्च । द्वितीये सहोपलभ्यमान आश्रयो वाच्यः । देहश्चेत्तदाश्रयत्वे-नोपलब्धत्वात्कुत आश्रयान्तरानुमानम् ? अचेतनस्य सुखज्ञानाद्ययोगादिति चेन्न । अनुभवस्य युक्तिमात्रबाधादृष्टेः । न चात्र बाधो दृश्यते । एवं हि वादो भवन् भवेत्– ‘अहं सुखीत्येव प्रतिभामि, न त्वहं सुखी, ममाचेतनत्वेन सुखाद्याश्रयत्वायोगात्, आत्मैव सुखि’ इति । न चैवं कश्चित्प्रत्येति । अत आत्मैव सुखाश्रयत्वेनोपलभ्यत इत्याश्रयणीयम् । न च देहात्मनोरभेदः प्रतीयत इति वाच्यम् । दत्तोत्तरत्वाद्भगवतैवानुव्याख्याने ‘मम देह इति ह्येव न देहोऽहमिति प्रमा’ इत्यादिना ।

अथोच्येत स्वयम्प्रकाशा सती विषयसंविदेव स्वाश्रयमात्मानं ग्राहकत्वेन संवेद-यतीत्याश्रयणीयम् । घटमहं जानामीत्यनुभवानुसारात् । ग्राहकस्य स्वयम्प्रकाशत्वे कर्तृकर्म-भावविरोधप्राप्तेः । तदसत् । अहं मां जानामीत्यात्मनस्संविद्विषयत्वानुभवादनुभूयते कर्तृकर्मभावः । एवं न च विरोधोऽनुभूयते । कल्प्यते केवलमप्रामाणिकः । न चैकत्रादृष्ट इत्यन्यत्र दृष्टोऽप्यपलाप्यः । अतिप्रसङ्गात् । अहं ग्राहकत्वेनैव जानामि न ग्राह्यत्वेनेति वदन् कमिति पृष्टे किमुत्तरं ब्रुवीथाः ? आत्मानमित्युक्ते स्वोक्तिविरोधः । कर्तृकर्मभावश्च स्यात् । वेदनान्तरवेद्यत्वपक्षे चाऽत्मनः कर्तृकर्मभावो न परिहृतः स्यात् । तथा चात्र कः पर्यनुयोज्यः ? करणान्तरेऽप्यनपेक्ष इति चेदविप्रतिपन्नस्तर्हि कर्तृकर्मभावाविरोधः । पराभिमतं करणानपेक्षणं च स्वसंवेदनसंवेदनाश्रयणात् । तदभिमतिर्गुरुमत इति चेदन्यमतेऽपि दृश्यताम् । बुद्धिसंवित्तौ बुद्ध्यन्तरस्य करणत्वेऽनवस्थानात् । बुद्धिरबुद्वार्थबोधिको चेद्घटं बुद्ध्यामहम् इत्यनुभवविरोधः । न च बुद्धिरनुमेया, लिङ्गाभावात् । प्रतीतार्थो बुद्धिलिङ्गं चेल्लिङ्गविशेषणत्वेन सिद्धिर्बुद्धेरिष्टा प्रागनुमानात् । न चार्थे प्रकटता नाम, तत्संवेद्यत्वतोऽन्या । येन तल्लिङ्गं स्यात् । शब्दमात्रं हि भिद्यते । बुद्ध्यन्तरविरहिणश्चेश्वरस्य बुद्धेर्बोधे कथमेव करणाकाङ्क्षा । स स्वबुद्धिं नैव बुद्ध्यत इति चेदसर्वज्ञः स्यात् । अस्तु तावन्मात्राज्ञतयेति चेन्मैवम् । स स्वरूपं जानाति वा न वा ? न चेत्स्वरूपाज्ञो जगतस्स्वकृतत्वाद्यज्ञः कथं सर्वज्ञः स्यात् ? य एकमपि वस्तु कार्त्स्न्यान्न जानाति । जानाति चेत्सर्वज्ञानेन वाऽन्येन वा ? तेनैव चेत्प्राप्तं तद्भयस्थानं स्वप्रकाशत्वं ज्ञानस्य, यद्गुरुमत एवेति परिजिहीर्षितम् । न हि स्वात्मानम-विषयीकुर्वत्सर्वज्ञानं स्वाश्रयं सर्वज्ञमीश्वरं विषयीकरोति । करणान्तरनिरपेक्षं स्वबुद्धिबोद्धृत्वं च प्राप्तं, यद्भयात्सर्वज्ञोऽपि स्वज्ञानाज्ञ आशास्यते । जानात्येव हि जनः किञ्चिज्ज्ञोऽप्येतावन्मे ज्ञानमस्तीति । कथं च गोष्पदानतिलङ्घी निस्तीर्णमहार्णव इति युज्यते । ज्ञानयोरुभयोरभ्युपगमे तयोः परस्परविषयत्वे विषयविषयिभावं द्विष्ठं विषयीकुर्वज्ज्ञानं स्वविषयं चेति स्वात्मनि वृत्तिप्रसक्तिः । अतः स्वप्रकाशेनैव व्यवहारनिर्वाहस्सर्ववादिनाम् ।

कथञ्चाऽत्मनोऽस्वप्रकाशत्वम् एतावन्तं कालं न किञ्चिदवेदिषमिति सुप्तोत्थितपरामर्शिनो विप्रतिपद्येरन् । न हि सौप्तिकमज्ञानमननुभूतं चेदुत्थितस्यानुसन्धातुं शक्यते । न चैतदनुमानं, लिङ्गपरामर्शाभावात् । न चात्र लिङ्गं दृश्यते । नन्वस्ति लिङ्गमस्मर्यमाणत्वं सौप्तिकज्ञानाभावानु-माने । मैवम् । न ह्यनुभूते स्मृतिनियमः । अतोऽस्मर्यमाणत्वस्य व्यभिचारादलिङ्गत्वम् । न च कालेऽनुमानमाशङ्कितुमपि शक्यते । लिङ्गाभावादेव । अतः सुप्तौ स्वानुभवसिद्धः कालः । एतावन्तं कालमिति परामर्शात् । कालानुभविनो जीवस्याज्ञानानुभवे किमनुपपन्नम् ? ज्ञानाभावः प्राक्तनो गृह्यते न परामृश्यते प्रातर्गजाभाववत् । न च तदाऽसौ गृहीतः, प्रतियोगिस्मरणाभावादिति चेदेवमपि सौप्तिको धर्मिग्रह एष्टव्यः । यत्र ज्ञानाभावः पश्चाद्गृह्यते । न हि प्रातरगृहीते प्रदेशे तत्र प्रातर्गजो नासीदित्युत्तरकालं गजाभावग्रहो दृष्टः । न च सुषुप्तौ ज्ञानाभावधर्मिण आत्मनो ग्रहणकारणं निरूपणीयमस्वसंवेद्यवादिनाम् । कथञ्चाभावापलापकाद्धर्मिग्रहणात्पृथग्ज्ञानाभावग्रहमिच्छेयुः । ते केवलधर्मिग्रहमेवेच्छन्ति चेत्कोऽयं केवलधर्मी नाम । यादृशोऽभाववादिनामभावग्रहणधर्मी तादृशोऽस्माकमभावव्यवहारविषयस्स इति चेत्तदनालोचितोद्भावितमवभाति । अपसिद्धान्तप्रसङ्गात् । अभावविशिष्टो ह्यस्माकमभावग्रहधर्मी । न च तदाऽसौ गृहीतः । न हि प्रतियोगिस्मृतेः प्रागसौ गृह्यते । अतः पश्चादभावज्ञानं तदपलापिनां केवलशब्दार्थोऽन्यो वक्तव्यः । न चासौ समस्ति । घटाद्यभावव्यवहारः केवलभूतलादाविति ब्रुवाणानामेतेषां घटादिभावव्यवहारस्तस्मिन्नेवेत्युक्ते किमुत्तरम् ? सर्वलौकिकपरीक्षकप्रसिद्धयोः सर्वव्यवहारास्पदभूतयोर्भावाभावयोरन्यतरस्याप्य-पलापेऽनुभवविरोधादितुल्यमेव दूषणमित्यास्तामयं प्रासङ्गिकः प्रवादः । तस्मादात्मनः स्वयम्प्रकाशत्वमेवेष्टव्यम् । स्वयम्प्रकाशत्वेऽपि सामस्त्येनासंवित्तिः स्वात्मनि सविशेषे सम्भवति । तमःप्रतिबन्धात् । न च तदाऽप्रतीतिरित्यस्वयम्प्रकाशत्वमस्वरूपत्वं वा । तस्य विशेषस्य स्वरूपेऽपि ज्ञानाज्ञानदृष्टेः । मानसप्रत्यक्षं ग्राहकतया वा प्रत्यक्षमात्मानमाचक्षणा अप्यात्मनः सर्वव्याप्तस्य स्वरूपं न कार्त्स्नेन प्रत्यक्षीकुर्वन्ति । न च ते सांशं सविशेषं वाऽभ्युपगच्छन्ति, येन प्रत्यक्षताप्रत्यक्षते स्याताम् । ऐक्यवादिनोऽपि स्वयम्प्रकाशस्याऽत्मनो निर्विशेषस्य ब्रह्मैक्यं न शास्त्रादृते जानन्ति । अस्माकं तु सविशेषत्ववादिनामेष सुगमः पन्थाः । कञ्चिद्विशेषमीश्वरस्तमसा प्रतिबध्नाति, भक्त्या प्रसन्नः संस्तमो निवर्तयति । तथा च भगवद्वचनम्–

‘तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।

नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता’ ॥ इति ।

एवमचिन्त्या पारमेश्वरी शक्तिः । तदेव ह्याह–

‘बलमानन्द ओजश्च सहो ज्ञानमनाकुलम् ।

स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्विभोः’ ॥ इति ।

अतः सिद्धं जीवस्य स्वयम्प्रकाशत्वम् । ‘ते वा एते चिदात्मानः’ ‘विज्ञानात्मा’ ‘अस्य पुरुषस्य प्रकाशो व्यातत’ इत्यादिश्रुतिबलात् ।

तत्त्वप्रकाशिका

अत्रेश्वरे श्रुतिसमन्वयसिद्ध्यर्थं जीवस्वरूपविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । परमेश्वरे श्रुतिसमन्वय उक्तः । जीवस्य ज्ञानाद्यात्मकत्वाभिधायकश्रुतेः श्रुत्यन्तरविरोधेनाप्रामाण्ये तदनुपपत्तेरवश्यं निरसनीय एव । प्रकृतो जीव एव विषयः । ज्ञानादिरूपो न वेति सन्देहः । सन्देहबीजं श्रुतिविगानं दर्शयति ॥ विज्ञानात्मेति ॥ अनानन्दादिरूपत्वम् आनन्दादिरूपत्वा-भावः । न जीवो ज्ञानादिरूप इति पूर्वः पक्षः । तथा श्रुतेः । न च युक्तमस्ति विपरीताऽपि श्रुतिः । न चासावीश्वरविषया ‘प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र स परेणामुं लोकम्’ इति श्रुतिविरोधादिति । अनानन्दादिरूपत्वश्रुतेः सयुक्तिकत्वात् । न ह्यानन्दादिरूपत्वमात्मनोऽनुभूयते । न च प्रतिबन्धकाद्विद्यमानाप्यानन्दादिरूपता नानुभूयत इति वाच्यम् । जीवस्याहमिति नित्याभिव्यक्तत्वेन तत्स्वरूपभूतानां व्यवधानस्यैवानुपपत्तेः । आनन्दादिरूपत्वे च जीवस्य न केनचिन्मोक्षाय प्रयतितव्यम् । अत्रावरणादननुभवो मोक्षे त्वभिव्यक्तेरनुभव इति वदन् प्रष्टव्यः । किमावरणमानन्दादीनामज्ञानं शरीरादि वा । नाद्यः । तस्यैवानुपपत्तेरुक्तत्वात् । न द्वितीयः । वैपरीत्यात् । अत एव मोक्षेऽभिव्यक्तिरित्ययुक्तम् । तदेवं सयुक्तिकश्रुतिविरोधादप्रमाणमेवान्या श्रुतिरतो नेश्वरे श्रुतिसमन्वयो युक्त इति प्राप्ते सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ अस्येति तद्गुणसारत्वं प्रकृतं परामृश्यते । भवत्येवानन्दादिरूपो जीवः । न चोक्तश्रुतियुक्तिविरोधः । यथा पुरुषयोषिदादीनामपत्योत्पत्तिशक्तित्वरूपत्वेऽपि कालतस्तदभिव्यक्तेर्नायं पूर्वं पुमानिदानीं तु पुमानित्यादि युज्यते । एवं जीवस्वरूपत्वेन मुक्तेः पूर्वमपि सतो ज्ञानानन्दादेरीश्वरप्रसादेनाभिव्यक्ति-निमित्तेनानन्दीभवतीत्यादिव्यपदेशोपपत्तेः । प्रागनभिव्यक्तत्वेनानुभवाभावसम्भवात् । तदभिव्यक्त्यर्थं च मुमुक्षूणां प्रयत्नोपपत्तेरिति भावः । न चावरणानुपपत्तिः । ज्ञानाभावातिरिक्ततन्निमित्ता-विद्याभ्युपगमात् । ननु प्रागसतामुत्पत्तिवादिनी श्रुतिः किं न स्यात् किमभिव्यक्तिकल्पनयेत्यत आह ॥ बलमिति ॥ एतच्च सज्जीवविषयम् । केषाञ्चिद् दुःखादिरूपत्वं मिश्रत्वं च ज्ञातव्यम् ।

गुर्वर्थदीपिका

स दुःखाद्विमुक्त आनन्दीभवतीत्युक्त्या प्राग्दुःखसहितानन्दवान् पश्चात्केवलानन्दवानिति सर्वत्रानन्दवत्त्वस्यैवोक्तत्वेनानानन्दरूपताया एतत् श्रुतिविरुद्धत्वादित्यर्थः । अनानन्दादिरूपत्वा-दित्यत्र दुःखाद्विमुक्ते मुक्तावानन्दवान्भवतीत्युक्त्या प्रागनानन्दरूपित्वं प्रतीयत इत्यर्थः । तस्यैवानु-पपत्तेरित्यत्र स्वरूपभूतयोर्जीवानन्दयोरहमिति जीवज्ञाने आनन्दस्यापि ज्ञानमेव स्यान्नाज्ञानमित्य-ज्ञानस्यैवानुपपत्तेरुक्तत्वादित्यर्थः । ननु प्रतिबन्धकमात्रसाधारणमिदं दूषणं कथमाद्यविकल्पस्यैव दूषणमिति चेत्सत्यम् । अनेनैव दूषितमप्युत्तरपक्षमसाधारणदूषणान्तरेण दूषयितुं ज्ञानरूपेऽज्ञान-स्यैवायोगादिति स्पष्टं दोषं सूचयितुं च विकल्प इत्यदोषः । वैपरीत्यादित्यस्य शरीरस्य भोगायतनत्वेन भोगप्रतिबन्धकत्वस्य विरुद्धत्वादित्यर्थः । तन्निमित्ताविद्याभ्युपगमादित्यत्रा-विद्याख्यावरणमप्यहमिति जीवज्ञानमप्रतिबध्य तद्रूपमानन्दं कथं प्रतिबध्नीयादिति चोद्यं ‘वामं मा दहेत्’ इति मन्त्रशक्त्या वामभागस्यादाहवदीश्वरशक्त्युपोद्बलितप्रतिबन्धकशक्त्याऽभिन्नेऽपि भेदकार्यकारिविशेषशक्त्या च परिहरणीयम् ।

भावबोधः

अनन्तरसङ्गतिं सूचयन् विषयमाह– प्रकृत इति ॥ ‘तद्गुणसारत्वात्’ इत्यत्र ज्ञानानन्दादि-स्वरूपत्वेन प्रकृत इत्यर्थः । तथा च पूर्वत्र पृथगधिकरणीयाद्यसूत्रोक्तो बन्धान्मोक्षं तत एवाभि-वाञ्छेत्’ इत्युपदेश उपपादितः । इह तु तदीयद्वितीयसूत्रोक्तं तद्गुणसारत्वमुपपाद्यते । तत्सूत्रोक्ततद्गुणसारत्वस्यात्रास्येति परामर्शादिति सङ्गतिरिति भावः ॥ ज्ञानादिरूप इति ॥ अत्र जीवः किं ज्ञानानन्दादिस्वरूपो न भवत्युत भवतीति चिन्ता । तदर्थं विज्ञानात्मेत्यादिरूपत्वश्रुतिर् दुःखाद्विमुक्त आनन्दी भवतीति श्रुत्या बाध्यत उत न बाध्यत इति चिन्ता । तदर्थं तच्छ्रुत्युपोद्बलिका स्वगुणाननुभूतिरूपा युक्तिः किं निरवकाशोत ज्ञानानन्दादीनामावृत-त्वेनान्यथासिद्धेति । तदर्थं सतोऽप्यानन्दादेरावृतत्वं किं न सम्भवत्युत सम्भवतीति । तदर्थं तदावरकत्वं किं ज्ञानाभावस्यैवोत तन्निमित्तभावरूपाज्ञानस्य । तदर्थमज्ञानरूपावरणानङ्गीकारे देवादीनां सर्वदा स्वस्वरूपानुभवो न प्रसज्यत उत प्रसज्यत इति । तदर्थमानन्दादीनां मुक्ति-योग्यादिस्वरूपत्वे प्रमाणं नास्त्युतास्तीति । भाष्ये नानन्दादिरूपत्वमिति आनन्दादिविरुद्ध-दुःखादिरूपत्वं प्रतीयते । तच्च दुःखाद्विमुक्त इत्यनेन विरुद्धमित्यतो व्याचष्टे– आनन्दादिरूपत्वा-भाव इति ॥ आनन्दी ज्ञानी बलीति तद्वत्त्वोक्त्या तत्स्वरूपत्वाभावस्यैव उक्तेरिति भावः । भाष्योदाहृतायां विज्ञानात्मेति षट्प्रश्नोपनिषदि आनन्द इति श्रुत्यन्तरे च जीवलिङ्गाभावात् पूर्वपक्षानुदय इति न शङ्क्यम् । आद्यश्रुतौ ‘प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र’ इति वाक्यशेषे द्वितीयश्रुतौ च ‘स परेणामुं लोकं नीयते स विमुच्यत’ इति वाक्यशेषे परमात्माश्रितत्वादि-जीवलिङ्गश्रवणादित्याह– प्राणा भूतानीत्यादिना ॥ स्वगुणाननुभूतीति न्यायविवरणांशाभि-प्रायमाह– न ह्यानन्दादिरूपत्वमिति ॥ अनेन स्वत्वेन स्वरूपत्वेन गुणानामानन्दादीना-मननुभूतिरिति व्याख्यातं भवति ।

ननु स्वरूपभूतानामप्यावृतत्वेनाननुभूत्युपपत्तेः कथमनुव्याख्याने ‘स्वगुणाननुभूतिः’ इत्यननु-भवमात्रं तत्साधकत्वेनोक्तमित्यतो न्यायविवरणे स्वगुणाननुभूत्यनुपपत्तेरित्युक्तमित्याशयेन तदभि-प्रायमाह– जीवस्याहमिति ॥ अनेन स्वरूपभूतानां गुणनामनुभूतेरभावो येन प्रतिबन्धेन तत्स्वरूपगुणाननुभूतिस् तस्यानुपपत्तेरिति न्यायविवरणांशो व्याख्यातो भवति । पूर्वं सामस्त्येनाभाव इति न्यायविवरणगतपूर्वपदसूचितयुक्तिमाह– आनन्दादिरूपत्वे चेति ॥ प्रयत्नस्याभिव्यक्त्यर्थत्व-माशङ्क्य परिहरति– अत्रावरणेति ॥ अनेन पूर्वं संसारदशायां सामस्त्येनाभिव्यक्तत्वेन स्वरूपेण चाभाव इति न्यायविवरणाभिप्राय उक्तो भवति । तस्यैवानुपपत्तेरिति ॥ जीवस्याहमित्यनेन व्यवधानानुपपत्त्या ज्ञानाभावरूपाज्ञानस्यैवानुपपत्तेरुक्तत्वादित्यर्थः । वैपरीत्यादिति ॥ शरीरस्यानन्दाद्यनुभवरूपभोगायतनत्वेन भोगप्रतिबन्धकत्वानुपपत्तेरिति भावः । तद्गुणसारत्व-मिति ॥ स्वरूपभूतज्ञानादिगुणसमुदाय इत्यर्थः । अत एव भाष्ये सतामेवानन्दादीनामिति गुणप्राधान्योक्तिर्बहुवचनं च । व्याख्यातं च सतो ज्ञानानन्दादेरिति । सूत्रे ‘आदि’पदप्रयोगाद् बालस्येति भाष्यमुपलक्षणपरमित्यभिप्रेत्य व्याचष्टे– पुरुषयोषिदादीनामिति ॥ दार्ष्टान्तिके तदुक्तिरिति भाष्यानुरोधादाह– नायं पूर्वमिति ॥ सौत्र‘स्तु’ शब्दो सतामेवेति भाष्येऽवधारणार्थो व्याख्यातः । तस्य तात्पर्यं मुक्तेः पूर्वमपि सत इति । सुप्तौ आनन्दादीनमभिव्यक्त्यपेक्षया मोक्षे विशेषेणाभिव्यक्तिरित्यर्थकश्च सौत्र‘स्तु’शब्द इत्यभिप्रेत्य न्यायविवरणे सुव्यक्तिर् इत्युक्तमित्यभि-प्रेत्याह– ईश्वरप्रसादेनेति ॥ अभिव्यक्तानन्दी भवतीति, श्रौतव्यपदेशस्य योगादुपपत्तेरिति सौत्रांशस्यार्थमभिप्रेत्य प्रवृत्तमभिव्यक्त्यपेक्षया तदुक्तिरिति भाष्यं व्याचष्टे– अभिव्यक्तिनिमित्ते-नेति ॥ अनेन पूर्वमव्यक्तानां पश्चात् सुव्यक्त्युपपत्तेरिति न्यायविवरणमपि सुव्यक्तानन्दी भवतीति व्यपदेशस्योपपत्तेरिति व्याख्यातं भवति । पूर्वमव्यक्तानामिति न्यायविवरणांशाभिप्रायमाह– प्रागनभिव्यक्तत्वेनेति ॥ पश्चात् सुव्यक्त्युपपत्तेरिति न्यायविवरणांशं प्रकारान्तरेण व्याचष्टे– तदभिव्यक्त्यर्थमिति ॥ अनेन सुव्यक्त्यै प्रयत्नस्योपपत्तेरिति व्याख्यातं भवति ।

भावदीपः

साक्षाद्विरोधप्रतीत्यर्थं वक्ष्यमाणप्रतिज्ञायाः श्रुत्यविसंवादार्थं च भाष्यवाक्यार्थमाह ॥ अनानन्देति ॥ स्वगुणाननुभूत्यनुपपत्तेः पूर्वज्ञानादीनां सामस्त्येनाभाव इति न्यायविवरणे पूर्वस्माज्जीवस्येति पदमनुवर्त्य प्रतिज्ञार्थमाह ॥ न जीवो ज्ञानादिरूप इति ॥ पादसङ्गत्यर्थं युक्तिं पूर्वमनुक्त्वा भाष्योक्तश्रुतिमेव पूर्वमाह ॥ तथा श्रुतेरिति ॥ उक्तश्रुतिप्राबल्यायान्यत्रोक्तयुक्तिं वक्तुं शङ्कामाह ॥ न चेति ॥ स परेणेत्यादिशेषोक्तेरुपयोगायाह ॥ न चासाविति ॥ विज्ञानात्मा सह देवैश्च सर्वैरिति षट्प्रश्नवाक्ये प्रसिद्धत्वाद् भाष्ये अनुक्तमपि शेषं स आनन्द इति श्रुत्यन्तरे शेषस्योपात्तत्वात्पूर्ववाक्येऽप्यभिमतं मत्त्वाह ॥ प्राणा भूतानीति ॥ देवैः सह विज्ञानात्मप्राणभूतानां भगवदाश्रयत्वोक्तेर्विज्ञानात्मा जीव एवेति भावः । स आनन्द इति श्रुतावपि स परेणेति वाक्यशेषे जीवलिङ्गश्रवणाज्जीवविषयैव श्रुतिरिति भावः । स्वगुणाननुभूत्यनुपपत्तेरित्यन्यत्रोक्तयुक्तिमाह ॥ न हीति ॥ तत्र गुणाननुभवादित्येव वाच्ये स्वगुणाननुभूत्यनुपपत्तेरित्युक्तितात्पर्यं व्यनक्ति ॥ न च प्रतिबन्धादिति ॥ स्वगुणाननुभूत्यनुपपत्तेरित्यत्र समाहारद्वन्द्वेन वा सहितसमासेन वा स्वगुणा-ननुभवादनुपपत्तेश्चेति हेतुद्वयमुपेत्यापादकपूर्त्यानुपपत्तेरित्येतत्प्रकारान्तरेण व्याचष्टे ॥ आनन्दादि-रूपत्वे चेति ॥

किं चेति चार्थः ॥ न केनचिदिति ॥ एतेन मोक्षाय प्रयत्नानुपपत्तेरित्यर्थो दर्शितः । अन्यथापि व्याख्यातुमाह ॥ अत्रेत्यादि ॥ संसार इत्यर्थः ॥ तस्यैवेति ॥ ज्ञानाभाव एवाज्ञानमिति पूर्वपक्षिणो मम मते अज्ञानानुपपत्तेरित्यर्थः । एतेन स्वगुणाननुभूतेः स्वगुणाज्ञानस्यानुपपत्तेर्ज्ञानाभावस्यैवा-ज्ञानत्वादित्यर्थो दर्शितः ॥ वैपरीत्यादिति ॥ शरीरस्यानन्दाद्यनुभवरूपभोगायतनत्वेन भोग-प्रतिबन्धकत्वायोगादित्यर्थः । एतेन शरीरे सति स्वगुणाननुभूत्यनुपपत्तेरित्यर्थो दर्शितः ॥ अत एवेति ॥ भोगायतनशरीरस्य तत्राभावादेवेत्यर्थः । तत्तस्मात् तदेव व्यनक्ति ॥ सयुक्तिकेति ॥ अप्रकृतत्वाद्भाष्ये सतामेवानन्दादीनामित्युक्तिः कथमित्यत आह ॥ अस्येतीति ॥ यद्वा जीवपरामर्शभ्रान्तिं निराह ॥ अस्येतीति ॥ सूत्रे ज्ञपदमनुवर्त्य साध्यं बहिरेवाह ॥ भवत्येवेति ॥ तथा श्रुतेरिति योज्यम् । सूत्रभाष्ये स दुःखाद्विमुक्त इति श्रुत्यादिविरोधनिरासकत्वेन व्याचष्टे ॥ न चेत्यादिना ॥ बालस्येत्युपलक्षणं मत्वा सौत्रादिपदार्थव्यक्त्यर्थमाह ॥ पुरुषेति ॥ पश्वादय आदिपदार्थ इत्याहुः । सतां पारमार्थिकानामिति भ्रमनिरासायाह ॥ मुक्तेः पूर्वं सत इति ॥ बहुधर्मलाभाय भाष्ये बहुवचनोक्तावपि सूत्रानुसारादेकवचनोक्तिः । वक्ष्यमाणदिशाऽनाद्यविद्या-वरणस्य भावरूपस्य निवर्तकाभावादभिव्यक्तिरयुक्तेत्यतः परमाद्विभोरिति प्रमाणानुरोधादाह ॥ ईश्वरप्रसादेनेति ॥ व्यक्तमेतत्तदभिध्यानादित्यत्र । सौत्रयोगशब्दार्थो निमित्तेनेति ॥ तदुक्तिरित्यस्यार्थ आनन्दादीति ॥ एतेन पूर्वमव्यक्तानां पश्चात्सुव्यक्त्युपपत्तेरित्यन्यत्रोक्तेः सुव्यक्त्या व्यपदेशोपपत्तेरित्यर्थ उक्तः । अस्त्वेवं श्रुत्यविरोधः । युक्त्यविरोधस्तु कथमित्यतः पूर्वमव्यक्तानामिति षष्ठ्यन्तांशभावमाह ॥ प्रागिति ॥ सुव्यक्त्यर्थं प्रयत्नोपपत्तेरित्युत्तर-भागार्थमुपेत्याह ॥ तदभिव्यक्त्यर्थमिति ॥ तस्यैवानुपपत्तेरित्युक्तदोषमाशङ्क्य निराह ॥ न चेति ॥ तन्निमित्तेति ॥ ज्ञानाभावनिमित्तेत्यर्थः । न चाभ्युपगमो निर्बीजः । वक्ष्यमाणसूत्रोक्तबाधकस्यैव बीजत्वादिति भावः । श्रुतेः सर्वजीवपरत्वेऽग्रेतनसूत्रविरोध इत्यत आह ॥ एतच्चेति ॥ एतेन तद्गुणसारत्वादित्युक्तिरपि व्याख्याता । उत्तरानुकूल्यायाह ॥ केषाञ्चिदिति ॥

अभिनवचन्द्रिका

विपरीतापि श्रुतिरिति ॥ ‘विज्ञानात्मा सहदेवैश्च सर्वैः’ इति ज्ञानरूपत्वे, स आनन्दः स बल,’ इति आनन्दरूपत्वे च श्रुतिरस्तीत्यर्थः ॥ न चासाविति ॥ ज्ञानरूपत्ववादिनी आनन्दरूपत्ववादिनी च श्रुतिर्नेश्वरविषयेत्यर्थः ॥ प्राणभूतानीति ॥ ‘प्राणभूतानि सम्प्रतिष्ठन्ति यत्र’ इत्यन्तम्, ‘विज्ञानात्मा सहदेवैश्च सर्वैः’ इति भाष्योदाहृतषट्प्रश्नवाक्यशेष इति बोध्यम् ॥ न ह्यानन्दादिरूपमिति ॥ योग्यत्वे सत्युपलभ्यमानत्वात्तद्रूपत्वं नेति भावः । जीवस्येति ॥ त्वन्मते जीवस्य नित्याभिव्यक्तत्वेन आनन्दादीनां तत्स्वरूपत्वे प्रतिबन्धकस्यैवाऽनुपपत्तेरित्यर्थः ॥ किमावरणमिति ॥ यद्यपि ज्ञानाभावापपादनाय ज्ञानाभावस्यैव आवरणत्ववचनमनुपपन्नमिति न प्रष्टव्यम्, तथापि युक्तमेव परो ब्रवीतीति नियमाभावात्प्रश्नः ॥ तस्यैवेति ॥ अज्ञान-स्यैवानुपपत्तेरस्माभिः शङ्कितत्वात् तदुपपादनाय अज्ञानस्यैवाऽऽवरणत्वकथनमनुपपन्नमिति भावः ॥ वैपरीत्यादिति ॥ शरीरस्य आनन्दाद्यनुभोगायतनत्वेन भोगप्रतिबन्धकत्वानुपपत्तेरिति भावः ।

वाक्यार्थमुक्तावली

प्रकृत इति ॥ तद्गुणसारत्वादित्यत्र ज्ञानानन्दरूपत्वेन प्रकृत इत्यर्थः । तथा च पूर्वत्र पृथगधिकरणाद्यसूत्रोक्तः बन्धान्मोक्षं तत एवाभिवांछेदित्युपदेश उपपादितः । इह तु तदीयद्वितीयसूत्रोक्ततद्गुणसारत्वमुपपाद्यते । अत एवात्र अस्येति परामर्श इत्यनन्तरसङ्गतिरिति भावः । अत्र जीवः किमानन्दादिस्वरूपो न भवत्युत भवतीति चिन्ता । तदर्थमानन्दादेरसत्त्वा-देवानुपलब्धिरुत सत्यप्यावरणादिति । तदर्थमज्ञानस्यावरणत्वं सम्भवत्युत न सम्भवतीति । भाष्ये आनन्दादिरूपत्वमिति आनन्दादिविरुद्धदुःखादिरूपत्वं प्रतीयते । तच्च दुःखाद्विमुक्त इत्यनेन विरुद्धमित्यतो व्याचष्टे ॥ आनन्दादिरूपत्वाभाव इति ॥ आनन्दीभवतीत्यानन्दादेरागन्तु-कत्वोक्तिरिति भावः ।

भावबोधे तु आनन्दी, बली, ज्ञानी, इत्यादिना तद्वत्वोक्त्या तस्वरूपाभावस्यैवोक्तेरित्युक्तम् । प्राणभूतानि संप्रतिष्टन्तीति षट्प्रश्नवाक्यशेषोऽयम् । आग्निवेश्यश्रुतौ आनन्दादिरूपत्वमुच्यत इति वक्तव्ये प्रतीयत इत्युक्त्या, आग्निवेश्यश्रुतावुक्तमानन्दादिरूपत्वमेवानुभूयते न त्वानन्दादिरूपत्वम् इति सूचितम् । स्वगुणाननुभूतीत्युक्तपूर्वपक्षन्यायमाह ॥ आनन्दादिरूपत्वश्रुतेरिति ॥ स्वरूपभूतानामिति ॥ एतेन भाष्ये रूपपदेन न्यायमालायां स्वगुणेति स्वरूपत्वप्रतिपादकस्वपदेन सूचितं दूषणमुक्तं भवति । दुःखाद्विमुक्त आनन्दीभवतीत्यानन्दादेः प्रयत्नसाध्यत्वोक्त्या सूचितं दूषणमाह ॥ आनन्दादिरूपत्वे जीवस्येति ॥ सतोऽभिव्यक्तियोगादिति सिद्धान्तमप्याक्षिपति ॥ अत्रावरणादिति ॥ अज्ञानमावरणं वदन् प्रष्टव्यः किमज्ञानम् अभावोभावरूपं वा । आद्य आह ॥ तस्यैवानुपपत्तेरिति ॥ ज्ञानादिरूपस्य ज्ञानाभावस्यैवानुपपत्तेः । प्रतियोगितदभावयोर्विरोधात् । दूरे तस्यावरणत्वकल्पनम् ॥ ज्ञानाभावोपपादनाय ज्ञानाभावस्यैवावरणत्वकथनायोगात् । जीवस्याहमिति नित्याभिव्यक्तत्वेन तत्स्वरूपभूतानां व्यवधानस्यैवानुपपत्तेरुक्तत्वाच्चेति भावः । एतेन द्वितीयोऽपि निरस्तः । जीवस्वरूपानावरकस्य भावरूपाज्ञानस्य तस्वरूपभूतानन्दाद्यावरकत्वा-योगादिति ॥ वैपरीत्यादिति ॥ भोगसाधनशरीरादेस् तत्प्रतिबन्धकत्वस्य विपरीतत्वादित्यर्थः । अत एव आवरणाभावादेव । सूत्रे ज्ञस्येत्यस्ति । तुशब्दोऽवधारणे । ज्ञस्तद्गुणसार इत्यन्वेति । ज्ञस्य जीवस्य सतस्तु सत एवास्य ज्ञानानन्दादिरूपत्वस्य पुंस्त्वादिवद्बाल्ये विद्यमानस्य पुंस्त्व-स्त्रीत्वादेरिवाभिव्यक्तियोगाद् अभिव्यक्तेश्चरमप्रसादेन सम्यगभिव्यक्त्या निमित्तेन योगादानन्दी-भवतीत्यादिव्यपदेशोपपत्तेः । तथा प्रागनभिव्यक्तत्वेनानुभवाभावस्यापि योगादासम्भवात्तदभिव्यक्त्यर्थं मुमुक्षुणां प्रयत्नस्यापि योगाद्भवत्येवानन्दादिरूपो जीव इति सूत्रार्थमभिप्रेत्य भाष्यभावमाह भवत्येवेत्यादिना । पुंस्त्वादिवदिति सौत्रादिपदानुसारेण यथा बालस्य सदेव पुंस्त्वमिति भाष्य-मुपलक्षणं मत्वोक्तम् ॥ पुरुषयोषिदादीनामिति ॥ आदिपदेन वृक्षादीनां फलपुष्पोत्पत्ति-शक्तिस्वरूपत्वेऽपीति द्रष्टव्यम् । अभिव्यक्तिर्नामापरोक्षज्ञानजन्यप्रसादेन व्यक्तिः ।

ननु सुप्ताविव प्राज्ञप्रवेशमात्रेणैव विवक्षित्वा, सुव्यक्तीति न्यायं संयोजयितुमुक्तम् ईश्वरप्रसा-देनेति ॥ सौत्रस्तुशब्दो भाष्ये सत एवेत्यादि व्याख्यातस् तस्य तात्पर्यं मुक्तेः पूर्वमपि सत इति ॥ भाष्ये तदुक्तिरित्युपलक्षणं मत्वा योगादित्यस्यार्थान्तरमुक्तं प्रागनभिव्यक्तेत्यादि ॥ किमावरण-मानन्दादीनामित्यस्योत्तरमाह ॥ न चावरणेति ॥ कुतो नानुपपत्तिरित्यतो ऽज्ञानावरण-त्वादित्युत्तरं वाच्यम् अज्ञानं च नाभावो येन तस्य ज्ञानेनासौ विरोधः ज्ञानाभावोपपादनाय । तदभावस्यावरणत्वोक्त्याऽनुपपत्तिश्च किन्तु ज्ञानाभावातिरिक्तायास्तन्निमित्ताया अविद्याया अज्ञानपदवाच्यतयाऽवरणतया चाभ्युगमात् । तस्याश्चाहमिति स्वरूपे भासमानत्वेऽपि तद्विशेषानन्दाद्यावरकतयैव अहमज्ञो, मामन्यं च न जानामि’ इति धर्मिग्राहकप्रमाणसिद्धत्वादिति भावः । ननु ज्ञानप्रागभावात्यंताभावयोरनादित्वादविद्यायास्तन्निमित्तत्वं कथमिति चेदनादिप्रयोज्य-प्रयोजकभावसम्भवात् । उत्तरसूत्रे तमोयोग्यनित्यसंसारिणामप्यावरणानङ्गीकारे बाधकस्य वक्ष्यमाणत्वात् । व्यामिश्रतापरिहाराय विभागमाह ॥ एतच्चेति ॥ पुंस्त्वादिति सूत्रमित्यर्थः । उत्तरसूत्रापेक्षया तथापि ज्ञानरूपत इति पूर्वभाष्यानुसारेणाह पूर्वसूत्रमुपलक्षणं मत्वाह ॥ केषाञ्चिदिति ॥

तत्त्वसुबोधिनी

अनन्तरसङ्गतिं सूचयन् विषयमाह ॥ प्रकृत इति ॥ तद्गुणसारत्वाद् इत्यत्र ज्ञानानन्दादि-स्वरूपत्वेन प्रकृत इत्यर्थः । तथा च पूर्वं पृथगधिकरणीयाद्यसूत्रोक्तो बन्धान्मोक्षं तत एवाभिवाञ्छेद् इत्युक्त उपदेश उपपादितः । इह तु तदीय(द्वितीय)सूत्रोक्तं तद्गुणसारत्वस्यात्रास्येति परामर्शात् सङ्गतिरिति भावः । भाष्ये आनन्दादिरूपत्वमिति अनानन्दादिविरुद्धदुःखादिरूपत्वं प्रतीयते । तच्च दुःखाद्विमुक्त इत्यनेन विरुद्धमित्यतो व्याचष्टे ॥ आनन्दादिरूपत्वाभाव इति ॥ आनन्दी, ज्ञानी, बलीति तद्वत्वे श्रुतेरित्यर्थः । न च युक्तमित्यस्य इतीत्यनेन सम्बन्धः । भाष्योदाहृतायां विज्ञाना-त्मेति षट्प्रश्नोपनिषदि, आनन्द इति श्रुत्यन्तरे च जीवलिङ्गाभावात् पूर्वपक्षानुदय इति न शङ्क्यम् । आद्यश्रुतौ प्राणा भूतानि सम्प्रतिष्ठन्ति इति वाक्यशेषे द्वितीयश्रुतौ सपरेणामुं लोकं नीयते मुच्यते इति वाक्यशेषे जीवलिङ्गश्रवणादित्याह ॥ प्राणा भूतानीत्यादिना ॥ सयुक्ति-कत्वादिति ॥ आनन्दादिरूपत्वासम्भवरूपयुक्तिसहितत्वादित्यर्थः । सयुक्तिकत्वमेवाह ॥ न हीति ॥ न चानुभवोऽन्यथोपपन्न इति वाच्यं किमनुभवप्रतिबन्धकस्य विद्यमानत्त्वाद् उतावरण-सत्वाद् अनभिव्यक्तेर्वा । नाद्य इत्याह ॥ न च प्रतिबन्धकादिति ॥ जीवस्येति ॥ अन्यथा स्वरूपत्वमेव न स्यादिति भावः । दूषणान्तरं चाह ॥ आनन्दादीति ॥ सिद्धे प्रयत्नस्य कुत्राप्यदृष्टेरिति भावः । न द्वितीय इत्याह ॥ अत्रावरणादिति ॥ तस्यैवानुपपत्तेरिति ॥ आवश्यकत्वान्यथानुपपत्युक्ततया ज्ञानाभावरूपाज्ञानस्यैवानुपपत्तेरुक्तत्वादित्यर्थः ॥ वैपरीत्या-दिति ॥ शरीरस्यानन्दाद्यनुभवरूपभोगायतनत्वेन भोगप्रतिबन्धकत्वायोगादित्यर्थः ॥ अत एवेति ॥ आवरणासम्भवादित्यर्थः ॥ तद्गुणसारत्वमिति ॥ स्वरूपभूतज्ञानादिगुणसमुदाय इत्यर्थः । गुणप्राधान्योक्तिर्बहुवचनं च व्याख्यातम् ॥ सतो ज्ञानानन्दादेरिति ॥ सूत्र आदिपदप्रयोगाद् बालस्येति भाष्यम् उपलक्षणतापरमित्यभिप्रेत्य व्याचष्टे ॥ पुरुषेति ॥ दार्ष्टान्तिके तदुक्तिरिति भाष्यानुरोधादाह ॥ नायं पूर्वमिति ॥ सौत्रस्तुशब्दः सतामेवेति भाष्येऽवधारणार्थत्वेन व्याख्यातस् तस्य तात्पर्यं मुक्तेः पूर्वं सत इति ॥ सुप्तौ आनन्दादीनां व्यक्त्यपेक्षया मोक्षे विशेषेणाभि-व्यक्तिरित्यर्थंकश्च सौत्रस्तुशब्द इत्यभिप्रेत्याह ॥ ईश्वरप्रसादेनेति ॥ अभिव्यक्त्यानन्दी भवति इति श्रौतव्यपदेशस्य योगादुपपत्तेरिति सौत्रांशस्यार्थमभिप्रेत्य प्रवृत्तमभिव्यक्त्यपेक्ष चेति भाष्यं व्याचष्टे ॥ अभिव्यक्तीति ॥ आनन्दादीनां स्वरूपत्वेऽनुभवः कुतो नेत्यत आह ॥ प्रागिति ॥ आनन्दादीनां स्वरूपत्वे मोक्षस्य सिद्धत्वात् तद्विषयक प्रयत्नोऽनर्थक इति तत्राह ॥ तदभिव्यक्त्यर्थमिति ॥ तन्निमित्ता आवरणनिमित्ता । ननु सर्वेषामप्यानन्दरूपत्वे मोक्षापातेन नरकादिदुःखं कस्यापि न स्यादित्यत आह ॥ एतच्चेति ॥ आनन्दादिरूपत्वकथनमिति ।

वाक्यार्थविवरणं

निरातङ्कः ॥ निर्भयः ॥ तत्स्वरूपभूतानामिति ॥ तथा च तत्स्वरूपतया च भूतानाम-प्यानन्दादीनां नित्याभिव्यक्तत्वप्राप्त्या नाननुभवरूपं व्यवधानमुपपन्नमिति भावः ॥ अभिव्यक्ति-रिति ॥ आनन्दादिरूपत्वस्यानुभव इति शेषः । अज्ञानं ज्ञानाभावः ॥ उक्तत्वादिति ॥ जीवस्याहमित्यादिनेत्यर्थः ॥ वैपरीत्यादिति ॥ शरीरस्य भोगायतनत्वादिति भावः ॥ अत एवेति ॥ आनन्दादिरूपत्वासम्भवादेव ॥ अयुक्तमिति ॥ सत एवाभिव्यक्तिर्न त्वसत इति भावः ॥ ज्ञानाभावातिरिक्तेति ॥ ज्ञानाभावस्यावरणत्वे हि व्यवधानानुपपत्तिरित्युक्तदोषः न चैवमिति भावः ॥ तन्निमित्तेति ॥ स्वरूपभूतानन्दादेरननुभवनिमित्तभूतेत्यर्थः ॥ अविद्या ॥ गुणत्रयाख्या भावरूपा अविद्या । सत्त्वादिगुणात्मिक्या विद्यादिविरोधित्वेनाविद्ययेत्यादिसुधावचनादिति ज्ञेयम् । अत एव सिद्धान्ते आवरकत्वान्यथानुपपत्त्यैव भावरूपाज्ञानसिद्धिरङ्गीकृता । ज्ञानाभावस्यावरकत्वा- भावादेवेति मन्तव्यम् ॥ असताम् ॥ आनन्दादीनाम् । भाष्य अनाकुलं बाह्योपप्लवशून्यं ज्ञानम् ॥ ईश्वरप्रसादेनेत्यादि ॥ तथा चेश्वरप्रसादाभिव्यक्त्योरुभयोरपि कल्पनं युक्तमिति भावः ।

वाक्यार्थमञ्जरी

आनन्दादिस्वरूपत्वाभाव इति ॥ आनन्दी भवतीति मुक्तौ तद्वत्त्वोक्त्या तत्स्वरूपत्वाभाव-स्यैवोक्तेरित्यर्थः ॥ प्राणा भूतानीति ॥ यत्र जीवे प्राणा इन्द्रियाणि भूतान्याकाशादी निबन्धकतया सम्यक् तिष्ठन्ति स परमात्मप्रसादेन परलोकं यातीति भाष्योदाहृतश्रुतिशेषार्थः । व्यवधानस्य प्रतिबन्धकस्य एवमावरणत्वेनाभिमतस्यावरकत्वं न सम्भवतीत्युक्तम् इदानीमावरणमेव नेत्याह ॥ अत्रेति ॥ संसार इत्यर्थः ॥ तस्यैवेति ॥ जीवस्याहमित्यादिनाऽवरणानुपपत्त्युक्त्या ज्ञानाभाव-रूपाज्ञानस्यैवानुपपत्तेरुक्तत्वादित्यर्थः । न ह्यावरणाभावेऽज्ञानाभावे निर्निमित्तं भवितुमर्हतीति भावः ॥ वैपरीत्यादिति ॥ शरीरस्यानन्दाद्यनुभवरूपभोगायतनत्वेन भोगप्रतिबन्धकत्वानुपपत्तेरिति भावः । अत एव इदानीमावरणाभावादेव ॥ ॐ पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॐ ॥ जीवस्य सतस्तु सत एव प्राग्विद्यमानस्यैवास्य ज्ञानानन्दादिरूपत्वस्य पुंस्त्वादिवद् बाल्येऽसतः पुंस्त्वस्त्रीत्वादेरिवाभिव्यक्तियोगाद् अभिव्यक्त्याऽभितः सुष्ठु व्यक्त्या निमित्तेन योगादानन्दीभवती-त्यादिव्यपदेशोपपत्तेरित्यर्थः । कालतः यौवने ॥ तन्निमित्तेति ॥ ज्ञानाभावनिमित्तत्रिगुणात्मक-स्वगुणाच्छादिकाऽविद्याङ्गीकारादित्यर्थः । वक्ष्यमाणानुरोधेनाह ॥ केषाञ्चिदिति ॥