१५ यावदधिकरणम्

ॐ यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॐ

१५. अथ यावदधिकरणम्

सूत्रभाष्यं

जीवस्याप्युत्पत्तिरुक्ता । अतस्तस्य ‘सोऽनादिना पुण्येन पापेन चानुबद्धः ।

परेण निर्मुक्त आनन्त्याय कल्प्यत’ इत्यनादिकर्मसम्बन्ध आनन्त्यावाप्तिश्च न युज्यत इत्यत आह–

॥ ॐ यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॐ ॥ ३० ॥

यावत्परमात्मा तिष्ठत्यनाद्यनन्तत्वेनैवं जीवोऽपि ।

‘नित्यः परो नित्यो जीवोऽनित्यास्तस्य धातवः ।

अत उत्पद्यते च म्रियते च विमुच्यते चे’ ॥ इति च आग्निवेश्यश्रुतिः ।

‘आत्मा नित्यः सुखदुःखे त्वनित्ये, जीवो नित्यो धातुरस्य त्वनित्य’ इति च भारते ।

॥ इति यावदधिकरणम् ॥

तत्त्वप्रदीपिका

यद्यपि ‘ज्ञोऽत एव’ इति सूत्रे जीवस्य स्वरूपनित्यत्वमर्थतो लभ्यते । उपाध्यपेक्षयेति भाष्यवचनात् । तथाऽपि मुखतोऽनुक्तेरुत्पत्त्युक्तेश्च पुनरारम्भः । श्रुत्यन्तरोपसंग्रहार्थश्च । उपाधे-रागमापायित्वेऽपि जीवस्य यावदात्मभावित्वात्तत्प्रयुक्तः कर्मसम्बन्धो युज्यते । बन्धककर्मनिर्मोके च तन्निमित्तोपाध्यपेक्षयोत्पत्तिविनाशाभावादानन्त्याप्तिश्च युज्यते ।

तत्त्वप्रकाशिका

अत्रेश्वरे श्रुतिसमन्वयसिद्ध्यर्थं जीवनित्यत्वविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । श्रुतिसमन्वयो हरावुक्तः । श्रुतेर्जीवनित्यत्वविषयायाः श्रुत्यन्तरविरोधेनाप्रामाण्ये तदनुपपत्ति-प्रसङ्गात्परिहर्तव्यमेतत् । प्रकृतो जीव एवात्र विषयः नित्योऽनित्यो वेति सन्देहः । ‘ब्रह्माल्लय-मभ्युपैति’ ‘आनन्त्याय कल्पत’ इति श्रुतिविरोधः सन्देहबीजम् । तत्र सफलं पूर्वपक्षयति ॥ जीवस्यापीति ॥ अनित्य एव जीवः । अनित्यत्वश्रुतेः । न च वक्तव्यं ‘सोऽनादिना’ इति श्रुतिर्जीवनित्यत्वेऽप्यस्ति । अत्र जीवस्यानादिकर्मसम्बन्धानन्त्यप्राप्त्योरुक्तत्वादिति । अनित्यत्वश्रुतेः सयुक्तिकत्वेन प्राबल्यात् । उक्ता खलु जीवस्योत्पत्तिः ‘ज्ञोऽत एव’ इति । उत्पत्तिमतश्चानित्यत्वं नियतमेव । घटादौ दृष्टत्वात् । न च वक्तव्यं तत्रोत्पत्तिरुपाधेरेवोक्ता न तु जीवस्यातः कथं तस्यानित्यत्वमपीति । उपाधेरुत्पत्तिमत्त्वे प्रतिबिम्बस्योत्पत्तिनियमात् । न हि दृष्टमुपाधेरुत्पत्तिमत्त्वेऽपि प्रतिबिम्बस्यानादित्वम् । अतोऽस्त्येव जीवस्योत्पत्तिर्विनाशश्च । अतः सयुक्तिक श्रुतिविरोधात्तस्यानादिकर्मसम्बन्धाद्ययुक्तेस्तदभिधायकश्रुतेरप्रमाणत्वादयुक्तो ब्रह्मणि श्रुतिसमन्वय इति भावः । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ नित्य एव जीवः । प्रतिबिम्बस्य बिम्बोपाधितत्सन्निधिनाशं विना नाशानुपपत्तेः । बिम्बस्य परमात्मनोऽनाद्यनन्तत्वात् । उपाधेश्च यावत्परमात्मभावित्वात् । सर्वगतबिम्बस्योपाधिसन्निधेश्च नित्यत्वात् । अतो जीवस्यानाद्यनन्तत्वान्नानादिकर्मसम्बन्धाद्यनुपपत्त्याप्रमाणता च श्रुतेर्भवति । न चानित्यत्व-श्रुतिविरोधः । तस्या उपाधिविषयत्वात् । न चोपाधेरनित्यत्वे पुनर्जीवस्यानित्यत्वापत्तिरिति वाच्यम् । न हि येनोपाधिना जीवः प्रतिबिम्बस्तस्यैवोत्पत्तिविनाशौ ब्रूमोऽपि तु धात्वादिपदोदित (पदोदितात्) बाह्योपाधेरेव । कुत एतदखिलमिति चेन् नित्यः पर इति श्रुतेः स्मृतिवचनद्वयाच्चेति भावः । उक्तं चैतदन्यत्र । ‘जीवोपाधिर्द्विधा प्रेाक्तः स्वरूपं बाह्य एव च । बाह्योपाधिर्लयं याति मुक्तावन्यस्य तु स्थितिः । सर्वोपाधिविनाशे तु प्रतिबिम्बः कथं भवेत् । कथं चात्मविनाशाय प्रयत्नः सेत्स्यति क्वचिद् इति । तथा ‘उपाधेश्चैव नित्यत्वान्नैव जीवो विनश्यति । स्वरूपत्वादुपाधेश्च न भिन्नोपाधिकल्पनम् इति । अतः श्रुत्यविरोधेन जीवस्य नित्यत्वसिद्धेर्युक्तो हरौ वेदानां समन्वय इति सिद्धम् ।

गुर्वर्थदीपिका

ज्योतिर्मयस्य जीवस्य स्वरूपभूतचिद्रूपस्थूलप्रभामण्डलस्य मध्येऽणोर्जीवस्य दर्पणाख्योपाधौ प्रतिमुखस्येव सदा स्थितत्वान्नोपाधिनाशो न वा प्रतिबिम्बनाश इति भावेनोक्तम् उपाधेश्चैव नित्यत्वादिति ॥ इयांस्तु विशेषः प्रतिबिम्बभूतजीवस्यैवान्तर्बिम्बभूतो हरिस्तिष्ठति । न तु प्रतिमुखस्य मुखमिव बहिः । कुत एतत् । तत्सदृशत्वे सति तदधीनत्वमेव जीवस्य प्रतिबिम्बत्वम् । न तु लौकिकप्रतिबिम्बस्येव सर्वसाम्येनापीति । ननु ‘यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात्’ इति सूत्रकृता जीवस्य नित्यत्वं कुतः समर्थ्यते । उत्पत्त्यनङ्गीकारे ‘प्रतिज्ञाहानिरव्यतिरेकात्’ इत्यत्रोक्त ‘सर्वमसृजते’ इति प्रतिज्ञाहानिवज्जीवस्य नित्यत्वाङ्गीकारेऽपि ‘सर्वं वा अत्ति’ इति प्रतिज्ञाहानेस्साम्यादिति चेत्सत्यम् । ‘ज्ञोऽत एव’ इत्यत्रोत्पत्तिमात्रकथनेन सूत्रकृता जीव-स्वरूपानादित्वस्याप्रस्तावितत्वादत्र जीवस्वरूपनित्यत्वकथनेन तत्रानादित्वमपि सूचयति सूत्रकारः । तदधिकरणो‘क्तोत्पत्ति’ इत्यत्रापि देहाख्योपाधिनाशादिना नाशस्साम्येन सिद्ध्येदेव । एवं चेदमधिकरणद्वयमन्योन्योपकारेण जीवस्यानादिनित्यतामुपाध्युपगमापगमाभ्यामुत्पत्तिविनाशौ च साधयितुं प्रवृत्तमिति भावस्सूत्रकारस्य ।

भावबोधः

अनन्तरसङ्गतिं सूचयन् विषयमाह– प्रकृतो जीव इति ॥ पूर्वाधिकरणे उपदेशादिति सूत्रोपात्तबन्धान्मोक्षं तत एवाभिवाञ्छेदिति श्रुत्युक्तब्रह्माधीनबन्धमोक्षवत्त्वेन प्रकृत इत्यर्थः । तथा च जीवस्यानित्यत्वान्न प्रागुक्तमोक्षो युज्यत इत्याक्षेपादनन्तरसङ्गतिरिति भावः । नित्य इति ॥ अत्र जीवः किं नित्य उतानित्य इति चिन्ता । तदर्थं जीवनित्यत्वश्रुतिरुत्पत्तिमत्त्वरूपयुक्त्यनु-गृहीतयाऽनित्यत्वश्रुत्या बाधितोत नेति । तदर्थं श्रुत्युक्तोत्पत्तिविनाशौ किं जीवस्वरूपस्योत तदुपाधेरेवेति । तदर्थं तदुपाधेरेवोत्पत्तिनाशावित्यङ्गीकारेऽपि जीवस्याप्यनित्यत्वादिकं प्राप्नोत्युत न प्राप्नोतीति । तदर्थं जीवस्येश्वरप्रतिबिम्बत्वघटकोपाधिः किं बाह्यदेहादिरेवोत जीवस्वरूपमेवेति । तदर्थमुपाधिद्वैविध्यादौ प्रमाणं नास्त्युतास्तीति ॥ सफलमिति ॥ ‘न दोष’ इति सूत्रांश-निरसनीयतया अनादिकर्मसम्बन्ध आनन्त्यावाप्तिश्च न युज्यत इति भाष्ये उक्तत्वादिति भावः ॥ सयुक्तिकत्वेनेति ॥ उत्पत्तिमत्त्वाद् विनाशित्वं जीवस्येति न्यायविवरणोक्तयुक्तिसहितत्वेनेत्यर्थः । जीवस्यापि उत्पत्तिरुक्तेति भाष्यानुसारेण पक्षधर्मतामाह– उक्ता खल्विति ॥ सूत्रे ‘नित्यत्वाच्च न दोषः’ इत्येव कृते उपाधिनाशप्रयुक्तनाशाभावलाभेऽपि बिम्बोपाधिनाशप्रयुक्तप्रतिबिम्बनाशा-भावस्यालाभात् त्रितयनाशप्रयुक्तनाशाभावप्रतिपादनार्थं यावदात्मभावित्वादित्युक्तमित्यभिप्रेत्य प्रवृत्तयावत्परमात्मा तिष्ठत्यनाद्यनन्तत्वेनैवं जीवोऽपीति भाष्यस्याभिप्रायमाह– प्रतिबिम्ब-स्येत्यादिना ॥ सौत्रात्मशब्दाभिप्रायमाह– सर्वगतेति ॥ नानादिकर्मसम्बन्धाद्यनुपपत्त्येति । ‘न दोषः’ इति सूत्रांशव्याख्यानपरेणानेन नित्यत्वे तदभीष्टमोक्षाद्यसिद्धेरिति न्यायविवरणमप्युक्त-तात्पर्यकम् ॥ अपि तु धात्वादीति ॥ अनेन हि पराधीनविशेषवत्त्वमात्रेण विनाशित्वमिति न्यायविवरणमप्युक्ततात्पर्यकं भवति । तद्गतमात्रपदाभिप्रायस्तु न हि येनेत्यनेनोक्त इति ज्ञातव्यम् । ‘नित्यः परः’ इति श्रुतेरित्यनेन तादृशानामेव नित्यत्वश्रुतेरिति न्यायविवरणमप्युक्तार्थम् । आत्मा नित्यः जीवोऽनित्य इति पदद्वयस्य भिन्नस्थानगतत्वान्न पुनरुक्तिरिति भावेनाह– स्मृतिवचन-द्वयाच्चेति ॥ अनेन सूत्रे ‘तद्दर्शनाच्च’ इति सम्बन्धे स्मृतिसमुच्चायक‘श्च’शब्द इत्युक्तं भवति । भाष्योदाहृतश्रुतिस्मृतिभ्यां जीवस्वरूपस्य नित्यत्वं बाह्यदेहस्यानित्यत्वमित्येवोच्यते, न तु स्वरूपस्यैव । प्रतिबिम्बत्व घटकत्वम्, न बाह्योपाधेरित्येतदुक्तम् । तथा च कथं ताभ्यामुक्ता-खिलार्थप्रतिपत्तिरित्यतः स्वयमुक्ताशेषार्थप्रतिपादकं प्रमाणान्तरमाह– उक्तं चैतदिति ॥

भावदीपः

भाष्येऽनुक्तमपि प्रकरणबलाच्छ्रुतिविगानं सन्देहबीजमाह ॥ ब्रह्मन्निति ॥ ब्रह्मणीत्यर्थः । अन्यत्राभावाच्चेत्यत्र भाष्योक्ता श्रुतिः । आनन्त्यायेति त्वत्र भाष्योक्ता ॥ अनादिकर्मेति ॥ उत्पत्तिविनाशवतस्तदयोगादिति भावः । उत्पत्त्युक्तावनादिपुण्यादिसम्बन्धायोगेऽपि आनन्त्यायोगः किमर्थमुक्तो भाष्ये इत्यत उत्पत्तिमत्त्वाद्विनाशित्वं जीवस्येत्यन्यत्रोक्त्यनुरोधेन जीवस्यापीति वाक्यमुभयत्र युक्तिसूचकत्वेन व्याचष्टे ॥ उक्तखल्विति ॥ तथा चोत्पत्तिमत्त्वं नासिद्धमिति भावः । प्रकारान्तरेणासिद्धिमाशङ्क्य निराह ॥ न च वक्तव्यमिति ॥ प्रतिबिम्बस्येति ॥ जीवस्य प्रतिबिम्बत्वं चाभास एवेत्यादावग्रे व्यक्तमिति भावः ॥ अत इति ॥ उपाध्युत्पत्तौ प्रतिबिम्बोत्पत्ति-नियमाज्जीवोपाधेश्चोत्पत्तिमत्त्वादुत्पत्तिमतश्च विनाशनियमाच्चेत्यर्थः । एवं जीवस्याप्युत्पत्तिरुक्तेति भाष्यं व्याख्यायेदानीम् अत इति पदमनूद्यार्थमाह ॥ अतः सयुक्तिकश्रुतीति ॥ एतेनोक्तेत्यस्यात्मनो व्युच्चरन्ति ब्रह्मल्लयमित्यादि श्रुतावुक्तेत्यप्यर्थो दर्शितः । तेन युक्तिविरोधमात्रेण श्रुतेरप्रामाण्यं कथमभिप्रेतमिति निरस्तम् । भाष्योक्तस्यावान्तरफलत्वं दर्शयन् तस्यापि नान्तरीयक-फलं वदन् महाफलमाह ॥ तस्यानादीत्यादिना ॥ आदिपदेनानन्त्यग्रहः । एतेन जीवस्यानित्यत्वे तदभीष्टमोक्षाद्यसिद्धेरित्यन्यत्रोक्तिरपि व्याख्याता । अन्यथा उक्तेऽर्थे अविरोधं दर्शयत्यनेनाध्याये-नेति भाष्यविरोध इति भावः । एवं जीवोऽपीति भाष्यमेवं शब्दार्थं वदन् व्याचष्टे ॥ नित्य एव जीव इति ॥ न विनाशीत्येवंशब्दार्थः । तत्र स्वयं हेतुमाह ॥ प्रतिबिम्बस्येति ॥ तदुपपादकत्वेन यावदित्यादिभाष्यार्थमाह ॥ बिम्बस्येति ॥ असम्भवस्तु नात्माश्रुतेरित्याभ्यां सिद्धत्वात्सोऽ-नुत्पत्तिलय इत्यणुभाष्योक्तेरिति भावः । भाष्यस्थस्य सौत्रचशब्दव्याख्यानपरस्य जीवोऽपीत्यपि पदस्योपाधितत्सन्निध्योस्समुच्चायकत्वमर्थ इति भावेन तत्तात्पर्यमाह ॥ उपाधेश्चेति ॥ यावदात्म-भावित्वादित्युपाधिनित्यत्वाभिधानाच्चेति द्वितीये गीताभाष्योक्तेरिति भावः । एतेन सौत्रश्च-शब्दोऽनुक्तसमुच्चय इति सूचितम् । सौत्रात्मपदलब्धोक्तिः सर्वगतेति ॥ यच्चाप्नोतीत्यादिस्मृतेः । यावदात्मभावित्वादित्यस्य भावार्थः नित्यत्वादिति ॥ इदानीं ज्ञोऽत इत्यतः षष्ठ्यन्ततया ज्ञशब्दमनुवर्त्य यावदात्मभावित्वाच्चेत्येतदंशार्थं हेतुत्वेनानुवदन् यावदात्मभावित्वान्न दोष इति सूत्रखण्डस्यार्थमाह ॥ अत इति ॥ उपाधितत्सन्निध्योर्नित्यत्वादित्यर्थः । यावदात्मभावित्वादित्यस्य तात्पर्यमनाद्यनन्तत्वादिति । तद्दर्शनादिति सौत्रांशोपात्तश्रुतावनित्यास्तस्य धातव इत्यंशस्य कृत्यमाह ॥ न चानित्यत्वश्रुतीत्यादिना ॥ ब्रह्मल्लयमभ्युपैतीति श्रुतीत्यर्थः । अनित्यस्तस्यो-पाधिरित्यनुक्त्वा धातुपदप्रयोगतात्पर्यं वक्तुमाह ॥ न चोपाधेरिति ॥ न च पराधीनविशेष-वत्त्वमात्रेण विनाशित्वमित्यन्यत्रोक्त्यनुरोधेन तात्पर्यमाह ॥ न हि येनेति ॥ तादृशानामेव नित्यत्वश्रुतिविरोधादित्यन्यत्रोक्त्यनुरोधेन भाष्यमवतारयति ॥ कुत एतदखिलमिति ॥ बिम्बस्य परमात्मनः प्रतिबिम्बस्य जीवस्य तदुपाधेर्बिम्बोपाधिसन्निधेश्च नित्यत्वम् । बाह्योपाधेरनित्यत्व-मित्येतदखिलमित्यर्थः । धातवोऽनित्या इत्यनेन नित्योपाधेरधातुभूतनित्योपाधेश्च लाभात् । जीवनित्यत्वोक्त्या सन्निधिनित्यत्वलाभाच्चेति भावः । आत्मा नित्यः, जीवो नित्य इति पादद्वयं भारते भिन्नस्थानस्थं वाक्यद्वयं ततो न भारते पुनरुक्तिरित्याह ॥ स्मृतिवचनद्वयाच्चेति ॥ उपाधिद्वैविध्यादिकं भाष्ये स्पष्टं कुतो नोक्तमित्यत आह ॥ उक्तं चेति ॥ अन्यत्र चतुर्थस्कन्ध-तात्पर्ये एकविंशेऽध्याये ॥ तथेति ॥ प्रथमस्कन्धतात्पर्ये त्रयोदशेऽध्याये ननु आभास एव चेत्यत्र सोपाधिरनुपाधिश्च प्रतिबिम्बो द्विधेयते । जीव ईशस्यानुपाधिः ‘इन्द्रचापो यथा रवेः’ इत्युक्तिविरोधः । तत्र निरूपाधिप्रतिबिम्बत्वस्य वक्ष्यमाणत्वादित्येतदप्यनेनैव निरस्तम् । तस्य भिन्नोपाधिराहित्यपरत्वोपपत्तेरिति ॥ अत इति ॥ बिम्बोपाधितत्सन्निधीनां नित्यत्वाज्जीवा-नित्यत्वश्रुतेर्बाह्योपाधिविषयत्वादित्यर्थः ।

अभिनवचन्द्रिका

ननु ‘सोऽनादिना’ इति श्रुतिः । अनादिकर्मसम्बन्धे तात्पर्यवत्त्वात् तत्रैव प्रमाणं न तु नित्यत्व इत्यत आह – अत्र जीवस्येति ॥ श्रुत्युक्तानादिकर्मसम्बन्धाऽऽनन्त्योक्त्यन्यथानुपपत्त्या जीवनित्यत्वसिद्धेर्जीवनित्यत्वे श्रुतिर्मानमिति भावः ॥ अनित्यत्वश्रुतेरिति ॥ अनित्यत्वसाधकश्रुतेः साक्षादनित्यत्वसंस्पर्शे न युक्त्या सह एकार्थप्रतिपादकत्वात् प्राबल्यम् । अनादिकर्म-सम्बन्धाभिधायकश्रुतेस्तु साक्षान्नित्यत्वसंस्पर्शाभावेन तदभावाद्दौर्बल्यमिति भावः ॥ प्रतिबिम्ब-स्येति ॥ यद्यपि जीवो न ईश्वरस्य प्रतिबिम्बः, तदभिधात्री श्रुतिरपि माणवके सिंहशब्दवद् गौणी, तथापि आदर्शे प्रतिबिम्बवज् जीवोऽपि ईश्वरप्रतिबिम्ब इति मन्वानस्याऽयं पूर्वपक्ष इति बोध्यम् ॥ प्र्रतिबिम्बस्येति ॥ यद्यपि जीवस्य यावत्परमात्मा विद्यते तावत्कालभावित्वाद् अनादिकाले संबन्धस्यापि सत्त्वान् न श्रुत्यप्रामाण्यलक्षणो दोषः श्रुत्यादौ तद्दर्शनादिति भाष्याशयो वर्णनीयः । जीवस्य तदधीनत्वे सति तत्सदृशत्वरूपगौणप्रतिबिम्बत्वेन दर्पणाद्युपाधिगतमुखादि-प्रतिबिम्बवन् मुख्यप्रतिबिम्बत्वाभावात् । ‘तदधीनत्वतत्सदृशत्वमात्रेण एषाञ्चिदात्मनां रूपं स्वरूपम्, अस्माभिराभास इत्युक्तम्, सूर्यकाद्युपमा च तावन्मात्रेणोपात्ता’ इति सुधोक्तेः, तथापि टीकाकृता अङ्गीकारवादेन प्रवृत्तं ‘न ह्युपाधिबिम्बसान्निध्यनाशे प्रतिबिम्बनाशः’ इत्यादि-गीताभाष्यमनुसृत्य भाष्याशयो वर्णित इति बोध्यम् ॥ सर्वगतबिम्बस्येति ॥

ननु ‘हृदयस्था हरेर्मूर्तिर्जीवो यत्प्रतिबिम्बक’ इति वचनात् सर्वगतोपास्त्यनधिकारिणां बिम्बोपासनाभावेन मोक्षाभावप्रसंगाच्च परिच्छिन्नमूर्तिविशेषस्यैव बिम्बत्वं न सर्वगतस्य बिम्बत्वं, तत्कथमुच्यते सर्वगतबिम्बस्य उपाधिसन्निधेश्च नित्यत्वादिति चेत्, सत्यमस्त्येव मूर्तिविशेषस्य बिम्बत्वम्, तथापि परिच्छिन्नस्यापि मूर्तिविशेषस्य सर्वगतत्वात् तस्याऽन्यत्रगमनप्रयुक्तसान्निध्यनाशो न मन्तव्य इत्यभिप्रायेण तथोक्तम् ॥ बाह्योपाधेरेवेति ॥ देहस्योपाधित्वं न प्रतिबिम्बोपादानत्वम्, अपि तु घटमठादीनामाकाशावच्छेदकत्वरूपोपाधित्वमिव देहस्यापि जीवावच्छेद-कत्वमेवोपाधित्वमिति बोध्यम् । एतेन यदि बाह्यदेहस्योपाधित्वं तर्हि तन्नाशे जीवनाशो भवेदेव । उपादाननाशे उपादेयस्थित्ययोगात् । अथ न जीवरूपप्रतिबिम्बोपादानत्वं तर्हि बाह्य-देहस्योपाधित्वमिति रिक्तं वचः स्यादिति परास्तम् । ‘आत्मा नित्यः सुखदुखे त्वनित्ये’ इत्येका । जीवो नित्य इत्यपरेति भावेनाह – स्मृतिद्वयेति ॥ सर्वोपाधिविनाशे त्विति ॥ स्वरूपभूतोपाधेरपि विनाशे ‘आसौ वा आदित्यो देवमधु’ (छा.३-१-१) इत्यादौ मधुत्वेनोपदिष्टाऽऽदित्य-वत्प्रतिबिम्बत्वकल्पनोपदिष्टो जीवः कथमविनाशी भवेत् । तदत्यन्ताऽभिन्नस्य देहस्य विनष्टत्वादित्येवाशयः । ननु जीवस्य वस्तुतः प्रतिबिम्बत्वाद् उपाधिनाशे तदवस्थानायोग इत्याशयः कुत इति चेज् जीवस्य प्रतिबिम्बत्वाभावात् । तथा हि यदि जीवो दर्पणप्रतिबिम्बवद् ईश्वरप्रतिबिम्बः स्यात् तर्हि लक्ष्मीनारायणयोरवियोगात् तत्रैव लक्ष्मीप्रतिबिम्बोऽपि अपरो जीवः स्यात् । उपाधेः सन्निकृष्टयावत्प्रतिफलनहेतुतास्वाभाव्यात् । ततश्च विरुद्धदिक्क्रियं शरीरमुन्मथ्येत ॥ उपाधेश्चैव नित्यत्वादिति ॥ तदत्यन्ताऽभिन्नोपाधिनाशस्यैव जीवनाशत्वेन तदभावे जीवनाशाऽभिधानं व्याहतमिति भावः ।

पूर्वपक्षस्तु – अनित्य एव जीवः । ‘ब्रह्मन् लयमभ्युपैति’ इत्यनित्यत्वश्रुतेः । न च ‘सोऽनादिना’ इति श्रुतिर्जीवनित्यत्वेऽप्यस्तीति वाच्यम् । अनित्यत्वश्रुतेः सयुक्तिकत्वेन प्राबल्यात् । उक्ता खलु जीवस्योत्पत्तिः ‘ज्ञोऽत एव’ इति । ततश्च जीवो विनाशी भावत्वे सति उत्पत्ति-मत्त्वात्’ इत्यनुमानसद्भावात् । न च वक्तव्यं तत्रोपाधेरेवोत्पत्तिरुक्ता, न तु जीवस्येति उपाधेरुत्पत्ति-मत्त्वाद्विनाशे प्रतिबिम्बनाशस्यावर्जनीयत्वात् । अतः सयुक्तिकश्रुतिविरोधात् तस्याऽनादिकर्म-सम्बन्धाद्ययुक्तेस् तदभिधायकश्रुतेरप्रामाण्याद् अयुक्तो ब्रह्मणि श्रुतिसमन्वय इति ।

सिद्धान्तस्तु – नित्य एव जीवः । ‘नित्यः पर’ इति श्रुतौ आत्मवज् जीवस्यापि नित्यत्वाऽभिधानात् । तथा ‘आत्मा नित्यः सुखदुःखे त्वनित्ये, जीवो नित्यो धातुरस्य त्वनित्यः’ इति स्मृतिद्वये च जीवस्य नित्यत्वमुक्त्वा तच्छरीरादेरनित्यत्वाऽभिधानात् । न च उपाधिनाशे प्रतिबिम्बस्य जीवस्य विनाशो दुष्परिहर इति वाच्यम् । जीवस्याऽप्रतिबिम्बत्वात् । न च ‘रूपंरूपम्’ इति श्रुतिर्जीवस्य प्रतिबिम्बत्वमावेदयतीति वाच्यम् । तस्याः श्रुतेस् तदधीनत्वे सति तत्सदृशत्वरूपगौणप्रतिबिम्बत्वपरत्वेन मुख्यप्रतिबिम्बत्वानावेदकत्वात् । अवश्यं चैतदेवं विज्ञेयम् । अन्यथा जीवोपाधौ परमेश्वरप्रतिबिम्बवत् तदविनाभूताया महालक्ष्म्या अपि प्रतिबिम्ब-सम्भवेन जीवद्वयापत्त्या विरुद्धदिक्क्रियं शरीमुन्मथ्येत । न च एकस्मिन्नुपाधौ एकस्यैव प्रतिबिम्बो नाऽन्यस्येति सम्भवति दर्पणादावपि तथा प्रसङ्गात् । अपि च प्रतिबिम्बस्य उपाध्येकदेश-वृत्तित्वनियमेन जीवस्य चिच्छरीरैकदेशवृत्तित्वं प्राप्नोति । किञ्च बाह्यशरीरे प्रतिबिम्बो भवति, न वा आद्ये बाह्यशरीरनाशे जीवनाशो दुष्परिहरः । द्वितीये ‘जीवोपाधिर्द्विधा प्रोक्तः’ इत्यादौ तस्योपाधित्ववचनमयुक्तमेवापतति । अथ तस्योपाधित्ववचनं गौणं तर्हि चिच्छरीरस्यापि तद्वचनं गौणमस्तु अर्धजरतीयानुपपत्तेः । अस्तु वा जीवस्य प्रतिबिम्बत्वं तथापि बिम्बोपाधितत्सन्निधीनां नित्यत्वेन न जीवनाशो भवति कारणाभावात् । उपाध्यनित्यतावचनानि बाह्मोपधिविषयाणि । अतः श्रुत्यविरोधेन जीवस्य नित्यत्वसिद्धेर् युक्तो हरौ वेदानां समन्वय इति सिद्धम् ।

वाक्यार्थमुक्तावली

प्रकृत इति ॥ उपदेशादिति ॥ पूर्वाधिकरणसूत्रखण्डोपात्ते ‘बन्धान्मोक्षं तत एवाभिवाञ्छेेत्’ इति वाक्ये ब्रह्माधीनबन्धमोक्षवत्वेन प्रकृत इत्यर्थः । तथा च जीवस्यानित्यत्वान्न प्रागुक्तो मोक्षो युज्यत इत्याक्षेपादनन्तरसङ्गतिरिति भावः ॥ नित्य इति ॥ अत्र जीवः किं नित्य उतानित्य इति चिन्ता । तदर्थं श्रुत्युक्तोत्पत्तिविनाशो किं जीवस्वरूपस्य तदुपाधेरेवेति । तदर्थं तदुपाधेरेवोत्पत्ति-विनाशावित्यङ्गीकारेऽपि जीवस्याप्यनित्यत्वादिकं प्राप्नोत्युत न प्राप्नोतीति । तदर्थं जीवस्येश्वर-प्रतिबिम्बत्वघटक उपाधिः किं बाह्यो देहादिरुत जीवस्वरूपमेवेति । सफलमिति न दोष इति सूत्रांशनिरसनीयतया अनादिकर्मसम्बन्ध आनन्त्यावाप्तिश्च न युज्यत इति भाष्ये उक्तत्वादिति भावः ॥ अत्र जीवस्येति ॥ श्रुत्युक्तानादिकर्मसम्बन्धानन्त्योक्त्यन्यथानुपपत्या जीवनित्यत्वसिद्धेः श्रुतिर्जीवनित्यत्वे मानमिति भावः । उत्पत्तिमत्त्वमित्युक्तपूर्वपक्षन्यायप्रदर्शनपरं जीवस्याप्युत्पत्तिरिति भाष्यं व्याचष्टे अनित्यत्वश्रुतेः सयुक्तिकत्वेनेति ॥ अनित्यत्वसाधिकाया ब्रह्मलयमिति श्रुतेः साक्षादनित्यत्वसंस्पर्शेन युक्त्या सहैकार्थप्रतिपादकत्वात्प्राबल्यम् । सोऽनादिनेति श्रुतेः साक्षान्नित्यत्वसंस्पर्शाभावेन युक्तिमात्रत्वाद्दौर्बल्यमिति भावः ॥ न च वक्तव्यमित्यादि ॥

ननु युक्तेश्चेति सूत्रे उपाध्युत्पत्या पराधीनविशेषलाभरूपोत्पत्तेर्जीवस्योक्तत्वादुपाधेरेवोत्पत्ति-रुक्तेति शङ्का, उपाधेरुत्पत्तिमत्व इति तत्परिहारश्चायुक्तः । नित्यत्वश्रुतेः स्वरूपविषयत्वस्य, लयश्रुतेः पराधीनविशेषापायविषयत्वस्य च सम्भवेन गतार्थं चेदमधिकरणमिति चेन्न । न च मन्तव्यमित्यादौ तत्र स्वरूपोत्पत्तिरुपाधेरेवोक्ता न तु जीवस्य किन्तु पराधीनविशेषलाभमात्रम् । अतः कथं तस्यानित्यत्वमपीति शङ्कार्थः । उपाधेरुत्पत्तिमत्वे प्रतिबिम्बस्यापि स्वरूपोत्पत्तिनियमान्न पराधीनविशेषलाभमात्रमुत्पत्तिर् नापि तदपाये विनाश इति परिहाराभिप्रायः । अत एवात्र तदाक्षेपेण ………………. । सूत्रे ज्ञस्येत्यनुवर्तते । जीवोपाधेर्जीवस्य चेत्यर्थः । चशब्दस्तद्दर्शनाच्चे-त्यन्वेति । जीवोपाधेः स्वरूपान्तःकरणरूपस्य यावदात्मभावित्त्वाद्देशतः कालतश्च व्याप्तः परमात्मा यावत्पर्यन्तं वर्ततेऽनाद्यनन्तत्वेन तावद्भावित्वात् । बिम्बस्य सर्वगतत्वादेव बिम्बोपाधिसन्निधेश्च यावदात्मभावित्वात् । तथा च तदुपहितजीवस्यापि यावदात्मभावित्वाद् अनादिकर्मबन्धानन्त्या-वाप्तिप्रतिपादकश्रुत्यप्रामाण्यदोषो न । कुतस्तस्य यावदात्मभावित्वस्य दर्शनान् नित्यःपरोनित्यो जीव इति श्रुतत्वात् । चशब्दात्स्मरणाच्चेति सूत्रार्थः । सूत्रप्रणयने नित्यत्वाच्च न दोष इति कृते उपाधिनाशाभावलाभेऽपि बिम्बोपाधिसन्निधिनाशप्रयुक्तप्रतिबिम्बनाशाभावास्यालाभात् । त्रितयनाशाभावप्रतिपादनार्थं यावदात्मभावित्वादिति बिम्बनित्यत्वम् । सान्निध्यनाशायात्मपदेन तस्य सर्वगतत्वं चोक्तमित्यभिप्रेत्य प्रवृत्तस्य यावत्परमात्मा विद्यते अनाद्यनन्तत्वेन एवं जीवोऽपीति भाष्यस्थापिपदेनोपाधितत्सन्निधी समुच्चीयेतेति भावेनार्थमाह ॥ नित्य एव जीव इत्यादिना ॥ स्पष्टञ्च गीताभाष्ये । न ह्युपाधि बिम्बसान्निध्यनाशे प्रतिबिम्बनाश इति सौत्रात्मशब्दाभिप्रायमाह ॥ सर्वगतबिम्बस्येति ॥

ननु ‘हृदिस्था या हरेर्मूर्तिर्जीवो यत्प्रतिबिम्बकः’ इति वचनात्परिच्छिन्नमूर्तिविशेषस्यैव बिम्बत्वं तक्तथमुच्यते सर्वगतबिम्बस्योपाधिसन्निधेश्च नित्यत्वादितीति चेन्न । सत्यमस्त्येव परिच्छिन्नस्य बिम्बत्वं तथापि परिच्छिन्नमूर्तिविशेषस्यापि सर्वगतत्वात्तस्यान्यत्र गमनप्रयुक्तनाशो न मन्तव्यः । गमनेऽपि सान्निध्याशादित्यभिप्रेतत्वादतो जीवस्यानाद्यनन्तत्वानादिकर्मसम्बन्धाद्यनु-पपत्त्येति न दोष इति सूत्रखण्डव्याख्या परटीकयैव स्वरूपानित्यत्वेऽभीष्टमोक्षासिद्धिरिति द्योतनादभीष्टासिद्धिरिति न्यायोऽपि योजितः । अत एव भाष्योपात्तश्रुतौ नित्यो जीव अतोऽपि किमुच्यते चेत्युक्तमिति ज्ञेयम् ।

बाह्योपाधेरेवेति ॥ बाह्यस्य बिम्बाकारत्वाभावेऽपि उपाधित्वं, स्वसंर्गिणि स्वाभिमानवशेन स्वरूपविपरीताकारासंजनकत्वादिनेति ज्ञेयम् । तेषां यदन्यथा दृश्यं तदुदाधिकृतम् उपाधिका इति वक्ष्यमाणत्वात् । जीवो नित्यो धातुरस्य त्वनित्य इति पादद्वयस्य भारते स्थानान्तरगतत्वान्न पुनरुक्तिरित्यभिप्रेत्याह ॥ स्मृतिवचनद्वयाच्चेति ॥ सौत्रचशब्दसमुच्चितादिति भावः । भाष्यो-दाहृतश्रुतिस्मृतिभ्यां जीवस्वरूपस्य नित्यत्वं बाह्यदेहानित्यत्वमित्येवोच्यते न तु स्वरूपोपाधेरेव प्रतिबिम्बत्वघटकत्वं न बाह्योपाधेरित्येतदुक्तम् । तथा च कथं ताभ्याम् उक्तासिद्धार्थप्रतिपत्तिरित्यतः स्वयमुक्तार्थशेषार्थप्रतिपादकं प्रमाणान्तरमाह ॥ उक्तं चैतदिति ॥ ननूपाधेर्देहादिरूपस्यात्मभिन्नस्य कथं नित्यत्वमित्यत उक्तम् ॥ स्वरूपत्वादिति ॥ प्रतिबिम्बत्वकल्पकोपाधेः स्वरूपत्वाद्भिन्नो-पाधिना प्रतिबिम्बकल्पना नेत्यर्थः । अत्र केचित् स्वरूपोपाधेः प्रतिबिम्बकरत्वं नास्त्येव तथात्वे स्वरूपोपाधेरीशसन्निधिवल्लक्ष्मीसन्निधेरपि भावेन विरुद्धप्रतिबिम्बद्वयोत्पादप्रसङ्गात् । प्रमेयदीपे, न च सर्वगतस्य प्रतिबिम्बासम्भवः । तदधीनसारूप्यस्य प्रतिबिम्बत्वादिति । सुधायान्तु तदधीनत्व, तत्सदृशत्वमात्रेणैषां चिदात्मनां रूपं स्वरूपम् अस्माभिराभास इति उक्तम् । सूर्यकाद्युपमा च तावन्मात्रेणेत्युक्तत्वादिति वर्णयन्ति । वस्तुतस्तु अस्यैव भगवतः स्वरूपोपाधौ प्रतिबिम्बकरत्वं, नित्यान्तःकरणं चैव प्रतिबिम्बश्च तद्गतः’ इत्यादेः । न च लक्ष्म्या अपि प्रतिबिम्बकरत्वं सर्वस्यापि जीवस्वरूपस्य प्रतिबिम्बत्वाद् भागभेदेन उभयप्रतिबिम्बत्वायोगात्समग्रमेव उभयप्रतिबिम्बमिति वक्तव्यं तत्रान्तिकस्थबिम्बादेव प्रतिबिम्बजननं न तु व्यवहितादित्यनुभवसिद्धम् । तथा च तदेवान्तिकमन्तिकादिति भगवत्पादोक्तरीत्या ब्रह्मस्वरूपस्यैवान्तिकादन्तिकत्वात् । ब्रह्मण एव प्रतिबिम्बजनिर् न तु श्रीदेव्याः । प्रमेयदीपादौ तदधीनसादृश्याभ्यां प्रतिबिम्बवचनं तु स्वोत्तम-मात्रसाधारणसामान्यप्रतिबिम्बत्वमप्यस्तीति दर्शयितुम् । तदुक्तं न्यायविवरणे । जीवानां सामान्यत आभासत्वेऽपि विशेषादृष्टाद्वैचित्र्योपपत्तेरिति ।

तत्त्वसुबोधिनी

अनन्तरसङ्गतिं सूचयन् विषयमाह ॥ प्रकृतो जीव एवेति ॥ पूर्वाधिकरणे उपदेशादिति सूत्रोपात्तबन्धान्मोक्षं तत एवाभिवाञ्छेत्’ इति श्रुत्युक्तब्रह्माधीनसम्बन्धमोक्षवत्वेन प्रकृत इत्यर्थः । तथा च जीवस्यानित्यत्वान् न प्रागुक्तमोक्षो युज्यत इति आक्षेपादनन्तरसङ्गतिरिति भावः ॥ सफलमिति ॥ न दोष इति सूत्रांशनिरसनीयतयाऽनादिकर्मसम्बन्धानन्त्यावाप्तिश्च न युज्यत इति भाष्ये उक्तत्वादिति भावः ॥ सयुक्तिकत्वेनेति ॥ उत्पत्तिमत्वेन विनाशित्वमिति उक्तेति भाष्यानुसारेण पक्षधर्मतामाह ॥ उक्ता खल्विति ॥ ननूपाधेरुत्पत्तावपि प्रतिबिम्बस्योत्पत्तिः कुत इत्यत आह ॥ न हीति ॥ तथा लोके दृष्टत्वादिति भावः । सूत्रे नित्यत्वाच्च न दोष इत्येव कृते उपाधिनाशप्रयुक्तनाशाभावलाभेऽपि बिम्बबिम्बोपाधिसन्निधिनाशप्रयुक्त प्रतिबिम्बनाशाभावस्या-लाभात् त्रितयनाशप्रयुक्तनाशाभावप्रतिपादनार्थं यावदात्मभावित्वादित्युक्तमित्यभिप्रेत्य प्रवृत्तस्य यावत्परमात्मा तिष्ठति अनाद्यनन्तत्वेनैवं जीवोऽपीति भाष्यस्याभिप्रायमाह ॥ प्रतिबिम्बस्ये-त्यादिना ॥ सौत्रात्मशब्दाभिप्रायमाह ॥ सर्वगतेति ॥ आत्मा नित्यः जीवो नित्य इति पादद्वयस्य भिन्नस्थानगतत्वान् न पुनरुक्तिरिति भावेनाह ॥ स्मृतिवचनद्वयाच्चेति ॥ अनेन सूत्रे दर्शनाच्चेति सम्बन्धः स्मृतिसमुच्चायकचशब्द इत्युक्तं भवति । भाष्योदाहृतश्रुतिस्मृतिभ्यां जीवस्वरूपस्य नित्यत्वं, बाह्यदेहस्यानित्यत्वमित्येवोच्यते । न तु स्वरूपस्यैव प्रतिबिम्बकरत्वं न बाह्योपाधेरित्येतदुक्तं तथा च कथं ताभ्यामुक्ताखिलार्थप्रतिपत्तिरित्यतः स्वयमुक्ताशेषार्थप्रतिपादकं प्रमाणान्तरमाह ॥ उक्तं चैतदिति ॥

वाक्यार्थविवरणं

नन्वस्यां श्रुतौ जीवनित्यत्वं न श्रूयत इत्यतोऽन्यथाऽनुपपत्त्या सिध्यतीत्याह ॥ अत्रेति ॥ आनन्त्यं मोक्षः । जीवस्यानित्यत्वे एतदुभयं कस्य स्यादिति भावः ॥ सर्वगतेति ॥ सर्वगतत्वादेव न तत्सन्निध्यपगम इति भावः ॥ बाह्योपाधेरेवेति ॥ तथा चानेनोपाधिना न प्रतिबिम्बः । येन च स्वरूपदेहाख्योपाधिना प्रतिबिम्बस्तस्य नोत्पत्तिविनाशाविति भावः । बाह्योपाधेर्लयः मुक्तावन्यस्य स्वरूपोपाधेः स्थितिरित्येतत्कुत इत्यतो द्वयं क्रमेणोपपादयति ॥ सर्वेति ॥ उपाध्यधीनः प्रतिबिम्बभूतश्च जीवो नित्य इति तावत्सिद्धम् । एवं च यदि स्वरूपबाह्यरूपसर्वोपाधिविनाशः कथ्यते, तर्हि प्रतिबिम्बभूतो जीव एव कथं स्यात् । तस्यापि नाशः स्यादिति यावत् । तदर्थमेकस्य नित्यत्वमपरस्यानित्यत्वमङ्गीकार्यम् । तर्ह्युपाधिद्वयमपि नित्यमेव किं न स्यात् । किमर्थमेकस्य नित्यत्वमन्यस्य चानित्यत्वमङ्गीकार्यमित्यत आह ॥ कथं चेति ॥ यद्युपाधिद्वयमपि नित्यमेव स्यात्तर्हि जीवस्वरूपाभिन्नमेव स्यात् । तथा चोपाधिविनाशाय यत्नः कर्तव्य इत्यादिश्रुति-बोधितोपाधिविनाशाय यत्नो न सम्भवेत् । न ह्यात्मविनाशाय प्रयत्नो घटते । ततस्तदन्यथानुपपत्त्या एकस्य स्वरूपोपाधेर्नित्यत्वं बाह्योपाधेरनित्यत्वं चाङ्गीकार्यमिति ॥ भिन्नेति ॥ स्वरूपोपाधेर्नित्यत्वं बाह्योपाधेरनित्यत्वं चाङ्गीकार्यमिति ॥ भिन्नेति ॥ स्वरूपभिन्नस्य देहादेः प्रतिबिम्बत्वघट-कोपाधित्वं न कल्प्यत इत्यर्थः ।

वाक्यार्थमञ्जरी

ब्रह्मन् ब्रह्मणि ॥ आनन्त्यायेति ॥ कदापि नाशरहितमोक्षाय समर्थो भवतीत्यर्थः ॥ सफलमिति ॥ आनन्त्यावाप्तिश्च न युज्यत इति भाष्ये उक्तत्वादिति भावः ॥ अत्रेति ॥ न हि सादिविनाशिन एतद्द्वयं युक्तमिति भावः । प्रतिबिम्बस्यैवेति ॥ ब्रह्मप्रतिबिम्बभूतस्येत्यर्थः ॥ न हीति ॥ प्रतिमुखादेरनित्यत्वस्यैव दर्शनादिति भावः ॥ ॐ यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॐ । जीवस्य तदुपाधेश्च यावदात्मभावित्वादात्मा परमात्मा यावत्कालं तिष्ठति तावत्काल सत्त्वान्न दोषो ऽनादिकर्मनिबन्धानंत्यावाप्त्यनुपपत्तिरूपदोषो नास्ति कुतस् तद्दर्शनात् तस्य यावदात्मभावित्वस्य नित्यः पर इति श्रुतावुक्तेश् चशब्दात्स्मृतेरित्यर्थः । नाशत्रयाभावमुप-पादयति ॥ बिम्बस्येत्यादिना ॥ आत्मा नित्यो जीवो नित्य इति पादद्वयस्य भिन्नस्थानगतत्वान्न पुनरुक्तिरिति भावेनाह ॥ स्मृतिद्वयवचनाच्चेति ॥ भाष्योदाहृतश्रुतिस्मृतिभ्यां जीवस्वरूपस्य नित्यत्वं बाह्यदेहस्यानित्यत्वमित्येवोच्यते न तु स्वरूपस्यैव प्रतिबिम्बघटकत्वं न बाह्योपाधे-रित्युक्तम् । तथा च कथं ताभ्यामुक्ताखिलार्थप्रतिपत्तिरित्यतः स्वयमुक्ताशेषार्थप्रतिपादकं प्रमाणान्तरमाह ॥ उक्तं चैतदिति ॥ अन्यत्र चतुर्थतात्पर्ये कुतोऽन्यस्य स्थितिरित्यत आह ॥ सर्वेति ॥ भवेद् विद्येत मास्तु प्रतिबिम्बावस्थानमित्यत आह ॥ कथं चेति ॥ उपाधेश्चेति ॥ प्रथमतात्पर्यम् ।

॥ इति यावदधिकरणम् ॥