१४ पृथगुपदेशाधिकरणम्

ॐ पृथगुपदेशात् ॐ

१४. अथ पृथगुपदेशाधिकरणम्

सूत्रभाष्यम्

‘तत्त्वमसि, (छां.उ.६-८-७) ‘अहं ब्रह्मास्मि’ (बृ.उ.६-४-१०) इत्यादिषु जीवस्य परेणाभेदः प्रतीयते । ‘नित्यो नित्यानां चेतनश्चेतनानाम्’ (श्वे.उ.६-१३) ‘द्वा सुपर्णा’ (श्वे.उ.४-६) इत्यादिषु भेदः । अत उच्यते –

॥ ॐ पृथगुपदेशात् ॐ ॥ २८ ॥

‘भिन्नोऽचिन्त्यः परमो जीवसङ्घात्पूर्णः परो जीवसङ्घो ह्यपूर्णः ।

यतस्त्वसौ नित्यमुक्तो ह्ययं च बन्धान्मोक्षं तत एवाभिवाञ्छेत्’ ॥

इति सोपपत्तिककौशिकश्रुतेर्भिन्न एव जीवः ।

तत्त्वप्रदीपिका

अथेदमालोच्यते– किमयं जीवः परेणाभिन्नः किं वा भिन्न इति । केषाञ्चिन्मन्दमतीनां ‘स आत्मा तत्त्वमसि’ ‘अहं ब्रह्मास्मि’ इत्यादि श्रुतियाथातथ्यापरिज्ञानादभिन्नः प्रतीयते ‘द्वा सुपर्णा’ इत्यादीनां व्यावहारिकभेदानुवादित्वमाचक्षाणानाम् । अत्राभिधत्ते पृथगुपदेशात् । अचिन्त्यः स्वरूपतः शक्तितश्च । परमो निर्दोषत्वेन । पूर्णो गुणैः । प्रमेयत्वाप्रमेयत्वे सर्वशक्तित्वाल्पशक्तित्वे परत्वावरत्वे पूर्णत्वापूर्णत्वे नित्यमुक्तत्वबद्धत्वे स्वातन्त्र्यपारतन्त्र्ये जीवानामन्योन्यभेदश्चेत्युपपत्तयः श्रुत्युपदर्शिताः । तत्प्रसादादेव मोक्षवचनान्मोक्षेऽपि पारतन्त्र्यमवसीयते । अन्यथा मोक्षमेव न प्रदद्यात् । न हि स्वतन्त्र ईश्वरः स्वतन्त्रान्तरमापादयितुमीहते । तत्सद्भावे स्वातन्त्र्यस्यैवापाय-प्रसङ्गात्प्रातिकूल्यानुकूल्ययोः । न हि सर्वस्वातन्त्र्यमपहातुमिच्छा कस्यचिद्भवति । अतो मुक्तावपि परतन्त्रत्वाद्भिन्न एव जीवः परमेश्वरात्सर्वदेत्यभिप्रायः । यदि चायं ‘अहं ब्रह्मास्मि’ इत्यादिरभेदोपदेशः किमयमहं शब्दोऽनात्मविषयः, किं वेतरेतराध्यासवद्विषयः, आहोस्विच् चैतन्यमात्रविषयः । न तावदादिमः । अनात्मनो ब्रह्मतोपदेशस्य निष्फलत्वात् । ब्रह्मणोऽ-नात्मत्वप्रसङ्गाच्च । न च स्थाणुः पुरुष इतिवन्निषेधाभिप्रायेणेयमुक्तिरिति वाच्यम् । तथा व्यपदेशादृष्टेः । नापि मध्यमः । उक्तदोषादेव । इदमनिदं रूपवस्त्वात्मकेऽहम्प्रत्ययगोचर इदं रूपं निरस्यानिदंरूपैक्यं विधीयते इति चेन्मैवम् । जहदजहल्लक्षणाया निरस्तत्वात् । न चान्तिमः । सिद्धसाधनत्वात् ।

तत्त्वप्रकाशिका

अत्र ब्रह्मणि श्रुतिसमन्वयसिद्ध्यर्थं जीवस्य परमात्माभिन्नत्वादिविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । जगत्कारणे ब्रह्मणि श्रुतीनां समन्वयो निरूपितः । स चाद्वैतश्रुत्या भेदश्रुतेर्विरोधेऽनुपपन्नः स्यादित्यवश्यमसौ निरसनीयः । प्रकृतजीव एवात्र विषयः । किं परब्रह्मणा भिन्न उताभिन्न इति संशयः । संशयबीजं श्रुतिविवादं दर्शयति ॥ तत्त्वमसीति ॥ परमात्माभिन्न एव जीव इति पूर्वः पक्षः । ‘तत्त्वमसि’ इत्यादिश्रुतेः । न च विपर्ययेऽप्यस्ति श्रुतिरिति वाच्यम् । औतश्रुतेः षडि्वधतात्पर्यलिङ्गयुक्ताया बलवत्त्वात् । ‘एकमेवाद्वितीयम्’ इत्युपक्रमात् । तत्त्वमसि इत्युपसंहारात् । ‘तत्त्वमसि’ ‘तत्त्वमसि’ इति नवकृत्वोऽभ्यासात् । औतस्य प्रमाणान्तरा-प्राप्तत्वेनापूर्वत्वात् । ‘तस्य तावदेव चिरम्’ इति फलश्रवणात् । ‘येनाऽश्रुतं श्रुतं भवति’ इत्याद्यर्थ-वादात् । मृत्पिण्डादिदृष्टान्तेनोपपादनात् । एवं श्रुतेरद्वैत एव तात्पर्यावगमात् । तद्विरुद्धभेदश्रुतेर-तत्त्वावेदकत्वमेवेति न परमात्मनि परमार्थतः श्रुतिसमन्वयो युक्त इति प्राप्ते सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ पृथगेव जीवः परमात्मनः ‘भिन्नोऽचिन्त्यः’ इति श्रुतेः । न चास्ति विपर्ययेऽपि श्रुतिरिति वाच्यम् । विरुद्धधर्माधिकरणत्वयुक्तियुक्तत्वेन भेदश्रुतेः प्राबल्यादिति भावः ।

भावबोधः

अनन्तरसङ्गतिं सूचयन् विषयमाह– प्रकृत इति ॥ योगाराधितेश्वराचिन्त्यशक्त्या यत्र बहुरूपत्वशक्तिमत्त्वेन प्रकृत इत्यर्थः । तथा च न पूर्वाधिकरणोक्तं जीवशक्तेरीशायत्तत्वं युक्तम् । तयोरभेदादिति पूर्वाक्षेपेण पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भावः । यद्वा सुधोक्तरीत्या ‘अथातो ब्रह्मजिज्ञासा’ इत्यादिभिः ‘व्यतिरेको गन्धवत्’ इत्यन्तैः प्रतिपादितो भेद अभ्यधिकाशङ्कया आक्षिप्य विशेषयुक्तिभिः सर्वशङ्कोद्धारेण समर्थ्यत इत्यनन्तरसङ्गतिरिति ज्ञातव्यम् ॥ किमिति ॥ अत्र जीवः परमात्मना न भिद्यते उत भिद्यत इति चिन्ता । तदर्थं भेदश्रुतिरभेदश्रुतिबाधिता उताभेदश्रुतिर्भेदश्रुतिबाधितेति । तदर्थमभेदश्रुतिरद्वैते षड्विधतात्पर्यलिङ्गोपेतत्वेन प्रबलोत भेदश्रुति-र्विरुद्धधर्माधिकरणत्वादियुक्त्युपेतत्वेन प्रबलेति । तदर्थं भेदश्रुतेः प्राबल्याङ्गीकारेऽभेदश्रुतेरप्रामाण्यं प्राप्नोत्युत सादृश्याभेदप्रतिपादकत्वेन सावकाशतया न प्राप्नोतीति । तदर्थं तत्र प्रमाणं नास्त्युता-स्तीति । तत्त्वमसीत्यादिश्रुतेरित्यनेन जीवेश्वरैक्यमिति न्यायविवरणांशोऽपि व्याख्यातः ॥ विरुद्धेति ॥ देशकालादिव्यवस्थापकाभावे सतीत्यपि विशेषणीयम् । अभेदस्य सर्वाभिमतमान-विरोधं वदतानेन सर्वमानविरोधादिति न्यायविवरणमप्युक्ततात्पर्यकं भवति ।

भावदीपः

प्रकृत इति ॥ ज्ञोऽत इत्यत इत्यर्थः । भाष्ये इत्यादिषु इति बहुवचनप्रयोगेऽपि श्रुत्या जीवेश्वरैक्यमित्यन्यत्रोक्त्यनुरोधेनाभेदप्राप्तौ श्रुतित्वमेव प्रयोजकं न तु बहुत्वमपीत्युपेत्य भाष्योक्त-श्रुतिमाह ॥ तत्वमसीत्यादिश्रुतेरिति ॥ परमते प्रसिद्धत्वेन न्यायविवरणेऽनुक्तान्यपि श्रुतिप्राबल्याय स्वयमाह ॥ षड्विधेति ॥ यद्वा श्रुतिभिश्चानुमाबलादित्यनुभाष्येऽनुमापदेन तात्पर्यलिङ्गान्यभि-प्रेतानीति मत्वा षड्विधेत्युक्तिः श्रुतिभिरित्यादिबहुवचनं तु द्वैतश्रुतेर्बहुत्वेन प्राबल्यमिति शङ्कायामद्वैतश्रुतेरपि तदस्तीति सूचयितुमिति भावः ॥ अप्राप्तत्वेनेति ॥ ‘देहेन्द्रियप्राणबुद्धिनेतृत्वं मन्यतेऽत्मन’ इत्यत्र तत्त्वनिर्णयटीकायां तल्लक्षणाभिमान एव तदैक्याभिमान इत्युक्तावपि स्पष्टं ब्रह्मतादात्म्याप्रतीतेरेवमुक्तम् । यद्वा पराभिमानेनैवमुक्तिरित्यविरोधः ॥ तस्येति ॥ ‘यावन्न विमोक्ष्येऽथ सम्पत्स्यत’ इति वाक्यशेषे तस्य ज्ञानिनस्तावानेव विलम्बः । ‘यावत्प्रारब्धमोचनम्’ इत्युक्त्वा ‘अथ प्रारब्धमोक्षानन्तरमेव सम्पत्स्यत’ इति ब्रह्मप्राप्तिरूपफलश्रवणादित्यर्थः ॥ येनेति ॥ ‘येनाश्रुतं श्रुतं भवत्यमतं मतम्’ इति वाक्ये येन ब्रह्मणा श्रुतेन मतेन विज्ञाते-नान्यदप्यश्रुतममतमविज्ञातमपि जगत् श्रुतं मतं विज्ञातं भवतीत्यद्वैतबुध्द्या ब्रह्मज्ञानस्य स्तवनादित्यर्थः । उपपत्तिं चाह ॥ मृत्पिण्डेति ॥ ‘यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात्’ इति वाक्ये ब्रह्मज्ञानेनान्यज्ञानं कथमिति शङ्कायां यथा मृत्पिण्डज्ञानेन मृण्मयज्ञानं भवति तयोरभेदात् । एवं ब्रह्मजगतोरभेदाद् ब्रह्मज्ञानेनान्यज्ञानं युक्तमित्युपपादनादुपपत्तिमत्त्वादित्यर्थः । नन्वतत्वावेदकत्वेऽपि तादृक् श्रुतिसमन्वयः सिध्यत्येवेत्यत आह ॥ परमार्थत इति ॥ तादृश एव प्रागुक्त इति भावः । भिन्न एवेत्यस्य व्याख्येयं सौत्रपदं दर्शयन्भाष्यं व्याचष्टे ॥ पृथगेवेति ॥ सूत्रे अनुवृत्तज्ञपदस्यार्थो जीव इति । स्वात्मपदानुवृत्तिं मत्त्वाऽऽह ॥ परमात्मन इति ॥ सोपपत्ति-केत्युक्तेरुपयोगं वक्ति ॥ न चेति ॥ उपपत्तेरेकत्वेऽपि निरवकाशत्वात्परकीयोपक्रमादेर्बहुत्वेऽपि सावकाशत्वाद्भेदश्रुतिरेव प्रबलेति । अत्रापि मानबाहुल्यस्याग्रे व्यक्तत्वाच्चेति भावः ।

अभिनवचन्द्रिका

तत्त्वमसीत्यादिश्रुतेरिति ॥ ननु अनेन वाक्येन श्वेतकेतोरेव ब्रह्माऽभेदः सिध्येन् न सर्वजीवानां ‘त्वमसी’ त्यभिधानात् । न च तावता जीवब्रह्माऽभेदः सिद्ध्यति । श्वेतकेतो रामकृष्णादिवद् ब्रह्मावतारत्वेनाप्युपपत्तेः । न च श्वेतकेतुमुपलक्षणीकृत्य सर्वजीवानामभेदो बोध्यत इति वाच्यम् । ज्ञापकाभावात् । अन्यथा –

तस्मान्नन्दाऽऽत्मनोऽयं ते नारायणसमो गुणैः ।

श्रिया कीर्त्याऽनुभावेन गोपायस्व समाहितः ॥

इति वाक्यं नन्दपुत्रमुपलक्षणीकृत्य सर्वपुत्राणां गुणैर्नारायणसमत्वं वक्तीति स्यात् । अत एव – अस्य वाक्यस्य प्राबल्योपपादनाय षड्विधतात्पर्यलिङ्गव्युत्पादनमप्युक्तम् । अनेन वाक्येन जीवैक्यप्राप्तौ तात्पर्याभावशङ्कायामेवाऽस्य वक्तव्यत्वादिति चेत्, सत्यम् । अनेन वाक्येन न सर्वजीवानां ब्रह्माभेदः सिद्ध्यतीति, तथापि श्वेतकेतोर्ब्रह्माऽभेदसिध्द्या जीवब्रह्माभेदस्तु सिध्यत्येव । श्वेतकेतोर्जीवत्वात् । न च श्वेतकेतो रामकृष्णादिवद्भगवदंशत्वं शक्यते वक्तुम् । ‘न वै सोम्याऽस्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवति, इत्यादिवाक्यपर्यालोचनया तस्य जीवत्वावगमात् । सिद्वे च जीवस्यापि श्वेतकेतोर्ब्रह्माभेदेऽविशेषात् सर्वजीवानामपि तत्सिध्येत् । एवं च जीवाभेदसिद्धये तत्त्वमस्यादिवाक्योदाहरणं, तत्प्राबल्यसिद्धये उपक्रमाद्यानुगुण्यव्युत्पादनमपि नाऽयुक्तमिति । षङ्विधतात्पर्यलिङ्गयुक्ताया इति ॥ अत्रोपपत्तियुक्ताया इत्यपि ग्राह्यम् । उपक्रमादिवद् उत्तरत्रोपपत्तेरप्युपपादनात् ॥ उपक्रमादिति ॥ ‘तात्पर्यलिङ्गोपेता चेयमद्वैतश्रुतिषः’ इत्यध्याहृतसाध्येन सर्वेषां पञ्चम्यन्तानां सम्बन्धः ॥ विरुद्धधर्माधिकरणत्वेति ॥ अत्र धर्माणां विरुद्धत्वं भावाभावरूपत्वं न तु सहानवस्थितत्वमिति बोध्यम् । एतेन – जीवब्रह्मणोर्भेदसिद्धौ धर्मयोः सहानवस्थितत्वरूपविरोधसिद्धिः । तत्सिद्धौ च तत्सिद्धिरित्यन्योन्याश्रय इति परास्तम् । संयोगतदभावाधिकरणस्यापि वृक्षस्य भेदाभावात् कथं तेन भेदसिद्धिरिति चेत्, न तत्रापि अवच्छेदकभेदसद्भावात् । तथापि धर्मिभेदे किमायातमिति चेत्, उच्यते । विरुद्धधर्माधिकरणत्वं भेदेन विना अनुपपद्यमानमुत्सर्गतो धर्मिभेदं गमयति । तस्यानुपपत्तौ कालभेदम्, तस्याप्यनुपपत्तौ अवच्छेदकभेदम् । तस्याप्यनुपपत्तौ सम्बन्धभेदं गमयति । प्रकृते च बाधकाभावाद् धर्मिभेद एव सिध्येत् ।

वाक्यार्थमुक्तावली

न जीवशक्तेरीशायत्तत्वं तयोरभेदादिति पूर्वपक्षोत्थानादनन्तरसङ्गतिः ॥ किमिति ॥ अत्र जीवः परमात्मनाऽभिन्न उत भिन्न इति चिन्ता । तदर्थमभेदश्रुतिरद्वैते षड्विधतात्पर्यलिङ्गोपेतत्वेन प्रबला, उत भेदश्रुतिविरुद्धधर्माधिकरणत्वादियुक्त्युपेतत्वेन प्रबलेति । तदर्थं भेदश्रुतिप्राबल्याङ्गीकारे भेदश्रुतेरप्रामाण्यमुत सादृश्याभेदप्रतिपादकत्वेन सावकाशतेति । श्रुतिरित्युक्तपूर्वपक्षन्यायमाह ॥ तत्वमसीति ॥ ननु ‘अथातो ब्रह्मजिज्ञास’ इत्यादि व्यतिरेको गन्धवत्’ इत्यन्तैः सूत्रैर्जीव-परमात्मभेदस्य श्रुत्यादिप्रमाणबलेनोपपादितत्वात्तत्वमस्यादि श्रुतिशतेनापि नाभेदप्रतिपत्ति-रुत्पत्तुमलम् । किन्तु गौणार्था एव श्रुतय इति निश्चयो भवेदतः प्रापकाभावान्नेदमधिकरण-मारम्भणीयमित्याशङ्क्य परिहरति न चेति ॥ कुतो न वाच्यमित्यतोऽभ्यधिकाशंकामाह औत-श्रुतेरित्यादिना ॥ तस्य तावदेवेति ॥ ‘तस्य तावदेव चिरं यावन्न विमोक्षेऽत इत्यद्वैतज्ञानिनो यावच्छरीरादारब्धकर्मणा वा न विमोक्ष्येत तावदेव विलम्बो मोक्षाय’ इति वेदोद्देश्यफलस्याद्वैत-ज्ञानात् साध्यताश्रवणादित्यर्थः । येनाश्रुतमिति वचनस्य येन ब्रह्मणाश्रुतं जगच्छ्रुतं भवतीत्यर्थः । तत्कथमत्राद्वैतं श्रूयत इति चेन्न । ऐक्यमहिम्ना श्रुतस्य श्रवणोक्त्या औतस्तुतिपर्यवसानात् ॥ तद्विरुद्धेति ॥ प्रबलाभेदश्रुतिविरुद्धायाः प्राचीनसूत्रनिचयोपात्ताया मिथ्याभूतभेदप्रतिपादकत्वेन अतत्वावेदकत्वमेवेत्यर्थः । न च ‘अस्मिन्नस्य तद्योगं शास्ति’ इति मुक्तावपि भेदोक्तिर्बाधिका । तस्यावान्तरमुक्तिविषयत्वोपपत्तेरिति भावः । सूत्रे ज्ञः स्वात्मेत्यनुवृत्तिं मत्वा प्रवृत्तभाष्यार्थमाह ॥ पृथगेवेति ॥ सोपपत्तिकेत्यंशव्यावर्त्यमाह न चास्तीति । जीवानुवादेन ब्रह्माभेदपरस्य ‘तत्वमसि’ अहं ब्रह्मास्मि’ इत्यादिवाक्यस्य सत्प्रतिपक्षतया भिन्न एव जीवः परमात्मनेति भाष्ये उक्तत्वेऽपि ब्रह्मानुवादेन जीवाभेदपरस्य भाष्ये इत्यादिष्वित्यादिशब्दोपात्तस्य ‘तद्योऽहं सोऽसौ योऽसौ सोऽहमित्यादिवाक्यस्य सत्प्रतिपक्षतया, ‘भिन्नोऽचिन्त्यः परमो जीवसङ्घा’दिति श्रुत्यनु-सारेण ज्ञान् प्रति स्वात्मा पृथगिति च प्रतिज्ञा द्रष्टव्या । अत एवानुव्याख्याने, एवं स्थितेऽपि जीवैक्यं केचिदाहुः परात्मना । तद्योऽहमिति पूर्वाभिः श्रुतिभिश्चानुमाबलात् । न तद्युक्तं यतो विष्णुः पृथगेवाभिधीयते । इत्युक्तं ज्ञेयम् ।

तत्त्वसुबोधिनी

अनन्तरसङ्गतिरिति सूचयन् विषयमाह ॥ प्रकृत इति ॥ योगसाधितेश्वरायत्त बहुरूपत्व-शक्तिमत्वेन प्रकृत इत्यर्थः । तथा च न पूर्वाधिकरणोक्तं जीवशक्तेरीशायत्तत्वं युक्तम् । तयोरभेदाद् इति पूर्वाक्षेपेण पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भावः ॥ विपर्ययेऽपीति ॥ भेदेऽपीत्यर्थः । कानि तात्पर्यलिङ्गानीत्यतस्तान्याह ॥ एकमेवेत्यादिना ॥

वाक्यार्थविवरणम्

उपक्रमादीनामुपपत्तिविशेषत्वमभिप्रेत्य षड्विधेत्युक्तम् । कुरुपाण्डवन्यायेन सामान्यविशेष-भावमभिप्रेत्य मृत्पिण्डादीत्यनेनोपपत्तिरुक्तेति ज्ञातव्यम् । भाष्ये ‘नित्यो नित्यानाम्’ इत्यादौ अतिशयितनित्यत्वातिशयितचेतनत्वोक्त्या भेदः प्राप्त इति ध्येयम् ।

वाक्यार्थमञ्जरी

षड्विधेति ॥ उपपत्तिविशेषाणां षड्विधत्वादियमुक्तिर् अत एव मृत्पिण्डादि दृष्टान्तैरुप-पादनादित्यनेनोपपत्तिकथनं नानुपपन्नम् ॥ तस्य तावदेवेति ॥ तस्यापरोक्षज्ञानिनो मोक्षे तावानेव विलम्बः यावत्प्रारब्धान्न विमोक्षेत अथ प्रारब्धक्षयानन्तरमेव ब्रह्म सम्पद्यत इत्यर्थः । येन ब्रह्मणा श्रुतेन ॥ मृत्पिण्डादीति ॥ ‘यथा सौम्यैकेन मृत्पिण्डेन’ इत्यादिनेति शेषः । यथा घटादीनां मृदात्मकत्वेन तज्ज्ञाने ज्ञातमेवं सर्वजगतो ब्रह्मात्मकत्वेन तज्ज्ञाने तज्ज्ञानमिति पराभिमतोऽर्थः । अतत्त्वावेदकत्वं मिथ्यावेदनपरत्वम् ॥ ॐ पृथगुपदेशात् ॐ ॥ जीवो ब्रह्मणः सकाशात् पृथक् भिन्न एव कुत उपदेशाद् भिन्नो जीव इति श्रुतेरित्यर्थः ।