१२ उत्क्रान्त्यधिकरणम्

ॐ उत्क्रान्तिगत्यागतीनाम् ॐ

१२. अथ उत्क्रान्त्यधिकरणम्

सूत्रभाष्यम्

‘व्याप्ता ह्यात्मानश्चेतना निर्गुणाश्च सर्वात्मनः सर्वरूपा अनन्ता’ इति काषायणश्रुतौ व्याप्तत्वं प्रतीयते । ‘अणुर्ह्येष आत्मा यं वा एते सिनीतः । पुण्यं च पापं च’ इति गौपवन श्रुतावणुत्वमित्यतो विरोध इति । अतो ब्रवीति–

॥ ॐ उत्क्रान्तिगत्यागतीनाम् ॐ ॥ २० ॥

हेतूनां सकाशादणुरेव । ‘सोऽस्माच्छरीरादुत्क्रम्यामुं लोकमभिगच्छत्यमुष्मादिमं लोकमागच्छति स गर्भीभवति स प्रसूयते स कर्म कुरुत’ इति पौष्यायणश्रुतेः ॥२०॥

तत्त्वप्रदीपिका

शरीरादुत्क्रान्तेः परलोकगमनादिमं लोकं प्रत्यागमनाच्चाणुरेव जीवः ।

तत्त्वप्रकाशिका

अत्र परमेश्वरे श्रुतिसमन्वयसिद्ध्यर्थं जीवपरिमाणविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । श्रुतिसमन्वयः पूर्वं हरावुक्तः । जीवपरिमाणविषये च श्रुतीनां विरोधेनाप्रामाण्ये नासौ युक्तः स्यादिति विरोधो निराकार्य एव । प्रकृतो जीव एव विषयः । किं व्याप्तोऽणुर्वेति संशयः । संशयबीजं श्रुतिविगानं दर्शयति ॥ व्याप्ता हीति ॥ सर्वात्मानः सर्वस्यादानादिकर्तारः । सर्वरूपाः पूर्णाः । यं वा एत इति वाक्यशेषोद्धारो जीवत्वज्ञापनार्थः । व्याप्तत्वमणुत्वं च प्रतीयते जीवस्येति शेषः । जीवो व्याप्त एवेति पूर्वः पक्षः । ‘व्याप्ता ह्यात्मानः’ इति श्रुतेः । न चेयं श्रुतिर्न जीवविषया बहुवचनविरोधात् । न चेश्वररूपबाहुल्यार्था । बाधकं विना श्रुतेर्बाधायोगात् । न चाणुत्वश्रुतिविरोधः । व्याप्तश्रुतेर्युक्तियुक्ताया बलवत्वात् । तथा हि न तावदणुरात्मा । सर्वदेह-गतस्पर्शज्ञानात् । रूपादीनां तत्तदिन्द्रियैर्ज्ञानात् । न चेदं ज्ञानमणावात्मनि सम्भवति । न हि कश्चिदप्राप्तकरणेन क्रियां निर्वर्तयति । न चात्मा देहपरिमाणः । उक्तदोषत्वात्तत्पक्षस्य । शरीर-परिमाणत्वे चात्मनः शरीरवत्सांशत्वं स्यात् । मध्यमपरिमाणस्य तन्नियमात् । तेषां चांशानां प्रत्येकं चेतनत्वेन विरुद्धादिक्रियं शरीरमुन्मथ्येताक्रियं वापद्येत । न हि युगपदनेकेषामैकमत्यं सम्भवति । न च समुदायो नाम कश्चिद्धर्मी भवति । न चांशारब्धोंऽशी स्वीकर्तुं शक्यते । अनित्यत्वप्रसङ्गात् । अतः परिशेषादात्मनो व्याप्तत्वमेव सिध्यति । तथा च प्रयोगः । सर्वमिदं मूर्तमात्मनास्पृष्टं मूर्तत्वाच्छरीरवदिति । सयुक्तिकव्याप्तिश्रुतिविरोधादणुश्रुतेरेवाप्रामाण्यम् । तथा च न प्रागुक्त-समन्वयसिद्धिरित्येवं प्राप्ते सिद्धान्तयत्सूत्रमवतार्य तच्छेषमेव पूरयति ॥ अत इति ॥ जीवोऽणुरेव न व्याप्तः । उत्क्रान्तिगत्यागतिमत्त्वात् पतत्रिशरीरवत् । न हि व्याप्तद्रव्यस्य व्योमादेरुत्क्रान्त्या-द्यस्ति । अतो निराकृतमध्यमपरिमाणस्यात्मनो व्याप्त्यनुपपत्तावणुत्वमेव सिध्यतीति भावः । सतीष्वात्मन उत्क्रान्तिगत्यागतिषु भवेद्विभुत्वाभावस्ता एव कुत इत्यत आह ॥ स इति ॥

गुर्वर्थदीपिका

उक्तदोषत्वादित्यस्य जैनमतनिराकरणाधिकरणे उक्तदोषत्वादित्यर्थः । विरुद्धादिक्रियमित्यत्र भोगे वैचित्र्यायांशभेदाङ्गीकारे पादस्थितांशेन कण्टकवेधाद्दुःखानुभवे करस्थितांशेन मोक्षक्षणा-त्सुखमनुभूयत इत्युक्तं स्यात् । तथा च वैषम्यमपरिहार्यम् । एवमन्यांशानामपि विषमाणां नैकप्रकारा क्रिया । अतस्त्रिभिरारूढशकटवद्विरुद्धदिक्षु क्रिययाऽप्यस्य तच्छरीरमुन्मथ्येतेत्यर्थः । शरीरान्तरेव क्रियायां सर्वथा क्रियाभावे चेतस्ततश्चलनासम्भवेनाक्रियमेव स्यादित्यर्थः ।

भावबोधः

अनन्तरसङ्गतिं सूचयन् विषयमाह– प्रकृतो जीव इति । धर्मेषूत्पत्तेः प्राथम्याज्जीवस्य तद्विचारानन्तरं तत्परिमाणविचारादनन्तरसङ्गतिरिति भावः ॥ किमिति ॥ अत्र जीवः किं व्याप्त उताणुरिति चिन्ता । तदर्थं जीवाणुत्वसाधिका‘अणुर्ह्येष आत्मा’ इति श्रुतिरुत्क्रान्त्यादियुक्तिश्च ‘व्याप्ता ह्यात्मान’ इति श्रुत्या तत्र तत्र परिज्ञानलक्षणयुक्त्या च बाधिते उत अबाधिते इति । तदर्थं व्याप्तत्वसाधकश्रुतियुक्त्योः किं निरवकाशत्वमुत श्रुतेरीश्वरविषयत्वेन युक्तेश्चांशचिद्गुण-व्याप्त्याऽन्यथासिद्धत्वेन सावकाशत्वम् । तदर्थं श्रुतेरीश्वरविषयत्वज्ञापकं प्रकरणश्रुत्यादिकं युक्तेश्चान्यथासिद्धत्वे अन्यत्रांशचिद्गुणव्याप्त्या सार्वत्रिककार्यकारणत्वे दर्शनरूपं ज्ञापकं नास्त्युता-स्तीति । आत्मन इत्यनेन पुनरुक्तिं सर्वाभेदप्रतीतिं च निवारयितुमाह– सर्वस्येति ॥ सर्वस्वरूपत्वप्रतीतिमपाकर्तुमाह– सर्वरूपाः पूर्णा इति ॥ ‘सर्वः पूर्णगुणत्वतः’ इत्युक्तेरिति भावः । न तावदणुरात्मेत्यनेन जीवस्यानणुत्वमिति न्यायविवरणांशो व्याख्यातः । सर्वदेहगस्य स्पर्शज्ञानाद्रसादीनां तत्र तत्र परिज्ञानादिति न्यायविवरणोक्तयुक्तिमाह– सर्वदेहेति ॥ उक्तदोष-त्वादिति ॥ ‘एवं चात्माकार्त्स्न्यम्’ इत्यत्रेत्यर्थः । अणुत्वस्योत्क्रान्त्यादिहेतूनां साध्यसाधनभावे पतत्रिशरीरे व्यभिचारः स्यादित्यतो भाष्ये अणुरेवेत्येवकारप्रयोगसूचितमुत्क्रान्तिगत्यागति-मत्त्वादित्यनेनोत्क्रान्तिगत्यादेरिति न्यायविवरणं व्याख्यातं भवति ।

ननु जीवस्य व्याप्तत्वाभावसाधनस्य मध्यमपरिमाणवत्त्वेनाऽपि उपपत्त्याऽर्थान्तरता स्यादित्यत आह– अत इति ॥ अनेन, जीवोऽणुर्मध्यमपरिमाणानधिकरणत्वे सति व्याप्त्यनधिकरणद्रव्यत्वात्; परमाणुवत्; व्यतिरेकेण घटवदिति प्रयोगो दर्शितः । अनेनाणुरेवेति भाष्यं फलितप्रदर्शनपरमित्युक्तं भवति ।

भावदीपः

जीवपरिमाणेति ॥ एतेन जीवे धर्मिव्युत्पत्त्यनुत्पत्तिचिन्तानन्तरं परिमाणरूपतद्धर्मचिन्ताऽत्रेति पूर्वसङ्गतिरपि सूचिता ॥ नासौ युक्त इति ॥ अभ्युपगतार्थद्वये अन्यतरार्थे अप्रामाण्य-प्राप्तावन्यार्थेऽप्यनाश्वासप्रसङ्गादिति वियन्नयोक्तरीत्येति भावः । व्याप्ता ह्यात्मान इत्येतावति वाच्ये शेषोक्तिः सिद्धान्तानुगुण्याय ब्रह्मलिङ्गानि सूचयितुमिति भावेन अपुनरुक्त्यै अर्थमाह ॥ सर्वात्मना इति ॥ भाष्येऽणुत्वमित्यस्य पूर्वक्रियापदेनान्वयं शेषं चाह ॥ व्याप्तत्वमिति ॥ भाष्यसूचितां युक्तिमाह ॥ बहुवचनेति ॥ एकमेवाद्वितीयमिति स्वगतभेदहीने हरौ बहुत्ववाचिबहुवचना-योगादित्यर्थः ।

ननु ‘गुहां प्रविष्टावात्मनौ’ इत्यत्रोक्तन्यायेन न सङ्ख्योपसङ्ग्रहादपि नानाभावादित्यत्रोक्तन्यायेन वा ‘ऋतं पिबन्तौ’ ‘यस्मिन्पञ्च पञ्चजना’ इत्यादौ द्विवचनबहुवचनयोरिवेदमपि बहुवचनं युक्तमिति शङ्कते ॥ न चेश्वरेति ॥ बाधकं विनेति ॥ बहुत्वादिसङ्ख्या स्वाश्रयगतभेदव्याप्तेत्य-स्यौत्सर्गिकत्वेन तत्र ब्रह्मश्रुतिगुहास्थत्वप्राणप्राणदत्वादिलिङ्गादिना बाधकेन तथात्वेऽपि इह तादृशबाधकाभावादित्यर्थः । नामानि सर्वाणि’ इत्यादीनि तु सामान्यानि न त्वसाधारणानि । स आत्मेदं सृजति’ इति विष्णुप्रकरणं तु न बहुवचनश्रुतिबाधायालमिति भावः । पृथिव्यधिकारेत्यत्र प्रकरणेनान्नश्रुतिबाधस्तु निरवकाशरूपादिसाहित्यात् । स्वशब्दोन्मानत्वे चात्र व्याप्ते जीवेऽपि कथंचिद्युक्ते इति भावः । न च ‘गौणश्चेन्नात्मशब्दात्’ ‘साधारणशब्दविशेषात्’ स्वशब्दा-दित्युक्तदिशा विष्ण्वेकनिष्ठात्मपदप्रातिपदिकस्वारस्यानुरोधेन प्रत्ययबाधो युक्त इति शङ्क्यम् । असदिति चेद् एतेन शिष्टेत्यादौ भाष्योक्तदिशाऽन्यवाचकस्यापि सत्त्वेन तत्परिग्रहे प्रत्ययस्वारस्य-स्यापि भावादिति तात्पर्यात् । अत एवोक्तं श्रुतेर्बाधायोगादिति ॥ अन्यत्रोक्तयुक्तिमत्र योजयितुं व्यावर्त्यशङ्कामाह ॥ न चेति ॥ विरोध इति ॥ बाधक इत्यनुषङ्गः । तथा च बाधकाभावोऽसिद्ध इति भावः । सर्वदेहस्पर्शज्ञानाद्रसादीनां तत्र तत्र परिज्ञानाज् जीवस्यानणुत्वमिति न्यायविवरणे जीवस्य व्याप्तत्वमिति वाच्येऽनणुत्वमित्युक्तेर्भावं वदन् युक्तिं व्यनक्ति ॥ तथा हि न तावदित्यादिना ॥ सर्वेति ॥ कमनीयतनयालिङ्गनेन सर्वाङ्गीणसुखानुभवस्य विश्वजनीनत्वादस्ति सर्वदेहगतस्पर्शज्ञानमिति भावः ॥ रूपादीनां चेति ॥ शष्कुलीं भक्षयतो रूपरसगन्धस्पर्शशब्दानां युगपदेव चक्षुरादिभिरिन्द्रियैर्ज्ञानस्यानुभवसिद्धत्वादित्यर्थः । न चेत्युक्तं व्यनक्ति ॥ न हीति ॥ चक्षुरादिकरणैरात्मनो युगपत्प्राप्तिश्चाणुत्वे न युक्तेति भावः । ननूक्तयुक्तेरणुत्वाभावसाधक-त्वेऽप्यात्मनो मध्यमपरिमाणत्वेनाप्युपपत्त्या श्रुत्युक्तव्याप्तत्वासाधकत्वेन न श्रुतिप्राबल्यापादकत्वं युक्तेरित्यतः परिशेषसहकृतायास्तत्साधकत्वमिति भावेनाह ॥ न चात्मेति ॥ उक्तेति ॥ एवं चात्माकार्त्स्न्यं न च पर्यायादप्यविरोधो विकारादिभ्य इति समयपादोक्तदोषत्वादित्यर्थः । स्वयं दोषान्तरमाह ॥ शरीरपरिमाणत्वे चेति ॥ शरीरवदिति ॥ यथा शरीरं परस्परं भिन्नैरात्मना प्रत्येकं भिन्नाभिन्नैः कृत्स्नैश्चाभिन्नैरंशैरुपेतं तथाऽत्मापि तादृशैरंशैरुपेतः स्यादित्यर्थः ॥ तन्नियमादिति ॥ घटादौ दर्शनादिति भावः । एतत्प्रपञ्चनं च सिद्धान्तेऽप्यविरोधश्चन्दन-वदित्यात्मनोऽभिप्रेतं सांशत्वमात्मना परस्परं च सविशेषाभिन्नैरंशैरुपेतत्वमिति वैलक्षण्यं द्योत-यितुमित्याहुः । शरीरोन्मथनादिदोषनिरासाय शङ्कते ॥ न च समुदाय इति । यथा नानावृक्षसमुदायो वृक्षेभ्योऽन्यो नास्ति तथेत्यर्थः । तन्तुपटयोरिव स्यादित्यत आह ॥ न चेति ॥ अत इति ॥ अणुत्वमध्यमपरिमाणत्वयोरयोगादित्यर्थः । जीवस्याणुत्वेऽपि इन्द्रियाणां व्याप्तत्वेन रूपादिज्ञानं युक्तमिति तु अणवश्चेति वक्ष्यमाणदिशेन्द्रियाणामप्यणुत्वान्निरस्तप्रायं मत्वाऽऽह ॥ परिशेषादिति ॥ तथा चेति ॥ एवमनुकूलतर्के सतीत्यर्थः । मध्यमपरिमाणत्वेऽप्युपपत्त्याऽ-प्रयोजका हेतव इत्यतः शेषपूर्त्या तात्पर्यतो भाष्यसूत्रयोरर्थमाह ॥ जीवोऽणुरेवेति ॥ ज्ञइत्यापादसमाप्त्यनुवर्तत इति भावः । हेतोरप्रयोजकत्वादिनिराह ॥ न हीति ॥ पूर्वोत्तरदेशे विभागजनकक्रियावत्त्वरूपमुत्क्रमणादिकं सर्वदा सर्वदेशविभागरहिते व्योमादौ न युक्तमित्यर्थः ।

ननु व्याप्तस्यापीश्वरस्य भूमा सम्प्रसादादित्यत्रोत्क्रमणमुक्तम् । यथोक्तं भाष्ये तमुत्क्रामन्तं प्राणोऽनूत्क्रामतीत्यादिना नोत्क्रमणलिङ्गविरोधोऽपीति । तथा ज्योतिर्दर्शनादित्यत्र गत्यागती चोक्ते । स समानः सन्नभौ लोकावनुसंचरतीति ज्योतिः प्रकरणस्थवाक्ये तयोः प्रतीतेः । उक्तं च तत्र भाष्ये । प्राज्ञेनात्मनान्वारूढ उत्सर्जद्यातीति वचनात्तस्यापि लोकसंचरणमस्त्येवेति । न च हृत्स्थरूपापेक्षयोत्क्रांत्यादयो न व्याप्तरूपापेक्षयेति शङ्क्यम् । दहरनये अल्पश्रुतेरिति चेत्तदुक्तमिति सूत्रे ‘एष म आत्मान्तरहृदये ज्यायान्’ इति श्रुत्या हृत्स्थरूपस्यापि व्याप्तत्वस्य तत्र भाष्य एवोक्तेः । तथा च कथं न हि व्याप्तस्य ते युक्ता इत्युक्तिरिति चेद् उच्यते । व्याप्तस्येत्यस्य केवलमपरिच्छिन्नस्येत्यर्थः । अणुत्वासमानाधिकरणदेशापरिच्छेदयुक्तस्येति यावत् । अत एव व्याप्तस्येत्येवानुक्त्वा व्योमादेरित्यप्युक्तम् । हरे रूपं तु न स्थानत इति वक्ष्यमाणन्यायेन ‘तानि ह वा एतानि सर्वाणि पूर्णानि’ इति असन्ततेश्चेत्यादौ वक्ष्यमाणश्रुत्या ‘व्याप्तत्वं देशतोऽप्यस्ति सर्वरूपेषु यद्यपि । न च भेदः क्वचित्तेषामणुमात्रोऽपि विद्यते । तथापि विद्यतेऽणुत्वं यस्मादैश्वर्ययोगतः । तस्माद्बुध्यवतारार्थमव्याप्तत्वं च भण्यते’ । इति तृतीयस्कन्धतात्पर्योक्त्या च सर्वं व्याप्तमपि अक्षरनये अन्यभावव्यावृत्तेरित्यत्रोक्तदिशाऽणुपरिमाणं च भवतीति न दोष इति ।

ननु च महतोऽल्पत्वमपि हि व्योमवत्प्राह वेदविदित्यादिना वैशेषिकनयानुभाष्ये व्योमादाव-प्यणुत्वमहत्त्वयोः समावेशो व्युत्पादित इति चेदेवं तर्हि व्याप्तस्येत्यस्य शक्त्यात्मकतारूप-विशेषशून्यव्याप्तिमत इत्यर्थः । हरे रूपे तु अणुत्वमहत्त्वयोः सदासत्त्वेऽपि यदा महत्त्वस्य शक्त्यात्मकताऽणुत्वस्य व्यक्त्यात्मकता तदैवोत्क्रान्त्यादिक्रियावत्त्वाभिव्यक्तिरन्यदा तु नेत्युत्क्रान्त्यादिमद्भगवतो रूपं शक्त्यात्मकव्याप्तिमदिति न दोष इति भावः । यद्वा भगवद्रूपविशेषे महत्त्वस्य शक्त्यात्मकतादशायां व्याप्तत्वेनाव्यवहारादणुत्वेनैव व्यवहाराद् व्याप्तस्य व्याप्तत्वेनैव प्रसिद्धस्य व्योमादेरित्यर्थः । उक्तं चात्राधिकरणसुधायां सविशेषोऽपि क्रियाशक्त्यात्मना स्थिर इत्याद्यनुभाष्यव्याख्यावसरे व्यक्तिरूपेणैव व्यवहारालम्बनत्वादिति । अत एवोक्तं टीकायां हृद्यपेक्षयेत्यत्र भगवन्मूर्तिविशेषस्य व्यक्त्या तन्मात्रपरिमाणत्वादिति । विवृतमेतदसम्भवस्त्विति सूत्रे तत्वप्रदीपे । प्रपञ्चितं च चन्द्रिकायां भूमादिनये तथाप्युत्क्रान्त्यादेर्मध्यमपरिमाणेऽप्युपपत्त्याऽ-प्रयोजकत्वमित्यतः पूर्ववत्परिशेषसहितस्याणुत्वप्रयोजकत्वमिति भावेनाह ॥ अत इति ॥ उक्तहेतूनां सकाशादित्यर्थः । उपपादितं चोत्क्रांत्यादीनां बुद्धिधर्मत्वादिचोद्यनिरासेन जीवाणुत्ववादे न्यायामृतेऽणुत्वं जीवस्य ।

अभिनवचन्द्रिका

व्याप्तत्वमणुत्वं चेति ॥ श्रुतिद्वयपर्यालोचनया जीवस्य व्याप्तत्वमणुत्वं च प्रतीयत इति हेतोः, भाष्ये – यथायोगं शेषो दृष्टव्य इत्यर्थः । अत्रायं विवेकः । काषायणश्रुतौ ‘प्रतीयत’ इत्यतः परं ‘जीवस्य’ इति शेषः । गौपवनश्रुतौ ‘अणुत्वम्’ इत्यतः परं ‘जीवस्य प्रतीयत’ इति शेष इति ॥ उक्तदोषत्वादिति ॥ पिपीलिकादेहगतस्य गजादिशरीरप्राप्तावपूर्तिः स्यात् । गजादिदेहगतस्यापि पिपीलिकादिशरीरप्राप्तावतिरेकः स्यादित्युक्तदोषत्वादित्यर्थः । दोषान्तरमाह– शरीरपरिमाणत्वे चेति ॥ आपादकस्य आपाद्येन व्याप्तिमाह– मध्यमपरिमाणस्येति ॥ आपाद्यस्यानिष्टत्वमाह– तेषां चांशानामिति ॥ ऐकमत्या न्नायं दोष इत्यत आह– न हि युगपदिति ॥ भवेदयं दोषः यदि जीवो नाम चेतनारब्धद्रव्यं स्यात्, न चैवं किं नाम अचेतनानां समुदाय इत्यभ्युपगम्यत इत्यत आह– न चेति ॥ समुदायत्वे ज्ञानादिधर्मयोगित्वं न स्यादिति भावः ॥ विपर्यये पर्यवसानमाह – न चांशारब्ध इति ॥ कुत इत्यत आह– अनित्यत्वेति ॥ यद्यपि आत्मनः सांशत्वे शरीरमुन्मथ्येत् । अविक्रियं वाऽऽपद्येतेति दूषणमुक्तं तथापि घटांशानामघटत्वेऽपि घटस्य घटत्ववत् समुद्रांशानामसमुद्रत्वेऽपि समुद्रस्य समुद्रत्ववच् चेतनांशानामचेतनत्वेऽपि चेतनस्य चेतनत्वसम्भवादिति नोक्तदोष इति परः परिहर्तुमुत्सहेतापीति अनित्यत्वप्रसङ्ग उक्तः । परिशेषेण विभुत्वं साधयित्वा अनुमानेनापि साधयति – तथा च प्रयोग इति ॥ एतेन परिशेषानुमानप्रयोगप्रदर्शनाय आत्मा महत्परिमाणाश्रयो ऽणुमध्यम-परिमाणानाश्रयत्वे सति द्रव्यत्वादिति वक्तव्यत्वेन सर्वमिदं मूर्तमित्याद्युक्त्ययोग इति परास्तम् ।

वाक्यार्थमुक्तावली

प्रकृतो जीव इति धर्मेषूत्पत्तेः प्राथम्यात् । जीवस्य तद्विचारानन्तरं तत्परिणामविचारा-दनन्तरसङ्गतिः ॥ किं व्याप्त इति ॥ देहसम्बन्धस्पर्शादिज्ञानरूपयुक्त्यनुगृहीतया, व्याप्त्यात्मान, इति व्याप्तिश्रुत्या किं जीवो व्याप्तः ॥ उतोक्त्रमणादिलिङ्गसहितया अणुर्ह्येष आत्मायं वा एते सिनीत इति श्रुत्या अणुरिति चिन्ता । तदर्थं किं जीवादन्यत्र निरवकाशात्सर्वदेहपरिज्ञानं चाणुत्वेनोपपद्यते उत व्याप्तश्रुतिरीश्वरविषया, सर्वदेहपरिज्ञानं च जीवस्यांशव्याप्त्यादिनोपपद्यत इति संक्षेपः । सर्वात्मानः सर्वरूपा इत्यनयोर्भेदमाह सर्वात्मान इति ॥ ‘सर्वःपूर्णगुणत्वत’ इति प्रमाणं हृदि निधायोक्तं पूर्णा इति ॥ व्याप्तत्वमणुत्वं च प्रतीयते । जीवस्येतिशेषः । अणुत्वमित्यत्र प्रतीयते जीवस्येति पदद्वयशेष इति विवेकः । इतराधिकारादिति, सूत्रव्यावर्त्यं पूर्वपक्षं व्याप्ताह्येतेचिदात्मान इति श्रौतबहुवचनेनोज्जीवयति ॥ न चेयमिति ॥ न च जीवपरत्वे, सर्वात्तृत्व, पूर्णगुणत्व, निर्गुणत्वायोगः । मिलित्वा सर्वेषां सर्वात्तृत्वस्य यथायोग्यं पूर्णत्वस्य स्वरूपतः सत्वादिगुणराहित्यस्योपपत्तेरिति भावः । गुहांप्रविष्टौ, न सङ्ख्योपसङ्ग्रहादपीत्यधि-करणद्वये ‘ऋतं पिबन्तौ सुकृतस्य लोके छायां (गुहां) प्रविष्टौ परमे परार्धे । यस्मिन् पञ्चजना’ इति द्विवचनबहुवचनयोः सावकाशितत्वात् । तन्न्यायेनेदमपि बहुवचनं युक्तमित्याशङ्क्य परिहरति ॥ न चेश्वरेति ॥ तत्र गुहास्थत्व, ब्रह्मशब्द, प्राणप्राणदत्वादिबाधकेन द्विवचनादिश्रुतेर् द्वित्वादिसङ्ख्या स्वाश्रयभेदव्याप्त्येत्यौत्सर्गिकन्यायमपहाय तत्प्रतिनिधिविशेषव्याप्तत्वं स्वीकृत्या-मुख्यार्थग्रहणेऽपीह बाधकाभावेन श्रुतिमुख्यार्थबाधायोगात् । आत्मशब्दस्य विष्णौ मुख्यत्वेऽपि, स आत्मेदं सृजतीति विष्णुप्रकरणत्वेऽपि बहुवचनश्रुत्या प्रतिरुद्धत्वेन तद्बाधकत्वमिति भावः । इति च काषायणश्रुतिरिति चशब्दाद्युक्तितोऽपि प्रतीयत इत्यर्थमभिप्रेत्य तत्र तत्र परिज्ञानमित्युक्तन्यायं सङ्गमयितुं तत्प्रतिपक्षश्रुतिविरोधमाशङ्क्य परिहरति ॥ न चाणुत्वेत्यादिना ॥ सर्वदेहेति ॥ कमनीयकान्तालिङ्गनेन सर्वाङ्गीणसुखानुभवस्य सार्वजनीनत्वादिति भावः ॥ रूपादीनामिति ॥ शष्कुलीं भक्षयतो रूपरसगन्धस्पर्शशब्दानां युगपदेव चक्षुरादीन्द्रियैर्ज्ञानस्यानुभवसिद्धत्वादिति भावः । चक्षुरादिकरणैरात्मनो युगपत् प्राप्तिश्चाणुत्वेन युक्तेति भावः ।

ननु सजातीयात्मविशेषगुणानां युगपदनुत्पत्तेः कथं युगपत् तत्र तत्र परिज्ञानम् । कालभेदेन चेदणोरात्मनस्तत्र क्रमेण गमनेनोपपद्यत इति कथं व्याप्तत्वमिति चेन्न । आत्माणुत्वपक्षे युगपद्रूपादिज्ञानाभावेऽपि व्याप्तत्वपक्षे तदुपपत्तेः । न च मनसोऽणुत्वाद्युगपत्समनस्केन्द्रिय-सन्निकर्षायोगाद्युगपद्ज्ञानायोगः । मनसाणुत्वेऽपि रश्मिद्वारा युगपदुपपत्तेः सर्वाङ्गीणस्पर्शज्ञानस्या-वर्जनीयत्वाच्चेति । यद्वा रूपादीनामित्यत्र न युगपज्ज्ञाने तात्पर्यम् । हृदिस्थाण्वात्मना चक्षुरादीनां गोलकवर्तिनां सन्निकर्षायोगाद्रूपादिज्ञानमेव दुर्लभं स्यात् । गत्वासन्निकर्षस्यानङ्गीकृतत्वादिति भावः । अविरोधश्चन्दनवदित्यत्रांशतः शरीरव्याप्तेरुपपादयिष्यमाणत्वात् तन्निरसनीयं पूर्वपक्षं परिशेषेण व्याप्तत्वमुपपादयितुमाह ॥ न चात्मेति ॥ एवं चात्मा कार्त्स्न्यमित्यत्रोक्तदोषत्वादित्यर्थः ॥ शरीरवदिति ॥ यथाशरीरं परस्परभिन्नैर् अंशेन प्रत्येकं भिन्नाभिन्नैः कृत्स्नैश्चाभिन्नैर् अंशैरुपेतं तथाऽत्मापि तादृशैरंशैरुपेतः स्यादित्यर्थः ॥ प्रत्येकमिति ॥ भेदादिति भावः ॥ उन्मथ्येति ॥ सर्वत आकृष्यमाणं जीर्णं स्यात् । विरुद्धविक्रियमागामिनं दृष्ट्वा तैरंशैरप्रवर्तते क्रियाशून्यं वापद्येतेत्यर्थः ।

ननु समुदायिष्वैकमत्याभावेऽपि अंशसमुदाये तत्सम्भवतीत्याशंक्याह ॥ न चेति ॥ यथा नानावृक्षसमुदायाख्यो वृक्षेभ्योऽन्यो धर्मी नास्ति तथेत्यर्थः । न तु नानावृक्षा एव वनप्रत्ययविषय एकं वनमिति प्रत्ययात् । किं तु वृक्षारब्धः समुदायाख्योऽवयवी तथा प्रकृते किं नस्यादित्यत आह ॥ न च समुदायाख्य इति ॥ भवति उत्पद्यत इत्यर्थः । एकं वनमितिप्रत्ययस्तु एकदेश-स्थत्वोपाधिनेति भावः । तन्तुपटयोरिव स्यादित्यत आह ॥ न चेति ॥ तच्छेषमिति ॥ ज्ञइत्यनु-वृत्तेः सिद्धत्वान्नाणुरिति सूत्रादाकर्षेणात्राध्याहार्य भागमाहेत्यर्थः । पतत्रि शरीरे अणुत्वाभावा-त्साध्यवैकल्यमित्यतो भाष्ये अणुरेवेति एवकारसूचितं साध्यमाह न व्याप्त इति ॥ व्याप्तस्येति ॥ केवलमपरिच्छिन्नस्येत्यर्थः । अणुत्वासमानाधिकरणदेशापरिच्छेदयुक्तस्येत्यर्थः । एवं चेश्वरस्य व्याप्तस्याप्युत्क्रमणादिसम्भवतीति न कश्चिद्दोष इति ज्ञेयम् । ननु जीवस्योत्क्रान्त्यादिना व्याप्तत्वाभावेऽपि मध्यमपरिमाणत्वमस्तु । नाणुत्वसिद्धिरित्यत आह ॥ अत इति ॥ अनेन जीवो ऽणुर् मध्यमपरिमाणशून्यत्वे सति, अव्याप्तद्रव्यत्वात्, परमाणुवत्, व्यतिरेकेण घटादिवदिति प्रयोगो दर्शितः । अनेनाणुरेवेति भाष्यं फलितप्रदर्शनपरमित्युक्तं भवति ।

तत्त्वसुबोधिनी

अनन्तरसङ्गतिं सूचयन् विषयमाह ॥ प्रकृतो जीव इति ॥ धर्मेषूत्पत्तेः प्राथम्याज् जीवस्य तद्विचारानन्तरं तत्परिमाणविचारादनन्तरसङ्गतिरिति भावः । आत्मन इत्यनेन पुनरुक्तिं सर्वाभेदप्रतीतिं च निवारयितुमाह ॥ सर्वस्येति ॥ सर्वरूपत्वप्रतीतिमपाकर्तुमाह ॥ सर्वरूपाः पूर्णा इति ॥ सर्वः पूर्णगुणत्वत इत्युक्तेरिति भावः । अणुर्ह्येष आत्मा इत्येतावत एव प्रकृतोपयोगात् तावदेवोदाहर्तव्यम् । इत्यादेरुदाहरणमयुक्तमित्यत आह ॥ यं वा इति न चेदमिति ॥ अणुत्वेन करणसम्प्राप्त्यभावाज् ज्ञानमेव न स्यादिति भावः । ननु करणप्राप्त्यभावेऽपि अस्तु ज्ञानरूपक्रियेत्यत आह ॥ न हि कश्चिदिति ॥ तथा भित्त्यादिव्यवधाने सत्यपि चक्षुषा घटादिज्ञानप्रसङ्ग इति भावः । नन्वात्मनो देहपरिमाणत्वाङ्गीकारात् सर्वशरीरगतज्ञानमुपपन्नमित्यत आह ॥ न चेति ॥ उक्तदोषत्वादिति ॥ एवं चात्माकार्त्स्न्यमित्यत्रेत्यर्थः । दूषणान्तरं चाह ॥ शरीरेति ॥ कुत इत्यत आह ॥ मध्यमेति ॥ अस्तु सांशत्वं ततः किमित्यत आह ॥ तेषां चेति ॥ किं चेतना उताचेतनाः । नान्त्यो ऽचेतनस्य चेतनांशत्वायोगात् । आद्यं प्रत्याह ॥ प्रत्येकं चेतनत्वेनेति ॥ विरुद्धा दिक्षुक्रिया यस्य तत् तथोक्तम् । ननु भूतानामप्यंशानामेकमत्यान्न शरीरोन्मथनादीत्यत आह ॥ न हीति ॥ ननु न तेषां प्रत्येकं धर्मित्वं किन्तु तत्समुदायस्य धर्मित्वं तथा च नैष दोष इत्यत आह ॥ न चेति ॥ अणुत्वस्योत्क्रान्त्यादीनां च साध्यसाधनभावे पतत्रिशरीरे व्यभिचारः स्यादित्यतो भाष्ये अणुरेवेति एवकारप्रयोगसूचितं साध्यमाह ॥ न व्याप्त इति ॥ नन्वस्तु व्याप्तस्योत्युत्क्रान्त्यादीत्यत आह ॥ न हीति ॥

वाक्यार्थविवरणम्

‘नन्वणुर्ह्येष आत्मा’ इत्यस्य वोपयुक्तत्वेन ‘यं वा’ इत्यादिवाक्यशेषोद्धारो व्यर्थ इत्यत आह ॥ यं वा इति ॥ जीवत्वेति ॥ ‘अणुर्ह्येष’ इति वाक्यस्य जीवपरत्वज्ञापनार्थ इत्यर्थः । व्याप्तत्वं प्रतीयत इत्यत्र जीवस्येत्येव शेषः । अणुत्वं चेत्यनन्तरं प्रतीयते जीवस्येति पदद्वयशेष इति ज्ञातव्यम् ॥ न जीवेति ॥ किन्त्वीश्वरविषयमिति भावः ॥ बह्विति ॥ ईश्वरस्यैकत्वाज् जीवानां बहुत्वेन तत्सम्भवादिति भावः ॥ बाधेति ॥ बहुवचनश्रुतेर् बहुत्वोपेतजीवस्वरूपपरत्वेन मुख्यार्थोपपत्ता-वीश्वररूपबाहुल्यरूपामुख्यार्थग्रहणायोगादिति भावः । ज्ञानात् । युगपदिति शेषः । इदं च दीर्घशष्कुलीभक्षणे द्रष्टव्यम् । अन्यथा युगपदित्यव्याख्यानेऽणोरपि जीवस्य क्रमेण तत्तदिन्द्रियं प्राप्य रूपादिज्ञानजनकत्वोपपत्तौ न व्याप्तत्वसिद्धिरिति ध्येयम् । उक्तं हेतुद्वयम् अणुत्वपक्षे न सम्भवतीत्यत आह ॥ न चेदमिति ॥ इदं सर्वदेहगतस्पर्शज्ञानम् । अणुत्वपक्षे देहैकदेशस्थत्वेन न सर्वदेहगतस्पर्शज्ञानं सम्भवतीति भावः ॥ अप्राप्तेति ॥ स्वेनाप्राप्तं यत्करणम् इन्द्रियादि तेनेत्यर्थः । निवर्तयति न हि । न जनयतीत्यर्थः । तथा चाणुत्वेन देहैकदेश एवावस्थितस्यात्मन इन्द्रियादिकं प्राप्य ज्ञानजनकत्वायोगात् । तस्मात् तत्तदिन्द्रियं प्राप्य युगपद् ज्ञानजनकत्वं वाच्यम् । तद् व्याप्तत्वं विना न सम्भवतीति भावः ।

ननु तर्हि सर्वदेहगतस्पर्शज्ञानाद्यन्यथानुपपत्त्या आत्मा देहपरिमाण एवास्तु न व्याप्त इत्या-शङ्क्याह ॥ न चेति ॥ उक्तदोषत्वादिति ॥ हस्त्यादिशरीरस्थस्य पिपीलिकादिदेहप्राप्तावतिरेकः स्यादित्युक्तेत्यर्थः । दूषणान्तरं चाह ॥ शरीरेति ॥ शरीरवदिति ॥ शरीरे हस्तपादाद्यंशव-दित्यर्थः । शरीरपरिमाणत्वेऽपि कुतः सांशत्वमित्यत आह ॥ मध्यमेति ॥ तथा च शरीर-परिमाणत्वे मध्यमपरिमाणप्राप्त्या मध्यमपरिमाणवतश्च शरीरादेः सांशत्वदर्शनेन तद्वदात्मनोऽपि सांशत्वं स्यादित्यापादनं द्रष्टव्यम् । अस्तु सांशत्वं ततः को दोष इत्यत आह ॥ तेषां चेति ॥ विरुद्धादिक्रियम् । विरुद्धासु दिक्षु क्रिया यस्य तत्तथोक्तम् । ऐकमत्याभावादिति भावः ।

ननु नोन्मथनं, तूष्णीमेव तेषां देहेऽवस्थानादित्यत आह ॥ अक्रियं वेति ॥ ननु नैष दोषः । तेषां चेतनभूतानामंशानामैकमत्येन प्रवृत्त्यभ्युपगमादित्यत आह ॥ न हीति ॥ ननु तेषामंशानां समुदायो नाम कश्चिद्धर्मोऽस्ति । स एव जीवस्तस्य चैकत्वेन विरुद्धादिक्रियाभावेन नोन्मथना-दित्यत आह ॥ न चेति ॥ समुदायस्य समुदाय्यभिन्नत्वेन तेषां चानेकत्वाद्विरुद्धादिक्रियस्य देहस्योन्मथनादि स्यादेवेति भावः । नन्वथापि तैः सर्वैरंशैरारब्धोंऽशी कश्चनास्ति, स जीवस्तस्य चैकत्वान्न विरुद्धादिक्रियत्वेनोन्मथनादीत्यत आह ॥ न चेति ॥ अनित्यत्वेति ॥ उत्पत्तिमतो भावस्य विनाशनियमादिति भावः । मूर्तमिति ॥ सर्वमूर्तद्रव्यसंयोगित्वमेव व्याप्तत्वमित्यर्थः । मध्यमपरिमाणोपेते पतत्रिशरीररूपे दृष्टान्ते साध्यवैकल्यपरिहारायाणुरेवेत्यस्याभिप्रायमाह ॥ न व्याप्त इति ॥ तथा च व्याप्तत्वाभावः साध्य इति नोक्तदोष इति भावः । उत्क्रान्त्यादिसत्त्वेऽपि व्याप्तत्वमेवास्त्वित्यप्रयोजकतायां यदि जीवो व्याप्तः स्यात्तर्हि उत्क्रान्त्यादिमान् न स्यादित्यभि-प्रेततर्कमूलभूतव्याप्तौ दृष्टान्तमाह ॥ न हीति ॥ व्याप्त्यनुपपत्तौ नाणुत्वसिद्धिर्मध्यमपरिमाणस्यापि सम्भवादित्यतो निराकृतेत्युक्तम् । एवं चात्मेत्युक्तरीत्येति शेषः ॥ कुत इति ॥ तथा चासिद्धिरिति भावः ।

वाक्यार्थमञ्जरी

आत्मन इत्यनेन पुनरुक्तिं सर्वाभेदप्रतीतिं च निवारयितुमाह ॥ सर्वस्येति ॥ सर्वस्वरूपत्व प्रतीतिमपाकर्तुमाह ॥ पूर्णा इति ॥ सर्वः पूर्णगुणत्वत इत्युक्तेरिति भावः । भाष्ये शिनीतः बन्धयतः ॥ व्याप्तत्वमणुत्वं चेति ॥ व्याप्तत्वं प्रतीयत इत्यनन्तरं जीवस्येति शेषः । अणुत्वमित्यनन्तरं जीवस्य प्रतीयत इति शेष इति विवेकः । जीवविषयेत्यनन्तरं किंत्वीश्वरविषयेति शेषः परिशेष-रूपयुक्तिं वक्तुं प्रसक्तं प्रतिक्षिपति ॥ न तावदित्यादिना ॥ नन्वात्मेन्द्रियसन्निकर्षस्या-प्रयोजकत्वादणोरात्मनो युगपत्सर्वेन्द्रिय जन्यज्ञानमस्त्वित्यत आह ॥ न हीति ॥ अप्राप्तेति ॥ असम्बन्धेत्यर्थः । निर्वर्तयति निष्पादयति ॥ उक्तदोषत्वादिति ॥ एवं चात्माकार्त्स्न्यमित्यत्र पिपीलिकादेहगतस्य गजादिदेहप्राप्तौ अपूर्तिः स्यादित्यादि दोषोक्तेरित्यर्थः । ततः किमिति चेदत्र प्रष्टव्यं किमंशा एव गमनादिक्रियां कुर्वन्ति उत तत्समुदायो ऽथ तदारब्धोऽवयवी आद्ये आह ॥ तेषां चेति ॥ अंशानां प्रत्येकं गमनसामर्थ्यमस्ति न वा आद्ये कश्चिदेकां दिशं गच्छेदपरस्त्वन्यां शरीरैकदेशगमनं भागांतरस्यान्यत्र गमनमतः शरीरविनाशः स्याद् द्वितीये शरीरक्रिया न स्यान् न हि यदैकांशो गच्छति तदान्यांशेनापि गन्तव्यमिति नियमोऽस्तीत्यर्थः । ऐकमत्यात्पक्षद्वयेऽप्यदोष इत्यत आह ॥ न हीति ॥ द्वितीयं दूषयति ॥ न चेति ॥ समुदायिभिन्नसमुदायाभावादिति भावः । तृतीयं व्याचष्टे ॥ न चांशेति ॥ एवं परिशेषमुक्तानुमानं चाह ॥ तथा चेति ॥ सर्वभूत-संयोगित्वमेव व्याप्यत्वमिति भावः ॥ ॐ उत्क्रान्तिगत्यागतीनां ॐ । अणुरेव जीवः कुत उत्क्रान्तिगत्यागतीनां हेतूनां सकाशादुत्क्रान्त्यादिमत्वादिति यावत् ।


ॐ स्वात्मना चोत्तरयोः ॐ

सूत्रभाष्यं

तत्र स्वातन्त्र्यप्रतीतेः –

‘एकः प्रसूयते जन्तुरेक एव प्रमीयते ।

एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम्’ ॥ इत्यादेश्च ।

स्वयमेवेत्यतो वक्ति –

॥ ॐ स्वात्मना चोत्तरयोः ॐ ॥ २१ ॥

‘स एतेनैव स्वात्मना परेणेमं गर्भमनुप्रविशति परेण जायते परेण कर्म कुरुते परेण नीयते परेणोन्नीयते । तं वा एतमभिवदन्ति स्वात्मा’ इति । ‘एष ह्यानन्दमादत्ते एष ह्येनं जीवमभि-जीवयत्येष उद्गमयत्येष गमयत्येष आगमयति’ इत्युत्तरयोर्वाक्ययोः परमात्मनैवोत्क्रान्त्यादयः ।

तत्त्वप्रदीपिका

तत्र ‘सोऽस्माच्छरीरादुत्क्रम्य’ इत्यादि श्रुतावुत्क्रान्त्यादिषु तस्य परप्रेरणानुक्त्या स्वातन्त्र्यप्रतीतेः स्वयमेवोत्क्रामति, गच्छत्यागच्छति च जीवः । एकः प्रसूयते जन्तुरित्यादिनैकाकित्वप्रतीतेश्चेत्यत आह– स्वात्मना चोत्तरयोः । स्वात्मना परेणेति विशेषणान्न स्वरूपवाची स्वात्मशब्दः । ‘सु’ सुखं तदादत्त इति ‘स्वात्मा’ परमः । तदेव ह्याह– ‘एष ह्यानन्दमादत्त’ इति । न हि जीवस्याऽ-नन्दादानं स्वतो दृश्यते ।

तत्त्वप्रकाशिका

एवमुत्क्रान्त्यादिहेतुभ्यो जीवस्याणुत्वे सिद्धे किंचित्प्रसङ्गाच्चिन्त्यते । किमिदमुत्क्रान्त्यादिक-मात्मनः परमेश्वरेण स्वयमेव वेति । किं तावत्प्राप्तमिति तत्राह ॥ तत्रेति ॥ उदाहृतश्रुतौ जीव-स्योत्क्रान्त्यादौ स्वातन्त्र्यप्रतीतेः स्वयमेव तस्योत्क्रान्त्यादिनेश्वरेणेत्यर्थः । अत्र जीवस्योत्क्रान्त्याद्येव श्रूयते न त्वन्याधीनताया विधिर्निषेधो वास्त्यतो नानेन दृढनिर्णय इत्यत आह ॥ एक इति ॥ स्मृत्यनुसारेण श्रुतेरपि पराधीनत्वनिषेधोऽर्थ इति भावः । एवं प्राप्ते परिहाराय सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ नैतच्छ्रुतिगतसाधारण्योक्त्या जीवस्य स्वयमेवोत्क्रान्त्यादीति मन्तव्यं किं तु परमात्मनैव । उत्तरवाक्यद्वये तथोक्तत्वात् । तदनुसारेण साधारणपूर्ववाक्यस्यापि तदर्थत्वोपपत्तेरिति भावः । स्मृतिस्तु प्रसवादिदुःखानुभवविषयेति हृदयम् । उन्नीयते मोक्षाय । एष ह्येवेति द्वितीयवाक्यं पूर्ववाक्यस्थस्वात्मशब्दं व्याख्याति ।

गुर्वर्थदीपिका

स्वयमेव तस्योत्क्रान्त्यादीत्यत्र स्वयमेव स्वत एवेत्यर्थः । ‘आतेन यातं मनसा जवीयसा रथं यं वामृभवश्चकुरश्विना’ । यस्य योगे दुहिता जायते दिव उभे अहनी सुदिने विवस्वतः ।

भावबोधः

एष ह्येवेति द्वितीयवाक्ये स्वात्मशब्दाभावात् सूत्रे उत्तरयोरिति द्वितीयग्रहणं कथमित्यत आह– एष ह्येवेति ॥

‘यच्चाप्नोत्ति यदादत्ते यच्चातिविषयानिह’

इत्यादिवचनादेष ह्येवेत्यादेः स्वात्मशब्दव्याख्यानरूपत्वं द्रष्टव्यम् ।

भावदीपः

प्रसङ्गादिति ॥ प्रस्तुताणुत्वस्योत्क्रान्त्यादिमात्रेण सिद्धेरणुत्वसाधकाधिकरणमध्ये स्वातन्त्र्य-पारतन्त्र्यादिचिन्ता प्रासङ्गिकीत्यर्थः । तत्रेत्यस्यार्थद्वयमाह ॥ उदाहृतश्रुताविति ॥ उत्क्रान्त्या-दाविति च । तस्योत्क्रान्त्यादीति शेषोक्तिः । नेश्वरेणेत्येवार्थः । विधिरिति दृष्टान्ततयोक्तम् । परमात्मनैवेत्येवकारव्यावर्त्यं दर्शयन्नेव तत्पदमनुवदति ॥ नैतदित्यादिना ॥ एष जीवः परेणानन्दमादत्त इति भ्रमनिरासायाऽऽह ॥ एष ह्येवेति ॥ एतेन जीवेन सहेश्वरस्याप्युत्क्रान्त्यादि- मत्त्वेन जीववद् दुःखं स्यादिति निरस्तम् । आनन्दमादत्त इत्यात्मेत्यात्मपदव्याख्यानात् । युक्तिस्तु वैशेष्यादिति प्रागुक्ता ध्येया ।

अभिनवचन्द्रिका

प्रसङ्गाच्चिन्त्यत इति ॥ ‘उत्क्रान्तिगत्यागतीनाम्’ इति जीवाणुत्वं प्रसाध्य, अत्युत्कटतया स्मृतत्वात् ‘स्वात्मना चोत्तरयोः’ इत्यधिकरणेन जीवास्वातन्त्र्यं प्रसाध्य, पुनः सिंहावलोकनन्यायेन ‘उत्क्रान्तिगत्या गतीनाम्’ इति प्राचीनाधिकरणप्रमेयमेव ‘नाणुरतच्छ्रुतेः’ इत्यादिना विचारयामासेति इदमन्तर्भेदाधिकरणमिति भावः । ‘एष ह्येवेति’ वाक्ये ईश्वरवाचकशब्दाभावान्नेश्वर-परत्वमित्याशङ्कानिरासाय आह– एष ह्येवेति ॥ पूर्ववाक्यगतात्मशब्दनिर्वचनपरत्वादीश्वरपरत्व-निर्णय इति भावः ।

‘स्वात्मना चोत्तरयोः’ इत्यधिकरणस्येदं सङ्गत्यादि । अत्र परमेश्वरे श्रुतिसमन्वयसिद्ध्यर्थं जीवस्योत्क्रान्त्यादौ स्वातन्त्र्यविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । विष्णुः सर्वनियामक इत्युक्तं, तस्य च श्रुत्योः परस्परविरोधेनाप्रामाण्येऽयोगप्रसङ्गादवश्यं विरोधः परिहरणीयः । जीवोऽत्र विषयः । स्वतन्त्रः परतन्त्रो वेति सन्देहः । ‘सोऽस्माच्छरीरादुत्क्रम्याऽमुं लोकमभिगच्छति । स एतेन स्वात्मना परेणेमं गर्भमनुप्रविशति’ इति श्रुतिविगानं सन्देहबीजम् । ‘जीवः स्वतन्त्र’ एवेति पूर्वपक्षः । ‘सोऽस्माच्छरीरादुत्क्रम्याऽमुं लोकमभिगच्छति’ इति श्रुतेः । न च – श्रुत्यन्तरविरोधः । ‘एकः प्रसूयते जन्तुः’ इति अनुभवानुसारिस्मृतिसहितत्वेन तद्बाधात् । ततश्चायुक्तं लक्षणसूत्रमिति ।

सिद्धान्तस्तु परतन्त्र एव जीवः प्रतिपत्तव्यः । ‘स एतेनैव स्वात्मना परेणेमं गर्भमनुप्रविशति । एष ह्येवानन्दमादत्ते, एष ह्येवैनं जीवमभिजीवयति’ इत्युक्तश्रुतिविरोधादप्रमाणमेव । स्मृतिस्तु प्रसवादिदुःखानुभवविषयेति । ‘आ तेन यातं मनसो जवीयसा रथं यं वामृभवश्चक्रुरश्विना । यस्य योगे दुहिता जायते दिव उभे अहनी सुदिने विवस्वतः निमिषश्चिज्जवीयसा रथेनाऽऽयातमश्विना अन्तिषद्भूतुवामव इति ।

वाक्यार्थमुक्तावली

जन्मादिसूत्रोक्तसर्वनियामकत्वसाधनायान्तर्भेदाधिकरणमिति भावेनाह ॥ एवमिति ॥ एकः प्रसूयत इत्यत्रैकोऽसहाय इत्यर्थमभिप्रेत्याह ॥ स्मृत्यनुसारेणेति ॥ सूत्रे ज्ञस्योत्क्रान्त्यादि-रित्यनुवर्तते । चोऽवधारणे । उत्तरयोर्वाक्ययोस्सकाशादिति शेषः ॥ उक्तत्वादिति वा ॥ तथात्वे सप्तमी ॥ स्मृतिरिति ॥ एक एव प्रसूयते प्रसूत्यादिदुःरवमनुभवतीत्येवं दुःखानुभवविषय इति भावः । द्वितीयवाक्ये स्वात्मशब्दाभावात् । ननु यदीदं वाक्यद्वयमेकप्रकरणगतं स्यात्तर्हि पुनरुक्त-मित्यत आह ॥ एष हीति ॥ तं वा एतमिति प्रतिज्ञाय एष हीत्यादिना पूर्ववाक्यस्थात्मशब्दं व्याख्यातीत्यर्थः । ननु स्वात्मशब्दमिति वाच्यम् । सुशुभम् आनन्दमादत्त इति व्युत्पत्ते-रुपपत्तेरिति चेन्न । स्वतन्त्रश्चासावात्मा चेति स्वात्मेति विग्रहमभिप्रेत्यात्मशब्दमात्रस्यार्थकथनाद् आदत्त इत्यात्मा आनन्दमिति योग्यतया लाभ इत्युपपत्तेः । ‘यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह’ इत्यादेः । अतसातत्यगमन इति धातोः । जीवनं गमयति, शरीरादुद्गमयति, इत्येतदपि आत्म-शब्दार्थ एवेति बोध्यम् । एतेन सूत्रे स्वेनेति वा आत्मनेति वा वाच्ये स्वात्मनेति वचनं जीवेन सहोत्क्रान्त्यादिमत्वे जीववद्दुःखी स्यादिति शङ्कानिरासायात्मपदेन स्वस्य दुःखविनैव जीवोत्क्रान्त्यादिहेतुत्वस्येत्यनेन स्वातन्त्र्योक्त्या वैशेष्ययुक्तेश्च सूचनात् श्रुत्यनुसाराच्चेत्युक्तं भवति ।

तत्त्वसुबोधिनी

प्रसङ्गाच्चिन्त्यत इति ॥ प्रस्तुतस्याणुत्वस्योत्क्रान्तिमात्रेण सिद्धेर् अणुत्वसाधकाधिकरणमध्ये स्वातन्त्र्यपारतन्त्र्यचिन्ता प्रासङ्गिकीत्यर्थः । तर्ह्येक इति स्मृतेः का गतिरित्यत आह ॥ स्मृतिस्तु इति ॥ द्वितीयवाक्ये स्वात्मशब्दाभावात् सूत्रे उत्तरयोरिति द्वितीयवाक्यग्रहणं कथमित्यत आह ॥ एष ह्येवेति ॥ ‘यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह’ इत्यादेः स्वात्मपदव्याख्यानरूपत्वं द्रष्टव्यम् ।

वाक्यार्थविवरणं

स्वातन्त्र्येति ॥ अमुं लोकमभिगच्छति’ इति वचनेनेति शेषः ॥ एतच्छ्रुतीति ॥ सोऽस्मात्’ इति श्रुतीत्यर्थः ॥ स्मृतिस्त्विति ॥ ‘एकोऽनुभुङ्क्ते सुकृतम्’ इत्यत्रापि विषयजन्यं सुखमिति व्याख्येयम् । भगवतस्तु शुभविषयभोगेन सुखं व्यज्यत एव न तूत्पद्यते । अतोऽत्र सुकृतभोगस्य परमात्मनोऽपि सत्त्वेनैक इति कथमुक्तमिति शङ्कानवकाशः । भाष्य ‘एनं जीवं प्रत्यभिजीव्य’ उपजीव्यो भूत्वेत्यर्थः ।

वाक्यार्थमञ्जरी

॥ प्रसङ्गादिति ॥ जीवस्योत्क्रान्त्यादि कर्तृत्वोक्तौ क्रियास्वातंत्र्यं सर्वकर्तृत्वमिति तस्य स्वातन्त्र्यं सर्वकर्तृत्वमिति तस्य स्वातन्त्र्यप्रतीतौ तस्यात्यन्तं निषिद्धतया तदस्वातन्त्र्यं स्मृतमत्र विचार्यत इत्यर्थः । स्वयमेव स्वेनैव ॥ स्मृत्यनुसारेणेति ॥ तत्रैकशब्देनान्यनिषेधादिति भावः ॥ ॐ स्वात्मना चोत्तरयोः ॐ ॥ जीवस्योत्क्रान्तिः स्वात्मना च परमात्मनैव न स्वतः कुत उत्तरयोर् उत्तरवाक्ययोः सकाशाद् उत्तरवाक्यद्वये तथा प्रतिपादनादिति यावत् । उन्नीयते ऊर्ध्वं नीयते अतो न पुनरुक्तिरिति भावः । नन्वेष ह्येवेति द्वितीयवाक्ये स्वात्मशब्दाभावात् सूत्रे उत्तरयोरिति द्वितीयवाक्यग्रहणं कथमित्यत आह ॥ एष ह्येवेतीति ॥ सु आनन्दमादत्त इति स्वात्मोच्यते एतदेवानन्दमादत्त इत्यनेनोच्यत इति भावः ।