११ ज्ञाधिकरणम्

ॐ ज्ञोऽत एव ॐ

११. अथ ज्ञाधिकरणम्

सूत्रभाष्यम्

‘नित्यो नित्यानाम्’ इति (कठ.उ. ५-१३) जीवस्यापि नित्यत्वमुक्तम् । ‘सर्व एते चिदात्मानो व्युच्चरन्ति’ इत्युत्पत्तिरुच्यते । अतो विरोध इत्यत आह–

॥ ॐ ज्ञोऽत एव ॐ ॥ १८ ॥

जीवोऽप्यत एव परमेश्वरादुत्पद्यते । शब्दादेव । ‘ते वा एते चिदात्मानोऽविनष्टाः परं ज्योतिर्निविशन्त्यविनष्टा एवोत्पद्यन्ते न विनश्यन्ति कदाचन’ इति च काषायणश्रुतिः ।

तत्त्वप्रदीपिका

‘नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् । तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम्’ इति कठश्रुतिः । सर्व एव आत्मानो व्युच्चरन्तीति श्रुत्यन्तरे ।

तत्त्वप्रकाशिका

एवमधिभूताधिदैवपरमात्मविषयश्रुतिविरोधे निरस्तेऽत्र हरौ श्रुतिसमन्वयसिद्ध्यर्थं जीवजन्मविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । सर्वजगत्कर्ता विष्णुरित्युक्तम् । तत्र जीवस्यानादित्वे तदनुपपन्नमिति तद् दूष्यं भवति । सर्वमध्यपतितो जीवोऽत्र विषयः । किमुत्पद्यते न वेति संशयः । संशयबीजं श्रुतिविरोधं दर्शयति ॥ नित्य इति ॥ नित्यत्वादेवानुत्पत्तिरिति भावः । व्युच्चरन्ति उत्पद्यन्ते । न जीव उत्पत्तिमानिति पूर्वः पक्षः । अनादित्वादीश्वरवत् । न च साध्याविशिष्टता हेतोः । प्रागभावशून्यताया विवक्षितत्वात् । न च तत्र विवादः । उत्पत्तेरेवाभाव-प्रसङ्गात् । कारणशून्यतां वाऽनादित्वं ब्रूमः । न च तत्रापि विवादः । कारणानुपलब्धेरेव । न चाकाशादीनामेवं भूतानामप्युत्पत्तिमत्त्वेन व्यभिचारो ऽसम्प्रतिपत्तेः । श्रुतिश्चास्यानुत्पत्तिं ब्रूते । न च श्रुत्यन्तरविरोधः । अनादित्वश्रुतेर्युक्त्युपेतायाः प्राबल्यात्तद्विरोधेनाप्रामाण्यात् । न च देहादेरुत्पत्तेः प्रत्यक्षसिद्धत्वाद्बाधः । व्यधिकरणत्वात् । अतो न जगत्कारणे ब्रह्मणि श्रुतिसमन्वय-सिद्धिरित्येवं प्राप्ते सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ जीवोऽप्युत्पद्यत एव । स चेश्वरादेव श्रुतिसिद्धत्वात् । न चानादित्वश्रुत्यादिविरोधः । नित्यत्वाविरोधेनैवोत्पत्तेः श्रुत्युक्तत्वादिति भावः ।

गुर्वर्थदीपिका

नित्यानां चेतनानां मध्ये नित्यश्चेतन इति योजनिकायां जीवस्यापि नित्यत्वसिद्धिरिति भावेनाह जीवस्यापीति । न च तत्र विवादः । उत्पत्तेरेवाभावप्रसङ्गादित्यत्र तत्र प्रागभावशून्यत्वे, विवादः नास्तीति विवादो न, जीवस्य प्रागभावशून्यत्वनास्तित्वं नाम प्रागभाववत्त्वमेव । तथा च यदा प्रलये जीवस्य प्रागभावस्तदा धर्माधर्माश्रयाभावेन धर्माधर्माख्यमदृष्टमपि न स्यात् । तथा च सर्वोत्पत्तिमन्निमित्तकारणाभावादुत्पत्तेरेवाभावप्रसङ्गाद् यस्याः कस्याश्चिदुत्पत्तेरप्यभावप्रसङ्गादित्यर्थः । तदुक्तमनुव्याख्याने ‘धर्माधर्माश्रयत्वेन स्वीकार्यश्च नरो लयः’ इति । असम्प्रतिपत्तेरित्यत्र उत्पन्नत्वरूपसाध्याभावस्यासम्प्रतिपत्तेरित्यर्थः । शब्दादेवेति वदता भाष्यकारेणात इति शब्दस्याऽऽवृत्तिस्सूचिता । जीवस्योत्पत्तिमत्त्वे, तत्प्रागभावदशायां सर्वोत्पत्तिमन्निमित्तकारणा-दृष्टस्यैवाऽऽधाराभावेनाभावः स्यादित्यभ्यधिकाशङ्कया ‘ज्ञोऽत एव’ इत्यधिकरणारम्भ इति ज्ञेयम् ।

भावबोधः

सूचीकटाहन्यायेनाल्पमधिभूतादिविचारं कृत्वेदानीमापादसमाप्ति बहुलो जीवविचार इति सङ्गतिमाह– एवमिति ॥ किमिति ॥ अत्र जीवः किमुत्पत्तिमान्न भवति उत भवतीति चिन्ता । तदर्थं ‘सर्व एते आत्मानो व्युच्चरन्ति’ इति श्रुतिरनादित्वयुक्त्यनुगृहीतया ‘नित्यो नित्यानाम्’ इति श्रुत्या बाधितोताबाधितेति । तदनुत्पत्तिश्रुतियुक्त्योरुत्पत्तिश्रुतेश्च किं स्वरूपोत्पत्ति-रूपविरुद्धार्थविषयकत्वम् उत स्वरूपानुत्पत्तिपराधीनविशेषलाभरूपोत्पत्तिरूपाविरुद्धार्थ-विषयकत्वमिति । तदर्थं जीवस्य स्वरूपानुत्पत्तौ पराधीनविशेषलाभलक्षणोत्पत्तौ च विशेषप्रमाणं नास्त्युतास्तीति । अनादित्वाज्जीवस्य पराधीनविशेषप्राप्तिरिति न्यायविवरणानुसारेण पूर्वपक्षमाह– न जीव उत्पत्तिमानिति ॥ यद्यपि पराधीनविशेषप्राप्तिरिति न्यायविवरणे सूत्रद्वयनिरसनीयं निष्कृष्टमेव पूर्वपक्षसाध्यमुक्तम् । जीवस्याप्युत्पत्तिरुच्यत इत्यादिभाष्यानुसारेण प्रथमसूत्रनिरसनीय-तया जीवो नोत्पत्तिमानिति सामान्येन साध्योक्तिः । अन्यथा विशिष्यसाध्यकरणे ‘ज्ञोऽत एव’ इत्यस्यैव तन्निषेधकत्वेन विशिष्य पराधीनविशेषलाभलक्षणोत्पत्तिप्रतिपादकत्वेन चानादिनित्यस्य जीवस्योत्पत्तिः श्रुतावपि कथं युज्यत इत्यादिव्याहतत्वशङ्कानुदयेन ‘युक्तेश्चेति’ द्वितीयसूत्रानवतार-प्रसङ्ग इति भावः । उत्पत्तेरेवाभाव प्रसङ्गादिति । जीवस्य प्रागभावं प्रति प्रतियोगित्वे सिद्धान्त्यभिमतायाः पूर्वं विद्यमानस्यैव जीवस्य देहोत्पत्तिरूपपराधीनविशेषलाभलक्षणो-त्पत्तेरेवाभावप्रसङ्गादित्यर्थः । यद्वा–

‘धर्माऽधर्माश्रयत्वेन स्वीकार्योऽपि नरो लये’

इत्यनुव्याख्यानोक्तरीत्या प्रलये सर्वोत्पत्तिमन्निमित्तकारणादृष्टाश्रयत्वेन जीवसत्त्वस्याङ्गी-कार्यत्वात्तस्य प्रागभावप्रतियोगित्वे निराश्रयादृष्टासम्भवात् कारणाभावेन जगदुत्पत्तेरेवा-भावप्रसङ्गादित्यर्थः । आकाशादीनामिति ॥ अनादित्वरूपहेतुविशिष्टानामव्याकृताकाशादीनां पराधीनविशेषलाभरूपोत्पत्तिमत्त्वेन व्यभिचार इत्यर्थः । आकाशादीनां पक्षसमत्वेन न तत्र व्यभिचार इत्यभिप्रेत्याह– असम्प्रतिपत्तेरिति ॥ ‘नित्यो नित्यानाम्’ इति जीवस्यापि नित्यत्वमुक्तमिति भाष्यानुरोधादाह– श्रुतिश्चेति ॥ युक्तेश्चेति सूत्रानुरोधादाह– न च देहोत्पत्ते-रिति ॥ सौत्रस्य ‘अत एव’ इत्यस्य व्याख्यानान्तरपरं शब्दादेवेति भाष्यं व्याचष्टे– श्रुतिसिद्ध-त्वादिति ॥ अनेन ‘इदं सर्वमसृजत’ इति सर्वस्य गृहीतत्वादिति न्यायविवरणांशोऽपि व्याख्यातः ॥ नित्यत्वाविरोधेनैवेति ॥

भावदीपः

एवं सूचीकटाहन्यायेनाल्पमधिभूतादिविचारं कृत्वाऽधुनाऽऽपादसमाप्ति बहुजीवविचारः क्रियते इति भावेन सङ्गतिमाह ॥ एवमिति ॥ जीवजन्मेति ॥ जीवजन्मविषये यः श्रुतिविरोधस्तत्परिहारादित्यर्थः । वियन्नयाद्विशेषाशङ्कानिरासपूर्वमिति योज्यम् । तेन ततोऽगतत्वं बोध्यम् । चिन्ताफलं दर्शयति ॥ सर्वेति ॥ सर्वकर्तृत्वाक्षेपसौकर्यायाऽऽह ॥ सर्वमध्येत्यादिना ॥ कथं जन्मश्रुतेर्नित्यत्वश्रुतेरुत्पत्तिश्रुतितः प्राबल्यायानादित्वाज्जीवस्य पराधीनविशेषाप्राप्ति-रित्यन्यत्रोक्तां युक्तिम् उपपादनसापेक्षत्वात्पूर्वमाह ॥ अनादित्वादिति ॥ न च साध्येति ॥ यद्यपीयं शङ्का न न्यायविवरणोक्तसाध्ये सम्भवति । तत्रानादित्वादित्यस्य स्वरूपोत्पत्तिशून्यत्वा-दित्यर्थसम्भवात् । तथापि न जीव उत्पत्तिमानिति प्रागुक्तस्वरूपोत्पत्त्यभावरूपसाध्य एवेयं शङ्का । न्यायविवरणेऽप्येवमेव साध्यस्य विवक्षितत्वात् पराधीनविशेषाप्राप्तिरित्युक्तिकृत्यमग्रे विवरिष्यामः ॥ प्रागभावेति ॥ प्रागभावशून्यत्वरूपहेतोर्विवक्षितत्वादित्यर्थः । हेतोरसिद्धिमाशङ्कते ॥ न च तत्रेति ॥ नित्यो नित्यानामिति श्रुतिप्रमितेऽपि प्रागभावशून्यत्वे विवादश्चेद् घटादेरपि उत्पत्ति-र्लोकप्रसिद्धापि न स्यादित्याह ॥ उत्पत्तेरेवेति ॥ यद्वा अनुत्पत्ताविव प्रागभावशून्यतायामपि विवाद एव तयोरभेदादिति भावेन शङ्कते ॥ न च तत्रेति ॥ प्रागभावशून्यत्वमनुत्पत्तितोऽन्य-दित्यत्रापीत्यर्थः । प्रागभावशून्यत्वमनुत्पत्तितोऽन्यन्न चेत्प्रागभाव उत्पत्तितोऽन्यो न स्यात्तथा च प्रागभावहीनस्यात्मलाभरूपोत्पत्तिरेव न स्यादित्याह ॥ उत्पत्तेरेवेति ॥ एवं भूतानामपीति ॥ स्वरूपोत्पत्तिमत्त्वेनाश्रुतानां प्रत्युतानुत्पत्तिमत्त्वेन श्रुतानामपीत्यर्थः ॥ असम्प्रतिपत्तेरिति ॥ उत्पत्तिमतां भूताकाशादीनां कारणशून्यत्वे कारणशून्यानां चाव्याकृताकाशादीनामुत्पत्तिमत्त्वे असम्प्रतिपत्तेरित्यर्थः । तथा च न व्यभिचार इति भावः । यद्वा कारणशून्यानामप्यव्याकृताकाशा-दीनां वियन्नयोक्तरीत्या पराधीनविशेषावाप्तिरूपोत्पत्तिमत्त्वेन व्यभिचार इति शङ्कायां पराधीन-विशेषावाप्तेरुत्पत्तिमत्त्वे जन्मश्रुतेस्तादृशोत्पत्त्यर्थकत्वेनानुत्पत्तिश्रुतीनामपीश्वरवत्तादृशोत्पत्त्य-भावपरत्वमेव स्यात् । अनेकार्थत्वस्यान्याय्यत्वात् । तथा चोत्पत्त्यनुत्पत्तिश्रुतीनां पुनरापन्नो विरोध इति भावेनाह ॥ असम्प्रतिपत्तेरिति ॥ पराधीनविशेषावाप्तिरूपोत्पत्तेरव्याकृतादावसंमतेरित्यर्थः । एतेन वियन्नय एवोपलक्षणतया जीवस्याप्युक्तरूपोत्पत्तिसिद्धेर्व्यर्थोऽयमारम्भ इति निरस्तम् । तस्यैवासम्प्रतिपत्तेरित्याक्षेपात् । अनेनैव पूर्वाक्षेपाभिप्रायेण न्यायविवरणे अनादित्वाज्जीव-स्यानुत्पत्तिरिति वाच्ये पराधीनविशेषाप्राप्तिरित्युक्तम् ।

ननु विश्वकर्तृत्वश्रुतेरनादित्वादित्युक्तिविरोधो युक्तिपादे सङ्गत इत्यतो भाष्योक्तमाह ॥ श्रुतिश्चेति ॥ ‘नित्यो नित्यानाम्’ इति श्रुतिश्चेत्यर्थः । युक्तिस्तु श्रुतिप्राबल्यायोक्तेति भावेनाह ॥ युक्त्युपेताया इति ॥ उपाध्युत्पत्तौ तदुपाधिको जीवोऽप्युत्पद्येतेति भावेन शङ्कते ॥ न चेति ॥ बाध इति ॥ युक्तेः श्रुतेश्चेत्यर्थः । न देहादिर्जीवोपाधिः किं त्वन्य एवानादिरिति भावेनाह ॥ व्यधिकरणत्वादिति ॥ तथा च वक्ष्यति यावदात्मभावित्वाच्चेत्यत्र ॥ अत इति ॥ अनादित्वेन श्रुतजीवादेः सर्वस्योत्पत्त्यभावेन तज्जन्मश्रुतीनामप्रामाण्यादित्यर्थः । जन्माद्यसिद्धौ परमेश्वरा-दित्युक्तिरयुक्तेत्यतो वाक्यभेदेन भाष्यं व्याचष्टे ॥ जीवोऽपीति ॥ न केवलं वियदादीत्यपेरर्थः ॥ स चेति ॥ उत्पद्यमानश्चेश्वरादेवोत्पद्यत इत्यर्थः । सूत्रे जानातीति ज्ञः । इगुपधज्ञाप््राीकिरः क इति ज्ञशब्दो जीववाची । अत एवेति पूर्वसूत्रप्रकृतपरमात्मपरामर्श इति भावः । पूर्वं प्रकृतश्रुतिपरामर्शि चात एवेति पदमिति भावेन शब्दादेवेति भाष्यार्थमाह ॥ श्रुतिसिद्धत्वादिति ॥ ते वा एत इति भाष्योक्त श्रुतिसिद्धत्वादित्यर्थः श्रुतावुत्पद्यन्त इत्येव पूतौ शेषोक्तेरुपयोगमाह ॥ न चानादित्वेति ॥ युक्तिरादिपदार्थः । अनादित्वस्याविरोधादित्यन्यत्रोक्त्यनुरोधेन श्रुत्युक्तितात्पर्य-माह ॥ नित्यत्वेति ॥

अभिनवचन्द्रिका

प्रागभावशून्यताया इति ॥ यदोत्पत्तिरुच्यते तत्पूर्वकाले अभावशून्यतायाः सत्ताया विवक्षितत्वादित्यर्थः । असतः सत्तासम्बन्धाऽभावो ह्यत्र साध्यः । तदुपपादनायासत्त्वरूप-विशेषणाभावो हेतुतयोच्यते । अतो न साध्यावैशिष्ट्यमिति भावः । न च तत विवाद इति ॥ प्रलयकाले जीवानां सत्त्वस्य मयाऽनङ्गीकाराद् अन्यतरासिद्धो हेतुरिति न वाच्यमित्यर्थः । कुत इत्यत आह उत्पत्तेवेति ॥ अदृष्टस्यकार्यमात्रकारणत्वात् प्रलयकाले जीवाभावे तदाश्रिताऽ-दृष्टस्याप्यभावापत्त्या कारणाभावेन जगदुत्पत्तिरेव न स्यादित्यर्थः ।

वाक्यार्थमुक्तावली

पूर्वत्र यां श्रुतिमवलम्भ्य नित्यत्वाच्च ताभ्य इति परमात्मनित्यत्वं साधितं तयैवेह पूर्वपक्षोत्थानादनन्तरसङ्गतिः । यद्वा सूचीकटाहन्यायेनाल्पमधिभूतादिविचारं कृत्वेदानीमापाद-परिसमाप्तिबहुजीवविचारः क्रियत इति सङ्गतिमाह ॥ एवमिति ॥ अत्र जीवः किं नोत्पद्यत इति चिन्ता । तदर्थं सर्व एते चिदात्मानो व्युच्चरन्तीत्युत्पत्तिश्रुतिः कारणशून्यत्वयुक्त्यनुगृहीतया ‘नित्यो नित्यानाम’ इति श्रुत्या बाधिता उताबाधितेति । तदर्थमनुत्पत्तिश्रुतियुक्त्योरुत्पत्तिश्रुतेश्च किं स्वरूपोत्पत्तिविरुद्धार्थविषयकत्वम् उत स्वरूपानुत्पत्तिपराधीनविशेषावाप्तिरूपाविरुद्धार्थविषयत्व-मिति । जीवस्यापि नित्यत्वमुक्तमिति भाष्ये ईश्वरवज्जीवस्यापि नित्यत्वं ध्वंसाप्रतियोगित्वम् । अत एव प्रागभावाप्रतियोगित्वमुक्तमित्युक्त्या जीवोऽप्युप्तद्यत इत्युत्तरभाष्येऽनादितया प्रमितो जीवोऽपीत्युक्त्या च सूचितम् अनादितेत्युक्तन्यायं श्रुतिप्राबल्यायाह ॥ अनादित्वादिति ॥ अत एव न चानादित्वश्रुत्या विरोध इति वक्ष्यति ॥ उत्पत्तेरेवेति ॥ जीवस्य प्रागभावप्रतियोगित्वे सिद्धान्त्यभिमतायाः स्वरूपेण विद्यमानस्य जीवस्य पराधीनविशेषावाप्तिलक्षणोत्पत्तेरेवाभावप्रसङ्गः । यद्वा, धर्माधर्माश्रयत्वेन स्वीकार्योऽपि नरो लय इत्यनुव्याख्यानोक्तरीत्या सर्वोत्पत्तिमन्निमित्त-कारणादृष्टाश्रयत्वेन जीवसत्वस्याङ्गीकार्यत्वात्तस्य च प्रागभावप्रतियोगित्वे निराश्रयत्वेनादृष्टा-सम्भवाक्तारणाभावेन जगदुत्पत्तेरेवाभावप्रसङ्गादित्यर्थः । चन्द्रिकायान्तु श्रौतप्रागभावशून्यत्वं जीवे न चेद् घटादेरप्युत्पत्तिर्न स्यात्प्रमितत्वाविशेषादित्यर्थः । यद्वा न चात्र साध्याविशिष्टता विवादः कर्तव्यः । प्रागभावशून्यत्वस्योत्पत्तिराहित्यस्य चैक्ये उत्पत्तिप्रागभावयोरेकत्वापत्योत्पत्तेः पूर्वं प्रागभावासम्भवेनात्मस्वरूपोत्पत्तेरेवाभावप्रसङ्गादित्यर्थद्वयमुक्तम् ॥ एवं भूतानामिति ॥ प्रागभावशून्यानां कारणशून्यानां चेत्यर्थः ॥ असम्प्रतिपत्तेरिति ॥ पक्षसमत्वेन व्यभिचारा-सम्प्रतिपत्तेरित्यर्थः । ‘नित्यो नित्यानाम्’ इति जीवस्यापि नित्यत्वमुक्तमिति भाष्यानुरोधेनाह ॥ श्रुतिश्चेति ॥ युक्तेश्चेति सूत्रानुरोधेनाह ॥ न च देहादेरिति ॥ उपाध्युत्पत्तौ तदुपाधिको जीवोऽप्युत्पद्यत एवेति भावः ॥ व्यधिकरणत्वादिति ॥ यस्य जीवोपाधित्वं स्वरूपान्तःकरणस्य नासावुत्पद्यते यश्चोत्पद्यते देहादिर्नासावुपाधिरिति व्यधिकरणत्वादित्यर्थः । तथा च वक्ष्यति यावदात्मभावित्वादिति ।

ननु जीवोपाधिर्द्विधाप््र•ेक्तः स्वरूपं बाह्यमेवचेत्युक्तत्वाच्छरीरादेः प्रतिफलनरूपप्रतिबिम्बत्वा- नापादकतयाऽनुपाधित्वेऽपि उत्पत्यादिविक्रियादिहेतुतयोपाधित्वाद्बाधतादवस्थ्यमित्यतश्चोक्तं व्यधिकरणत्वादिति ॥ जीवादत्यन्तभिन्नस्य शरीरस्योत्पत्यादेश्चैतन्यविक्रिया न युज्यते । अन्यगतधर्मस्यान्यत्र विक्रियाहेतुत्वानुपपत्तेरिति भावः जीवोत्पत्तिप्रतिज्ञापरत्वेन परोक्तकारण-शून्यत्वहेतोरसिद्धिपरत्वेन सूत्रं व्याकुर्वन् भाष्यं योजयति जीवोऽपीति ॥ सूत्रे जानातीति ज्ञशब्दो जीववाची । उत्पद्यत इति शेषः ॥ अत एवेति ॥ नात्मेति प्रकृतपरामर्शक इति भावः । अत एवेत्यस्य व्याख्यानान्तरपरं शब्दादेवेति भाष्यं व्याचष्टे श्रुतिसिद्धत्वादिति ॥ सर्व एते आत्मानो व्युच्चरन्ति स इदं सर्वमसृजत’ इति श्रुतेरित्यर्थः । एतेन सर्वसङ्ग्रह इत्युक्तन्यायोऽपि सङ्गमितो ज्ञेयः । अनादित्वश्रुतेर्विरोधपरिहारकत्वेनापि अत इति सूत्रं व्याकुर्वद्भाष्यं व्याचष्टे न चेति ॥ अत एव भाष्ये इति च श्रुतिरित्युक्तम् ।

तत्त्वसुबोधिनी

सूचिकटाहन्यायेनाल्पाधिभूतादिविचारं कृत्वा इदानीम् आपादसमाप्तिबहुजीवविचारः क्रियत इति सङ्गतिमाह ॥ एवमिति ॥ ननु सर्व एत इति श्रुतिर् न जीवोत्पत्तिं प्रतिपादयति तत्र तत्प्रत्यायकपदाभावाद् इत्यत आह ॥ व्युच्चरन्ति जायन्त इति ॥ अनादित्वमुत्पत्यभावश्चैक एवेति साध्याविशिष्टो । हेतुरित्याशङ्क्य निषेधति ॥ न चेति ॥ तत्र प्रागभावशून्यत्वे । उत्पत्तेरेवा-भावप्रसङ्गादिति ॥ श्रौतप्रागभावशून्यत्वमनुत्पत्तितोऽन्यत्र चेत् प्रागभाव उत्पत्तितोऽन्यो न स्यात् । तथा च प्रागभावहीनस्यात्मलाभरूपोत्पत्तिरेव न स्यादित्यर्थः । यद्वा जीवस्य प्रागभावप्रतियोगित्वे सिद्धान्त्यभिमतायाः पूर्वं विद्यामानस्यैव जीवस्य देहोत्पत्तिरूपपराधीनविशेषलाभलक्षणोत्पत्तेरेवा-भावप्रसङ्ग इत्यर्थः । यद्वा धर्माधर्माश्रयत्वेन स्वीकार्योऽपि नरो लय’ इत्यनुव्याख्यानोक्तरीत्या प्रलयेऽपि सर्वोत्पत्तिमन्निमित्तकारणादृष्टाश्रयत्वेन जीवसत्वस्याङ्गीकार्यत्वात् तस्य प्रागभाव-प्रतियोगित्वे निराश्रयादृष्टासम्भवात् कारणाभावेन जगदुत्पत्तेरेवासम्भवाद् इत्यर्थः ॥ तत्रापीति ॥ कारणशून्यत्वेऽपीत्यर्थः । कारणसंस्थितौ तदुपलभ्येत । नोपलभ्यते तस्मान्नास्तीति अनुपलब्धेरेव कारणशून्यत्वं सिद्धमिति परिहरति ॥ कारणेति ॥ आकाशादीनामिति ॥ अनादित्वरूपहेतु-विशिष्टादीनामव्याकृताकाशादीनां पराधीनविशेषलाभरूपोत्पत्तिमत्वेन व्यभिचार इत्यर्थः ॥ असम्प्रतिपत्तेरिति ॥ उत्पत्तिमतां भूताकाशादीनां कारणशून्यत्वे कारणशून्यानां चाव्याकृता-काशादीनामप्युत्पत्तिमत्वेऽसंप्रतिपत्तेरित्यर्थः । तथा चाकाशादीनां पक्षसमत्वान्न व्यभिचार इति भावः । ‘नित्यो नित्यानाम्’ इति भाष्यानुरोधादाह ॥ श्रुतिश्चेति ॥ युक्तिश्चेति सूत्रानुरोधादाह ॥ न च देहादेरिति ॥ व्यधिकरणत्वादिति ॥ देहोत्पत्तिप्रत्यक्षत्वेन देहस्यानित्यत्वं भवतु जीवस्य त्वनित्यत्वं कुत एवं च देहोत्पत्तेः प्रत्त्यक्षत्वेन जीवस्योत्पत्तिकथनं व्यधिकरणमित्यर्थः । सौत्रस्यात एवेत्यस्य व्याख्यानान्तरपरं शब्दादेवेति भाष्यं व्याचष्टे ॥ श्रुतिसिद्धत्वादिति ॥

वाक्यार्थविवरणं

ननु व्युच्चरन्तीत्युत्पत्तिश्रुतेर्नित्यत्वश्रुत्या कथं विरोध इत्यत आह ॥ नित्यत्वादेवेति ॥ न चेति ॥ अनुत्पत्तिमत्त्वस्यैवानादित्वेन साध्याविशिष्टत्वादिति भावः ॥ विवक्षितत्वादिति ॥ अनादित्वादित्यनेनेति शेषः ॥ तत्र ॥ प्रागभावशून्यत्वे । जीवेऽपि प्रागभावप्रतियोगित्त्व-सत्त्वेनासिद्धिरिति भावः ॥ एवं भूतानाम् ॥ अनादित्वहेतुमताम् । अव्याकृताकाशादीनाम् ॥ असम्प्रतिपत्तेः ॥ साध्याभावस्येति शेषः । पक्षसमत्वान्न तेषु व्यभिचार इति भावः ॥ बाध इति ॥ उत्पत्त्यभावसाधकोक्तयुक्तेरिति शेषः ॥ व्यधिकरणत्वादिति ॥ जीवानुत्पत्तिसाधकानुमानस्य देहोत्पत्तिग्राहिणा प्रत्यक्षेण बाधो न युक्तो भिन्नविषयकत्वादिति भावः ॥ ईश्वरादेवेति ॥ तथा च कारणशून्यत्वरूपमनादित्वमसिद्धमिति भावः । अनुपलब्ध्या तन्निश्चय इत्यतः साऽसिद्धेत्याह ॥ श्रुतीति ॥ श्रुत्युक्तत्वादिति ॥ ‘अविनष्टा एवोत्पद्यन्त’ इति श्रुत्युक्तत्वादिति भावः ।

वाक्यार्थमञ्जरी

असङ्गतिं परिहरति ॥ नित्यत्वादेवेति ॥ विवक्षितत्वात् ॥ अनादिपदेन तत्र जीवस्य प्रागभावाप्रतियोगित्वे ॥ उत्पत्तेरेवेति ॥ प्रलये सर्वोत्पत्तिनिमित्तकारणदृष्टाश्रयत्वेन जीवसत्वस्याङ्गीकार्यत्वेन तस्य प्रागभावप्रतियोगित्वे तदानीं जीवाभावेन निराश्रयादृष्टासम्भवात् कारणाभावेन जगदुत्पत्तेरेवाभावप्रसङ्गादित्यर्थः ॥ न चाकाशादीनामिति ॥ अनादित्व-रूपहेतुविशिष्टानामप्यव्याकृताकाशादीनां पराधीनविशेषलाभरूपोत्पत्तिमत्वेन व्यभिचार इत्यर्थः । तेषां पक्षसमत्वान्न व्यभिचार इत्याह ॥ असम्प्रतिपत्तेरिति ॥ उत्पत्तेरिति शेषः ॥ व्यधिकरण-त्वादिति ॥ अनुमानस्य जीवानुत्पत्तिसाधकत्वेन प्रत्यक्षस्य देहोत्पत्तिग्राहकत्वेन भिन्नविषयत्वा-दित्यर्थः ॥ ॐ ज्ञोऽत एव ॐ ॥ जानातीति ज्ञो जीवो ऽतः परमात्मनः सकाशादुत्पद्यत एव कुतो ऽत ‘ते वा एत’ इति श्रुतेरेवेत्यर्थः ।