१० आत्माधिकरणम्

ॐ नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः ॐ

१०. अथ आत्माधिकरणम्

सूत्रभाष्यम्

॥ ॐ नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः ॐ ॥ १७ ॥

‘स इदं सर्वं विलाप्यान्तस्तमसि निलीनस्तद्विलाप्य व्युत्तिष्ठते स इदं सर्वं विसृजति विलापयति विस्थापयति प्रस्थापयत्याच्छादयति प्रकाशयति विमोचयत्येक एव’ इति श्रुतेः परमात्माऽपि न लीयते । अश्रुतत्वाद्ब्रह्मलयस्य । निलीनशब्देनापिहितत्वमुच्यते । तुच्छेनाऽभ्वपिहितं यदासीत्, इति श्रुतेः । ‘स एतस्मिंस्तमसि निलीनः प्रकृतिं पुरुषं कालं चानुपश्यति नैनं पश्यति कश्चन’ इति पैङ्गिश्रुतिः । ‘नित्यो नित्यानां चेतनश्चेतनानाम्’ (कठ.उ. ५-१३) ‘स नित्यो निर्गुणो विभुः परः परमात्मा’ । ‘नित्यो विभुः कारणो लोकसाक्षी परो गुणैः सर्वदृक् शाश्वतश्च’ इत्यादि श्रुतिभ्यो नित्यत्वाच्च ।

॥ इति आत्माधिकरणम् ॥

तत्त्वप्रदीपिका

नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः । अन्तस्तमसि निलीन इति श्रुतेः परमात्माऽपि लीयते पृथिव्यादिवदिति न मन्तव्यम् ॥ अश्रुतत्वाद्ब्रह्मलयस्य ॥ प्रत्युत ‘तद्विलाप्य व्युत्तिष्ठते’ ‘स इदं सर्वं विसृजति’ इत्यादेरस्या एव श्रुतेरपि परमात्मा न नश्यति । नचान्यत्र ब्रह्मलयः श्रुतः ।

तत्त्वप्रकाशिका

अत्र परमात्मनि श्रुतिसमन्वयसिद्ध्यर्थं तल्लयविषयश्रुतिविरोधपरिहरादस्ति शास्त्रादिसङ्गतिः । सकलजगज्जन्मादिकर्ता परमात्मेत्युक्तम् । तस्य च लयप्राप्तौ तदनुपपत्तेरसौ निरसनीयः । सर्वोत्पत्तिलयकर्तृत्वेन प्रकृतः परमात्मा विषयः । लीयते न वेति सन्देहः । ‘नित्यो नित्यानाम्’ ‘अन्तस्तमसि निलीन’ इति श्रुतिविरोधः सन्देहबीजम् । तत्र सूत्रमुपन्यस्य पूर्वपक्षं सूचयन् व्याचष्टे ॥ नात्मेति ॥ परमात्माऽपि लीयते एव । ‘तमसि निलीन’ इति श्रुतेः । न चेयं श्रुतिर्नेश्वरविषयेति वाच्यम् । स इदं सर्वं विसृजति’ इत्यादितल्लिङ्गात् । न चास्ति श्रुत्यन्तरमपीति वाच्यम् । विष्णुर्लयवांश्चेतनत्वाज्जीववदिति युक्तिसाहित्येन लयश्रुतेः प्राबल्यात् । न च वक्तव्यं स्वातन्त्र्य-हेतुना परमात्मनोऽनुपपत्तेरुक्तत्वात्कथं लय इति । स्वतन्त्रस्यापि लीलया विग्रहग्रहणपरित्यागो-पपत्तेः । अतः सयुक्तिकश्रुतिविरोधेनान्यश्रुतेरप्रामाण्यान्नोक्तसमन्वयो युक्त इति न वाच्यम् । कस्यामपि श्रुतौ ब्रह्मलयस्याश्रुतत्वादिति भावः । प्रस्थापयति प्रेरयति । आच्छादयत्यज्ञानेन ।

ननु ‘अन्तस्तमसिनिलीनः’ इति ब्रह्मलयस्य श्रुतत्वात्कथमुच्यतेऽश्रुतत्वमित्यत आह ॥ निलीनेति ॥ कुतो निलीनश्रुतिरपिहितत्वपरेत्यत आह ॥ तुच्छेनेति ॥ अस्यां श्रुतौ ‘नासदासीत्’ इत्यादिना सर्वस्य लयमुक्त्वा तम आसीदिति प्रकृतेरवस्थानमभिधाय ब्रह्मणस्तदपि हितत्वं पुनः प्रादुर्भावश्चोच्यते । अतस्तत्समाख्यानादत्रापि निलीनशब्दोऽपि हितत्वार्थ एवेति भावः । ब्रह्मणो निलीनत्वमपि हितत्वमेवेत्यत्र श्रुतिं चाह ॥ स इति ॥ निलीन इत्युक्त्वा पुरुषादीन्स्वयं पश्यति नैनं पश्यति कश्चनेति वचनान्निलीनशब्दोऽपि हितार्थे प्रयुक्त इति ज्ञायत इति भावः । किमर्थमेवं निलीनश्रुतेरर्थान्तरं परिकल्प्यते लय इत्येवार्थः किं न स्यात् । समाख्यादीनां श्रुतेर्दुर्बलत्वात् । न च श्रुत्यन्तरबलात् । तस्याप्रामाण्योपपत्तेरित्यत आह ॥ नित्य इति ॥ नित्यत्वश्रुतिविरोधा-दर्थान्तरमेव युक्तम् । न च तदप्रामाण्यम् । बाहुल्येन प्राबल्यात् । न च सयुक्तिकाया अपि प्राबल्यम् । श्रुतिविरुद्धयुक्तेः स्वयममानत्वादिति भावः । गुणैर्गुणेभ्यः । न चोदाहृतश्रुतीनां स्वरूपविषयत्वं वाच्यम् । ‘नित्यो नित्यानाम्’ इति देहनित्यत्वस्याप्युक्तत्वात् । अतः श्रुत्यविरोधेन परमात्मलयस्य निरस्तत्वाद्युक्तस्तस्मिन् श्रुतिसमन्वय इति सिद्धम् ।

गुर्वर्थदीपिका

युक्तिसाहित्येन लयश्रुतेः प्राबल्यादित्यत्र तर्हीदमधिकरणं युक्तिसहितश्रुतिविरोधपरिहारात्मक-चतुर्थपादे प्रवेशनीयमिति न शङ्कनीयम् । तत्र युक्तीनामपि श्रौतत्वस्याभिप्रेतत्वादिति ज्ञेयम् । प्रस्थापयति इतस्ततो जीवानां प्रस्थापनं यात्रां कारयतीति व्युत्पत्तिमभिप्रेत्याऽऽह– प्रेरयतीति ॥ इदं चोपलक्षणम् । विस्थापयति उत्तमाधमाख्यविभागेन स्थापयतीत्यपि द्रष्टव्यम् । तस्या-प्रामाण्योपपत्तेरित्यत्र तस्य निलीनशब्दस्यार्थान्तरबोधकश्रुत्यन्तरस्याप्रामाण्योपपत्तेर् युक्तिसहितलय-श्रुतिविरोधेनाप्रामाण्योपपत्तेरित्यर्थः । इत्यादिश्रुतिभ्यो नित्यत्वाच्चेति वदता बहुश्रुतिषु नित्यत्वस्य श्रुतेः ‘नात्मा लीयत’ इति श्रुतेरर्थान्तरं च सूचितम् ।

भावबोधः

अनन्तरसङ्गतिं सूचयन् विषयमाह– सर्वोत्पत्तिलयकर्तृत्वेन प्रकृत इति ॥ पूर्वाधिकरणे विप्रतिपत्तिनिरासेन ब्रह्मव्यतिरिक्तस्य सर्वस्य लयोक्तौ तर्हि ब्रह्मणोऽपि चेतनत्वेन तत्साम्याल्लयः स्यादिति पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भावः ॥ लीयत इति ॥ अत्र परमात्मा लीयते न वेति चिन्ता । तदर्थमन्यस्तमसि निलीय इति श्रुतिर्ब्रह्मणो देहलये प्रमाणं न भवत्युत भवतीति । तदर्थं सा श्रुतिश्चेतनत्वयुक्तियुक्तत्वेन निरवकाशोतापिहितत्वपरत्वेन सावकाशेति । तदर्थं श्रुति-सावकाशत्वयुक्त्याभावसत्त्वयोः कल्पकं ब्रह्मणो देहनित्यत्वसाधकं प्रमाणं नास्त्युतास्तीति । ‘स इदं सर्वं विसृजति’ इत्यादिलिङ्गादित्यनेन भाष्येऽधिकांशोदाहरणस्य प्रयोजनमुक्तम् । भाष्ये परमात्मापीत्यपिशब्दसूचितां चेतनत्वेन साम्याद्विष्णोरपि देहलय इति न्यायविवरणोदाहृतां युक्तिमाह– विष्णुर्लयवानिति ॥ ‘असम्भवस्तु’ इत्यधिकरणेन गतार्थत्वं निरस्यति– न च वक्तव्यमिति ॥ स्वातन्त्र्यस्यापीति ॥ तथा च स्वातन्त्र्यस्याप्रयोजकत्वादनुत्पराक्षेपेणैवै-तदधिकरणप्रवृत्तिरिति भावः । ब्रह्मलयस्याश्रुतत्वादित्यनेन श्रुतत्वाच्चान्यथेति न्यायविवरणमपि व्याख्यातं भवति । प्रादुर्भावश्चोच्यत इति । ‘तपस्तन्महिमा जायतैकम्’ इति श्रुतिशेषेणेत्यर्थः ॥ बाहुल्येनेति ॥ अनेन ताभ्य इति सूत्रगतस्य श्रुतिभ्य इति भाष्यगतस्य बहुवचनस्य प्रयोजनमुक्तं भवति ॥ देहनित्यत्वस्याप्युक्तत्वादिति ॥ अनेन ‘सर्वा एते चिदात्मनो ब्रह्मलयमनुप्राप्य विष्णोरुदरे संविशन्ति’ इति तस्योदरे सर्वसङ्ग्रहणादिश्रुतिभ्यो नित्यत्वावगतत्वात्तदेहस्येति न्यायविवरणमुक्तार्थं भवति ।

भावदीपः

चिन्तायाः फलमाह ॥ सकलेति ॥ अत्रैवैतद्विचारे किं निमित्तमित्यत आह ॥ सर्वोत्पत्ती-त्यादि ॥ तथा चात्रैवावसरप्राप्तोऽयं विचार इति भावः । इति श्रुतेः परमात्माऽपि न लीयत इत्युक्तेर्विरोधनिरासायाह ॥ पूर्वपक्षं सूचयन्निति ॥ तथैव भाष्यं व्याचष्टे ॥ परमात्माऽपीति ॥ भाष्ये तमसि निलीन इत्येतावत्येव वाच्ये शेषोक्तेरुपयोगं शङ्कापूर्वमाह ॥ न चेयमिति ॥ चेतनत्वसाम्याद्विष्णोरपि देहलय इत्यन्यत्रोक्तयुक्तिं शङ्कापूर्वं व्यनक्ति ॥ न चास्ति श्रुत्यन्तर-मिति ॥ नित्यो नित्यानामित्येतदित्यर्थः । ननूत्पत्तिमत्वाल्लीयन्त इति सिद्धमिति प्रागुक्त-न्यायेनेश्वरस्याप्यसम्भवस्त्विति नये पराधीनविशेषावाप्त्यभावरूपानुत्पत्तिमत्त्वोक्त्यैव लयाभावोऽपि सिद्ध इति तेनैवेदं गतार्थमित्याशङ्क्य निराह ॥ न च वक्तव्यमित्यादिना ॥ अत इति ॥ लयश्रुतेः प्राबल्यादित्यर्थः । भाष्यादिस्थनञोऽन्वयमाह ॥ इति न वाच्यमिति ॥ एतेन सूत्रे तमसि निलीन इति श्रुतेरात्मा लीयत इति न । अश्रुतेरिति पूर्वस्मादिति पदानुवर्तने न प्रकृतलयान्वयेन च योजना सूचिता । अर्थतस्समाख्यात्वद्योतनाय तुच्छेनेति श्रुतेः संक्षेपेणार्थमाह ॥ अस्यामिति ॥ आनुमानिकनये तदनन्यत्वनये चैषा श्रुतिरर्थतः सम्यग्व्याख्यातेति भावः ॥ प्रादुर्भावश्चेति ॥ तपसस्तन्महिना जायतेति शेषेणेति भावः । अत एव भाष्ये स इदं सर्वं विलाप्येति व्युत्तिष्ठत इति च पूर्वोत्तरशेषोक्तिरर्थसाम्यद्योतनाय कृता । अत इति अर्थतः साम्यादित्यर्थः । यथा पुरुषविधमपि चैनमधीयत इत्यर्थतः पुरुषसूक्तसमाख्यानाद्वैश्वानरविद्योक्तो विष्णुरेवेत्युक्तं वैश्वानरनये पुरुष-विधमपि चैनमधीयत इति सूत्रे तद्वदिति भावः ॥ समाख्यादीनामिति ॥ प्रकृते समाख्या-मात्रत्वेऽप्येवमुक्तिः शब्दादेवेत्यत्रोक्तन्यायस्मारणार्था । अत एव लिङ्गादीनामित्यनुक्त्वा प्रकृत-समाख्यापूर्वकतया लिङ्गादेर्ग्रहणम् । श्रुतेर्निलीनशब्दादित्यर्थः ॥ श्रुत्यन्तरेति ॥ नित्यो नित्यानामिति श्रुत्यन्तरेत्यर्थः । अर्थान्तरं परिकल्प्यत इत्यनुषङ्गः । कथमुक्ताशङ्कानिरास इत्यतो बहुवचनतात्पर्यमाह ॥ नित्यत्वेति ॥ गुणैरुत्कृष्ट इति भ्रमनिरासायाह ॥ गुणैर्गुणेभ्य इति ॥ सत्त्वादिभ्य इत्यर्थः । सर्वे वा एते चिदात्मानो ब्रह्मल्लयमनुप्राप्य विष्णोरुदरे संविशन्तीति तस्योदरे सर्वसङ्ग्रहादिति श्रुतिभ्यो नित्यत्वावगमाच्च तद्देहस्येत्यन्यत्रोक्त्यनुरोधेन नित्योनित्यानामिति श्रुत्युक्तेर्भावं शङ्कापूर्वमाह ॥ न चोदाहृतेति ॥ स्वरूपतो नित्यानामपि सकाशान्नित्यत्वोक्ति-र्देहतोऽपि नित्यत्वाभिप्रायेति भावः । ‘जगृहे पौरुषं रूपम्’ इत्यादि तु प्रथमस्कन्धतात्पर्ये जगृह इति तु व्यक्तिरिति चतुर्थगीताभाष्ये च व्याख्यातम् । तथा ब्रह्मशापोपसंसृष्टे स्वकुले यादवर्षभः । प्रेयसीं सर्वनेत्राणां तनुं स कथमत्यजत् । त्वं ब्रह्म परमं व्योम पुरुषः प्रकृतेः परः । अवतीर्णो हि भगवान्स्वेच्छोपात्तपृथग्वपुरित्यादिपुराणवाक्यानि तु एकादशस्कन्धतात्पर्यादौ सम्यग्व्याख्यातानीति भावः । अत इति ॥ निलीनश्रुतेर्नित्यत्वश्रुतिबाहुल्येनापि हि तत्वार्थत्वादित्यर्थः ।

वाक्यार्थमुक्तावली

तस्य लयप्राप्ताविति ॥ चेतनत्वेन पूर्वदृष्टान्तेन तस्यापि लयप्राप्तावित्यनेनानन्तरसङ्गतिं सूचयति । परमात्मा लीयते नवेतिचिन्ता । तदर्थम् अन्तस्तमसि निलीन इति श्रुतिर्देहलयपरा । उतापिहितत्वमात्रपरा वेति । तदर्थमपिहितत्वमात्रपरत्वे ज्ञापकमस्ति न वेति ॥ सूत्रमुपन्यस्य पूर्वपक्षमिति ॥ सूत्रे श्रुतेरश्रुतेरिति च द्वेधा विच्छेदः । तमसि विलीन इति श्रुतेरात्मा लीयते इति नेति योजनायां सूत्र एवपूर्वपक्षलाभादुपन्यस्य तत्सूचितं पूर्वपक्षं सूचयन् व्याचष्ट इत्यर्थः । ‘स इदं सर्वं विसृजति’ इति वाक्यशेषोपयोगमाह ॥ न चेयमिति ॥ परमात्माऽपि लीयत इति भाष्ये अन्यवच्चेतनत्वेन हेतुना परमात्माऽपि लीयत इति सूचितं जीवसाम्यमित्युक्तन्यायं सङ्गमयितुमाह ॥ न चास्तीत्यादिना ॥ असम्भवस्त्वित्यधिकरणन्यायेन गतार्थत्वं निरस्यति ॥ न च वक्तव्य-मिति ॥ तस्याक्षेपोऽयमिति भावः । विग्रहग्रहणं परित्यागोपपत्तेरिति । उक्तजन्मलयव्यवहारस्यैव मुख्यत्वोपपत्तौ गौणाश्रयणमन्न्याय्यमिति भावः । ततश्च जीववदात्मा परमात्माऽपि लीयते तमसिविलीन, इति श्रुतेरिति न वाच्यम् । कुतो ऽश्रुतेः । कस्यामपि श्रुतौ ब्रह्मलयस्याश्रुतत्वा-दित्यर्थः ॥ इत्यत आहेति ॥ श्रुतेरिति ॥ सूत्रखण्डस्थ निलीनशब्दस्यापिहितत्वतात्पर्यकत्वे समाख्याश्रुतेरित्यर्थान्तरमाहेत्यर्थः ॥ पुनःप्रादुर्भावश्चेति ॥ तपसस्तन्महिना जायतैकमित्यंशे-नेत्यर्थः । अत एव भाष्ये इदं सर्वं विलाप्य व्युत्तिष्ठते इति पूर्वोत्तरशेषोक्तिः ॥ तत्समाख्या-नादिति ॥ अर्थतः समाख्यानादित्यर्थः ॥ श्रुतिं चाहेति ॥ प्रयोग ज्ञापनायेति शेषः ॥ एतेन श्रुतेरित्यस्य निलीनशब्दस्यापिहितत्वश्रुतेरित्यर्थान्तरमुक्तं ज्ञेयम् । स्वयं पश्यतीत्युक्त्या देहावगमात् । नैनं पश्यतीत्यप्रत्यक्षत्वोक्त्या चेत्यर्थः ॥ प्रयुक्त इति ॥ नास्माभिर्गौण्याश्रीयत इति भावः ॥ समाख्यादीनामिति ॥ आदिपदेन पश्यतीत्युक्तदर्शनान्यथानुपपत्तेर् नैनं पश्यतीत्यप्रत्यक्षे प्रयोगस्य च ग्रहणम् । ताभ्यः श्रुतिभ्यो नित्यत्वावगमाच्चेति सूत्रखण्डव्यावर्त्यपूर्वमवतार्य भाष्यं योजयति किमर्थमित्यादिना ॥ ताभ्य इति बहुवचनेन लब्धं सर्वसङ्ग्रह इति न्यायं घटयितुमाह ॥ बाहुल्येनेति ॥ परत्वे गुणानां कर्तृत्वकरणत्वयोरभावादाह ॥ गुणैर्गुणेभ्य इति ॥ सत्वादि-गुणेभ्योऽतिक्रान्त इत्यर्थः ॥ देहनित्यत्वस्यापीति ॥ स्वरूपनित्यत्वस्य इतर चेतनमात्र-साधारण्यात्ततोऽप्यतिशयेन नित्यत्वोक्तिर्देहनित्यत्वमादाय पर्यवस्यतीति भावः ।

तत्त्वसुबोधिनी

अनन्तरसङ्गतिं सूचयन् विषयमाह ॥ सर्वोत्पत्तिलयेति ॥ पूर्वाधिकरणे विप्रतिपत्तिनिरासेन ब्रह्मव्यतिरिक्तस्य लयोक्तौ तर्हि ब्रह्मणोऽपि चेतनत्वेन तत्साम्याद् लयः स्यादिति पूर्वपक्षोत्थानाद् अनन्तरसङ्गतिरिति भावः । स इदं सर्वं विसृजति’ इत्यादितल्लिङ्गादित्यनेन भाष्येऽधिकांशो-दाहरणस्य प्रयोजनमुक्तम् ॥ श्रुत्यन्तरमपीति ॥ नित्यो नित्यानामिति श्रुत्यन्तरमित्यर्थः । असम्भवस्त्वित्यधिकरणेन गतार्थतां निरस्यति ॥ न च वक्तव्यमिति ॥ स्वतन्त्रस्यापीति ॥ तथा च स्वातन्त्र्यस्याप्रयोजकत्वाद् अनुत्पत्यपेक्षेणैवैतदधिकरणप्रवृत्तिरिति भावः । विस्थापयति प्रस्थापयति पदयोः पौनरुक्त्यादाह ॥ प्रस्थापयति प्रेरयतीति ॥ प्रादुर्भावश्चोच्यत इति ॥ तमसस्तन्महिमा जायतैकम्’ इति श्रुतिविशेषेणेत्यर्थः । समाख्यानुसारेणैवमर्थः क्रियत इत्यत आह ॥ समाख्यादीनामिति ॥ तस्याः षष्ठप्रमाणत्वादिति भावः । स एतस्मिन्निति श्रुत्यन्तरबलान् न लीनश्रुतेरर्थान्तरं कल्प्यत इत्यत आह ॥ न चेति ॥ बाहुल्येनेति ॥ ताभ्य इति सूत्रगतस्य श्रुतिभ्य इति भाष्यगतस्य च बहुवचनस्य प्रयोजनमुक्तं भवति । गुणैः पर इति सत्वादिभिः पर इत्यर्थः प्रतीयते अत आह ॥ गुणैर्गुणेभ्य इति ॥ नित्यो नित्यानामिति ॥ अन्यथा नित्यानामिति व्यर्थःस्यादिति भावः ।

वाक्यार्थविवरणम्

अनुत्पत्तेरुक्तत्वादिति ॥ अनादिनो भावस्य लयाभावनियमादिति भावः ॥ विग्रहेति ॥ तथा च यथा कथञ्चिद्विग्रहग्रहणतत्परित्यागयोरेवोत्पत्तिलयशब्दार्थत्वेन तयोश्च परमात्मनि सत्त्वेन स्वातन्त्र्यमप्रयोजकमिति भावः । तुच्छेनेत्यत्र छान्दसः स्वार्थे यक्प्रत्यय इति ज्ञातव्यम् । प्रादुर्भावश्चोच्यते । ‘तपसस्तन्महिमा जायतैकमिति’ श्रुतिशेषेणेत्यर्थः ॥ निलीन इत्युक्तेति ॥ निलीनशब्दस्य नाशार्थकत्वे पुरुषादिद्रष्टृत्वोक्त्ययोगादिति भावः ॥ श्रुतेरिति ॥ निलीनश्रुतेः सावकाशत्वादित्यर्थः ॥ श्रुत्यन्तरेति ॥ ‘स एतस्मिन्’ इति श्रुत्यन्तरबलान्निलीनश्रुतेरर्थान्तरं परिकल्प्यत इति वर्तते । अर्थान्तरत्वम् । निलीनशब्दस्य । तदप्रामाण्यम् । तासां नित्यत्व-श्रुतेरप्रामाण्यमित्यर्थः । ननु बहुत्वेन नित्यत्वश्रुतीनां प्राबल्यवन्निलीनश्रुतेरप्युक्तचेतनत्वादि-युक्तिसहितत्वेन प्राबल्यान्नार्थान्तरं कल्प्यमित्यत आह ॥ न चेति ॥ सयुक्तिकाया निलीनश्रुतेः ॥ श्रुतीति ॥ नित्यत्वश्रुतीत्यर्थः । उदाहृतनित्यत्वश्रुतीनां स्वरूपनित्यत्वाभिप्रायकत्वेन निलीनश्रुतेर् देहनाशपरत्वेनाविरोध इत्याशङ्क्य निषेधति ॥ न चेति ॥ नित्य इति ॥ स्वरूपतो नित्यानां जीवादीनां सकाशादप्यस्य विशिष्य नित्यत्ववचनं देहनित्यत्वं विना न सम्भवतीति भावः ।

वाक्यार्थमञ्जरी

आत्मा परमात्मा न लीयते कुतो ऽश्रुतेर् ब्रह्मलयस्याश्रवणात् ताभ्यो नित्यो नित्यानां स नित्यो निर्गुणः स नित्यो विभुरित्यादिश्रुतिभ्यस्तस्य नित्यत्वाच्चेत्यर्थः ॥ उक्तत्वादिति ॥ असम्भवस्तु सतोऽनुपपत्तेरित्यत्रेति शेषः ॥ प्रेरयतीति ॥ अतो न पुनरुक्तिरित्याशयः ॥ अपिहितत्वेति ॥ आच्छादितत्वेत्यर्थः ॥ प्रादुर्भावश्चेति ॥ ‘तपसस्तन्महिमा जायतैकम्’ इति श्रुतिविशेषेणेत्यर्थः । अपिहितार्थे प्रयुक्त इति लयादर्शनादिति भावः । श्रुत्यन्तरबलादित्य-नन्तरमर्थान्तरं परिकल्प्यत इत्यनुवर्तते परत्वं प्रति गुणशब्दोक्तब्रह्मादेरवधित्वात्तत्र चापादाने पञ्चम्या भाव्यत्वादाह ॥ गुणेभ्य इति ॥ अप्रधानेभ्य इत्यर्थः ॥ देहनित्यत्वस्येति ॥ अन्यथा स्वरूपनित्यषष्ठ्यन्तनित्यपदोक्तजीवाधिक्यालाभादिति भावः ।

॥ इति आत्माधिकरणम् ॥