०९ अन्तराधिकरणम्

ॐ अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॐ

९. अथ अन्तराधिकरणम्

सूत्रभाष्यम्

॥ ॐ अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॐ ॥ १५ ॥

‘प्राणान्मनो मनसश्च विज्ञानम्’ ।

‘यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि’ (कठ.उ. ३-१३)

इति लिङ्गाद्विज्ञानमनसी अन्तरा विपरीतक्रम इति चेन् न, विशेषप्रमाणाभावात् ।

तत्त्वप्रदीपिका

अन्तरेत्यादिसूत्रम् । मनसश्च विज्ञानमिति श्रुतेर्मनः कार्ये विज्ञाने यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनीति श्रुत्यन्तरात्कारणस्य मनसो विलयावगमनादनयोः सृष्टिक्रम एव लयेऽपीति चोद्यम् । यच्छेद्वाङ्मनसीति वाचं मनसि यच्छेदित्यर्थः । वाचोऽधिकरणान्तरादृष्टेः । तद्यच्छेज्ज्ञान आत्मनीति मनसस्तद्दृष्टेः । ‘वाङ्मनसि सम्पद्यत’ इत्यादेश्च ।

तत्त्वप्रकाशिका

अत्र ब्रह्मणि श्रुतिसमन्वयसिद्ध्यर्थमधिभूतादिलयविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादि-सङ्गतिः । सकललयकर्ता हरिरित्युक्तम् । लयविषये च श्रुतिविरोधे न समन्वयः सम्भवेदिति निवार्योऽसौ भवति । प्रकृताधिभूतादीनि विषयः । किं सर्वाण्युत्पत्तिक्रमवैपरीत्येन लीयन्ते कानिचित्क्रमेणापि वेति संशयः । ‘अक्षरात्परमादेव’ इति श्रुतेर्वक्ष्यमाणलिङ्गदर्शनस्य च विरोधः सन्देहबीजम् । पूर्वपक्षस्य सूत्र एवोक्तत्वात्तत्पठित्वा पूर्वपक्षांशं तावद् व्याचष्टे ॥ अन्तरेति ॥ न सर्वेषां व्युत्क्रमेण लयः किं तु केषाञ्चिद् व्युत्क्रमात् । तथा हि । विज्ञानतत्त्वं तावन्मन-स्तत्त्वादुत्पन्नं श्रूयते ‘मनसश्च विज्ञानम्’ इति श्रुतौ तस्य च पश्चादुत्पन्नस्य विज्ञानतत्त्वस्य पश्चादेव लयः पूर्वावस्थितस्य मनस्तत्त्वस्य पूर्वमेव लयः श्रूयते ‘यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि’ इति श्रुतौ । अनेन च लिङ्गदर्शनेन विज्ञानमनसी विनाऽन्येषां व्युत्क्रमाल्लयस्य प्राप्तत्वा-दुक्तमेव युक्तम् । लोकानुकूलं चैतत् । लोकेऽपि केषाञ्चित् क्रमात्केषाञ्चिद् व्युत्क्रमाल्लयदर्शनात् । न च सामर्थ्यतारतम्यविरोधः । विज्ञानमनसोः समसामर्थ्यस्यापि सम्भवात् । न चेतरश्रुतिविरोधः । तस्याः सयुक्तिकलिङ्गदर्शनविरुद्धाया अप्रामाण्योपपत्तेः । तथा च न श्रुतिसमन्वयो हरौ सिध्यतीति भावः । वाङ्मनसी यच्छेद् वाङ्मनसि लीयत इति स्मरेदित्यर्थः । सिद्धान्तांशं व्याचष्टे ॥ नेति ॥ न विज्ञानमनस्तत्त्वे विना विपरीतक्रमेण लयः किं तु सर्वेषामपि । विज्ञानमनस्तत्त्वयोर्यथोत्पत्तिलय इति विशेषप्रमाणाभावात् । सर्वेषामपि व्युत्क्रमाल्लयस्य श्रुतत्वाच्चेति भावः ।

गुर्वर्थदीपिका

वक्ष्यमाणलिङ्गदर्शनेन इत्यत्र ‘मनसश्च विज्ञानम्’ इति श्रुतावापाततो जनकतया प्रतीतमनसो जन्यतया प्रतीतविज्ञाने लयाख्यं लिङ्गम् । क्वचित्क्रमेण लयोऽप्यस्तीति ज्ञापकं लिङ्गमित्यर्थः । समसामर्थ्यस्यापि सम्भवादिति वदतोरुभयोरपि साम्यात्कारणस्य कार्येऽपि लयस्सम्भावित इति सूचितम् । वस्तुगत्या कारणमल्पशक्तिमत् कार्यमधिकशक्तिमदिति शङ्कितुरभिप्रायः । अन्यथा कार्ये लयस्योपोद्बलनासम्भवेन पूर्वपक्षप्राबल्यायोगात् । अत एवापिपदं टीकायामिति ज्ञेयम् । वाङ्मनसि लीयत इति स्मरेदित्यत्र ‘तद्यच्छे’ इति मनोमात्रस्यान्यत्र लयश्रवणात्सहोक्तयोरपि वाङ्मनसोर्वाचं मनसि यच्छेदित्यर्थाल्लभ्यत इति भावः । विज्ञानमनस्तत्वयोरिति वदता देहिनामन्तःकरणरूपमनस-स्तज्जन्यज्ञानस्य चोत्पत्तिक्रमेण लयश्रवणेऽपि महाप्रलये नश्यतोर्विज्ञानमनस्तत्त्वयोरुत्पत्तिक्रमेण नाशाश्रवणादिति सूचितम् । सर्वेषामपि व्युत्क्रमाल्लयस्य श्रुतत्वादित्यत्र ‘अक्षरात्परमादेव सर्वमुत्पद्यते क्रमात् । व्युत्क्रमाद्विलयश्च’ इति श्रुतौ सर्वस्यापि व्युत्क्रमाल्लयस्य श्रुतत्वादित्यर्थः । ननूत्पत्तिक्रमेण नाशस्य साक्षात् श्रुतत्वात् ‘तल्लिङ्गा’ इति कथं सूत्रं तद्भाष्यं चेति चेन्न । ‘विज्ञानमनसी अन्तरा विपरीतक्रम’ इत्यस्यार्थस्य श्रुतावश्रुतत्वादस्मिन्नर्थे सा श्रुतिर्लिङ्गतया प्रमाणम् । क्वचित्क्रमलयस्य श्रुतत्वान्न सर्वत्र व्युत्क्रमेण लय इति हि वक्तव्यम् । तथा च लिङ्ग-लैङ्गिकभावादेव स्वाभीष्टसाध्यसिद्धिरिति भावः सूत्रभाष्यकारयोरिति बुद्धिमता बोद्धुं शक्यत्वात् ।

भावबोधः

अधिभूतादिलयविषयश्रुतिविरोधपरिहारादिति ॥ पूर्वाधिकरणोक्तव्युत्क्रमेण लयेऽत्र क्वचिदपवादनिरासादनन्तरसङ्गतिरिति ज्ञातव्यम् । किमिति । अत्राधिभूतादीनि किं मनस्तत्त्व-विज्ञानतत्त्वे विना व्युत्क्रमेण लीयन्ते उत सर्वाण्यपि व्युत्क्रमेणैव लीयन्त इति चिन्ता । तदर्थं सर्वेषां व्युत्क्रमेण लयाभिधानात् ‘त्र्यक्षरात् परमादेव’ इति श्रुतिः, ‘प्राणान्मनो मनसश्च विज्ञानं’ ‘यच्छेद्वाङ्मनसी प्राज्ञः’ इति श्रुतिद्वयप्रतिपादितोत्पत्तिलययोरेव क्रमरूपलिङ्गदर्शनबाधिता उत न वेति । तदर्थं तल्लिङ्गे क्रमलोकदृष्ट्यनुसारित्वरूपे युक्तियुक्तत्वेन निरवकाश उत सावकाश इति । तदर्थं ‘प्राणान्मनो मनसश्च विज्ञानम्’ इति सृष्टिश्रुतिगतमनोविज्ञानशब्दौ किं तत्त्वपरावुतान्तः-करणावबोधपराविति । तदर्थं तयोस्तत्र शक्तत्वेऽपि एतच्छ्रुतिगतमनोविज्ञानशब्दयोरन्तःकरणाव-बोधपरत्वनियामकं कार्यकारणभावावेदकान्वयव्यतिरेकरूपप्रमाणं नास्त्युतास्तीति । विज्ञानमनसोः क्रमेणेति सौत्रनिर्देशे तदुभयव्यतिरिक्तानां व्यत्क्रमेण लय इत्यस्यार्थस्यालाभात् ‘अन्तरा विज्ञानमनसी क्रमेण’ इति निर्देशः कृतः । उत्पत्तिक्रमेण लीयमानत्वेनाभिमते विज्ञानमनसी अन्तरेत्युक्तिसामर्थ्यात् सूत्रे क्रमशब्दोऽव्युत्क्रमपर इत्यभिप्रे त्य प्रवृत्तं विज्ञानमनस्यन्तरा विपरीतक्रम इति भाष्यं केषाञ्चित् क्रमाल्लयः केषाञ्चिद् व्युत्क्रमाल्लय इत्यङ्गीकार इति न्यायविवरणानुरोधेन व्याचष्टे– किं तु केषाञ्चिदिति ॥ अनेनान्तरा विज्ञानमनसी व्युत्क्रम इति न्यायविवरणांशोऽपि व्याख्यातः । केषाञ्चित् क्रमात् केषाञ्चिद् व्युत्क्रमाल्लय इत्यङ्गीकारे लोकदृष्ट्यनुसारादिति न्यायविवरणोक्तमाह– लोकानुकूलमिति ॥ न च सामर्थ्येनेति ॥ पूर्वाधिकरणे पूर्वमुत्पन्नानां सामर्थ्याधिक्यस्योत्तरोत्पन्नानां सामर्थ्याल्पत्वस्योक्तत्वेन पूर्वोत्तरोत्पन्नमनस्तत्त्वविज्ञानतत्त्वयोरपि प्राप्तसामर्थ्ये तारतम्येन विरोध उत्पत्तिक्रमेण लयाङ्गीकार इत्यर्थः ॥ समसामर्थ्यस्यापीति ॥ ‘सामर्थ्याधिक्यमेतेषाम्’ इति स्मृतौ पूर्वोत्पन्नानां सामर्थ्याधिक्यान्ययोगव्यवच्छेदकावधारणाद्य-भावादित्यर्थः । ‘सर्वं वा एतत् क्रमादुत्पद्यते क्रमाद् विलीयत’ इति श्रुतौ सर्वस्यापि व्युत्क्रमाल्लये सङ्ग्रहादिति न्यायविवरणं मनसि निधायाह– सर्वेषामपीति ॥

भावदीपः

अस्य पूर्वोक्तप्रमेयस्थापनामात्रार्थत्वात्पूर्ववदेवानन्तरसङ्गतिमाह ॥ सकललयेति ॥ इति श्रुतेरिति ॥ पूर्वभाष्योक्तश्रुतेरित्यर्थः ॥ वक्ष्यमाणेति ॥ यथोत्पत्तिलयश्रवणरूपलिङ्गेत्यर्थः । पूर्वपक्षस्य पूर्वाक्षेपरूपफलाय तदाक्षेपप्रकारं च दर्शयितुं केषाञ्चित्क्रमाल्लयः केषाञ्चिद् व्युत्क्रमाल्लय इत्यन्यत्रोक्तिमनुरुध्य साध्यमध्याहृत्य तत्र हेतुपरतया पूर्वपक्षभाष्यं व्याचष्टे ॥ न सर्वेषामिति ॥ उक्तमेव केषाञ्चिदित्युक्तमेवेत्यर्थः । लिङ्गदर्शनस्य अक्षरादिति श्रुतितः प्राबल्याय केषाञ्चित्क्रमाल्लयः केषाञ्चिद् व्युत्क्रमाल्लय इत्यङ्गीकारे लोकदृष्ट्यनुसारादन्तराविज्ञानमनसी व्युत्क्रम इत्यन्यत्रोक्तां लोकदृष्ट्यनुसारियुक्तिं विवृणोति ॥ लोकानुकूलं चैतदित्यादिना ॥ उपपद्यते चेति पूर्वसूत्र-खण्डोक्तयुक्तिविरोधमाशङ्कते ॥ न चेति ॥ मनोविज्ञानयोः पूर्वोत्तरकालमुत्पन्नयोर्बहुलाल्प-शक्तिमत्त्वेन चिराचिरकालस्थायित्वावश्यम्भावेन व्युत्क्रमलय एव युक्तो न त्वनुक्रमलय इत्यर्थः । न्यूनाधिकसामर्थ्यासिद्धिं भाष्ये जन्मलयश्रुत्योरुक्त्या सूचितामाह ॥ समेति ॥ सृष्टौ मनसः पूर्वमवस्थानाद् लये च विज्ञानस्य पश्चादवस्थानादिति भावः ॥ न चेतरेति ॥ अक्षरात्परमादेवेति श्रुतिविरोध इत्यर्थः ॥ सयुक्तिकेति ॥ लोकानुकूल्यरूपयुक्तिसहितेत्यर्थः ॥ तथा चेति ॥ अक्षरादिति श्रुत्यप्रामाण्ये अन्यत्राप्यनाश्वासापातादिति भावः । श्रुतौ मनसि वाक् यच्छेद् उपरमेत् । यम उपरमे इति धातोर्लीयत इत्यर्थः । तत्र प्राज्ञ इत्यस्यान्वयाय तद्वशत्वेन तद्ध्यानं लयो नाम न चापरः । कुतस्तु मानुषो देवान्नियच्छेद्विनियामकानिति काठकभाष्यानुरोधेन ज्ञान-लक्षणामाश्रित्याह ॥ इति स्मरेदित्यर्थ इति ॥ तत्वप्रदीपे तु वाचं मनसि यच्छेदित्यर्थ इत्युक्तम् । मनसीति दैर्घ्यं छान्दसम् । नञः पूर्वभाष्येणान्वयं दर्शयति ॥ न विज्ञानेति ॥ अनेन सूत्रे पूर्वप्रकृतो लयोऽन्वेतीति सूचितम् । विशिष्टनिषेधः सविशेषणे हीति न्यायेन विशेषणनिषेधफलक इति भावेन पर्यवसितमाह ॥ किं तु सर्वेषामपीति ॥ ननु सर्वेषां व्युत्क्रमलये मानाभावादेव क्वचिदनुक्रमोऽपि लयः स्यादित्यतः सर्वं वा एतत्क्रमादुत्पद्यते क्रमाद्विलीयत इति श्रुतौ सर्वस्यापि व्युत्क्रमाल्लय-सङ्ग्रहादित्यन्यत्रोक्तरीत्याऽविशेषादिति सूत्रखण्डस्याविशेषप्रमाणादित्यर्थान्तरं मत्त्वा भाष्यभावमाह ॥ सर्वेषामपीति ॥

अभिनवचन्द्रिका

समसामर्थ्यस्यापि सम्भवादिति ॥ ननु मनस्तत्वस्य विज्ञाने लयव्युत्पादनाय वैपरीत्येन सामर्थ्यस्यापि वक्तव्यम्, न तु समबलत्वसम्भवादिति । लयाधिकरणस्य अधिकबलवत्त्वनियमादिति चेत्, न ब्रूमो वयमेकमेव सामर्थ्यमुभयत्र समानमिति । येनोक्तदोषः स्यात् । किं नाम विज्ञान-तत्त्वोत्पादनाय मनस्तत्त्वस्य विशिष्टं सामर्थ्यम् । एवं च कृत्वा समसामर्थ्यमिति । तद्यथा लोके कश्चिद्बलेनोत्तमः । एवमपि तौ समावुच्येते ।

पूर्वपक्षस्तु – न विष्णोर्व्युत्क्रमेण सर्वसंहर्तृत्वं युक्तम् । किन्तु विज्ञानमनसी अन्तरा व्युत्क्रमेण लयकर्तृत्वम् ‘मनसश्च विज्ञानम्’ इति मनस उत्पन्ने विज्ञानतत्त्वे ‘तद्यच्छेज् ज्ञान आत्मनि’ इति मनस्तत्त्वस्य लयश्रवणात्, लोकानुगुण्याच्च । लोके क्रमेण, व्युत्क्रमेण च लयदर्शनात् । न च सामर्थ्यतारतम्यविरोधः । मनस उत्पत्तिविषये सामर्थ्याधिक्यमित्यङ्गीकारे बाधकाभावात् । अतः सयुक्तिकलिङ्गदर्शनविरुद्धायाः क्रमश्रुतेर् अप्रामाण्योपपत्तेर् न श्रुतिसमन्वयो युक्त इति ।

सिद्धान्तस्तु – युक्तमेव विष्णोर्व्युत्क्रमेण सर्वसंहर्तृत्वम् । विज्ञानमनसोरपि बाधकाभावेन व्युत्क्रमेण लयाङ्गीकारात् । न च ‘मनसश्च विज्ञानः’ इति श्रुत्या मनस्तत्त्वाद् विज्ञान-तत्वस्योत्पन्नत्वेन मनस्तत्वस्य विज्ञानतत्वे लयाङ्गीकारे कथं न विरोध इति वाच्यम् । श्रुत्यर्था-परिज्ञानात् । न हि सा श्रुतिर् मनस्तत्त्वाद्धि ज्ञानतत्त्वस्योत्पत्तिमाचष्टे । किं तर्हि मन इन्द्रियाद् ज्ञानस्योत्पात्तिमाचष्टे । तदुक्तम् –

‘परादव्यक्तमुत्पन्नमव्यक्तात्तु महांस्तथा ।

विज्ञानतत्त्वं महतः समुत्पन्नं चतुर्मुखात् ॥

विज्ञानतत्त्वान् मनो मनस्तत्वाच्च खादिकम् । इति ।

अतः श्रुत्यविरोधेन सर्वेषां व्युत्क्रमेण लयसिद्धेर् हरौ श्रुतिसमन्वयो युक्त इति सिद्धम् ।

वाक्यार्थमुक्तावली

अस्य क्वचिदपवादनिरासेन पूर्वोक्तप्रमेयस्थापना मात्रार्थत्वादनन्तरसङ्गतिमाह ॥ सकललयेति ॥ किमिति ॥ अत्राधिभूतादीनि प्राणान्मनोमनसश्च विज्ञानं, ‘यच्छेद्वाङमनसी प्राज्ञस्तद्यच्छेद-ज्ञानआत्मनि’ इति श्रुतिद्वयप्रतिपादितयोरुत्पत्तिलययोरेकक्रमरूपलिङ्गदर्शनबलाक्तिं मनस्तत्व-विज्ञानतत्वे विना व्युत्क्रमेण लीयन्ते, उत सर्वाण्यपि अक्षरात्परमादेवेति श्रुत्या व्युत्क्रमेण लीयन्त इति चिन्ता । तदर्थं मनसश्च विज्ञानमिति श्रुतौ मनो विज्ञानशब्दौ किं तत्वपरौ उत अन्तःकरणा-वबोधपराविति ॥ वक्ष्यमाणेति ॥ मनोविज्ञानयोरुत्पत्तिक्रमेण लयश्रवणरूपवक्ष्यमाणलिङ्गेनेत्यर्थः । यथाश्रुतसूत्रानुरोधेन मनोविज्ञानयोरेव क्रमेण लयोऽन्येषां व्युत्क्रमेण लय इति पूर्वपक्षिणा पूर्वोक्तापवाद आशंक्यत इति व्याख्याने केषांचित्क्रमाल्लयः केषांचिद्व्युत्क्रमाल्लय इति न्याय-विवरणविरोधः । तत्र मनोविज्ञानातिरिक्तानामपि क्रमाल्लयस्याशङ्क्यमानत्वादित्यभिप्रे त्य पूर्वसूत्रा-द्विपर्येण तु क्रम इत्यनुवर्तितस्याश्रुतन्वयः । न सर्वेषां व्युत्क्रमेण लयः किन्तु केषांचिदित्यभिप्रे त्य बहिरेव प्रतिज्ञामाह ॥ न सर्वेषामिति ॥ तर्हि सूत्राविरोध इत्यतः केषांचित्क्रमाल्लय इत्यत्रोदाहरणप्रदर्शनाय सूत्रं प्रवृत्तमिति भावेन सङ्गमयति ॥ तथा हीति ॥ लिङ्गदर्शनेनेति ॥ मनसश्च विज्ञानं, यच्छेद्वाङ्मनसीप्राज्ञस्तद्यच्छेद्ज्ञान आत्मनि’ इति श्रुत्योर् मनसो विज्ञानं जायते, वाचो मनसि लीयन्ते, मनश्च विज्ञाने लीयत, इति स्मरेदित्युक्तत्वेऽपि, विज्ञानमनसोः क्रमेणान्येषां व्युक्त्रमेण लय इत्येवं विधिरूपत्वाभावेनागमविधया बोधकत्वाभावात् । पूर्वमुत्पन्नस्य मनसः पश्चादुत्पन्ने लयश्रवणं विज्ञानमनसी विना व्युत्क्रमेण लय इत्यत्रान्यथानुपपत्तिमुखेन लिङ्गमितिभावः ॥ उक्तमेव युक्तमिति ॥ केषाञ्चित्क्रमाक्तेषाञ्चिद्व्युत्क्रमादित्युक्तमेवेत्यर्थः ॥ ननु लिङ्गदर्शनेनोभयोः क्रमाल्लयस्य प्राप्तत्वेऽपि कथं बहूनामित्थंतत्सिद्धिरित्यतो लोकदृष्ट्यनुसारित्वमित्युक्तन्यायं संगमयति लोकानुकूलं चेति ॥

उपपद्यतेचेति पूर्वसूत्रखण्डोक्तयुक्तिविरोधमाशङ्कते न चेति ॥ मनोविज्ञानयोः पूर्वोत्तर-कालोत्पन्नयोश् चिराचिरकालावस्थानावश्यंभावेन, बहुलाल्पशक्तित्वेन व्युत्क्रम एव युक्तो न त्वनुक्रम इत्यर्थः ॥ समेति ॥ सृष्टौ मनसः पूर्वमवस्थानात् । प्रलये विज्ञानस्य पश्चादवस्थानात् कालसाम्येन समसामर्थ्यस्यापि सम्भवादित्यर्थः । न च वामनपुराणे पूर्वोत्पन्नस्य सामर्थ्या-धिक्योक्तिविरोधः । तस्य व्युत्क्रमेण लीयमान पूर्वोत्पन्नविषयत्वादिति भावः । श्रुतौ वाङ्मनसी यच्छेद् उपरमेत् । यम उपरम इति धातोर् लीयत इत्यर्थः । तर्हि प्राज्ञ इत्यस्यान्वयो नास्तीत्य-तस्तद्वशत्वेन ध्यानं लयो नाम न चापर इति काठकभाष्यानुसारेणाह ॥ स्मरेदिति ॥ मनसीति दीर्घश्चान्दसः । नञः पूर्वेणान्वयमाह ॥ न विज्ञानेति ॥ विशेषप्रमाणाभावादितिभाष्यस्य बुध्या विवेकेन विशेषप्रमाणाभावादित्यर्थान्तरं मत्वा तदनुसारेण सूत्रखण्डस्यार्थान्तरं सर्वसङ्ग्रह इत्युक्तन्यायं सङ्गमयितुमाह ॥ सर्वेषामपीति ॥ सर्वं वा एतत्क्रमादुपद्यते व्युत्क्रमाद्विलीयत इति श्रुतत्वाच्चेत्यर्थः । सूत्रे क्रमेणेत्यस्य व्युत्क्रमेणेत्यर्थः । लय इति शेषः ॥ तल्लिङ्गादिति ॥ विज्ञानमनसोरुत्पत्तिक्रमेण लये यथोत्पत्तिलयरूपलिङ्गादित्यर्थः ।

तत्त्वसुबोधिनी

अधिभूतलयविषयेति ॥ पूर्वाधिकरणोक्तव्युत्क्रमेण लयेऽत्र क्वचिदपवादनिरासादपवाद-सङ्गतिरिति भावः ॥ वक्ष्यमाणलिङ्गदर्शनस्य चेति ॥ पश्चादुत्पन्नस्य विज्ञानतत्वस्य पश्चाल्लय-कथनरूपलिङ्गदर्शनस्येत्यर्थः । विज्ञानमनसी क्रमेणेति सौत्रनिर्देशे तदुभयव्यतिरिक्तानां व्युत्क्रमेण लय इत्यर्थस्यालाभाद् अन्तरा विज्ञानमनसी क्रमेण इति निर्देशः कृतः । उत्पत्तिक्रमेण लीयमानत्वेन अभिमते विज्ञानमनसी । अन्तरेत्युक्तिसामर्थ्यात् सूत्रे क्रमशब्दः व्युत्क्रमपर इत्यभिप्रे त्य प्रवृत्तं विज्ञानमनस्यन्तरा विपरीतक्रम इति भाष्यं व्याचष्टे ॥ किन्तु केषाञ्चिदिति ॥ कुत्र श्रूयत इति तत्राह ॥ यच्छेदिति ॥ अस्त्वेवं लिङ्गदर्शनम् । ततः किं तत्राह ॥ अनेन च लिङ्गदर्शनेनेति ॥ उक्तमेव फलमिति ॥ विज्ञानमनसी विना व्युत्क्रमेण लय इत्युक्तमित्यर्थः । लोकानुसारित्वयुक्तिमाह ॥ लोकेति ॥ न च सामर्थ्येति ॥ पूर्वमुत्त्पन्नानां सामर्थ्याधिक्य-स्योत्तरोत्पन्नानां सामर्थ्याल्पत्वस्योक्तत्वेन पूर्वोत्पन्नमनस्तत्वविज्ञानतत्वयोरपि सामर्थ्यतारतम्येन विरोध उत्पत्तिक्रमेण लयाङ्गीकार इत्यर्थः ॥ समसामर्थ्यस्यापीति ॥ सृष्टौ मनसः पूर्वमवस्थानात् प्रलये विज्ञानतत्वस्य पक्षादवस्थानात् सामर्थ्यं सम्भाव्यत इत्यर्थः । यद्वा सामर्थ्याधिकमेतेषामिति स्मृतौ पूर्वात्पन्नानां सामर्थ्याधिक्यायोगव्यवच्छेदकावधारणाद्यभावादित्यर्थः ॥ सयुक्तिकलिङ्ग-दर्शनविरुद्धाया इति ॥ लोकानुसारित्वरूपयुक्तिसहितलिङ्गदर्शनविरुद्धाया इत्यर्थः । ननु यच्छेदिति श्रुत्यनुसारेण विज्ञानमनस्तत्वयोः क्रमेण लय इत्यत आह ॥ विज्ञानेति ॥ श्रुत्यन्तरमप्यत्रास्तीत्याह ॥ सर्वेषामिति ॥

वाक्यार्थविवरणम्

‘अक्षरात्परमादेव’ इति श्रुतेरिति ॥ तत्र सर्वस्यापि व्युत्क्रमाल्लयोक्तेर् व्युत्क्रमाद्विलयश्चै-वेत्यत्र सर्वमित्यस्य विभक्तिविपरिणामेन सर्वस्येत्यनुवृत्तेरभिप्रे तत्वादिति भावः ॥ उक्तमेवेति ॥ व्युत्क्रमेण लय इत्युक्तं युक्तमेवेत्यर्थः । विपरीतक्रम इति भाष्येण सूत्रस्थं क्रमेणेति पदं व्युत्क्रमेणेति व्याख्यातं भवति ॥ यच्छेदिति ॥ मनस्तत्त्वं विज्ञानतत्त्वे लीयते तच्चात्मनिलीयत इत्युक्त्याऽऽदौ मनस्तत्त्वलयः पश्चाद्विज्ञानतत्त्वलय इत्यर्थः ॥ यथोत्पत्तिं लयः ॥ उत्पत्त्यनुसारेण लय इति यावत् ॥ श्रुतत्वाच्चेति ॥ अक्षरात्परमादेवेति श्रुत्युक्तत्वादित्यर्थः ।

वाक्यार्थमञ्जरी

अक्षरादिति ॥ अत्र सर्वशब्दस्य षष्ठ्यन्ततया विपरिणतस्य विलयशब्देनाप्यन्वयादिति भावः ॥ लिङ्गेति ॥ क्रमादुत्पन्नयोर्मनोविज्ञानयोः क्रमाद्विलयाख्येत्यर्थः ॥ ॐ अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॐ । विज्ञानमनसी विज्ञानमनस्तत्वे अन्तरा विना क्रमेण व्युत्क्रमेणान्येषां लयः कुतस् तल्लिङ्गात् तत्रोक्तेऽर्थे मनसश्चेत्यादिश्रुत्युक्तात्क्रमादुत्पन्नयोर्विज्ञानमनसोः क्रमाल्लयाख्यलिङ्गादिति चेन्न अविशेषाद् विज्ञानमनसोरुत्पत्तिक्रमेणैव लय इत्यत्र विशेषप्रमाणा-भावाद्व्युत्क्रमाद्विलय श्चेति विशेषप्रमाणाच्चेत्यर्थः ॥ न च सामर्थ्येति ॥ पूर्वोत्तरलययोः क्रमेणाल्पाधिकसामर्थ्ययोः प्रयोजकत्वेन मनोविज्ञानयोश्च सामर्थ्याधिक्यमेतेषामित्युक्तरीत्या क्रमेणाधिकाल्पसामर्थ्यवत्वादिति भावः ॥ समसामर्थ्यस्यापीति ॥ स्मृतौ पूर्वोत्पन्नानां सामर्थ्याधिक्यायोगव्यवच्छेदकावधारणाद्यभावादिति भावः । वाक्तदभिमानिन्युमा मनसि तदभि-मानिनि रुद्रे, तन्मनो ज्ञान आत्मनि विज्ञानतत्वाभिमानिनि लीयत इति स्मरेदिति वाक्यशेषार्थः ।