ॐ विपर्ययेण तु क्रमोऽत उपपद्यते च ॐ
८. अथ विपर्ययाधिकरणम्
सूत्रभाष्यम्
‘अत एव हीदं परात्क्रमादुत्पद्यते क्रमाद्विलीयते नासावुदेति नास्तमेति’ इति भाल्लवेयश्रुतौ क्रमाल्लयः प्रतीयते ।
‘अक्षरात्परमादेव सर्वमुत्पद्यते क्रमात् ।
व्युत्क्रमाद्विलयश्चैव तस्मिन्नेव परात्मनि’ ॥
इति चतुर्वेदशिखायां व्युत्क्रमाल्लयः प्रतीयते । अत आह–
॥ ॐ विपर्ययेण तु क्रमोऽत उपपद्यते च ॐ ॥ १४ ॥
क्रमवचनमपि विपरीतक्रमापेक्षया ।
‘कर्ता प्राणादिकस्यास्य हन्ता भूम्यादिकस्य च ।
यः क्रमाद्व्युत्क्रमाच्चैव स हरिः पर उच्यते’ ॥
इत्यत एव भाल्लवेयश्रुतिवचनात् ।
‘अनुरूपः क्रमः सृष्टौ प्रतिरूपो लये क्रमः ।
इति क्रमेण भगवान्सृष्टिसंहारकृद्धरिः’ ॥ इति च पाद्मे ।
पूर्वेषां पूर्वेषां सामर्थ्याधिक्यादुपपद्यते च । वामने च –
‘पूर्वे पूर्वे यतो विष्णोः सन्निधानं क्रमाधिकम् ।
सामर्थ्याधिक्यमेतेषां पश्चादेव लयस्तथा ।
व्याप्तिश्चाभ्यधिका तेषामत एव न संशयः’ ॥ इति च ।
॥ इति विपर्ययाधिकरणम् ॥
तत्त्वप्रदीपिका
अतः सृष्टिक्रमाद्विपर्ययेणैव लयस्य क्रम एष्टव्यः । कुतः? क्रमादुत्पद्यते क्रमाद्विलीयत इति क्रमवचनं विपरीतक्रमापेक्षयेति यतः । क्रममात्रं हि तत्रोक्तम् । तदक्रमव्यावृत्तये । न सृष्टिक्रमत्वा-पत्तये । विपरीतक्रमस्यापि क्रमत्वादतो लयेऽपि क्रमोऽस्ति । स तु सृष्टिक्रमाद्विशेषवान् । विपर्ययेणेति कुत एतदवगम्यते ? ‘‘यः क्रमाद्व्युत्क्रमाच्चैवे’’त्यत एव भाल्लवेयश्रुतिवचनात् । यतस्सृष्टिक्रमं लयेऽप्याशङ्कसे । नान्याऽपि श्रुतिः श्रुतिं विरुणद्धीति हि साम्प्रतं समभिदध्महे, किमुत स्वयमियं भाल्लवेयश्रुतिः स्वात्मानमित्यत एव भाल्लवेयश्रुतिवचनादित्युक्तम् । स्वयमेव हीयं सामान्योक्तं क्रमं विशेषयतीत्यर्थः ।
तत्त्वप्रकाशिका
अत्रेश्वरे वेदसमन्वयसिद्ध्यर्थमधिभूतादिसंहारविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादि सङ्गतिः । सर्वं भगवता लीयत इत्युक्तम् । तद्विषय एव श्रुतीनां विरोधे समन्वयानुपपत्तेरवश्यनिरसनीयोऽसौ भवति । प्रकृताधिभूतादीनि विषयः । किमुत्पत्तिक्रमानुसारेण लीयन्ते व्युत्क्रमेण वेति सन्देहः । किमस्य बीजमिति श्रुतिविगानं दर्शयति ॥ अत एवेति ॥ उत्पत्तिक्रमेणैव लीयन्त इति पूर्वः पक्षः । अत एवेति श्रुतेः । न च पक्षान्तरेऽपि श्रुतिरस्तीति वाच्यम् । उत्पत्तिक्रमानुसारेणैव लयाङ्गीकारे लोकानुकूलत्वगुणेन क्रमश्रुतेः प्राबल्यात् । न च लोके व्युत्क्रमादपि लयो दृश्यत इति वक्तव्यम् । क्रमस्यैव प्रायिकत्वात् । क्रमादुत्पद्यते क्रमाद्विलीयते क्रमेणैवोत्पत्तिर्विलयश्च क्रमेणैवास्योत्पत्ति-विलयावित्यादि बहुश्रुत्यनुसारित्वाच्च । अतो बलवत् श्रुतिविरुद्धासौ श्रुतिरप्रमाणमेवेति समन्वयानुपपत्तिरित्येवं प्राप्ते सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ उत्पत्तिक्रमवैपरीत्येनैव लयः । क्रमवाचिश्रुतेरप्युत्पत्तिक्रमविपरीतक्रमापेक्षत्वात् । कुतोऽर्थान्तरकल्पनं क्रमश्रुतेः । यस्यामेव श्रुतौ क्रमाल्लयः श्रूयते तस्यामेव व्युत्क्रमाल्लयस्य श्रुतत्वादित्यर्थः । श्रुतित्वाविशेषाद् व्युत्क्रमश्रुत्या क्रमश्रुतेः कुतोबाधोविपरीतमेव किं न स्यादित्यत आह अनुरूप इति ॥ अस्तिक्रमव्युत्क्रमयोः क्रमपदप्रवेशो न तु व्युत्क्रमपदप्रवेशः । अतो निरवकाशया व्युत्क्रमश्रुत्या सावकाशक्रमश्रुतिबाधो युक्त इति भावः । तथा च श्रुत्यन्तरम् । ‘द्विविधः क्रम उद्दिष्टो व्युत्क्रमोऽनुक्रमस्तथा । सृष्टावन्यो लये चान्य इति वेदविदो विदुः’ इति । एतेन बह्वीनामपि श्रुतीनां विरोधः परिहृतः । व्युत्क्रमाल्लयाङ्गीकारे लोकविरोधान्नासौ युक्त इत्यत आह ॥ पूर्वेषामिति ॥ लौकिकानां प्रायः सामर्थ्यसाम्यात्क्रमाल्लयेऽपि नासौ प्रकृते भवति । अत्र पूर्वोत्पन्नानां सामर्थ्याधिक्यात् । एवं च लोकविरोधस्यैव गुणत्वादिति भावः । ननु पूर्वोत्पन्नानां सामर्थ्याधिक्यमेव कुतो येन पश्चाल्लयः स्यादित्यत आह ॥ वामने चेति ॥ पूर्वे पूर्वोत्पन्ने । प्रथमा वा । सन्निधीयतेऽत्रेति सन्निधानं प्रतिमा । तस्मात् श्रुत्यविरोधेन व्युत्क्रमाल्लयसिद्धेर्युक्तो हरौ समन्वय इति सिद्धम् ।
गुर्वर्थदीपिका
लोकानुकूलत्वगुणेनेत्यस्य प्रागुत्पन्नपितामहस्य प्राङ्मरणदर्शनान्मध्योत्पन्नपितुर्मध्ये मरणदर्शना-दन्तोत्पन्नपुत्रस्यान्ते मरणदर्शनादित्यर्थः । लौकिकानां प्रायस्सामर्थ्यसाम्यादित्यत्र शतवर्षपर्यन्तं जीवनसामर्थ्यस्य पितामहे पितरि पुत्रे च साम्यात्प्राचीनपितामहम्याऽऽयुश्शतसमाप्तौ तदनन्तरोत्पन्नपितुरायुस्समाप्त्यभावात्प्राक् पितामहः नश्यति न तु पिता । प्रकृते तु पितामह-पराख्यायुःप्रमाणस्य तदुत्पन्नरुद्रेऽभावेन रुद्रायुःप्रमाणस्येन्द्रेऽभावेन पूर्वपूर्वकालीनानां बहुकाले जीवित्वसामर्थ्यादुत्तरोत्तरेषां तदभावाच्च प्रतिलोम्नैव संहार इति भावः । लोकविरोधस्येत्यत्र लोके दृष्टस्य विरोधस्य शिशुत्वब्रह्माण्डोदरत्वादिविरोधस्येत्यर्थः ।
भावबोधः
अनन्तरसङ्गतिमाह– सर्वं भगवतेति ॥ पूर्वाधिकरणे इति शेषः । कर्तुर्विशेषनिर्धारणेन लये निर्धारित एव तत्र क्रमव्युत्क्रमरूपप्रकारविचारावसर इति भावः ॥ किमिति ॥ अत्राधिभूतादीनि किमुत्पत्तिक्रमेणैव लीयन्त उत तदपेक्षया व्युत्क्रमेणेति चिन्ता । तदर्थं व्युत्क्रमश्रुतिः क्रमश्रुत्यनु-गृहीतत्वेन प्रबलोत नेति । तदर्थं बहुश्रुतिगतः क्रमशब्दः किमनुक्रमरूपक्रमपर उत व्युत्क्रमरूप-क्रमपर इति । तदर्थं लोके पूर्वोत्पन्नानां पूर्वं लये पूर्वोत्पन्नत्वं प्रयोजकमुत सामर्थ्याभाव एव प्रयोजक इति । लोकानुसारित्वमिति न्यायविवरणोक्तयुक्तिमाह– उत्पत्तिक्रमानुसारेणेति ॥ न्यायविवरणो-दाहृताः श्रुतीराह– क्रमादुत्पद्यत इति ॥ अवधारणार्थक तुशब्दस्य यथाश्रुत एव सम्बन्धः । लय इति सप्तम्यन्तपदाध्याहार इत्यभिप्रे त्य ‘विपर्ययेण तु क्रम’ इति सूत्रांशं प्रतिज्ञाप्रदर्शनपरतया तावत् स्वयं व्याचष्टे– उत्पत्तिक्रमेति ॥ क्रमस्तु विपर्ययेणेति सम्बन्धे ‘अत एव ही’ति श्रुतिगति-प्रदर्शकश्च सूत्रांश इति प्रवृतं क्रमवचनमपि विपरीतक्रमापेक्षयेति भाष्यं व्याचष्टे ॥ क्रमवाचि-श्रुतेरपीति ॥ अनेन क्रमवाक्यस्य सावकाशत्वादिति न्यायविवरणमपि व्याख्यातं भवति । अवधारणार्थकतुशब्दस्य अत इत्यनेनापि सम्बन्धमभिप्रेत्य प्रवृत्तमत एव भाल्लवेयश्रुतिवचनादिति भाष्यं व्याचष्टे– यस्यामेवेत्यादिना । यस्यामेव तस्यामेवेत्यनेन पूर्वपक्षिणा साधकत्वेनोदाहृता तत एव श्रुतिवचनादेवेति भाष्याभिप्राय उक्तो भवति । बहुप्रकारत्वं क्रमस्येति न्यायविवरणानुसारेण स्मृत्यभिप्रायमाह– अस्ति क्रमव्युत्क्रमयोरिति ॥ अनुक्रमव्युत्क्रमयोरित्यर्थः । न्यायविवरणो-दाहृतश्रुतिमाह– तथा च श्रुत्यन्तरमिति ॥ परिहृत इति ॥ तत्रापि क्रमशब्दस्य व्युत्क्रम-परत्वादिति भावः । लौकिकानां सामर्थ्यसाम्यादिति । अनेन पूर्वोत्पन्नत्वहेतुः सामर्थ्याभाव-लक्षणोपाधियुक्त इत्युक्तं भवति । सन्निधानमिति पदस्वारस्यात् पूर्वोत्पन्न इति व्याख्यायैतेषामिति बहुवचनानुरोधेनाह– प्रथमा वेति ॥ पूर्वव्याख्याने तु वीप्सयैव बहुवचनोपपत्तिरिति भावः ।
भावदीपः
श्रुतीति ॥ श्रुतीनां परस्परविरोधेत्यर्थः । अस्य समन्वयसिद्ध्यर्थत्वं पूर्वोक्तदिशा ध्येयम् । पूर्वसङ्गतिमाह ॥ सर्वं भगवतेति ॥ तद्विषय एव लयविषय एव । विपर्ययेणेति सौत्रपदव्यावर्त्य-पूर्वपक्षमाह ॥ उत्पत्तीति ॥ श्रुतिप्राबल्याय लोकानुसारित्वमित्यन्यत्रोक्ता उपपद्यते चेति सौत्रपदव्यावर्त्यां युक्तिं शङ्कापूर्वमत्र योजयति ॥ न चेति ॥ ऋमादुत्पद्यते क्रमाद्विलीयते क्रमेणैवोत्पत्तिर्लयश्च क्रमेणैवास्योत्पत्तिविलयावित्यादिलोकानुसारिबहुवाक्यानुरोधश्चेत्यन्यत्रोक्त-युक्त्यन्तरं चोपयोगोक्तिपूर्वमाह ॥ न च लोक इत्यादिना ॥ अत इति ॥ क्रमलयश्रुतेर्युक्ति-द्वयसहितत्वादित्यर्थः ॥ समन्वयेति ॥ सर्वसमन्वयेत्यर्थः । यद्वैतच्छ्रुतिवदन्यत्राप्यनाश्वासा-पातादिति भावः । भाष्यस्थापिपदसूचितार्थमाह ॥ उत्पत्तिक्रमेति ॥ एतेन सूत्रे पूर्वप्रकृतो लयोऽन्वेति अतः शब्दश्च प्रकृतसृष्टिक्रमपर इति सूचितम् । न चैवं क्रमश्रुतिविरोध इत्यतो भाष्यं हेतुत्वेन व्यनक्ति ॥ क्रमवाचीति ॥ एतेन सूत्रे क्रमस्तु श्रौतक्रमस्तु अत उत्पत्तिक्रमा-द्विपर्ययेणेत्यपि योजना सूचिता । भाष्यस्थात एवेति पदस्योपयोगं दर्शयन्नर्थमाह ॥ कुत इत्यादिना ॥ यस्यामिति ॥ भाल्लवेयश्रुतावित्यर्थः । एतेन सौत्रातः पदमन्यथापि व्याख्यातं ध्येयम् ॥ इत्यत आहेति ॥
ननु कथमनया स्मृत्या शङ्कानिरास इत्यतः क्रमवाक्यस्य सावकाशत्वादित्यन्यत्रोक्त्यनुरोधेन स्मृतितात्पर्यमाह ॥ अस्तीति ॥ अनुक्रमव्युत्क्रमयोः क्रमपदप्रवेश इत्यत्र न केवलं सम्भावना-मात्रमिति भावेन न्यायविवरणोक्तश्रुतिमाह ॥ तथा चेति ॥ बहुश्रुत्यनुरोधश्च यथोत्पत्तिलये इत्यन्यत्रोक्तद्वितीय युक्तिंनिराह ॥ एतेनेति ॥ क्रमश्रुतेः सावकाशत्वोक्तिपरपाद्मवचनेनेत्यर्थः । अन्यत्रोक्ताद्ययुक्तिनिरासकतया सूत्रखण्डभाष्य मवतारयति ॥ व्युत्क्रमादिति ॥ कथमनेन लोकविरोधनिरास इत्यतो भावमाह ॥ लौकिकानामिति ॥ लयेऽप्येवं पूर्वे पूर्वे गुणाधिका इति ऋग्भाष्यानुरोधेनाह ॥ प्रथमा वेति ॥ तथा चैतेषामित्यग्रेतनबहुवचनोपपत्तिरिति भावः । पूर्वादिभ्यो नवभ्यो वेति सर्वनामसंज्ञाया विकल्पेन पूर्वे पूर्वे इत्यस्य पूर्वोत्पन्न इति सप्तम्यन्तत्वेन व्याख्यानपक्षे सन्निधानपदस्यान्वयेऽपि न प्रथमपक्षेऽन्वय इत्यत आह ॥ सन्निधीयत इति ॥ अधिकरणे ल्युडिति भावः ॥ तस्मादिति ॥ क्रमश्रुतीनां सावकाशत्वाद् व्युत्क्रमलयस्य श्रौतत्वात्सामर्थ्याधिक्ये-नोपपन्नत्वाच्चेत्यर्थः ।
अभिनवचन्द्रिका
असौ श्रुतिरप्रमाणमेवेति ॥ ननु अप्रमाणमेवेत्ययुक्तम् । अपौरषेयत्वेना-प्रामाण्यकारणीभूतपुरुषदोषशून्यस्य वेदवाक्यस्य अकारणकार्योत्पत्तिप्रसङ्गेनाऽप्रामाण्याऽयोगात् । न हि विरोधशतेनापि अप्रमाण्यकारणाभावे अप्रामाण्यं वक्तुं युक्तमिति चेत्, न । अप्रामाण्यव्याप्येन प्रमाणविरुद्धत्वेनाऽप्रामाण्यसिद्धौ कार्यबलात् पुरुषदोषसम्भवे तदतिरिक्तस्य नित्यदोषस्य कल्पयितुं शक्यत्वात् । न हि पीनस्य दिवाऽभुञ्जानस्य कस्यचित् कारणतया दिवाभोजनकल्पनासम्भवे रात्रिभोजनं न कल्प्यते । येनेह प्रसिद्धदोषासम्भवे दोषान्तरकल्पनं न स्यादिति ॥ एवं चेति ॥ गुणत्वादित्यतः परम् ‘उक्तं युक्तम्’ इति शेषः । एतेन पञ्चम्यन्तस्यानन्वय इति परास्तम् ।
पूर्वपक्षस्तु – न श्रुतिसमन्वयेन परमात्मनो व्युत्क्रमेण संहर्तृत्वं युक्तम् । व्युत्क्रमप्रतिपादक-श्रुतेरप्रामाण्यात् । तथा हि अस्ति तावत्क्रमाल्लयप्रतिपादिका ‘अत एव हीदं परात्क्रमादुत्पद्यते, क्रमाद्विलीयते’ इति श्रुतिः । सा च प्रत्यक्षानुगुणाः ‘क्रमादुत्पद्यते क्रमाद्विलीयते क्रमेणैवोत्पत्ति-र्विलयश्च’ इत्याद्याश्च श्रुतयोऽस्मिन्नर्थे भवन्ति । अतो बलवदेतच्छ्रुतिविरोधेन व्यत्क्रमप्रतिपादक-श्रुतेरप्रामाण्यमेवेति समन्वयो न युक्त इति ।
सिद्धान्तस्तु – व्युत्क्रमेणैव लयो युक्तः । क्रमश्रुतेः सावकाशत्वेनाऽबाधकत्वात् । अस्ति हि व्युत्क्रमशब्देऽपि क्रमप्रवेशः । क्रमाल्लयाभिधायकभाल्लवेयश्रुतावेव’ कर्ता प्राणादिकस्याऽस्य हन्ता भूम्यादिकस्य च’ इति व्युत्क्रमेण लयाभिधानाच्च, ‘अनुरुपक्रमः सृष्टौ प्रतिरूपो लये क्रमः’ इति वचनाच्च । न च लोकविरोधेन व्युत्क्रमाल्लयसिद्धेर् युक्तो हरौ श्रुतिसयन्वय इति सिद्धम् ।
वाक्यार्थमुक्तावली
अनन्तरसङ्गतिमाह ॥ सर्वं भगवतेति ॥ कर्तृविशेषनिर्धारणेन लयो निर्धारित एव । तत्र क्रमव्युक्त्रमरूपप्रकारविचारावसर इति भावः । तत्राधिभूतादीन्युत्पत्तिक्रमेणैव लीयन्ते व्युत्क्रमेणेति चिन्ता । तदर्थं व्युत्क्रमाद्विलयश्चेति श्रुतिः किं क्रमाद्विलीयत इत्यादिश्रुत्या लोकेप्रायेणोत्पत्ति-क्रमेणैव लयदर्शनयुक्त्यनुगृहीततया बाधितोत नेति । तदर्थं क्रमादिश्रुतौ क्रमशब्दः किमनुक्रमपरः किं वा व्युत्क्रमपर इति । तदर्थं लोके प्रथमोत्पन्नानां प्रथमं नाशे किं प्रथमोत्पत्तिः प्रयोजिकोत सामर्थ्यविशेषाभाव इति । श्रुतिप्राबल्याय लोकदृष्ट्यनुसारित्वमित्युक्तन्यायमुपपद्यतेचेति सौत्रपद-व्यावर्त्यमाह ॥ उत्पत्तिक्रमानुसारेणैवेति ॥ युक्तियुक्तत्वेन श्रुतेः प्राबल्यमुपपाद्य बहुत्वेनापि प्राबल्यमाह ॥ क्रमादुत्पद्यत इत्यादिना ॥ उक्तं च न्यायविवरणे । लोकानुसारिबहुश्रुत्यनुरोध-श्चेति । अत एव सिद्धान्ते विपर्ययेण तु क्रम इति । बह्वीनामपि सावकाशत्वं वक्ष्यत इति भावः ।
सूत्रे तुशब्दोऽवधारणार्थेप्यर्थेच । व्युक्त्रमश्रुत्या क्रमश्रुतेः सावकाशत्वरूपविशेषद्योतकश्च । ततश्च क्रमो लयक्रमः । अतः प्रकृतादुत्पत्तिक्रमाद्विपर्येण वैपरीत्येनैव नतु मत्यनुसारीति प्रतिज्ञार्थं मत्वा व्याचष्टे ॥ उत्पत्तीति ॥ क्रमः क्रमाद्विलीयत इति पूर्ववाद्युदाहृतभाल्लवेयश्रुतिवचनमपि अतो विपर्ययोत्पत्तिक्रमविपरीतक्रमापेक्षयेति वृत्यन्तरपरत्वेन भाष्यं व्याचष्टे ॥ क्रमवाचिश्रुतेरिति ॥ अत एव भाल्लवेयश्रुतिवचनादित्यस्य भावमाह यस्यामेवेति ॥ इत्यत आहेति ॥ इत्यतः पूर्वपक्षश्रुतेः सावकाशत्वाख्यविशेषद्योतकतुशब्दव्याख्यानाय पुराणवचनेन सावकाशत्वमाहेत्यर्थः ॥ एतेनेति ॥ तुशब्देन सावकाशत्वप्रदर्शनेनेत्यर्थ इत्यत आहेति ॥ उपपद्यते चेति ॥ सूत्रार्थमिति शेषः ॥ सामर्थ्यसाम्यादिति ॥ शतवर्षजीवित्वरूपसामर्थ्यसाम्यादित्यर्थः ॥ नासाविति ॥ एतेनोपपद्यते इति सूत्रखण्डस्य विपर्यय इत्यनुवृत्तेनान्वय इत्युक्तं भवति । वैरूप्यमित्युक्तसिद्धान्तन्यायं सूत्रखण्डारूढं करोति ॥ एवञ्चेति ॥ इत्यत आहेति ॥ उपपद्यते चेति चशब्दसूचित-स्मृतिमुदाहरतीत्यर्थः । सन्निधानमिति पदस्वारस्यात्सप्तम्यंततया पूर्व इत्येतद्व्याख्यायैतेषामिति बहुवचनानुरोधेनाह ॥ प्रथमा वेति ॥ पूर्वव्याख्याने तु वीप्सयैव बहुवचनोपपत्तिरिति भावः । प्रथमाविभक्तिपक्षे सन्निधानशब्दार्थमाह ॥ सन्निधीयत इति ॥ अधिकरणेऽपि ल्युडिति भावः ।
तत्त्वसुबोधिनी
अनन्तरसङ्गतिमाह ॥ सर्वं भगवतेति ॥ पूर्वाधिकरणे कर्तृविशेषनिर्धारणेन लये निर्धारिते एव तत्र क्रमव्युत्क्रमरूपप्रकारविशेषचिन्तावसर इति भावः ॥ न च पक्षान्तरेऽपीति ॥ उत्पत्तिक्रम-विपरीतक्रमेणैव लय इति पक्षान्तरेऽपीत्यर्थः । उत्पत्तिक्रमानुसारेणैव लय इत्यत्र श्रुतिबाहुल्यमाह ॥ क्रमादिति ॥ अवधारणार्थकतुशब्दस्य यथाश्रुत एव सम्बन्धः । लय इति सप्तम्यन्तपदाध्याहार इत्यभिप्रे त्य विपर्ययेण तु क्रम इति सूत्रांशं प्रतिज्ञाप्रदर्शनपरतया तावत्स्वयं व्याचष्टे ॥ उत्पत्ति-क्रमेति ॥ ननु तर्ह्युत्पत्तिक्रमेणैव लय प्रतिपादकश्रुतेः का गतिरित्यत आह ॥ क्रमवाचिश्रुते-रपीति । तथा च क्रमवाक्यं सावकाशमिति भावः । शङ्कते कुत इति ॥ उत्तरमाह ॥ यस्या-मेवेति ॥ क्रमव्युत्क्रमयोः क्रमपदप्रवेश इति ॥ अनुत्क्रमव्युत्क्रमयोः क्रमपदवाच्यतया प्रवेश इत्यर्थः ॥ एतेनेति ॥ क्रमश्रुतेः सावकाशत्वकथनेनेत्यर्थः ॥ परिहृत इति ॥ तत्रातिक्रमशब्दस्य व्युत्क्रमपरत्वादिति भावः ॥ लौकिकानामिति ॥ अनेनाकाशादयः पूर्वं विलीयन्ते पूर्वोत्पन्नत्वा-दित्यनुमाने सामर्थ्याभाव एवोपाधिरित्त्युक्तं भवति । सन्निधानमिति पदार्थस्वारस्यात् पूर्वोत्पन्न इति व्याख्याय एतेषामिति बहुवचनानुरोधेनाह ॥ प्रथमा वेति ॥ सप्तमी पक्ष इति प्रथमापक्षेऽपि सन्निधानशब्दान्वयो नेत्यत आह ॥ सन्निधीयत अत्रेति ॥
सूत्राक्षरार्थस्तु क्रमाद्विलीयत इति श्रुत्युक्तक्रमस्तु अतः प्रकृतात् सृष्टिक्रमात्, विपर्ययेण भवति । ‘अत एव व्युत्क्रमाद्विलयश्चैव’ इति वाक्यशेषादेव उपपद्यते च विपर्ययः । पूर्वोत्तरोत्पन्नानां सामर्थ्याधिक्यादिति भावः ।
वाक्यार्थविवरणं
तद्विषय एवेति ॥ लयविषय एवेत्यर्थः । अस्य सन्देहस्य इति शङ्कायां दृश्यत इति । पितुः पुरतः पुत्रस्य मरणदर्शनादित्यर्थ । क्रमवाचिश्रुतेः । क्रमाल्लयवाचिन्या ‘अत एव’ इति श्रुतेरित्यर्थः । ततश्च सावकाशतेति भावः ॥ अर्थान्तरकल्पनम् ॥ व्युत्क्रमरूपम् । यस्यामेव श्रुतौ । क्रमाद्विलीयत इत्यनेन क्रमाल्लय श्रूयत इत्युच्यते इति शेषः ॥ व्युत्क्रमश्रुत्या ॥ अक्षरादित्यादिश्रुत्या । भाष्ये क्रमेणेत्यस्य क्रमद्वयेनेत्यर्थः ॥ क्रमव्युत्क्रमयोः ॥ अनुत्क्रम-व्युत्क्रमशब्दयोरिति व्याख्येयम् । तेन व्युत्क्रमे क्रमशब्दप्रवेशसत्त्वेऽपि क्रमशब्दे कथमनुक्रमशब्द-प्रवेश इति शङ्काऽनवकाशः । क्रमशब्दस्यानुक्रमार्थत्वात् ॥ सावकाशेति ॥ क्रमशब्दस्य व्युत्क्रमपरत्वेनापि सावकाशत्वादिति भावः । सृष्टावन्योऽनुक्रमः । लये चान्यो व्युत्क्रमः ॥ पूर्वोत्पन्नानामिति ॥ यो यदपेक्षया आदिसृष्टौ पूर्वमुत्पन्न स तदपेक्षया सामर्थ्यातिशयादिगुणसंपन्न इति नियमादिति भावः । सन्निधानमिति पदस्वारस्याय पूर्व इत्येतत्सप्तम्यन्तमित्यभिप्रे त्य व्याचष्टे ॥ पूर्व इति ॥ एतेषामिति पदस्वारस्यायाह ॥ प्रथमा वेति ॥ प्रथमाबहुवचनं वेत्यर्थः । तथा च पूर्वे पूर्वोत्पन्ना विष्णोः सन्निधानमित्यसङ्गतमित्यत आह ‘सन्निधीयत’ इति । तथा च पूर्वे पूर्वोत्पन्ना क्रमेणाधिकं यथा स्यात्तथा विष्णोः सन्निधानं विष्णुप्रतिमाभूता इत्यर्थो द्रष्टव्यः । अधिकरणे ल्युडन्तस्य त्रिलिङ्गत्वान् नपुंसकत्वं युक्तमिति ध्येयम् ।
वाक्यार्थमञ्जरी
उत्तरयति ॥ श्रुतिविगानमिति ॥ लयक्रमः विपर्ययेण तु सृष्टिक्रमाद्विपर्ययेणैव भवति । कुतः । अतो यतः क्रमाद्युत्क्रमाच्चेति श्रुतेरेव । तर्हि लोकविरोध इत्यत उक्तम् ॥ उपपद्यते चेति ॥ पूर्वोत्पन्नानां सामर्थ्याधिक्याद्विपर्यय उपपद्यते चेत्यर्थः । उत्तरमाह ॥ यस्यामिति ॥ सावकाशेति ॥ नामैकदेशन्यायेन क्रमशब्देन व्युत्क्रमग्रहणसम्भवादिति भावः ॥ एतेनेति ॥ क्रमशब्दस्य व्युत्क्रमपरत्ववर्णनेनेत्यर्थः । तत्रापि क्रमशब्दस्य व्युत्क्रमपरत्वादिति भावः ॥ लौकिकानामिति ॥ अनेन पूर्वोत्पन्नत्वात्पूर्वं लय इत्यत्र सामर्थ्याभाव उपाधिरित्युक्तं भवति ॥ सन्निधानमिति ॥ पदार्थस्वारस्यानुसारेणोक्त्वा तेषामिति बहुवचनानुरोधेनाह ॥ प्रथमा वेति ॥ पूर्वव्याख्याने तु वीप्सयैव बहुवचनोपपत्तेरिति भावः । सन्निधीयते सन्निहितो भवति ।
॥ इति विपर्ययाधिकरणम् ॥