ॐ तदभिध्यानादेव तु तल्लिङ्गात्सः ॐ
७. अथ तदभिध्यानाधिकरणम्
सूत्रभाष्यम्
‘प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकस्तेनान्नेनाप्यायस्व’ (म.ना.उ. १६-२) इत्यादिनाऽन्यः संहर्ता प्रतीयत इत्यतो ब्रूते–
॥ ॐ तदभिध्यानादेव तु तल्लिङ्गात्सः ॐ ॥ १३ ॥
‘तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः’ (श्वे.उ. ११०) इति बन्धलयस्य तदभिध्याननिमित्तत्वलिङ्गात्तत्कर्तृत्वं प्रतीयते, किमु सादेर्जगतः । इत्येतस्मादेव सर्वसंहारकर्ता विष्णुरिति प्रतीयते, किमु ‘यमप्येति भुवनं साम्पराये स नो हरिर्घृतमिहायुषेऽत्तु देवः’ । ‘य इदं सर्वं विलापयति स हरिः परः परमात्मा’ इत्यादि श्रुतिभ्य इति एवशब्दः ।
‘स्रष्टा पाता च संहर्ता स एको हरिरीश्वरः ।
स्रष्टृत्वादिकमन्येषां दारुयोषावदुच्यते ॥
एकदेशक्रिया चात्र न तु सर्वात्मनेरितम् ।
सृष्ट्यादिकं समस्तं तु विष्णोरेव पराद्भवेत्’ ॥ इति च स्कान्दे ।
‘निमित्तमात्रमीशस्य विश्वसर्गनिरोधयोः ।
हिरण्यगर्भश्शर्वश्च कालाख्यारूपिणस्तव’ ॥ इति च भागवते ।
‘स ब्रह्मणा विसृजति स रुद्रेण विलापयति सोऽनुत्पत्तिरलय एक एव हरिः परः परानन्द’ इति च महोपनिषदि ॥ इति तदभिध्यानाधिकरणम् ॥
तत्त्वप्रदीपिका
न च स्वयमुत्पाद्य पालयितुर्विष्णोर् जगत्संहरणं न्याय्यमिति युक्तेश्श्रुतेश्च विष्णोरन्यो जगत्संहर्तेत्यत आह– तदभिध्यानादेव तु तल्लिङ्गात्सः ॥ तस्य विष्णोरभिध्यानाद्विश्व-मायानिवृत्तिः । कुतो जातात् ? योजनात् तस्मिन्नेव मनोयोजनात्, भूयो भूयस्तत्त्वभावनया च । अन्तेऽपरोक्षज्ञाने जाते विश्वबन्धकमायानिवृत्तिद्वारको मोक्षो भवतीत्यर्थः ।
‘स्वगुणाच्छादिका त्वेका परमाच्छादिकाऽपरा ।
स्वगुणाच्छादिकां हत्वा परमाच्छादिकां परः ।
व्याघुट्य मोक्षपदवीं ददाति पुरुषोत्तम’ ॥ इति महातत्वविवेके ।
अस्मिन् श्रुतिवाक्ये हरेरभिध्यानान्मुख्यप्रसादादिच्छया बन्धकमायानिवृत्तिवचनात्तस्मा-द्बन्धलयस्सिद्धः । ज्ञानसम्पत्त्या प्रसादस्तूत्तमो मतः । उत्तमस्त्वेव मुक्तिद इत्याधस्तात्प्रास्तौत् । पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययाविति ह्युपरि च सूत्रम् । यद्यपि तत्र स्वप्नतिरोधान-मिच्छामात्रकृतं न च मुख्यप्रसादायत्तम् । तथाऽपि तस्यास्तं तं प्रति तदा तदेति विशेषभावा-त्सविशेषेच्छासूचकस्याभिध्यानपदस्यार्थवत्त्वमेव । यद्यपि नेदमभिध्यानपदस्य कृत्यं तत्र भगवान्निगदिष्यति । स्वयमेव खल्वब्रवीत्सविशेषेच्छां वैशेषिकवादनिरासे स्वत एव काले विभेदाङ्गीकृतेश्चेति । एवं सूत्रपदहृदयं तत्र तत्र भगवानुपक्षिपति । तुशब्दश्च विशेषवाची । तत्र पराभिध्यानस्य तत्तद्विषयभेदे तारतम्यं ब्रुवाणस् तनो ह्यस्य बन्धविपर्याविति मोक्षप्रदायकत्वेन परामृश्यमानस्य सतोऽत्यर्थप्रसादात्मकत्वं च सामर्थ्याल्लक्षयति । अत्यर्थप्रसादो हि भगवतो मोक्षदोऽभिप्रेतो न च ज्ञानं विनात्यर्थप्रसाद इत्युक्तवत इत्यलमनेन सूत्रपदकृत्योक्तिसन्देह-निराकरणातिप्रसङ्गेन । प्रकृतमनुसरामः । अनादिबन्धलयकर्तुः सादिजगल्लायकत्वमस्तीति किमु वक्तव्यमित्येतस्माद्बन्धसंहर्तृत्वाल्लिङ्गादेव जगत्संहर्ता विष्णुरिति गम्यते । किमु श्रुत्या बलवत्यैकयाऽपि बहुभ्यस्तु किम्वेवेत्येवं कैमुत्यन्यायावतरणार्थमेवशब्दः प्रयुक्तः । निखिल-निगमतात्पर्यप्रसाधितजगत्कर्तृत्वादिना प्रस्तुतः स इति परामृश्यते । पुनरुक्तिरुभयकारणत्वनिवृत्त्यर्थं चेत्यत्राप्यनुप्रेक्षणीयम् । तदेव चोपसन्दर्शयामास– ‘स्रष्टृत्वादिकमन्येषां दारुयोषावदिष्यत’ इति निमित्तमात्रमित्यादि च । ईशस्य तव विश्वसृष्टिसंहारयोर् हिरण्यगर्भः शर्वश्च निमित्तमात्रमित्युक्ते द्वारमात्रमिति भवति । कालाख्यारूपिणस्तवेति हेतुगर्भम् । कालाख्यैव रूपं ‘कालाख्यारूपम्’ । रूपं रूपकं ज्ञापकं, वाचकत्वेन तद्वान् ‘रूपी’ ।
‘कालः कलितसम्पूर्णसद्गुणत्वाज्जनार्दनः ।
संहारात्सर्ववित्त्वाद्वा सर्वविद्रावणेन वा’ ॥ इति महावराहे ।
एवं बहुलश्रुतिस्मृतियुक्तिबलान्नान्यसंहारश्रुत्या लौकिकन्यायेन वा विरोधः । सा च ब्रह्मवादिनीति ह्यवादि ।
तत्त्वप्रकाशिका
एवमधिभूताधिदैवोत्पत्तिविषयश्रुतिविरोधं पराकृत्यात्र ब्रह्मणि श्रुतिसमन्वयसिद्ध्यर्थं तत्संहारविषय श्रुतिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । जगत्सृष्ट्यादिकर्ता हरिरित्यभिहितम् । तत्र संहारकर्तृत्वेऽन्यगते तदभावापातात्तन्निषेध्यमेव । प्रकृताधिभूताधिदैवानि विषयः । उत्पत्ति-मत्त्वाल्लीयन्त इति सिद्धम् । किं भगवता लीयन्ते रुद्रेण वेति सन्देहः । ‘यत्प्रयन्त्यभिसंविशन्ति’ ‘रुद्रो मा विशान्तकः’ इति श्रुतिविरोधः सन्देहबीजम् । पूर्वपक्षयति ॥ प्राणानामिति ॥ रुद्र एव संहारकः । श्रुतौ तस्यान्तकत्वश्रवणात् । न च वाच्यं रुद्रादिनाम्नां विष्णुपरत्वादियं श्रुतिस्तत्परा किं न स्यात् । रुद्रविषयत्वे वा रुद्रस्य संहारद्वारत्वाभिधात्री किं न स्यादिति । यथाकथञ्चिद्विष्णोः संहर्तृत्वाभ्युपगमे लोकदृष्टिविरोधात् । तस्य जगदुत्पादकत्वात् । लोके च पितुरन्यस्यैव मारकत्वदर्शनात् । न च रुद्रस्य संहर्तृत्वेऽत्यन्तसुप्रसिद्धेऽङ्गीकृते विरोधोऽस्ति । येन श्रुतेरन्यार्थता कल्प्यते । न च श्रुतिविरोधः । तस्या युक्तिसहितैतत् श्रुतिविरोधात् । न च भाक्तार्थत्वेनाविरोधः । युक्तिविरोधानिस्तारात् । अतो रुद्रस्यैव संहर्तृत्वादन्या श्रुतिरप्रमाणमेवेति न विष्णौ श्रुतिसमन्वयो युक्त इति भावः ।
रुद्र त्वं प्राणानामाश्रयोऽन्तकश्चासि । स त्वं मा मां विश । आहुतिरूपेणान्नेन दत्तेन निमित्तेन मामाप्यायस्वेत्यर्थः । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ विष्णुरेव संहारकर्ता । तस्याभिध्यानादिति श्रुतौ संसारमोक्षो भगवदभिध्यानाद्भवतीति हि श्रूयते । किं चातस् तदिच्छाधीनत्वलिङ्गेन तत्कृतोऽनुमीयते । एवं चानादेर्बन्ध(न)स्य लयकर्ता सुतरां सादेर्जगतः संहारकर्तेति सिध्यतीत्यर्थः । भगवति मनोयोजनाद् भूयो भूयो यथार्थध्यानाच्च जाताद्भगवदभिध्यानात् परिपाककाले विश्वबन्धकमायानिवृत्तिर्भवतीत्यर्थः । नन्वस्तु विष्णोरनादि-भवभेत्तुर्विश्वसंहारे सामर्थ्यं संहर्तृत्वं कुत इत्यत आह ॥ इत्येतस्मादिति ॥ उक्तादेतस्मादेव हेतोः संहारकर्ता विष्णुरिति प्रतीयते । शक्तस्यैव तत्सम्भवात् । अथैतावताप्यपरितोषे सुतरां स्पष्टश्रुतिभ्यो ज्ञायत इत्यर्थः । इत्यर्थमेवशब्दः सूचयतीति शेषः । विष्णोरेव संहर्तृत्वे प्रागुक्तश्रुतिविरोध इत्यत आह ॥ स्रष्टेति ॥ अत्र परतन्त्रेऽपि । सृष्ट्यादिकमिति पूर्वत्र सम्बध्यते । परतन्त्रसंहर्तृत्वपरा श्रुतिरिति भावः । पारतन्त्र्यं च संहारद्वारत्वमिति भावेनाह ॥ निमित्तेति ॥ काल इत्याख्यारूपे यस्यासौ तथोक्तः । रूपस्य कालत्वं संहर्तृत्वादिगुणसंपन्नत्वम् । स्मृतेर्मूलभूतां श्रुतिं चाह ॥ स इति ॥ न चोक्तयुक्तिविरोधः । ममत्वादिदोषराहित्येन लोकपितृवैलक्षण्याद्विष्णोर्लोकविरोधस्यादोषत्वात् । अतः श्रुत्यविरोधेन संहारस्य भगवत्कर्तृत्वसिद्धेर्युक्तस्तस्मिन् श्रुतिसमन्वय इति सिद्धम् ।
गुर्वर्थदीपिका
तत्संहारेत्यत्र तस्मात्परमात्मनो जायमानस्संहारस्तत्संहार इत्यर्थः । न च भाक्तार्थत्वेनेत्यत्र भाक्तत्वं द्वारतया संहर्तृत्वं वैकदेशसंहर्तृत्वं वेत्यर्थः । स एवेति तस्य संहर्तृत्वावधारणादेवकार इत्यादिश्रुतिभ्यः सिद्ध्यतीति किमु वक्तव्यमिति सूचयति । तुशब्देन रागादिदोषभरितलोकपितृतः परमात्मानं विशिनष्टि । ‘तस्याभिध्यानात्’ इति श्रुतावभिध्यानमिच्छा । परिपाककाल इत्यत्र ज्ञानोत्तरकालप्रारब्धकर्मणां भोगपरिपाककाल इत्यर्थः । संहर्तृत्वं कुत इत्यत्र सामर्थ्ये सत्यपि तत्कृतसंहारे प्रमाणाभावेन न तत्कर्तृत्वमङ्गीकर्तुं शक्यम् । ताडनसमर्थेऽपि पुरुषे सर्वदा ताडनकार्यादर्शनादिति भावः ।
भावबोधः
अनन्तरसङ्गतिमाह एवमिति ॥ तत्संहारविषयश्रुतिविरोधपरिहारादिति । अधिभूतादि-संहारेत्यर्थः । सृष्ट्यनन्तरत्वेऽपि विष्णोः सर्वस्थितिकर्तृत्वस्य सर्वसंमतत्वेन विवादाभावात् संहर्तृत्वस्यान्यनिष्ठत्वे पितुरन्यस्य मारकत्वरूपयुक्तिवदत्र तादृशपूर्वपक्षयुक्त्यभावाच्च तदविचार्य संहारकर्तृत्वमेव विचार्यत इति भावः । यद्यपि ‘प्रकृतैतावत्त्वम्’ इत्यत्र विष्णोः स्थितिकर्तृत्वं विचार्यम् (ते)पाठान्तरं तथाप्यत्र सर्वसंहर्तृत्वस्य विष्णुनिष्ठत्वे विचारित एव संहारकर्तुः संहारादन्यरक्षाया अयोग इति पूर्वपक्षयुक्तेरुत्थाने संहारकत्वव्यतिरिक्तपालकत्वमेव तत्र समर्थ्यते; न तु पालकत्वस्य अन्यनिष्ठत्वं निवार्यत इति ज्ञातव्यम्– किं भगवतेति ॥ अत्र भूतादिकं किं रुद्रेण लीयते, उत विष्णुनेति चिन्ता । तदर्थं ‘यत्प्रयन्ति’ इति श्रुती ‘रुद्रो मा विशान्तक’ इति श्रुतिबाधितत्वेनाप्रमाणमुत प्रमाणमिति । तदर्थं ‘रुद्रो मा विशान्तकः’ इति श्रुतिः किं युक्तत्वेन रुद्रस्य स्वातन्त्र्येण संहर्तृत्वप्रतिपादकतया निरवकाशोत विष्णुकर्तृकसंहारे रुद्रस्य द्वारमात्रपरतया सावकाशेति ॥ तदर्थं विष्णुर्न संहर्ता तदुत्पादकत्वाल्लोकपितृवदिति युक्तिः किं व्याप्त्यादिमत्त्वेना-नाभासोत ममतादि दोषयुक्तत्वरूपोपाधिग्रस्तत्वेनाभासेति । समन्वयाध्यायोक्तरीत्या विशिष्य द्युभ्वाद्यधिकरणोक्तरीत्या च रुद्रादिशब्दानां मुख्यार्थत्वाभिप्राये तेनैव गतार्थता । ‘तदधीनत्वा-दर्थवत्’ इत्युक्तन्यायेनामुख्यार्थत्वाभिप्राये ‘तेजोऽतस्तथा ह्याह’ इत्यधिकरणेन गतार्थतेत्याशङ्क्य प्रतिषेधति– न च वाच्यमिति ॥ रुद्रादीनां लयकारित्वाङ्गीकारे पितुरन्यस्य मारकत्वदृष्टेर्लोक-दृष्ट्यनुसारित्वमिति गुण इति न्यायविवरणोक्तामभ्यधिकाशङ्काहेतुभूतां युक्तिमाह– यथा कथञ्चिदित्यादिना ॥ भाक्तार्थत्वेनेति ॥ ‘रुद्रो मा विशान्तक’ इति श्रुतेर् विष्ण्वसंहृतपदार्थ-संहर्तृत्वरूपभागविषयत्वेनेत्यर्थः ॥ युक्तीति ॥ क्वचिदपि विष्णोः संहर्तृत्वाङ्गीकारे पितृत्वरूप-युक्तिविरोधानिस्तारादित्यर्थः । ‘असि’ ‘आविश’ इति मध्यमपुरुषानुरोधादाह– रुद्र त्वम्’ इति ‘मे’त्येतदस्मच्छब्दादेशरूपनिषेधार्थकं च तन्त्रेणोपात्तमिति भावेनाह– मा मां विशेति ॥ अन्यथा निषेधार्थकत्वे कर्मानुक्तिरस्मच्छब्दादेशरूपत्वेऽन्तकप्रवेशप्रार्थनानुपपत्तिरिति भावः । यद्वा, श्रुतौ सवर्णदीर्घाङ्गीकारे माम् आविशेति पदाभिप्रायेण मामाविशेत्युक्तम् । अस्मिन् पक्षे प्राणानां ग्रन्थिरसि इति हेतूक्तिस्तेनान्नेति प्रवेशफलोक्तिश्चेति ज्ञेयम् । आप्यायस्वेत्यत्र कर्मानुक्तेरस्म-च्छब्दादेश रूपस्यानुवृत्तिरित्यभिप्रेत्याह– मामाप्यायस्वेति ॥ सूत्रेऽवधारणार्थक ‘तु’ शब्दान्वितेन ‘स’ इति तच्छब्देन ‘तेजोऽत इति’ सूत्रस्थातःशब्दोक्तः परमात्मा परामृश्यत इति भावेनाह– विष्णुरेव संहारकर्तेति ॥ सूत्रे तदभिध्यानादित्येतद्युक्तिप्रदर्शकं श्रुतिसूचकमपि भवतीति भाष्ये ‘तस्याभिध्यानात्’ इति श्रुत्युदाहरणमित्यभिप्रेत्याह– तस्याभिध्यानादिति ॥ श्रुताविति ॥ विष्णोर्जगत्संहर्तृत्वे एतच्छ्रुतिप्रतिपादितसंसारमोक्षस्य भगवदिच्छाधीनत्वं कथं हेतुरित्याशङ्का-परिहाराय नायं साक्षाद्धेतुः किं तु हेतुसाधकहेतुरित्याशयेन सूत्रे तल्लिङ्गादित्युक्तम् । तस्य च सूत्रांशस्य तस्माद्बन्धलयस्य भगवदिच्छाधीनत्वल्लिङ्गात् स परमात्मा बन्धलयकर्तृत्वेनानुमीयत इत्यर्थ इत्यभिप्रेत्य प्रवृत्तस्य बन्धलयस्य तदभिध्याननिमित्तत्वलिङ्गात् तत्कर्तृत्वं प्रतीयत इति भाष्याभिप्रायमाह– किं चात इत्यादिना ॥ भाष्ये यथाश्रुतहेतुसाध्ययोर्वैयधिकरण्यशङ्का-परिहारायाह– तत्कृत इति ॥ संसारान्मोक्ष इत्यनुवर्तते । अनेन भाष्ये कर्तृत्वं नाम कृतिमत्त्वं विवक्षितम् । बन्धलयस्येश्वरेच्छाधीनत्वलिङ्गेन तत्प्रयत्नाधीनत्वानुमानोपपत्तेरित्युक्तं भवति ।
ननु बन्धलयस्य भगवत्कर्तृत्वमपि कथं जगत्संहर्तृत्वहेतुरित्यतः सूत्रार्थलब्धाभिप्रायप्रदर्शनपरं किमु सादेर्जगत इति भाष्यं व्याचष्टे– एवं चानादेरिति ॥ तस्याभिध्यानादित्यस्य जीवकर्तृध्यान-परत्वे तत्त्वभावादित्यनेन पुनरुक्तेर्विश्वमायानिवृत्तेः सकृदेव जायमानत्वेन भूयश्चेत्यस्य तत्रान्वयासम्भवाच्च श्रुतिं यथावद् व्याचष्टे– भगवति मनोयोजनादित्यादिना ॥ भूयश्चेति चशब्दाद् वीप्सालाभाद् भूयोभूय इत्युक्तम् । तत्त्वभावादित्यस्य यथार्थध्यानाच्चेत्यर्थः । भगवदभिध्यानादिति ॥ भगवदिच्छायाः सकाशादित्यर्थः ॥ स्पष्टश्रुतिभ्य इति ॥ अत्र यमप्येतीति भाष्योदाहृतश्रुतिवत् ‘न विष्णोर्विलयकृन्न विष्णोरन्यो विमुक्तिदः’ इति न्यायविवरणोदाहृतापि श्रुतिर्ग्राह्या । अत एव सामान्येन स्पष्टश्रुतिभ्य इत्युक्तम् । स्मृतौ हरेरपि प्रकृतत्वादत्रेत्यस्य तत्परत्वभ्रमं वारयितुं परतन्त्रेऽपीति व्याख्यानं कृतम् । ईरितमित्यस्य नपुंसकलिङ्गत्वेनैकदेशक्रिया चेत्यस्यानुवृत्त्य-योगादाह– सृष्ट्यादिकमिति ॥ पूर्वत्रेति ॥ पूर्वत्रापीत्यर्थः । तेन समस्तमित्यस्य न विशेष्या-नुक्तिदोषः ।
नन्वनया स्मृत्या कथं श्रुतिविरोधपरिहार इत्यतस्तद्वाक्यानां सावकाशत्वादिति न्यायविवरणानुसारेण स्मृत्यभिप्रायमाह– परतन्त्रसंहर्तृत्वपरेति ॥ रुद्रस्य क्वचित् संहारद्वार-त्वेनैवेति न्यायविवरणानुसारेणोत्तरस्मृतिमवतारयति पारतन्त्र्यं चेति ॥ आख्यारूपे यस्यासाविति रूपिण इतीनेरेवार्थ उक्तो न बहुव्रीहिरिति ज्ञातव्यम् । लोकपितृवैलक्षण्याद्विष्णो-र्यथावाक्यमङ्गीकारोपपत्तेरिति न्यायविवरणाभिप्रायमाह– ममत्वादिदोषराहित्येनेति ॥ अनेन ममत्वादिदोषयुक्तत्वं साधनधर्मावच्छिन्नसाध्यव्यापकमुपाधिरित्युक्तं भवति ।
भावदीपः
अधिकरणसङ्गतिमाह ॥ एवमिति ॥ अधिभूताधिदैवेति ॥ वियदादिशब्दानां भूततद्देवता-रूपोभयपरत्वादिति भावः । पराकृत्येत्यनन्तरं स्थितौ विवादाभावादित्यपि योज्यम् । चिन्ता-फलमाह ॥ जगदिति ॥ लयासिद्धौ केनेति विशेषविचारानवकाश इत्यत आह ॥ उत्पत्तीति ॥ अभिसंविशन्ति मुक्तौ स्वेच्छया प्रविशन्ति । अनादिबन्धलयरूपमुक्तिकर्तृत्वात्संहारकर्तृत्वं विष्णोर्युक्तमिति युक्तिसूचनार्थं सिद्धान्तानुगुणतयाभिसंविशन्तीति शेषोक्तिः । व्युत्क्रमेण भाष्यं व्याचष्टे ॥ रुद्र एवेति ॥ रुद्रादीनां मारकत्वाङ्गीकारे पितुरन्यस्य मारकत्वदृष्टेर्लोक-दृष्ट्यनुसारित्वमिति गुण इत्यन्यत्रोक्तां भाष्यस्थादिपदोपात्तां युक्तिम् अत्र पूर्वपक्षश्रुतिप्राबल्याय योजयितुं गतार्थत्वशङ्कामाह ॥ न च वाच्यमिति ॥ विष्णुपरत्वादिति ॥ अन्तर्नयेऽधि-दैवगताशेषनाम्नां समन्वयस्योक्तेर्द्युभ्वादिनयभाष्ये रुजं द्रावयत इत्यादिना योगपौराणिक-रूढ्योरुक्त्या प्रपञ्चनाच्चेति भावः ॥ कल्पनोपदेशादिति न्यायेनामुख्यवृत्त्या अन्यवाचकत्व-स्याप्यङ्गीकारादाह ॥ रुद्रविषयत्वे वेति ॥ आप इत्यत्रोक्तवचनैरन्यस्य स्वतःशक्त्यभावादिति भावः । विष्णुर्न संहर्ता उत्पादकत्वात्पितृवदिति प्रयोगं हृदि कृत्वा हेतोरप्रयोजकत्वनिरासाय न्यायविवरणोक्तिसूचितविपक्षबाधकयुक्तिं विवृणोति ॥ यथेत्यादिना ॥ अन्तकत्वश्रुतेर्विष्णुपरत्वेन वाऽन्यपरत्वेन वा साक्षादन्यद्वारा वेत्यर्थः । अत्र पितुरन्यस्येति पितृपदेन न केवलं जनको विष्णुः किं तु रक्षकश्च न च रक्षकस्य संहर्तृत्वं युक्तमिति सूचितमिति चन्द्रिका । रुद्रः संहर्ता तथा लोकप्रसिद्धत्वाद् य एवं स एवं यथा संमत इति प्रयोगमुपेत्य तस्य लोकदृष्ट्यनुसारित्वरूपानु-कूलतर्कं साक्षान्न्यायविवरणोक्तं व्यतिरेकमुखेन व्यनक्ति ॥ न चेत्यादिना ॥ श्रुते रुद्रो मेति श्रुतेः ॥ न च श्रुतीति ॥ यत्प्रयन्तीति श्रुतीत्यर्थः ॥ भाक्तेति ॥ द्वारार्थत्वरूपेत्यर्थः । यद्वा कतिपयसंहर्तृत्वरूपेत्यर्थः ॥ युक्तीति ॥ पितृत्वान्न संहर्तेश्वर इति युक्तीत्यर्थः । पूर्वभाष्याद-प्रामाण्यपदमनुवर्त्य फलोक्त्या पूर्वपक्षभाष्यमुपसंहरति ॥ अत इति ॥ सयुक्तिकबलवच्छ्रुतिबला-दित्यर्थः । रुद्रोमाविशेत्यत्र रुद्र उमा आविशेति पदविभागमुपेत्यार्थमाह ॥ रुद्रेति ॥ उ इति सम्बुद्धिद्योतकः । त्वमिति शेषः । आत्मप्रवेशप्रार्थनाया बीजोक्त्यर्थं प्राणानामित्यादि पूर्वांशोक्ति-रिति भावेन तदर्थमाह ॥ प्राणानामिति ॥ ग्रन्थिराश्रयो ऽन्तकस्संहर्ता । त्वामौ द्वितीयाया इत्यस्मदादेशोऽयं माशब्द इति भावेन मामित्युक्तम् । आविश प्रविश मयि सन्निधिं कुर्वित्यर्थः । माशब्दानुकर्ष इति मत्त्वाऽऽह ॥ मामाप्यायस्वेति ॥ प्रवेशप्रार्थने बीजान्तरोक्त्यर्थमियं शेषोक्तिरिति भावः । भाष्यं व्याकुर्वन् संहारकर्ता विष्णुरिति प्रतिज्ञां पूर्वपक्षकोटिनिरासाय सावधारणं व्याचष्टे ॥ विष्णुरेवेति ॥ निमित्तत्वेत्यन्तभाष्यं व्याचष्टे ॥ तस्येति ॥ तस्याभिध्याना-दित्यस्येच्छावत्त्वरूपेऽभिध्यातृत्वे श्रुतित्वेऽपि जन्मादिसूत्रोक्ते प्रयत्नवत्त्वरूपकर्तृत्वे लिङ्गत्वात्सूत्रे लिङ्गशब्दो युक्त इत्युपेत्य तदिच्छाधीनत्वस्य तत्कर्तृत्वे लिङ्गादित्यादिभाष्योक्तं लिङ्गत्वं प्रश्नपूर्वमाह ॥ किञ्चात इति ॥ भाष्ये जगत इत्यनन्तरं तत्कर्तृत्वमित्यस्यानुषङ्गं मत्त्वाऽऽह ॥ संहारकर्तेति ॥ संहारकरणसमर्थ इत्यर्थः । पूर्वत्र फलोपधानपरस्यापि कर्तृशब्दस्येह शक्तिपरतयानुषङ्गो विवक्षाभेदान्न विरुद्धः । तत्वभावादित्यस्यार्थो यथार्थध्यानादिति ॥ भगवदभिध्यानादिति ॥ प्रसादरूपादिच्छाविशेषादित्यर्थः । अथान्ये प्रकृती दुष्टे नृषु प्रातिस्विकं स्थिते । स्वगुणाच्छादिका ह्येका परमाच्छादिकापरा । स्वगुणाच्छादिकां हत्वा परमाच्छादिकां परः । व्याघुट्य मोक्षपदवीं ददाति पुरुषोत्तम इति श्रुतिगीतातात्पर्योक्तदिशा मायानिवृत्तिर्बोध्या ।
ननु सादेर्जगत इति पूर्वभाष्येऽनुषक्तेन तत्कर्तृत्वं प्रतीयत इत्यनेनैव जगत्संहर्तृतोक्तौ सैव इत्येतस्मादेव संहारकर्तेत्युत्तरभाष्ये संहारकर्तृत्वे हेतुत्वेनोच्यते चेत्साध्यावैशिष्ट्यमित्याशङ्क्य पूर्ववाक्ये शक्तिरेव विवक्षिता न तु प्रयत्नः । तया शक्त्योत्तरवाक्योक्तः फलरूपः प्रयत्नः साध्यते । अतो न दोष इत्याह ॥ कर्ता विष्णुरित्यादि ॥ किम्वित्यादेरर्थोऽथेत्यादि । अत्रेति भाष्यप्रतीकं तस्यार्थः परतन्त्रेऽपीति ॥ पूर्वत्रेति ॥ पूर्वत्रापीत्यर्थः । अन्यथा न तु सर्वात्मनेरितमिति पूर्वस्य विशेषणस्यैकदेशक्रिया चेति विशेष्ये(णा)मानन्दयादसङ्गतिः स्याद् उत्तरं च समस्तमिति विशेषणं विशेष्यसाकाङ्क्षत्वादनन्वितं स्यादिति भावः । रुद्रस्य क्वचित्संहारद्वारत्वेनैव तद्वाक्यानां सावकाशत्वादित्यन्यत्रोक्तेः कथं परतन्त्रसंहर्तृत्वपरेत्युक्तिरित्यत आह ॥ पारतन्त्र्यं चेति ॥ स्मृतौ निमित्तमित्युक्त्या द्वारमात्रमिति लाभाद्द्वारत्वमित्युक्तम् । कालाख्यारूपिण इति हेतुगर्भमिति भावेन कालत्वे रूपस्योक्ते नाम्नः स्वत एव सिध्यतीति भावेन रूपस्याह ॥ रूपस्येति ॥ कालशब्दो जगद्बन्धनच्छेदनज्ञानादिसर्वभगवद्धर्मवाची । कलबन्धने कलच्छेदने कलज्ञाने कलकामधेनाविति (हि) (च) पठन्तीत्येकादशे गीताभाष्योक्तेः । कालः कलितसम्पूर्णसद्गुणत्वा-ज्जनार्दनः । संहारात्सर्ववित्त्वाद्वा सर्वविद्रावणेन च’ इति गीतातात्पर्योक्तस्मृतेः । संहर्ता भगवान्विष्णुः काल इत्यभिधीयते इत्यादिप्रथमस्कन्धतात्पर्योक्तस्मृतेश्चेति भावः । तत्वप्रदीपे तु कालाख्यैव रूपं रूपकं ज्ञापकं वाचकत्वेन तद्वानित्युक्तम् । लोकपितृवैरूप्याद्विष्णोरित्यन्यत्रोक्तां युक्तिमाह ॥ ममत्वादीति ॥ अत इति ॥ श्रुतिस्मृतिलिङ्गबलाद्रुद्रोमेत्यादिश्रुतेर्द्वारार्थत्वेन सावकाशत्वाल्लोकपितृवैलक्षण्येन युक्तिविरोधाभावाच्चेत्यर्थः ।
अभिनवचन्द्रिका
लोके च पितुरन्यस्यैवेति ॥ ननु लोके उद्धंधशस्त्रगरभृगुपातादिनाऽऽत्महन्तार आततायिनो दृश्यन्ते । तत्र काऽनुपपत्तिः पितुः पुत्रेषु स्नेहो गरीयान्, येन मातुस् तद्धंतृत्वेऽपि पितुर्न स्यात्, दृश्यते चाऽजीगर्तः स्वपुत्रशुनःशेपवधाय प्रवृत्तः । तत्कथमुच्यते पितुरन्यस्यैव मारकत्वदर्शनादिति चेन् न ब्रूमो वयं लोके पितुर्मारकत्वं नैव दृष्टमिति येनोक्तदोषः स्यात्, किं नाम लोके अन्यस्य पितुः प्राज्ञविलक्षणस्य मूढस्येति यावत् पुत्रमारकत्वं दृष्टमिति तदुक्तम्– ‘अहो विधातस्त्वमतीव बालिशो यस्त्वात्मसृष्टेः प्रतिरूपमीहते’ इति । एवं च उत्पादकस्यैव संहर्तृत्वे मौढ्यं स्यान् न च तद्युक्त्तमिति संहर्तृत्वमेवानभ्युपेयमिति ॥ विरोध इति ॥ बाध इत्यर्थः । भाक्तार्थत्वेनेति ॥ अन्तकवद्भयङ्करत्वार्थकत्वेनेत्यर्थः । ‘रुद्रो माविशान्तक’ इत्यत्र रुद्र, उमेति पदच्छेदमुपेत्याह रुद्रत्वमिति ॥ ‘रुद्रस्त्वम्’ इत्यपि क्वचित्पाठः । ननु सूत्रकृतोक्तस्य ‘तदभिध्यानात्’ इति लिङ्गस्य विश्वसंहारशक्तिमत्वसिद्ध्या सावकाशत्वात् । अनादिभवभेत्तुः संहारे सामर्थ्यमस्तु विश्वसंहर्तृत्वं तु कुतः प्रमाणात् प्रतिपत्तव्यं, सूत्रे तत्साधकप्रमाणानुप-न्यासादित्याशयेन शङ्कते – नन्विति ॥ ईश्वरान्यस्य शक्त्यभावादस्यैव तदङ्गीकार्यमिति भावः ॥ शक्तस्यैव तत्सम्भवादिति ॥ अतः परं श्रूयमाणम् ‘अथैतावता परितोष’ इति वाक्यं न टीकावाक्यम्, अपि तु प्रक्षिप्तम् । अस्य भाष्योक्तकैमुत्यविरोधित्वात् । न हि पूर्वोक्तप्रमाणा-दर्थलाभप्रयुक्ता परितोषे प्रमाणान्तरप्रवृत्तिः कैमुत्यन्यायेन भवति । येनेदं वाक्यं प्रक्षिप्तं न स्यात् । ‘एकदेशिक्रिया चात्र’ इति भाष्यगतमत्रेति पदमनूद्य व्याकुर्वन् अप्यर्थकचशब्दसम्बन्धं सूचयति – अत्र परतन्त्रेऽपीति सृष्ट्यादिकमितीति ॥ पूर्वत्र ईरितमित्यत्र । अनेन परतन्त्रेऽपीरितसृष्ट्यादिकं सर्वात्मना नेति स्मृत्यर्थः सूचितः ॥ ममत्वादिदोषराहित्येनेति ॥ लौकिकपितुर् ममतासद्भावेन मौढ्यं विना पुत्रहन्त्रृत्वमयुक्तम् । ईश्वरस्य तु ममताभावान् मौढ्यं विनापि हंतृत्वसंभवान्न मौढ्यप्रसङ्ग इति भावः ।
पूर्वपक्षस्तु – न विष्णुः संहर्ता अपि तु रुद्र एव । ‘प्राणानां ग्रन्थिरसि’ इति श्रुतेः । न च विष्णोः सर्वशब्दवाच्यत्वात् सा श्रुतिर् विष्णुपरा, रुद्रपरत्वेऽपि तस्य द्वारकारणत्वाभिधात्री वा किं न स्यादिति वाच्यम् । लोकविरोधात् । लोके ंिह पिता न पुत्रमारकः । मारकोऽपि मूढ एव न प्राज्ञः । एवं च पितुरीश्वरस्य जगन्मारकत्वाङ्गीकारे मोैढ्यमेव स्यात् । न च तद्युक्तमिति लोकविरोधो दुर्वारः । न च विष्णोः संहर्तृत्वेऽपि ‘यत्प्रयन्ति’ इति श्रुतिरस्तीति वाच्यम् । तस्या बलवदेतच्छ्रुतिविरोधेनाप्रमाणत्वात् । अतो विष्णोर्न संहर्तृत्वमिति ।
सिद्धान्तस्तु – युक्तमेव विष्णोः संहर्तृत्वं ‘तस्याभिध्यानाद्योजनात्’ इति श्रुतौ तद्ध्यानजन्य-प्रसादरूपेच्छाधीनत्वस्य बन्धनिवृत्तेरभिधानात् । किञ्चातः, तदिच्छाधीनत्वेन तत्कृतत्वमनुमीयते । एवं च अनादेर्बन्धस्य लयकर्ता, सुतरां सादेर्जगतः संहारकर्तेति सिध्यति । ‘स इदं सर्वं विलापयति’ इत्यादिश्रुतेश्च । न च रुद्रस्य संहारकत्वाभिधायकश्रुतिविरोधः । तस्या द्वारकारणत्वाभिधायकत्वात् । न च पितृत्वादीश्वरस्य विनाशकत्वे मौढ्यप्रसङ्गः । लौकिकपितृणां ममतायुक्तत्वेन हन्तृत्वायोगात् । मौढ्यं विना संहर्तृत्वोपपत्तेः । अतः श्रुतिविरोधाभावेन विष्णोः संहारकर्तृत्वं सिद्धमिति ।
वाक्यार्थमुक्तावली
अनन्तरसङ्गतिमाह ॥ एवमिति ॥ स्थितेः सृष्ट्यनन्तरत्वेऽपि तृतीये, प्रकृतैतावत्वमित्यत्र तद्विचारादत्र संहार एव विचार्यते । संहारापेक्षया स्थितेः प्राथमिकत्वेन स्थितेः प्रथमं विचार्य-त्वेऽपि, परमात्मनः स्रष्ट्रत्वे, मारकत्वं न स्यात् । लोके पितुरन्यस्यैव मारकत्वदर्शनादिति स्रष्ट्रत्वस्य, संहारकत्वाक्षेपवत् स्थापकत्वाक्षेपकत्वाभावात् संगतिविशेषवशादत्र संहर्तृत्वविचारः । किं चात्र संहर्तृत्वे विचारित एव संहारकर्तुरसंहारादन्यरक्षाया अभावान् न रक्षकत्वं पृथग्वाच्य-मिति । तत्र पूर्वपक्षे असंहारकत्वव्यतिरेकेण पालकत्वस्य तत्र समर्थनेनैतदधिकरणमुपजीव्य तत्र पूर्वपक्षोदयादानंतर्योपपत्तेः ॥ किं भगवतेति ॥ किं भूतादि रुद्रो माविशान्तक, इति श्रुत्या रुद्रे विलीयते उत यत्प्रयन्ति’ इत्यादेर्भगवतीति चिन्ता । तदर्थं रुद्रो मा विशतिश्रुतिः पितुरन्यस्य मारकत्वदर्शनयुक्त्युपोद्बलिता रुद्रस्यैव स्वातन्त्र्येण संहारकारणत्वपरा उत विष्णोर्ममताऽभावेन लोकपितृवैरुप्याद्युक्तिविरोधाभावाद्विष्णुपरा रुद्रपरत्वेऽपि द्वारकारणत्वपरा वेति ।
अन्यः संहारकर्ता प्रतीयते इति भाष्यस्य विष्णोरन्यो रुद्र इत्यर्थमाह ॥ रुद्रेणैवेति ॥ रुजं द्रावयते यस्माद्रुद्रस्तस्माज्जनार्दन, इति पौराणिकयोगेन सोऽन्तकः स रुद्रो यो हरिरित्यादि-श्रौतरूढ्या च भगवति मुख्यत्वोक्तेः । तदधीनत्वन्यायेनान्यत्रामुख्यवृत्यङ्गीकारेऽपि तेषां द्वारकारणत्वस्य तेजोऽत, इत्यधिकरणन्यायसिद्धत्वाद्यतीतेत्याशङ्क्य निराह । न चेत्यादिना । पितुरन्य एव लोके संहर्ता प्रतीयते इति भाष्यखण्डस्यार्थान्तरं मत्वा लोकदृष्ट्यनुसारित्व-मित्युक्तपूर्वपक्षन्यायं सङ्गमयितुमाह ॥ यथाकथञ्चिदित्यादिना ॥ भाक्तार्थत्वेनेति ॥ रुद्रो मा विशान्तक इति श्रुतेर् विष्णुसंहृतपदार्थभिन्नपदार्थसंहर्तृत्वरूप भागविषयत्वेनेत्यर्थः । अन्तक-वद्भयङ्करत्वमात्रेण गौणार्थत्वेनेतिवा ॥ युक्तीति ॥ विष्णोः संहर्तृत्वाङ्गीकारे पितृत्वरूपयुक्ति-विरोधानिस्तारादित्यर्थः ॥ आविवेशेति ॥ मध्यमपुरुषानुसारेण रुद्र, उ इति पदविभागं मत्वा व्याचष्टे ॥ रुद्रत्वमिति ॥ उ इत्यस्य तु हे इति सम्बुद्धिद्योतकत्वं वा उच्चेत्यर्थकत्वं वा त्वमेवेत्यवधारणार्थकत्वं वेति भावः । मेत्यस्मच्छब्दादेशरूपं द्वितीयैकवचनान्तम् । ‘अमानोना प्रतिषेध’ इति चादिगणपठितं निषेधार्थकमव्ययं च तन्त्रेणोपात्तमिति भावेनाह ॥ मामाविशेति ॥ अन्यथा निषेधमात्रार्थकत्वे कर्मानुक्तिः । अस्मच्छब्दादेशमात्ररूपत्वे त्वन्तकप्रवेशप्रार्थनानु-पपत्तिरिति ज्ञेयम् । यद्वा मेति द्वितीयान्तमेव न निषेधार्थकमव्ययम् । मामाविशेति टीकायां माम् आविशेति पदच्छेदः । आप्यायस्वेत्यत्र कर्मानुक्तेर्मेत्यस्यावृत्तिरिति भावेन माम् आप्यायस्वेत्युक्तम् प्राणग्रन्थित्वात्प्राणधारणार्थमाविश । त्वमन्तक उ अन्तकोऽपि तेन मद्दत्तेन आहुतिरूपेणान्नेन माम् आप्यायस्व सुखयेति भावः ।
सूत्रे तुशब्दोऽवधारणे । तेजोऽत इत्यत्र प्रकृतसत्परामर्शकेन स इत्यनेनान्वयः (सम्बध्यते) । संहर्तेति योग्यतया लभ्यते । तदभिध्यानादिति श्रुतिसूचकम् । अभिध्या इच्छा तस्याः संजिहीर्षा । स्वरूपविशेषद्योतकश्च तुशब्दः । ततश्च तस्याभिध्यानादिति श्रुत्युक्ताद् बन्धलयस्य सञ्जिहीर्षालक्षण तदिच्छाधीनत्वरूपात्तल्लिङ्गाद् बन्धक्षयकर्तृत्वसाधकलिङ्गादेव संहारकर्ता विष्णुरेव नान्य इति प्रतीयते न तु प्रमाणान्तरमत्र वक्तव्यम् । यदा अनादिबन्धलयकरणे समर्थस्तदा सुतरां सादेर्जगत इति प्राप्तत्वात् । किं तस्य स्पष्टश्रुतेरिति सूत्रार्थः । तत्र तदभिध्यानादित्येतद् लिङ्गस्यासिद्धि-परिहाराय श्रौतत्वप्रतिपादकमिति भावेन प्रवृत्तस्य, विश्वमायानिवृत्तिरितीति भाष्यस्यार्थमाह ॥ तस्याभिध्यानादिति ॥
अस्त्वेतल्लिङ्गप्रमितमतः साध्यं किमिति शङ्कते ॥ किञ्चात इति ॥ तत्परिहाराय बन्धलयस्य तदिच्छाधीनत्वलिङ्गात्तत्कर्तृत्वमिति भाष्यं व्याचष्टे तदिच्छाधीनत्वलिङ्गेनेति ॥ ननु संसारमोक्षो भगवदभिध्यानाद्भवतीति श्रूयते चेद्भगवतः कर्तृत्वस्यागमेनैव प्राप्तत्वात् कथं श्रुतेन तदिच्छाधीनत्व-लिङ्गेन तदनुमानमिति चेन्न । इच्छया ह्यत्र बन्धलयो भवतीत्युच्यते, न चासावुपपन्नः प्रयत्न-विरहिणामिच्छामात्रेण कार्योत्पादायोगात् । अतः श्रौतं बन्धलयस्य तदिच्छाधीनत्वं जन्मादि-सूत्रोक्तप्रयत्नवत्वरूपकर्तृत्वे लिङ्गं भवत्येवेति । व्यक्तमेतच्चन्द्रिकायाम् ।
ननु इच्छात्वम् उक्तविधकर्तृत्वे लिङ्गं चेत् तदनुमापयत् । अनेन विष्णोर्जगत्संहर्तृत्वसिद्धिः कथमन्यथा धूमेन शब्दानित्यत्वसिद्धिप्रसङ्गादित्यतः प्रवृत्तस्यैवेत्यस्य विवरणपरं किमु सादेर्जगत-रित्येतद्व्याचष्टे ॥ एवं चानादेरिति ॥
भूयश्चेति चशब्देन वीप्सालाभाद् भूयो भूय इत्युक्तम् ॥ भगवदभिध्यानादिति ॥ प्रसादलक्षणेच्छाविशेषादित्यर्थः । संहर्तृत्वं च कुत इति प्रमाणादिति शेषः ॥ उक्तादेतस्मादेवेति ॥ कैमुत्यलब्धात्सर्वसंहारे शक्तिलक्षणादेव हेतोरित्यर्थः ॥ शक्तस्यैवेति ॥ शक्तस्यैव प्रयत्नरूप कर्तृत्वसम्भवान् नत्वशक्तस्य रुद्रादेरिति भावः । विमतः संहारः विष्णुकर्तृकस् तदन्याशक्यत्वे सति कार्यत्वाद् यथा रामादन्येनाशक्यं रावणहननं रामकर्तृकमिति प्रयोगो द्रष्टव्यः ॥ अथैतावतेति ॥ श्रुतिप्राप्तस्य रुद्रस्य संहारकारणत्वस्य न युक्तिमात्रेण निरासो युज्यत इत्यपरितोष इत्यर्थः । अत्र परतन्त्रेऽपीति पूर्वत्र सम्बध्यते पूर्वत्रापि सम्बध्यत इत्यर्थः । पूर्वत्रासम्बन्धे इतीरितमित्यस्य नपुंसकस्यैकदेशक्रियेत्यनेनानन्वयादसङ्गतिः स्यात् ॥ सृष्ट्यादिकमित्यस्य उत्तरत्रानन्वये समस्तमित्यस्य विशेष्याभावः स्यात् । ततश्च अत्र परतन्त्रजगदेकदेशविषयसृष्ट्यादिक्रियैव निविष्टा न तु सृष्ट्यादिकं सर्वात्मनेरितम् । समस्तं सर्वविषयं सृष्ट्यादिकं विष्णोरेव भवेदित्यन्वय इति भावः ॥ परतन्त्र संहर्तृत्वपरेति ॥ अत एवासम्भवस्तु सत इत्युक्तसतः सूत्रे स इति परामर्शः । सच्छब्दस्य स्वातन्त्र्यवाचित्वादिति भावः ॥ काल इत्याख्यारूपे इति ॥ आख्या नाम । कालपदमुभयत्रान्वेति । इनिप्रत्ययार्थमाह ॥ यस्यासाविति ॥ न तु बहुव्रीहिरिति भ्रमितव्यम् । ननु रूपस्य कालत्वं कालनामकत्वं चेत्पुनरुक्तिरित्यत आह रुपस्येति ॥ कलच्छेदने ॥ कलबन्धने, कलकामधेनौ, इति धातुव्याख्यानादिति भावः । कुतो न लोकविरोध इत्यतः सोऽनुत्पत्तिरप्रलयः परः लोकविलक्षण इति भाष्योपात्तश्रुतिसूचितं सूत्रे च स इति सत्परामर्शकतच्छब्देन सूचितं वैरूप्यमित्युक्तसिद्धान्तन्यायं संगमयति ममत्वादीति । सच्छब्दस्य निर्दोषवाचित्वादिति ज्ञेयम् ।
तत्त्वसुबोधिनी
अनन्तरसङ्गतिमाह ॥ एवमिति ॥ तत्संहारश्रुतिविरोधेति ॥ स्थितेः सृष्ट्यनन्तरत्वेऽपि विष्णोः सर्वस्थितिकर्तृत्वस्य सम्मतत्वेन विवादाभावात् । संहर्तृत्वस्यान्यनिष्ठत्वे पितुरन्यस्य मारकत्वदृष्टिरूपयुक्तिवद् अत्र तादृशपूर्वपक्षयुक्त्यभावेन तदविचार्य संहारकर्तृत्वमेव विचार्यत इति भावः । समन्वयाध्यायोक्तरीत्या रुद्रादिशब्दानां मुख्यार्थत्वाभिप्राये तेजोऽत इत्यनेन गतार्थतेत्या-शङ्कां निषेधति ॥ न च वाच्यमिति ॥ कुतो लोकविरोध इत्यतस् तत्र हेतुमाह ॥ तस्येति ॥ उत्पादकत्वेऽप्यस्तु संहर्तृत्वमत आह ॥ लोके चेति ॥ अत्र पितृशब्देन केवलं जनको विष्णुरपि तु रक्षकश्च । न च रक्षकस्य संहर्तृत्वं युक्तमिति सूचितम् इति चन्द्रिका । ननु लोकविरोधेन विष्णोः संहर्तृत्वासम्भवाद् रुद्रस्यापि न संहर्तृत्वं लोकविरोधादित्याशङ्क्य निषेधति ॥ न चेति ॥ तथा च रुद्रसंहर्तृत्वं लोकसिद्धत्वान् न तद्विरुद्धमिति भावः ॥ भाक्तार्थत्वेनेति ॥ रुद्रो माविशान्तक इति श्रुतेर्विष्णुसंहृतपदार्थभिन्नपदार्थसंहृतत्वरूपभागविषयत्वेनेत्यर्थः ॥ युक्तीति ॥ क्वचिदपि विष्णोः संहर्तृत्वाङ्गीकारे पितृत्वरूपयुक्तिविरोधानिस्तारादित्यर्थः । असि आविश इति मध्यमपुरुषानु-रोधादाह ॥ रुद्र त्वमिति ॥ मेत्येतद् अस्मच्छब्दादेशरूपं निषेधार्थकं च तन्त्रेणोपात्तमिति भावेनाह ॥ मा मां विशेति ॥ अन्यथा निषेधमात्रार्थकत्वे कर्मानुक्तिः । अस्मच्छब्दादेश-रूपस्यानुवृत्तिमभिप्रेत्याह ॥ मामाप्यायस्वेति ॥ सूत्रे सावधारणतुशब्दान्वितेन स इति तच्छब्देन तेजोऽत इति सूत्रस्थातःशब्दोक्तः परमात्मा संहर्तृत्वेन परामृश्यते इति भावेनाह ॥ विष्णुरेव संहारकर्तेति ॥ सूत्रे तदभिध्यानादित्येतद् युक्तिप्रदर्शकं श्रुतिसूचकमपि भवतीति भाष्ये तस्याभिध्यानादिति श्रुत्युदाहरणमित्यभिप्रेत्याह ॥ तस्याभिध्यानादिति श्रुताविति ॥
ननु विष्णोः सर्वजगत्कर्तृत्वे सादिसर्वजगत्कर्तृत्वे एतच्छ्रुतिप्रतिपादितानादिबन्धलयस्य भगवदिच्छाधीनत्वं कथं हेतुरित्याशङ्कापरिहाराय नायं साक्षात्सादिजगत्संहर्तृत्वे हेतुः किन्तु सादिजगत्संहर्तृत्वे हेतुभूतानादिबन्धसंहर्तृत्वे हेतुरित्याशयेन तल्लिङ्गादिति सूत्रे उक्तम् । तस्य च सूत्रांशस्य तस्माद्बन्धलयस्य भगवदिच्छाधीनत्वाल्लिङ्गात् स परमात्मा बन्धलयकर्तृत्वेन नानुमीयत इति अभिप्रेत्य प्रवृत्तस्य बन्धलयस्य तदभिध्यानमिति तत्त्वलिङ्गात् तत्कर्तृत्वं प्रतीयत इति भाष्यस्याभिप्रायमाह ॥ किञ्चात इत्यादिना ॥ तस्याभिध्यानादित्यस्येच्छावत्वरूपे अभिध्यातृत्वे श्रुतत्वेऽपि जन्मादिसूत्रोक्ते प्रयत्नवत्वरूपे कर्तृत्वे लिङ्गत्वात् सूत्रे लिङ्गशब्दो युक्त इत्यभिप्रेत्य इच्छायाः प्रयत्नलिङ्गत्वं प्रश्नपूर्वकं दर्शयति ॥ किञ्चात इत्यादिना ॥ तत्कृत इति ॥ संसारान्मोक्ष इत्यनुवर्तते । अनेन भाष्ये कर्तृत्वं नाम कृतिमत्वं विवक्षितम् । बन्धलयस्येश्वरेच्छाधीनत्वलिङ्गेन तत्प्रयत्नाधीनत्वानुमानोपपत्तेरित्युक्तं भवति ।
ननु बन्धलयस्य भगवत्कृतत्वमपि कथं जगत्संहर्तृत्वे हेतुरित्यत सूत्रार्थलब्धाभिप्रायदर्शनपरं किमु सादेर्जगत इति भाष्यं व्याचष्टे ॥ एवञ्चानादेरिति ॥ तस्याभिध्यानादित्यस्य जीवकर्तृक-ध्यानपरत्वे तत्त्वभावादित्यनेन पुनरुक्तेर्विश्वमायानिवृत्तेः सकृदेव जायमानत्वेन भूयश्चेत्यस्य तत्रान्वयासम्भवाच्चेत्यतः श्रुतिं यथावद्व्याचष्टे ॥ भगवतीत्यादिना ॥ भूयश्चेति ॥ चशब्दा-द्वीप्सालाभाद् भूयो भूय इत्युक्तम् । तत्वभावादित्यस्य व्याख्या यथार्थद्ध्यानादिति ॥ ननु किमु सादेर्जगत इति पूर्वभाष्येऽनुषक्तेन तत्कर्तृत्वेनेत्यनेनैव जगत्संहर्तृतोक्तौ सैव इत्येतस्मादेव संहारकर्तेत्युत्तरभाष्ये संहारकर्तृत्वे हेतुत्वेन उच्यते । तदयुक्तं साध्याविशिष्टादित्याशङ्क्य पूर्ववाक्योक्तया शक्त्या उत्तरवाक्योक्तः प्रयत्नः साध्यते अतो दोष इत्याह ॥ कर्ता विष्णुरिति ॥ प्रतीयते शक्तस्यैव तत्सम्भवादिति । अत्रेति भाष्यप्रतीकं तस्यार्थः परतन्त्रेऽपीऽति ॥ पूर्वत्र सम्बध्यत इति ॥ पूर्वत्रापि सम्बध्यते इत्यर्थः । अन्यथा न तु सर्वात्मना ईरीतमित्यस्य पूर्वत्र विशेषणस्य नपुंसकत्वेन एकदेशक्रिया चेत्यनेन अनन्वयादसङ्गतिः स्यात् । उत्तरं च समस्तमिति विशेषणं विशेष्ये साकांक्षत्वादनन्वितं स्यादिति भावः ।
नन्वनया श्रुत्या कर्मश्रुतिविरोधपरिहार इत्यत तद्वाक्यात् स्मृत्यभिप्रायमाह ॥ परतन्त्रेति ॥ आख्यारूपे यस्यासाविति इत्यनेनैवार्थ उक्तः । न तु बहुव्रीहिरिति ज्ञातव्यम् ॥ ममत्वादीति ॥ अनेन विष्णुर्न संहर्ता पितृत्वादिति परोक्तानुमाने ममत्वादिदोषयुक्तत्वं रक्षकत्वरूपसाधनधर्मा-वच्छिन्नसाध्यव्यापकत्वमुक्तं भवति । सूत्राक्षरार्थस्तु सादिसर्वजगत्संहर्ता हरिरेव । कुतो हेतोः । अनादिबन्धसंहर्तृत्वसाधकतल्लिङ्गादित्यर्थः । तथा च हरिर् अनादि बन्धसंहर्ता अनादिबन्ध-सञ्जीहीर्षावत्वादित्यनेनानादिबन्धसंहर्तृत्वे सिद्धे अनादिबन्धसंहर्तृत्वरूपहेतोः सादिजगत्संहर्ता स एवेत्यर्थः । तथा च यदा हरिर् अनादिबन्धं संहरति सादिजगदपि संहरतीति भावः । स हरिः संहर्तेत्युक्तं सः कः । अनादिसृष्टृत्वेन प्रकृतः यश्च जनकत्वेन अमारकतया शङ्कितः यश्च ‘ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः’ इति स्मृतौ तच्छद्बवाच्यत्वेनोक्तः स नो हरिरिति स्मृतौ उक्तः स इति तच्छब्देनोक्तः स एवेत्यर्थः । तुशब्दस्तु अभिध्यानगतस्य सञ्जीहीर्षावत्वरूपविशेषस्य द्योतकः । एवशब्दस्तु यदा अनादिबन्धसंहर्तृत्वमात्रेण सादिजगत्संहर्तृत्वं सिध्यति तदा किं वक्तव्यम् । यमप्येति भुवनं साम्पराय इत्यादिश्रुतिभ्यः सर्वजगत्संहर्तृत्वं सिध्यतीति कैमुत्यन्याय-सूचक इति ।
वाक्यार्थविवरणं
ननु लये सिद्धे पश्चात् तत्कर्तृविचारः सङ्गतः । स एवासिद्धः । पूर्वमुत्पत्तिनिर्णयेऽपि लयस्यानिर्णीतत्वादिति चेत्तत्राह ॥ उत्पत्तिमत्त्वादिति ॥ उत्पत्तिमतो भावस्य लयनियमादिति भावः ॥ यथाकथञ्चिदिति ॥ साक्षाद्वा रुद्रद्वारा वेत्यर्थः ॥ श्रुतेः ॥ प्राणानामिति श्रुतेः ॥ अन्यार्थता ॥ नामानि सर्वाणीत्युक्तन्यायेन विष्णुपरतेत्यर्थः ॥ श्रुतीति ॥ यत्प्रयन्तीत्यादि-श्रुतीत्यर्थः ॥ युक्तिः ॥ पितृत्वरूपा ॥ भाक्तार्थत्वेनेति ॥ कस्मिंश्चिद्भागविशेषे विष्णुः संहर्ता । कस्मिंश्चिद्भागविशेषे रुद्र इत्येवं विभागेनोभयोः संहर्तृत्वाङ्गीकारात् ‘यत्प्रयन्ति’ ‘प्राणानाम्’ इति श्रुत्योरविरोध इत्यर्थः ॥ युक्तिविरोधेति ॥ यत्प्रदेशे विष्णोः संहर्तृत्वमङ्गीक्रियते तत्प्रदेशे पितृत्वयुक्तिविरोधः स्यादेवेत्यर्थः ॥ स त्वं मा मांविशेति ॥ स प्राणानामाश्रयस्त्वं माम् आविश मयि स्थित्वा प्राणान् धारयेत्यर्थः । सोऽन्तकस्त्वं मां मा आविश मयि आविष्टो माऽभूरित्यर्थः । अत्र मेत्यस्यावृत्तिः । सौत्रस्थ, तु इत्यस्यार्थो विष्णुरेवेति ॥ तदभिध्यानादित्यस्यार्थमाह ॥ तस्येति ॥ तथा स एव विष्णुर्जगत्संहारे समर्थः । बन्धलयस्य भगवदिच्छाधीनत्वेऽपि जगत्संहार-सामर्थ्यं कुत इत्यप्रयोजकत्वं शङ्कते ॥ किञ्चात इति ॥ बन्धरूपस्य भगवदिच्छानिमित्तकत्वोक्तितो जगत्संहारे समर्थत्वं न प्राप्तमित्याशयः ॥ तत्कृत इति ॥ तथा च बन्धलयस्य भगवदिच्छा-धीनत्वश्रवणेन भगवत्कृतोऽनुमीयते । बन्धलयो भगवत्कृतस् तदधीनत्वात् । यद्यदिच्छाधीनं तत्तत्कृतमिति नियमात् । एवं च भगवान् जगत्संहारे समर्थः । बन्धलयकर्तृत्वादित्यनुमानमुक्तं भवति ।
ननु हरेर् बन्धलयकर्तृत्वेऽपि जगत्संहारसमर्थत्वं कुतो व्यधिकरणत्वादित्यतो अत्र कैमुत्यं नियामकमस्तीत्याह ॥ एवं चेति ॥ अनादेर्बन्धस्य ॥ अनादित्वेन संहारायोग्यस्येत्यर्थः । तथा च योऽशङ्कयमेकं करोति स सुकरमन्यत् करोत्येवेति प्रायो लोके दर्शनेनानादिकालतो ऽनुवृत्तं संहारायोग्यमपि बन्धं यदा संहरति, तदा स आदिभूतेदानीन्तनजगत्संहारे समर्थ इति किं वाच्यमिति भावः ॥ तत्त्वभावादिति ॥ अस्यार्थो यथार्थध्यानादिति ॥ भगवदभिध्यानात् । इच्छाविशेषात् । अनेनानादिभवभेत्तृत्वाद्भगवान् जगत्संहारे समर्थ इति सूत्रपर्यवसितोऽर्थः । तदुपरि शङ्कते ॥ नन्वस्त्विति ॥ संहर्तृत्वम् । फलोपधानम् ॥ उक्तादेतस्मादेवेति ॥ अनादिभवभेत्तृत्वेन विश्वसंहारे समर्थत्वादेवेत्यर्थः । तथा च भगवान् जगत्संहारकर्ता । तत्समर्थत्वादिति । अप्रयोजकत्वं परिहरति ॥ शक्तस्यैवेति ॥ यदाऽनादिभवभेत्ता तदाऽतिशक्तो भगवान् जातः । अतस्तादृशसामर्थ्यवत एव तज्जगत्संहर्तृत्वं सम्भवति । नान्यस्येत्यर्थः ।
ननु शक्तस्यापि कथं तत्सम्भवः । पुत्रवधे समर्थस्यापि पितुः पुत्रवधकर्तृत्वादर्शनादित्यतः सौत्रैवकाराभिप्रायकथनरूपस्य किम्विति भाष्यस्याभिप्रायमाह ॥ अथैतावताऽपीति ॥ सूत्रार्थस्तु तदभिध्यानादिति श्रुतौ बन्धलयस्य भगवदिच्छाधीनत्वश्रवणात् तत्कृतोऽनुमीयते । तथा च तल्लिङ्गादनादिबन्धलयस्य भगवत्कृतत्वलिङ्गात् स भगवान् जगत्संहारे समर्थ इति ज्ञायते । कैमुत्यन्यायात् । तथा च तल्लिङ्गादनादिभवभेत्तृत्वे जगत्संहारेऽतिसमर्थत्वरूपाल्लिङ्गात् स एव जगत्संहर्तेति ज्ञायते । यदि पुत्रवधे समर्थस्यापि पितुस्तत्कर्तृत्वादर्शनेन परो यद्युक्तयुक्त्याऽपरितुष्टः स्यात्तदा तत्परितोषणाय एवेत्युक्तम् । तथा च यमप्येतीत्यादिस्पष्टश्रुत्या विष्णोर् जगत्संहर्तृत्वं ज्ञात्वा परितोषं प्राप्नुहि इति ॥ परतन्त्रेऽपीति ॥ तथा चात्र परतन्त्रेऽपि ब्रह्मादिजगति ॥ एकदेशक्रिया ॥ एकदेशसर्जनादिक्रिया । जगदेष्टृकदेशस्रत्वादिकमेवास्तीति यावत् । आख्या नाम । रूपं स्वरूपम् ॥ संहर्तृत्वादिगुणेति ॥ ‘कल च्छेदने’, कल बन्धने कल ज्ञाने, कल कामधेनुरिति हि पठन्तीति गीताभाष्य उक्तत्वादित्यवधेयम् । तथा च संहर्तृत्वादिगुणसंपन्नत्वेन कालसंज्ञकं रूपं स्वरूपं यस्येत्यर्थोऽवगन्तव्यः ॥ स्मृतेः ॥ निमित्तमात्रमिति स्मृतेः । ननु भगवान् न संहर्ता । तदुत्पादकत्वेन तत्पितृत्वात् । लोकपितृवत् । न चाप्रयोजकता । लोके पितृत्वमेव न स्यात् । इत्यनुकूलतर्कसहितोक्तयुक्तिमाशङ्क्य तत्र ममत्वादिदोषवत्त्वमुपाधिमाह ॥ न चोक्ते-त्यादिना ॥ न चासंहर्तरि घटादौ ममत्वादिदोषवत्त्वाभावात् साध्याव्यापकतेति वाच्यम् । पितृत्वरूपसाधनधर्मावच्छिन्नसाध्यव्यापकत्वाभ्युपगमादिति ध्येयम् ।
वाक्यार्थमञ्जरी
तदभावेति ॥ आदिपदोक्तसंहारकर्तृत्वाभावेत्यर्थः । यथाकथञ्चिद् उक्तप्रकारद्वयेनापि तदेव व्यनक्ति ॥ तस्येति ॥ भाक्तार्थत्वेनेति ॥ ‘रुद्रो’माविशान्तक इति श्रुतेर्विष्णुसंहृतभिन्न-पदार्थसंहर्तृत्वरूपविभागविषयत्वेनेत्यर्थः ॥ युक्तीति ॥ क्वचिदपि विष्णोः संहारकर्तृत्वेनाङ्गीकारेऽपि पितृत्वरूपयुक्तिविरोधानिस्तारादित्यर्थः । असि आविशेति मध्यमपुरुषानुरोधेनाह ॥ रुद्र त्वमिति ॥ मेत्येतदस्मच्छब्दादेशरूपं निषेधार्थकं च तन्त्रेणोपात्तमिति भावेनाह ॥ मा मां विशेति ॥ मेत्यस्यानुवृत्तिं मत्वाह ॥ मामाप्यायस्वेति ॥ ॐ तदभिध्यानादेव तु तल्लिङ्गात्सः ॐ ॥ स तु विष्णुरेव संहर्ता कुतः संसारमोक्षस्य तदभिध्यानात्तस्य भगवतोभिध्यानमिच्छा-तदधीनत्वात् । किं तत इति चेत् तल्लिङ्गात् । तस्मान्मोक्षस्य भगवदिच्छाधीनत्वलिङ्गात् स परमात्मा संहारकर्तृत्वेनानुमीयत इत्यर्थः । किं चात इति प्रश्नोत्तरमाह ॥ तदिच्छेति ॥ तत्कृत इत्यनन्तरं मोक्ष इत्यनुवर्तते भूयश्चेति चशब्दाद्वीप्सालोप इत्याशयेन भूयोभूय इत्युक्तम् । तत्वभावादित्यस्यार्थो यथार्थध्यानाच्चेति ॥ शक्तस्यैवेति ॥ प्रामाणिकत्वाल्लयस्तावदङ्गीकार्यः । स च कार्यत्वात्सकर्तृकः कर्ताच शक्त एव भवेच्छक्तश्च विष्णुरेवेति संहर्तेति भावः । ईरितमित्यस्य नपुंसकत्वे क्रियाशब्दवृत्त्ययोगादाह ॥ सृष्ट्यादिकमिति ॥ पूर्वत्रापीत्यर्थः । तेन समस्तमित्यस्य न विशेष्यानुक्तिदोषः । आख्यारूपे नामशरीरे यस्यासावितीन्प्रत्ययार्थः । संहर्तृत्वेति कलसंहरण इति धातोरिति भावः ॥ ममत्वेति ॥ अनेन ममत्वादिदोषयुक्तत्वाख्यसाधनधर्मावच्छिन्नसाध्यव्यापक-रूपोपाधिरुक्तो भवति ।
॥ इति तदभिध्यानाधिकरणम् ॥