ॐ पृथिव्यधिकाररूपशब्दान्तरादिभ्यः ॐ
६. अथ पृथिव्यधिकरणम्
सूत्रभाष्यम्
‘ता आप ऐक्षन्त बह्य्वः स्याम प्रजायेमहीति । ता अन्नमसृजन्त’ (छा.उ. ६-२) इत्यद्भ्योऽन्नसृष्टिः श्रूयते । ‘अद्भ्यः पृथिवी’ (तै.उ. २-१) इति कुत्रचित्पृथिवीसृष्टिः । अतो विरुद्धत्वादप्रामाण्यमित्यतो वक्ति–
॥ ॐ पृथिव्यधिकाररूपशब्दान्तरादिभ्यः ॐ ॥ १२ ॥
पृथिवी तत्रान्नशब्देनोच्यते । भूताधिकारत्वात् । कार्ष्ण्यप्रचुरा च पृथिवी । नान्नस्य तथा विशेषः । ‘आपश्च पृथिवी चान्नम्’ (ऐ.आ. २-३-१) । ‘पृथिवी वा अन्नम् । (तै.उ. ३-९) । ‘ता आपोऽन्नमसृजन्त पृथिवी वा अन्नम्’ इत्यादिशब्दान्तराच्च । आदिशब्दाद्युक्तिर् अपौरुषेयत्वेनादोषस्य वाक्यस्य नाप्रामाण्यमित्यादि । कौर्मे च–
‘विरोधो वाक्ययोर्यत्र नाप्रामाण्यं तदेष्यते ।
यथा विरुद्धता न स्यात्तथार्थः कल्प्य एतयोः’ इति ॥
‘रक्तोऽग्निरुदकं शुक्लं कृष्णैव पृथिवी स्वतः ।
नाभिपद्माभिसम्बन्धात्पीता सेत्यभिधीयते ।
क्षत्ररक्ताभिसम्बन्धाद्रक्तोदकबहुत्वतः ।
शुक्लत्वमेत्येवमेव वर्णान्तरगतिर्भवेत् ॥
विष्णुवीर्याभियोगाच्च पीतत्वं भुव इष्यते ।
स्वर्णवीर्यो हि भगवाननादिः परमेश्वरः’ ॥
इति व्योमसंहितायाम् । ॥ इति पृथिव्यधिकरणम् ॥
तत्त्वप्रदीपिका
‘ता अन्नमसृजन्त’ इत्यद्भ्योऽन्नसृष्टिः श्रूयते च्छन्दोगोपनिषदि । ‘अद्भ्यः पृथिवी’ इति तैत्तिरीयके पृथिवीसृष्टिः । अतो विरोधः । वस्तुनि विकल्पासम्भवात् । न च प्रत्यक्षप्रमित-व्यतिरेकयोरन्नभूम्योरेकतावकाशः । न च तुल्यबलयोर्वाक्ययोरन्यतरपरित्यागो न्याय्यः । न चात्र सावकाशनिरवकाशन्यायः । अतोऽप्रामाण्यमित्यतो वक्ति ॐ पृथिव्यधिकाररूपशब्दान्तरादिभ्यः ॐ । ‘ता अन्नमसृजन्त’ इति पृथिव्यन्नशब्देनोच्यते । ‘तत्तेजोऽसृजत तदपोऽसृजत’ इति भूतसृष्टिप्रकरणत्वादस्य । ‘यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य’ इत्यन्नस्य कृष्णरूपवचनाच्च । पृथिवी वाऽन्नमिति तैत्तिरीयके अपौरुषेयत्वेनादोषस्य वाक्यद्वयस्या-प्रामाण्यासम्भवात्, अन्यस्य निरवकाशत्वाच्चान्नशब्देन पृथिव्येवोच्यत इति युक्तिः । न चाद्भ्यः पृथिवी’ इत्यन्नमुच्यत इति वाच्यम् । प्रकरणविरोधात् । ‘पृथिव्या ओषधय ओषधीभ्योऽन्नम्’ इत्यन्नस्य पृथगुक्तेश्च । कार्यशब्देन च कारणोक्तिर्युक्ता घृताब्धिम्’ इतिवत् । परिहृतं च कार्यशब्दत्वं शब्दान्तरोपन्यासादेव । एवं चात्रान्नशब्दः सावकाशो योजनीयः । यथाऽविरुद्धता च स्यात् । यथा मिथो मानान्तरेण चाविरोधस्स्यादिति ।
तत्त्वप्रकाशिका
एवं सर्वस्य साक्षादन्यद्वारा वा ब्रह्मजातत्वे सिद्धेऽत्रोक्तसमन्वयसिद्ध्यर्थं द्वारविषयश्रुतिविरोध परिहारादस्ति शास्त्रादिसङ्गतिः । वस्त्वन्तरद्वारा साक्षाद्वा ब्रह्म जगत्कारणमित्युक्तम् । तत्र द्वारकारण विषयश्रुतीनां विरोधेनाप्रामाण्ये समन्वयासम्भवात्तन्निरासः कार्य एव । प्रकृता आप एवात्र विषयः । किमन्नस्य द्वारकारणम् उत पृथिव्या इति सन्देहः । किमस्य सन्देहस्य बीजं किं च तत्र प्राप्तमिति । तत्र श्रुतिविगानं सन्देहबीजं दर्शयन् पूर्वपक्षयति ॥ ता इति ॥ नापः पृथिव्याः कारणं नाप्यन्नस्य । श्रुतिद्वयस्य परस्परविरुद्धत्वात् । निरवकाशत्वेनान्यतरग्रहणायोगात् । न चान्नशब्दस्य पृथिव्यर्थत्वेनाविरोधः । अन्नश्रुतेः प्रसिद्धान्नपरत्वेन स्वीकारे बहुवाक्यानु-सारित्वगुणलाभात् । तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं भवत्यद्भ्य एव तद्ध्यन्नाद्यं जायते अन्नमशितं त्रेधा विधीयत इति प्रसिद्धान्नलिङ्गाच्च । न च पृथिवीपदेनान्नग्रहः । अद्भ्य एवान्नसृष्ट्यङ्गीकारे ‘अद्भ्यः पृथिवी पृथिव्या ओषधय ओषधीभ्योऽन्नम्’ इति श्रुतिविरोधात् । नापि पृथिव्यन्नयोरद्भ्य एवोत्पत्तिर् उक्तश्रुतिविरोधादेव । न चान्नस्यैवाद्भ्य इव ओषधीभ्योऽपि जन्म । बहुकल्पनापातात् । न चाद्भ्यः परम्परयान्नमुत्पद्यत इत्यविरोधः । मुख्यार्थत्यागे कारणाभावात् । अतः श्रुतिद्वयस्य परस्परविरुद्धत्वादप्रामाण्यमेवेति न श्रुतिसमन्वयो ब्रह्मणि युक्त इति भावः । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ नात्रापां द्वारकारणत्वानिर्णयात् श्रुतिद्वयस्याप्रामाण्यं कल्प्यम् । अपां पृथिवीकारणत्वात् । न च ‘ता अन्नमसृजन्त’ इति श्रुतिविरोधः । यतस्तत्र पृथिव्यन्नशब्देनोच्यत इत्यर्थः । कुतोऽसावन्नशब्दः पृथिवीपर इत्यत आह ॥ भूतेति ॥ ‘तत्तेजोऽसृजत’ ‘तदपोऽसृजत’ ‘तासां त्रिवृतं त्रिवृतमेकैकामकरोत्’ इत्यादेरस्य प्रकरणस्य भूतविषयत्वादित्यर्थः ।
नन्वन्नश्रुतौ जाग्रत्यां कथं प्रकरणमात्रेण निर्णय इत्यत आह ॥ कार्ष्ण्येति ॥ ‘यदग्ने रोहितं रूपं तत्तेजसो यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य’ इत्यस्यां श्रुतावन्नस्य कृष्णरूपं प्रतीयते । तच्च प्राचुर्येण पृथिव्या एव लिङ्गम् । अतः प्रकरणलिङ्गाभ्यामुक्तश्रुतिबाध इति भावः । ननु कार्ष्ण्यस्य चान्नेऽपि सम्भवतः कथं पृथिवीलिङ्गत्वमित्यत आह ॥ नेति ॥ तथा विशेषः पृथिवीवत्कार्ष्ण्य-प्राचुर्यम् । न केवलं प्रकरणलिङ्गाभ्यामन्नश्रुतेरवाचिकाया एव पृथिवीपरत्वमुच्यते अपि तु पृथिव्यामपि तस्या विद्यते वाचकत्वशक्तिः श्रौतप्रयोगादिति भावेनाह ॥ आपश्चेति ॥ न च वृष्टिजत्वलिङ्गविरोधः । पार्थिवपदार्थानां वृष्ट्युत्पन्नार्थत्वेनोपपत्तेः । नाप्यन्नमशितमिति लिङ्गविरोधः । तेजोऽशितमितिवत्पार्थिवार्थत्वोपपत्तेः । किमन्नश्रुतेरर्थान्तरकल्पनया श्रुतिद्वयाप्रामाण्यमेव किं नाभ्युपेयते इत्यत आह ॥ आदीति ॥ सूचितेति शेषः । अत्रायं प्रयोगः । वेदो नाप्रमाणम् अप्रामाण्यकारणदोषशून्यत्वात्प्रत्यक्षवदिति । न च हेतोरसिद्धिः । अपौरषेयवाक्ये दोषासम्भवात् । आदिपदेनाप्तवाक्यानुसारित्वादिति । एवं युक्तिबलाद्वेदप्रामाण्यसिद्धौ विरोधावभासेऽन्यार्थतैव कल्प्या नाप्रामाण्यमिति भावः । अत्रैव स्मृतिमाह ॥ कौर्मे चेति ॥ यदुक्तं प्राचुर्येण कृष्णा पृथिवीति तत्र प्रमाणमाह ॥ रक्त इति ॥ एवमेवेत्युक्तमेव दर्शयति ॥ विष्ण्विति ॥ एवं श्रुत्यविरोधेनापां पृथिवीकारणत्वसिद्धेर्युक्तः श्रुतिसमन्वयो हराविति सिद्धम् ।
गुर्वर्थदीपिका
‘अद्भ्य एव तदन्नाद्यं जायते’ इत्याद्यनेकवाक्यसिद्धत्वाद् बहुवाक्यानुसारित्वेनेत्युक्तम् । नाप्यन्नमशितमिति लिङ्गविरोध इत्यस्य अशितत्वाख्यलिङ्गविरोध इत्यर्थः । अन्नमशितमित्य-न्नेऽशितत्वोक्तेर्मृद्रूपपृथिव्यां चाशितत्वादर्शनात्कथं साऽन्नपदवाच्येति भावः । तेजोऽशितमिति-वत्पार्थिवार्थत्वोपपत्तेरित्यत्र पार्थिवा एवार्थो यस्याः श्रुतेस्सा पार्थिवार्था । तस्य भावः पार्थिवार्थत्व-मित्यर्थः । यथा आतपादिरूपतेजसोऽशितत्वाभावेऽपि रक्तवर्णतया तेजःप्रधानानां मधुधृतादी-नामशितत्वमेव तच्छ्रुतेरर्थः । तथा पार्थिवानां धान्यफलादीनामशितत्वमेव ‘अन्नमशितम्’ इति श्रुतेरर्थो भवतु । अतोऽन्नपदेन पृथिवीग्रहणेऽपि नानुपपत्तिरिति भावः ।
भावबोधः
अवसरलक्षणामनन्तरसङ्गतिमाह– एवं सर्वस्येति ॥ ‘न वियदश्रुतेः’ ‘एतेन मातरिश्वा व्याख्यातः’ इत्यधिकरणाभ्यां नभोवाय्वादेः साक्षाद् ब्रह्मजातत्वे ‘तेजोऽतस्तथा ह्याह’ ‘आपः’ इत्यधिकरणाभ्यां च वाय्वादीनाम् आकाशादिद्वारा ब्रह्मजातत्वे सिद्धे इत्यर्थः । अन्यद्वारा ब्रह्मजातत्वानिश्चये द्वारविषयकश्रुतिविचारस्यानवसरग्रस्तत्वादिति भावः । अनन्तरसङ्गत्यन्तरं सूचयन् विषयमाह– प्रकृता इति ॥ किमन्नस्येति ॥ अत्र पृथिवीत्यनन्तरम् अनिर्णय उत पृथिव्या एवेति ज्ञेयः । अन्यथा नापः पृथिव्याः कारणं नाप्यन्नस्येति नात्रापां द्वारकारणत्वानिर्णयात् श्रुतिद्वयस्याप्रामाण्यं कल्प्यमिति पूर्वपक्षसिद्धान्तानानुगुण्यापत्तेः । अत्र ‘ता अन्नमसृजन्त, ता आप ऐक्षन्त’ इति श्रुतिद्वयं परस्परविरुद्धत्वेन, अप्रमाणमुत प्रबलानुरोधेन दुर्बलस्यार्थान्तरकल्पनया श्रुतिद्वयं प्रमाणं वेति चिन्ता । तदर्थमापः किमन्नस्य पृथिव्या वा द्वारकारणमित्यनिर्णय उत पृथिव्या एवेति निर्णय इति । तदर्थं ता ‘अन्नमसृजन्त’ इति श्रौतोऽन्नशब्दः किं प्रसिद्धान्नपरः किं वा पृथिवीपर इति । तदर्थं श्रौतान्नशब्दस्य प्रसिद्धान्नपरत्वसाधिका बहुवाक्यानुवृत्तित्ववृष्टि-जत्वादियुक्तिः किं निरवकाशोत सावकाशेति । तदर्थं तद्युक्तिबाधकमन्नशब्दस्य पृथिवीपरत्वसाधकं च प्रमाणं नास्त्युतास्तीति । अतो विरुद्धत्वादप्रामाण्यमिति भाष्याभिप्रायमाह– नापः पृथिव्या इत्यादिना ॥
ननु वियदाद्यधिकरणवदन्यतरश्रुत्यप्रामाण्येन पूर्वपक्षेऽपि ब्रह्मणो जगज्जन्मादिकारणत्वाक्षेप-सम्भवात् परस्परविरुद्धत्वेन उभयाप्रामाण्येन पूर्वपक्षः कुत इत्यत आह– निरवकाशत्वेनेति ॥ अद्भ्यो वा अन्नमुत्पद्यत इत्याद्युक्तप्रसिद्धान्नाख्यार्थाविरोधेन प्रसिद्धान्नस्वीकारे बहुवाक्यानुवर्तितेति गुणलाभ इति न्यायविवरणं ता अन्नमिति श्रुतेर्निरवकाशत्वोपपादकत्वेन योजयति– अन्न श्रुतेरिति ॥ न्यायविवरणे आदिपदागृहीतां लिङ्गप्रतिपादकश्रुतिमुदाहरति तस्मादिति । विरुद्ध-त्वादप्रामाण्यमिति भाष्यानुरोधेन न्यायविवरणमुपलक्षणीकृत्य अद्भ्यः पृथिवीति श्रुतेर्निरवकाशत्वं स्वयमुपपादयति– न च पृथिवीपदेनेति ॥ उक्तश्रुतिविरोधादिति ॥ ‘ओषधीभ्योऽन्नम्’ इति श्रुतिविरोधादित्यर्थः । बहुकल्पनापातादिति ॥ अन्नस्याब्जन्यत्वम् ओषधिजन्यत्वं पृथिव्या अब्जन्यत्वं चेति बहुकल्पनापातादित्यर्थः । मुख्यार्थत्याग इत्यर्थः ॥ भूतविषयत्वादिति ॥ अन्नस्य भौतिकत्वेन भूतत्वाभावात् । भूतशब्देन भौतिकमेव व्यावृत्य तेन भूताभिमानिदेवतापीति ज्ञातव्यम् । प्रकरणस्य भूतविषयत्वादित्यादिना पृथिवीवत् कार्ष्ण्यप्राचुर्यमित्यन्तेनाधिकारादीनां निरवकाश-त्वाच्चेति न्यायविवरणमपि व्याख्यातं भवति । तत्रादिपदेन रूपाख्यलिङ्गस्यापौरुषेयत्वादियुक्तीनां च ग्रहणमिति बहुवचनोपपत्तिरिति च ज्ञातव्यम् । अन्नशब्दस्य प्रयोगबाहुल्यात् पृथिव्यामपि शक्तिमत्त्वादिति न्यायविवरणानुसारेण ता अन्नमित्यादि भाष्यमवतारयति । इदानीं पृथिव्यामपीति, बहुवाक्यानुरोधोऽप्यत्रैवेति न्यायविवरणानुसारेण पूर्वोक्तयुक्तेः सावकाशत्वमाह– न च वृष्टिजत्वे-त्यादिना ॥ अद्भयो वा अन्नमुत्पद्यत इत्यादावन्नशब्देन पृथिव्यास्त‘स्माद्यत्र क्व च शोचति’ इत्यादावन्नशब्देन पार्थिवस्य ग्रहणमिति बहुवाक्यानुरोधेऽपि सिद्धान्त एवेति न्यायविवरणवाक्यार्थः ॥ तेजोऽशितमितिवदिति ॥ तत्र तेजस एव भक्षणासम्भवाद्यथा तेजश्शब्दस्तैजसपरस्तथा पृथिवीवाचकोऽन्नशब्दः पार्थिवपर इत्यर्थः ।
भावदीपः
अधिकरणसङ्गतिमाह ॥ एवं सर्वस्येति ॥ वियन्मुख्यप्रमाणयोः साक्षात्तदन्यस्यान्यद्वारेत्यर्थः । यद्वा वाय्वादौ स्थितस्य भगवतो वाय्वादिस्थशक्तिप्रेरणया तद्द्वारा तेजः प्रभृतिकार्यस्य कृति-विषयत्वमिव साक्षादपि भगवत्कृतिविषयत्वमस्तीति सर्वस्य साक्षादित्युक्तम् । अन्यगतशक्ति-प्रेरकत्वमप्यस्तीति भावेनान्यद्वारा वेत्युक्तम् । अत एवाग्रे वस्त्वन्तरद्वारा साक्षाद्ब्रह्मकारणमिति समुच्चयेनानुवादः । तथा च पूर्वं द्वारमनुसृत्यैवेत्युक्त्या साक्षान्नेति कारयितृत्वमेवेश्वरस्य स्यान्न साक्षात्कर्तृत्वमिति जन्मादिसूत्रोक्तसर्वकर्तृत्वभङ्ग इति चोद्यानवकाश इति भावः । अयं च एतस्माज्जायते कर्ता सर्वस्य कुरुते सर्वमित्यादिपूर्वभाष्योक्तवचनलब्धस्यानुवादः । अन्यद्वारेत्यंशानु-वादस्यैव प्रकृतोपयोगित्वेऽपि साक्षादित्यंशानुवाद उक्तदिशा शङ्कानिरासाय । अत्रेत्यस्य सङ्गतिपदेनान्वयः ॥ श्रुतिविरोधेति ॥ श्रुत्योरन्योन्यविरोधेत्यर्थः । चिन्ताफलमाह ॥ वस्त्वन्तरेति ॥ इत्युक्तमिति ॥ जन्मादिसूत्रे इत्यर्थः । आक्षेपसौकर्यायैवमनुवादः । तर्ह्यपां द्वारत्वश्रुतिविरोध-निरासे किं बीजमित्यत आह ॥ प्रकृता आप इति ॥ किमन्नस्येति ॥ अत्र पूर्वपक्षे सौत्रादि-पदव्यावर्त्यस्य श्रुतिद्वयाप्रामाण्यस्य सिद्धान्ते तत्प्रामाण्यस्य चोक्त्या तदनुरोधेन किं श्रुतिद्वयम-प्रमाणमुत नेति सन्देहे प्रदर्शनीयेऽप्येवं सन्देहोक्तिः पूर्वोत्तरपक्षयोः श्रुतिद्वयाप्रामाण्यबीजभूतयो-र्विरोधाविरोधयोः स्फोरणाय । अन्नपदेन पृथिव्यगृहीतिगृहीतिभ्यां विरोधाविरोधयोर्व्यक्तत्वात् ।
यद्वा किमन्नस्य द्वारकारणमित्यादि सन्देहेऽपि नोभयस्यापीत्येवंरूपेण चोद्यस्य सम्भवान्न पूर्वपक्षानानुगुण्यं संशयकोट्यन्यतरकोट्यवलम्बिनौ पूर्वोत्तरपक्षावित्यस्य प्रायिकत्वात् । विरुद्धत्वादप्रामाण्यमिति भाष्यमप्रामाण्यशब्दार्थं विवृण्वन्व्याचष्टे ॥ नाप इत्यादिना ॥ ननु विरुद्धत्वेऽपि पूर्वत्रेवान्यतराप्रामाण्यमेव स्यान्न तु द्वयोरित्यतो भाष्याभिप्रेतं हेतुमाह ॥ निरवकाशत्वेनेति ॥ श्रुतिद्वयस्येत्यनुकर्षः । अद्भ्यो वा अन्नमुत्पद्यत इत्याद्युक्तप्रसिद्धा-न्नस्यान्यार्थाविरोधेन प्रसिद्धनामस्वीकारे बहुवाक्यानुवर्तितेति गुण इत्यन्यत्रोक्तयुक्तिं तावदन्न-श्रुतेर्निरवकाशतोपपादकत्वेन शङ्कापूर्वं योजयति ॥ न चेत्यादिना ॥ बहुवाक्येति ॥ अद्भ्यो वा अन्नमुत्पद्यत इत्यादीति न्यायविवरणस्थादिपदोक्तबहुवाक्यानां प्रसिद्धार्थपरत्वरूपगुणलाभा-दित्यर्थः । न केवलं प्रसिद्धान्नपरत्वे बहुवाक्यानुसारिता । लिङ्गद्वयमप्यस्तीत्याह ॥ तस्मा-दित्यादिना ॥ छान्दोग्ये षष्ठे । यत्र क्व च वर्षतीति अन्नमशितमिति च वाक्यद्वयेन वर्षजत्वाश्य-मानत्वरूपलिङ्गाच्चेत्यर्थः । एवं न्यायविवरणरीत्यान्नश्रुतेरर्थान्तरपरत्वाभावरूपनिरवकाशतामुपपाद्य पृथिवीश्रुतेरपि तां विवरितुमद्भ्यः पृथिवीति प्रसिद्धपूर्वप्रकृतश्रुतिप्रतीकोक्त्या सूचितां युक्तिं शङ्कापूर्वमाह ॥ न च पृथिवीति ॥ ओषधीभ्योऽन्नमिति श्रुतिविरोधादित्येव वाच्ये अद्भ्य इत्याद्यंशोक्तिर्युक्तेर्भाष्यसूचितत्वसूचनायेत्येके । अन्नहेत्वोषधिजनकत्वविरोधात् पृथिवीपदेन नान्नस्य ग्रहणमिति युक्त्यन्तरसूचनायेत्यन्ये ॥ उक्तश्रुतीति ॥ ओषधीभ्योऽन्नमिति श्रुतीत्यर्थः ॥ बहुकल्पनेति ॥ पृथिवीपदस्यान्नार्थत्वं तस्य च अब्जन्यत्वमोषधिजन्यत्वं चेति बहुकल्पनेत्यर्थः । अन्नश्रुतेः प्रकारान्तरेण सावकाशत्वमाशङ्क्याद्भ्योऽन्न सृष्टिःश्रूयत इति भाष्यसूचितयुक्त्या निराह ॥ न चाद्भ्य इति ॥ मुख्यार्थेति ॥ साक्षाद्धेतुत्वरूपमुख्यार्थेत्यर्थः । एतेन न्यायविवरणे इति गुण इत्यनन्तरं न चाद्भ्य इति शङ्काध्याहारं मुख्यार्थपरित्यागप्राप्तेरिति पूर्ववाक्यानुकर्षणं च सूचयति ॥ अत इति ॥ उक्तरीत्यानन्यार्थतया निरवकाशत्वादित्यर्थः । प्रागुक्तशङ्कानिवर्तकत्वं व्यञ्जयितुं प्रतिज्ञाहेतू बहिरेवोक्त्वा तत्र श्रुतिविरोधनिरासे हेतुपरतया सूत्रभाष्ये व्याचष्टे ॥ नात्रापामिति ॥ ननु ता ‘अन्नमसृजन्त’ इत्यतः पूर्वं तत्तेजोऽसृजत ‘तदपोऽसृजत’ इति तेजोजलरूपभूतोपक्रमेऽपि प्रकरणमन्नपरमस्तु ह्वयाम्यग्निमित्युपक्रमेऽपि प्रकरणस्य सावित्रत्ववदित्यतो भूतपरमुत्तरवाक्यं चाह ॥ तासां त्रिवृतमिति ॥ तेजोबन्नानामित्यर्थः । भौतिकान्नान्नत्रिवृत्करणमस्तीति भावः । यथा कं ब्रह्म खं ब्रह्मेत्युपक्रमवाक्याद् ब्रह्मपरात्स एनान्ब्रह्म गमयतीत्युत्तरवाक्याच्च मध्ये स्थिताग्निप्रयुक्ताहं-शब्दरूपा श्रुतिर्ब्रह्मपरेत्युक्तमन्तरनये तथात्राप्युपक्रान्तस्याग्रेऽपि श्रवणेन भूतप्रकरणविच्छेदा-भावात्तन्मध्यपतितान्नश्रुतिरपि तत्परेति भावः ।
ननु या इमास्तिस्रो देवतास्तासां त्रिवृतमिति तेजोऽबन्नानां देवतात्वं श्रुतमभिमानिनयन्याय-सिद्धं च । देवतानां त्रिवृत्करणप्रकारश्च छान्दोग्यभाष्य एव षष्ठे व्यक्तः । तथा च कथं प्रकरणस्य भूतविषयत्वमिति चेत्सत्यम् । शरीररूपकविन्यस्तगृहीतेरिति न्यायेनाभिमन्यमानसहिता-नामेवाभिमानिनां तत्र गृहीतेः । अत एव वक्ष्यति मांसादिभौममित्यत्र यत्कठिनं सा पृथिवी यद्द्रवं तदाप इत्यादि ॥ कथमिति ॥ यद्यपि द्युभ्वादिनये जुष्टं यदा पश्यत्यन्यमीशमिति रुद्रप्रापकेशश्रुतेर्द्वे विद्ये वेदितव्ये इति प्रकरणेन प्रसिद्धार्थत्याग उक्तः । प्रकरणादिति सूत्रे आत्मा प्रकरणादित्यत्र च चतुर्थे ‘य आत्मा अपहतपाप्मा इत्यादिब्रह्मप्रकरणेन परंज्योतिरुपसम्पद्य’ इति ज्योतिः श्रुतेरा-दित्यादितेजसि प्रसिद्धाया बाधो वक्ष्यते तथात्रापि तत्र श्रुतेः सावकाशत्वं प्रकरणस्यानवकाशत्व-मुपेत्य बाध उक्तः । अत्र पुना रूपोक्तिस्वारस्याय तदनाश्रित्य जातिप्रयुक्तप्राबल्यादिमात्रं शब्दादेवेत्यत्रोक्तमुपेत्येयं शङ्का प्रवृत्तेत्यदोषः । अत एव नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारादित्यत्र व्याप्ता ह्यात्मान इत्यत्र बहुवचनश्रुतेरधिकारमात्रेण बाधायोगात्स्वशब्दोन्मानाभ्यां चेति श्रुति-लिङ्गोक्तिरग्रे स्पष्टा । रूपबोधकवाक्यस्य भाष्येऽनुक्तेः स्वयमाह ॥ यदग्नेरिति ॥ यत्कृष्णं तदन्नस्येत्येव वाच्ये यदग्नेरित्याद्युक्तिस्तत्रापि भौक्तिकान्नमेवास्त्विति शङ्काव्युदासाय भूतप्रायपाठ-विरोधं वक्तुमिति भावः । कार्ष्ण्येत्यादिभाष्यं योजयति ॥ तच्चेति ॥ प्रकरणलिङ्गाभ्यामिति ॥
ननु द्वाभ्यामपि दुर्बलाभ्यां कथं प्रबलश्रुतेर्बाधः । तयोः स्वभावो बलवानित्युक्तेरिति चेत्सत्यम् । अधिकारादीनां निरवकाशत्वाच्चेति न्यायविवरणोक्त्या निरवकाशेत्यपि योज्यम् । भूतविषयत्वादित्युक्त्यैव प्रकरणस्य निरवकाशत्वमुक्तं रूपस्य शङ्कापूर्वं तदाह ॥ नन्विति ॥ यद्वात्र श्रुतेर्बाधो नाम नानार्थकस्य गोशब्दादेरर्थात्प्रकरणाल्लिङ्गादिति न्यायेन प्रकरणादिना वाच्यरूपार्थान्तरज्ञापनमेव न त्वत्यन्तास्वारस्यम् । तच्च लिङ्गप्रकरणाभ्यामपि सेत्स्यतीति तथैवोक्तम् । अन्यत्र निरवकाशत्वोक्तिरभ्युच्चयत्वेनेति भावः । अन्नशब्दस्य प्रयोगबाहुल्या-त्पृथिव्यामपि शक्तिमत्त्वादित्यन्यत्रोक्तरीत्यार्थं वदन्नापश्चेत्यादिभाष्यमवतारयति ॥ एवं प्रकरणेति ॥ भाष्ये बहुवाक्योदाहरणेन बहुवाक्यानुरोधोऽप्यत्रैवेति न्यायविवरणं विवृतं भवति । तेनैव लिङ्गबोधकवाक्यानुरोधोऽप्युक्त इति भावेनाह ॥ न चेति ॥ तस्माद्यत्र क्व च वर्षतीति प्रागुदाहृतवाक्योक्तेरित्यर्थः ॥ तेजोऽशितमितिवदिति ॥ तत्र तेजःशब्दो यथा तैजसपरस् तेजोऽश-नासम्भवात्तथा पृथिवीवाचकोऽन्नशब्दः पार्थिवपर इत्यर्थः ॥ आप्तवाक्येति ॥ विरोधो वाक्ययोरित्यानुरोधान्नाप्रामाण्यमिति वा ज्ञायते । ततोऽद्भ्य एवान्नं पृथिवी त्वन्नरूपिणीत्यादि छान्दोग्यभाष्याद्युक्तस्मृतिरूपाप्तवाक्यानुसारित्वान्नाप्रामाण्यमिति वा भाष्यस्यार्थः सूचितः ॥ अत्रैवेति ॥ विरोधेऽन्यार्थकल्पनेत्यत्रेत्यर्थः ॥ एवमिति ॥ अधिकारादिभिरन्नश्रुतेः पृथिव्यर्थत्व-मित्युक्तप्रकारेणेत्यर्थः ।
अभिनवचन्द्रिका
सन्देहबीजं पूर्वपक्षं च पृच्छति – किमस्येति ॥ सन्देहबीजं पूर्वपक्षं च भाष्यकार एव दर्शयतीत्याह– तत्र श्रुतिविगानमिति ॥ तत्र शङ्कायां सत्यामित्यर्थः ॥ श्रुतिद्वयस्य परस्परविरुद्धत्वादिति ॥ ‘ता अन्नमसृजन्त’ इति श्रुतिः, अन्नसृष्टेरबानन्तर्यं वक्ति । ‘अभ्द्यः पृथिवी’ इति श्रुतिस्तु पृथिव्या अबानन्तर्यं वक्ति । ततश्व अन्नस्याबानन्तर्यं विरुणद्धि, पृथिव्यास्तदानन्तर्यम् अन्नानन्तर्यं विरुणद्धीति श्रुत्योः परस्परविरुद्धत्वादित्यर्थः । एतेन अपामुभयकारणत्वसम्भवान्न विरोध इति परास्तम् । अन्नस्यैवाप्सृष्ट्यनन्तरं सृष्टिः पृथिव्यास्तु तदानन्तर्यम् । अथवा पृथिव्या एवाऽप्सृष्ट्यानन्तर्यम्, अन्नस्य तु तदानन्तर्यमित्यभ्युपगमे न विरोध इत्यत आह– निरवकाशत्वेनेति ॥ द्वयोरपि श्रुत्योर्निरवकाशत्वेन अन्यतरपक्षपाताऽयोगान्नैव विरोधः परिहर्तुं शक्य इति भावः । अविरोधमाशङ्क्य निषेधति न चेति ॥ प्रकारान्तरेणाऽविरोधमाशंक्य निषेधति न चेति ॥ सव्येतरविषाणवद् उभयोरप्यबानन्तर्यमाशंक्य निषेधति नापीति ॥ उक्तश्रुतिविरोधादिति ॥ ‘ओषधीभ्योऽन्नम्’ इत्युक्तश्रुतिविरोधादित्यर्थः । पृथिवीजन्यौषधिजन्यत्ववचनान् नाऽन्नस्य पृथिव्या सहोत्पत्तिरिति भावः । आदिसृष्टौ परमात्मनः सकाशादुत्पन्नानां देवानां सृष्ट्यन्तरे कश्यपादुत्पत्तिवत् पृथिव्या सहोत्पन्नस्याप्यन्नस्य सृष्ट्यन्तरे ओषधिजन्यत्वं सम्भवतीत्याशङ्क्य निषेधति – न चान्नस्यैवेति ॥ बहुकल्पनेति ॥ अन्नस्य सृष्टिद्वयकल्पनम्, एकस्यां सृष्टौ पृथिव्या सहैव जन्मकल्पनम्, ‘अभ्द्यः पृथिवी’ इति श्रुतौ अन्नपरित्यागे ‘ता अन्नमसृजन्त’ इति श्रुतौ पृथिवीपरित्यागे च कारणं परिकल्पनीयमित्यनेककल्पनापातादित्यर्थः ॥ न चेति ॥ श्रुत्योर्द्वयोरपि निरवकाशत्वेऽपि ‘गङ्गायां घोषः’ इत्यादाविव ‘ता अन्नमसृजन्ते’ति श्रुते र्मुख्यार्थत्याग इति भावः ॥ कारणाभावादिति ॥ गङ्गायां घोष इत्यादौ आप्तवाक्यत्वेन प्रामाण्यस्य सिद्धत्वान्मुख्यार्थ-त्यागोऽङ्गीक्रियते । न चात्र प्रामाण्यमस्तीति न मुख्यार्थस्त्याज्य इति भावः ।
पूर्वपक्षस्तु – न श्रुतिसमन्वयेन विष्णोर्जगत्कारणत्वं युक्तम् । द्वारकारणश्रुतीनां परस्परं विरोधेनाऽप्रामाण्यात् । तथा हि ‘ता अन्नमसृजन्ते’ इति अन्नसृष्टेरप्सृष्ट्यानन्तर्यमुच्यते । ‘अद्भ्यःपृथिवी’ इति पृथिवीसृष्टेर् अप्सृष्ट्यानन्तर्यम् । न चोभयं सम्भवति विरोधात् । न च तत्रान्नशब्देन पृथिव्येव विवक्षितेति वाच्यम् । अन्नश्रुतेः प्रसिद्धान्नपरत्वे बहुवाक्यानु-सारित्वगुणलाभात् । ‘तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं भवति अन्नमशितं त्रेधा विधीयत’ इति प्रसिद्धान्नलिङ्गाच्च । न च पृथिवीपदेनाऽन्नसंग्रहो ऽद्भ्य एव अन्नसृष्ट्यङ्गीकारे ‘अद्भ्यःपृथिवी, पृथिव्या ओषधयः, ओषधीभ्योऽन्नम्’ इति श्रुतिद्वयस्य परस्परं विरुद्धत्वाद् अप्रामाण्यमेवेति न श्रुतिसमन्वयेन ब्रह्मणो जगत्कारणत्वं युक्तमिति ।
सिद्धान्तस्तु– युक्तमेव विष्णोः श्रुतिसमन्वयेन जगत्कारणत्वम् । श्रुत्योर्विरोधाभावात् । तथा हि ‘ता अन्नमसृजन्त’ इत्यत्राऽन्नशब्देन पृथिवी विवाक्षिता ‘तत्तेजोऽसृजत तदपोऽसृजेत’ इति भूतप्रकरणात् । यदग्ने रोहितं रूपं तेजसस्तद्रूपं, यच्छुक्लं तदपाम्, यत्कृष्णं तदन्यस्ये’ इति अन्नस्य कार्ष्ण्यश्रवणाच्च । न चैवं लक्षणा ‘आपश्च पृथिवी चान्नं, पृथिवी वा अन्नम्’ इति शब्दान्तरे पृथिव्या अन्नशब्दाभिधेयत्वाभिधानात् । न च वृष्टिजत्वलिङ्गविरोधः, पार्थिवपदार्थानां वृष्ट्युत्पन्नत्वार्थत्वेनोपपत्तेः । ननु श्रुतेः किमर्थांतरकल्पनया । श्रुत्योर्विरोधेन अप्रामाण्यमेव किं न स्यादिति चेत्, न वेदो नाऽप्रमाणम् अप्रामाण्यकारणदोषशून्यत्वात् प्रत्यक्षवदित्यादियुक्ति-विरोधात् । एवं च विरोधाभावात् हरेः श्रुतिसमन्वयेन जगत्कारणत्वं युक्तमिति सिद्धम् ।
वाक्यार्थमुक्तावली
अवसरलक्षणामनन्तरसङ्गतिमाह ॥ एवं सर्वस्येति ॥ अव्याकृताकाशादेर्मुख्यवायोश्च साक्षाद्द्वारवाय्वादिभूतानामाकाशादिद्वारेत्यर्थः ॥ अन्यद्द्वारा ब्रह्मकारणत्वानिश्चये द्वारविषय-श्रुतिविचारस्यानवसर इति भावः । अनन्तरसङ्गत्यन्तरं सूचयन् विषयमाह ॥ प्रकृता इति ॥ किमन्नस्येति ॥ अत्र पृथिव्या इतीत्यनन्तरम् अनिर्णय उत पृथिव्या एवेति निर्णय इति विशेषः । अन्यथा अनिर्णयेन पूर्वपक्षस्य पृथिव्या एवेति निर्णयेन सिद्धान्तस्य चायोगात् । तथाचापः-पृथिव्यन्नयोरन्यतरस्य द्वारकारणत्वमिति निर्णयो न घटते घटत इति चिन्ता । तदर्थं ता आप ऐक्षन्त ता अन्नमसृजन्त अद्भ्यः पृथिवीति, श्रुतिद्वयं परस्परं विरुद्धं सदप्रमाणमुतनेति चिन्ता । तदर्थमन्नमिति श्रुतौ अन्नशब्दः किं प्रसिद्धान्नपर उत प्रकरणादिना पृथिवीपर इति ॥ अतो विरुद्धत्वादप्रामाण्यमिति भाष्यस्य यत एवमुभयथा श्रुतिरस्ति अतो विरुद्धत्वादुभयमप्यप्रमाण-मित्यभिप्रायमाह ॥ नापः पृथिव्या इत्यादिना ॥
ननु वियदाद्यधिकरणवदन्यतरश्रुत्यप्रामाण्येन पूर्वपक्षेऽपि ब्रह्मणो जगत्कारणत्वाक्षेपसम्भवा-त्परस्पर विरोधेनोभयाक्षेपेण पूर्वपक्षःकुत इत्यतआह ॥ निरवकाशत्वेनेति ॥ अद्भ्यः पृथिवीति च क्वचित्पृथिवीसृष्टिरित्युक्त्या अन्नसृष्टिर्बहुवाक्ये प्रतिपाद्यत इति सूचितम् ॥ प्रसिद्धनामस्वीकारे बहुवाक्यानुसारितेत्युक्तन्यायं सङ्गमयति ॥ नचान्नशब्दस्येत्यादिना ॥ बहुवाक्य इति ॥ अद्भ्योवा अन्नं तस्माद्यत्र क्वचनेत्यादिबहुवाक्य इत्यर्थः । न केवलं प्रसिद्धान्नस्वीकारे बहुवाक्यानुसारित्वं किन्तु तत्र प्रतीतलिङ्गद्वयाच्चेत्याह ॥ तस्मादिति ॥ वृष्टिजन्यत्वमस्यमानत्वं चेति लिङ्गद्वयेनान्न-शब्दस्य निरवकाशत्वमुपपाद्य पृथिवीशब्दस्यापि तदाह ॥ न च पृथिवीपदनेति ॥
अद्भ्य एवेति ॥ पृथिवीपदेनान्नं विवक्षित्वाद्भ्य एवान्नमित्यङ्गीकारे इत्यर्थः ॥ विरोधादिति ओषधीभ्योऽन्नमित्यनेन विरोधात् । ओषधीजनकस्यान्नस्यौषधीजन्यत्वविरोधाच्चेत्यर्थः । एतेनाद्भ्यः पृथिवीति क्वचिद्वाक्यविशेषेऽद्भ्य एवान्नसृष्टिरुच्यत इत्यङ्गीकारे अतो विरुद्धत्वादत एव वाक्यादस्यैव वाक्यस्य विरुद्धत्वादप्रमाणं स्यात् । अतोऽद्भ्यः पृथिवीति वाक्ये पृथिवीसृष्टिरेवोच्यते नान्नसृष्टिरिति रीत्यन्तरेण भाष्यार्थ उक्तो भवति ॥ नापीति ॥ अद्भ्यः पृथिवी ओषधीभ्योऽन्न-मित्युक्तश्रुतिविरोधादुभयोरप्यद्भ्य उत्पत्तिर्नेत्यर्थः । एतेनाद्भ्यः पृथिवीत्यत उक्तश्रुतिविरुद्धत्वाच्छ्रुति-द्वयमुभयोरप्येकस्मादुत्पत्तौ न प्रमाणमिति भाष्यं व्याख्यातं भवति ।
ननु नोक्तश्रुतिविरोधो ऽन्नस्य पृथिव्या सहाद्भ्यः पश्चादोषधीभ्य इति द्विवारमुत्पत्युपपत्ते-रित्याशंक्य परिहरति ॥ न चान्नस्यैवेति ॥ बह्विति ॥ अन्नस्याब्जन्यमोषधिजन्यत्वं पृथिव्या अब्जन्यत्वमिति बहुकल्पनापत्तेरित्यर्थः । बुहश्रुतिलिङ्गप्राप्ताद्भ्य एवोत्पत्तिं विहायोषधीभ्योन्न-मित्येकवाक्यबलात् कल्पने कल्पनागौरवमिति भावः ॥ परम्परयेति ॥ ओषधीद्वारेत्यर्थः ॥ मुख्यार्थेति ॥ अपामन्नं प्रति साक्षात्कारणत्वलक्षणमुख्यार्थ इत्यर्थः । अत एव भाष्ये अद्भ्योन्नसृष्टिः श्रूयत इति उक्तमिति भावः । प्रागुक्तशंकापरिहाराय प्रतिज्ञाहेतू बहिरेवोक्त्वा तत्र श्रुतिविरोधनिरासहेतुतया सूत्रभाष्ये व्याचष्टे ॥ नात्रापामित्यादिना ॥ ननु ता ‘अन्नमसृजन्त’ इत्यतःपूर्वं तेजोजलरूपभूतोपक्रमेऽपि, ता आपो अन्नमसृजन्तेति वाक्यं प्रसिद्धान्नपरं भवत् पृथिव्या ओषधय इत्यत्र पूर्वं भूतोपक्रमेऽप्योषधिपदस्य पार्थिवौषधिपरत्वस्वीकारवदुपपत्तेरित्यतो भूतपरमुत्तर-वाक्यं चाह ॥ तासां त्रिवृतमिति ॥ तासां तेजोऽबन्नानामिति उत्तरत्रापि भूताभूतानुवृत्तेः प्रकरणविच्छेदाभावात् । प्रत्युतान्नस्य तेजोवत्समानकक्ष्यतया त्रिवृत्करणोक्तेरन्नश्रुतिरपि भूतपरेति भावः ।
ननु इमास्तिस्त्रो देवतास्तासां त्रिवृतमिति तेज आदीनां देवतात्वं श्रुतमभिमानिनयसिद्धम् । तथा च प्रकरणस्य भूतविषयत्वमिति चेन्न । तथापि शरीररूपकविन्यस्तगृहीतेरिति न्यायेनाभि-मन्यमानसहितानामेवाभिमानिनां तत्र गृहीतेः । अत एव मांसादिनये यत् कठिनं सापृथिवीत्यादि वक्ष्यति ॥ भूतविषयत्वादिति ॥ अन्नस्य भौतिकत्वेन भूतत्वाभावादिति भावः । भूतशब्देन भौतिकमेव व्यावर्त्यं नाभिमानिदेवतापीति ज्ञेयम् ॥ कथं प्रकरणेति ॥ यद्यपि द्युभ्वादिनये, प्रकरणादिति सूत्रे, निरवकाशप्रकरणस्यान्यमीशमिति, ईशश्रुतिबाधकत्वम् । तथा आत्मा प्रकरणादित्यत्र, निरवकाशप्रकरणस्य, परञ्ज्योतिरिति ज्योतिःश्रुतिबाधकत्वमुक्तम् । तथाप्यत्र पुनः रूपोक्तिस्वारस्याय तदनाश्रित्य जातिश्रुतिप्रयुक्तप्राबल्यमात्रं शब्दादेवेत्यत्रोक्तमुपेत्येयं शङ्केत्यदोषः । अत एव नाणुरतच्छ्रुतेरित्यत्र बहुवचनश्रुतेरधिकारमात्रेण बाधायोगात् स्वशब्दोन्मानाभ्यां चेति श्रुतिलिङ्गोक्तिरग्रे स्पष्टा ॥ कार्ष्ण्यस्यान्नेऽपीति ॥ कार्ष्ण्यप्राचुर्यस्येत्यर्थः । शक्तिमत्वमित्युक्त-सिद्धान्तन्यायप्रदर्शकतया आपश्चेत्यादिभाष्यमवतारयति ॥ एवं प्रकरणेति ॥ अन्नश्रुतेः पृथिव्यां सावकाशत्वोक्तेरुपलक्षणत्वं मत्वा लिङ्गयोरपि सावकाशत्वमाह ॥ न च वृष्टीति ॥ वृष्ट्युत्पन्नार्थत्वेनेति ॥ पार्थिवानां वृष्ट्युत्पन्नार्थत्वाविवक्षायां ता आपोऽन्नमसृजंत पृथिवी वा अन्नमिति व्याख्यानमनुपपन्नं स्यात् । अन्नस्य वृष्टिजन्यत्वेनाब्जन्न्यत्वे बाधकाभावात् । व्याख्यातं चान्नपदं श्रुतौ पृथ्विपरतया तेन जानीमो वर्षजन्यमन्नं पार्थिवमेव न तु प्रसिद्धमिति भावः । अत एवात्र टीकायां लिङ्गविरोधोऽत्र निरस्त इति ज्ञेयम् । तेजोऽशितमिति तत्र तेजस एव भक्षणासम्भवाद्यथा तेजःशब्दस् तैजसघृतादिपरस्तथा पृथिवीपरोऽन्नशब्दः पार्थिवपर इति भावः । भाष्ये एवमेव वर्णान्तरगतिः कृष्णवर्णातिरिक्तवर्णगतिरेवमेव निमित्तविशेषेणैवेत्युक्तम् । निमित्तविशेषान्तरमाह ॥ विष्ण्विति ॥ सूत्रेऽन्नमित्यध्याहारः । शब्देत्येव वाच्ये अन्तरेत्युक्तिः शाखान्तरस्य सूचनाय वा ता आपोऽन्नमसृजन्त पृथ्वी वा अन्नमित्येवं व्याख्यानरूपशब्द-विशेषद्योतनाय वेत्यवगन्तव्यम् ।
तत्त्वसुबोधिनी
अवसरलक्षणमनन्तरसङ्गतिमाह ॥ एवं सर्वस्येति ॥ न वियदश्रुतेरेतेनेत्यधिकरणाभ्यां नभोवाय्वोः साक्षाद्ब्रह्मजत्वे तेजोऽतस्तथा ह्याह । आप इत्यधिकरणाभ्यां च वागादीनामाकाशादि-द्वारा ब्रह्मजातत्वे सिद्ध इत्यर्थः । अन्यद्वारा ब्रह्मजत्वानिश्चये द्वारविषयश्रुतिविचारस्यानवसर-ग्रस्तत्वादिति भावः । अनन्तरसङ्गत्यन्तरं सूचयन् विषयमाह ॥ प्रकृत इति ॥ अतो विरुद्धत्वादप्रामाण्यमिति मन्तव्यमित्यर्थः ।
भाष्याभिप्रायमाह ॥ नाप इत्यादिना ॥ अन्यतरश्रुत्यप्रामाण्येन पूर्वपक्षेऽपि ब्रह्मणो जगज्जन्मादिकारणत्वाक्षेपसम्भवात् परस्परविरोधेन उभयाप्रामाण्येन पूर्वपक्षः कुतः कृत इत्यत आह ॥ निरवकाशत्वेनेति ॥ अन्नश्रुतेः प्रसिद्धान्येति ॥ अद्भ्यो वा अन्नमित्यादिबहुवाक्यानां प्रसिद्धार्थपरत्वरूपगुणलाभादित्यर्थः । न केवलं प्रसिद्धान्नपरत्वे बहुवाक्यानुसारिता किन्तु लिङ्गद्वयमप्यस्तीत्याह ॥ तस्मादिति ॥ अद्भ्यः पृथिवीति श्रुतेर्निरवकाशत्वमुपपादयति ॥ न चेति ॥ उक्तश्रुतिविरोधादेवेति ॥ ओषधीभ्योऽन्नमिति श्रुतिविरोधादेवेत्यर्थः ॥ बहुकल्पनापातादिति ॥ अन्नस्याब्जन्यत्वमोषधीजन्यत्वं पृथिव्याश्चाब्जन्यत्वं चेति बहुकल्पनापातादित्यर्थः ॥ मुख्यार्थत्याग इति ॥ साक्षात्कारणत्वरूपमुख्यार्थत्याग इत्यर्थः ॥ भूतविषयत्वादिति ॥ अन्नस्य भौतिकत्वेन भूतत्वाद् भूतशब्देन भौतिकमेव व्यावर्तते न तु भूताभिमानी देवतापीति भावः । पूर्वोक्तयुक्तेः सावकाशत्वमाह ॥ न च वृष्टिजन्यत्वेति ॥ तेजोऽशितमितिवदिति ॥ अत्र तैजस एव भक्षणासम्भवाद् यथा तेजश्शब्दस् तैजसपरस् तथा पृथिवीवाचको अन्नशब्दः पार्थिवपर इत्यर्थः । सा पृथिवी पीतेत्यभिधीयते अत्र हेतुर् नाभीति नाभिजात पद्मस्य पीतत्वेन तत्सम्बन्धात् पृथिव्या अपि पीतत्वमिति भावः । पृथिवी रक्तेत्यभिधीयते तत्र हेतुः ॥ क्षत्रेति ॥ पृथिव्यामन्योन्यं क्षत्राणां युद्धे सति तदीयरक्तसम्बन्धादित्यर्थः ॥ पृथिवी शुक्लत्वमेति ॥ अत्र हेतुर् उदकबहुत्वत इति ॥ उदकाय शुक्लत्वेन तत्सम्बन्धबाहुल्यात्तस्या अपि शुक्लत्वमित्यर्थः । उक्तन्यायमन्यत्रातिदिशति ॥ एवमिति ॥ वर्णान्तरमपि तत्सम्बन्धबाहुल्यादेव मन्तव्यमित्यर्थः ।
वाक्यार्थविवरणं
द्वारविषयेति ॥ आवान्तरकारणापरपर्यायद्वारकारणविषयेत्यर्थः ॥ प्राप्तमिति ॥ शङ्काया-मित्यर्थः । ननु श्रुतिद्वयमध्ये अन्यतरश्रुतिः प्रमाणतया गृह्यत इति न विरोध इत्यत आह ॥ निरवकाशत्वेनेति ॥ श्रुतिद्वयस्यापीति शेषः । बहुवाक्यानुसारित्वमेव दर्शयति ॥ तस्मादित्या-दिना ॥ यस्मादादौ अन्नमब्जन्यं तस्मात् । इदानीमपीति शेषः ॥ प्रसिद्धान्नेति ॥ ‘अशितं’ इत्युक्त्या अश्यत्वरूपप्रसिद्धान्नलिङ्गादित्यर्थः । न हीदं लिङ्गं पृथिव्यां सम्भवतीति भावः । पुनरविरोधमाशङ्क्य निषेधति ॥ न चेति ॥ श्रुतिविरोधादिति ॥ अन्नस्यौषधिजातत्वप्रतिपादक-श्रुतिविरोधादित्यर्थः ।
ननु तथापि न विरोधः । उभयत्रापि श्रुतौ पृथिव्यन्नशब्दयोः प्रसिद्धपृथिव्यन्नपरत्व-स्यैवाङ्गीकारात् । न च पुनर्विरोधानिस्तार इति वाच्यम् । पृथिव्यन्नयोरुभयोरपि अद्भ्य एवो-त्पत्त्यङ्गीकारेणापां पृथिव्यन्नोभयोत्पत्तौ द्वारकारणत्वाङ्गीकारादित्याशङ्क्य निषेधति ॥ नापीति ॥ उक्तेति ॥ अन्नस्याब्जन्यत्वे । औषधीभ्योऽन्नमित्यन्नस्यौषधिजन्यत्वप्रतिपादकश्रुतिविरोधा-देवेत्यर्थः । ‘अद्भ्यः पृथिवी’ ‘ता अन्नमसृजन्त’ इति श्रुत्योः पुनरविरोधमाशङ्क्य निषेधति ॥ न चेति ॥ परम्परया ॥ पृथिव्यौषधिजननद्वारेत्यर्थः ॥ मुख्यार्थेति ॥ ‘ता आप अन्नमसृजन्त’ इति साक्षादब्जन्यत्वरूपमुख्यार्थेत्यर्थः ॥ अस्य प्रकरणस्येति ॥ ‘ता आप ऐक्षन्त’ इत्याद्यस्य प्रकरणस्येत्यर्थः ॥ प्रकरणमात्रेणेति ॥ श्रुत्यपेक्षया प्रकरणस्य दुर्बलत्वादिति भावः ॥ अवाचकायाः ॥ पृथिव्यवाचकायाः ॥ पृथिवीपरत्वमिति ॥ लक्षणादिना पृथिव्यां तात्पर्यं गङ्गाशब्दस्य तीर इवेत्यर्थः ॥ तस्याः ॥ अन्नश्रुतेः । वाचकत्वरूपा शक्तिः ॥ लिङ्गेति ॥ अश्यत्वरूपलिङ्गेत्यर्थः ॥ आप्तेति ॥ तथा च वेदो नाप्रमाणम् । विष्ण्वाद्याप्तवाक्यभूतपञ्चरात्राद्यनु-सारित्वादित्यनुमानं द्रष्टव्यम् । आदिपदेन फलसंवादादिग्रहणम् । बुद्धिदोषनिरासमात्रकारणत्वा-द्युक्तीनां न प्रामाण्यस्य स्वतस्त्वभङ्गः । अत एव नाप्रमाणमित्यप्रामाण्याभाव एव साधित इति द्रष्टव्यम् । ‘वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना’ इत्येतद्धदि कृत्वोक्तपरिहारप्रकारं दर्शयति । एवं युक्ति । कल्प्या । अन्नश्रुतेरिति शेषः । ‘भाष्ये यत्रेत्यस्य यदेत्यर्थः । सा पृथिवी पीतेत्यभिधीयत इत्यन्वयः । रक्ता । इत्यभिधीयत इति वर्तते । भूयस्त्वादिति वक्ष्यमाणन्यायेनोदकबहुत्वतः शुक्लत्वमेतीत्यन्वयः । वर्णान्तरगतिः । स्वाभाविककृष्णवर्णापेक्षया यद्वर्णान्तरं पीतादि तद्ग्रति-रेवमेव । निमित्तान्तरसमावेशेनेत्यर्थः ॥ एवमेवेत्युक्तमेवेति ॥ एवमेवेत्यनेनोक्तमेव निमित्तान्तरं दर्शयतीत्यर्थः । एवं ‘च भुवः पीतत्वमिष्यत’ इति यत्तन्न केवलं नाभिपद्माभिसम्बन्धात् किन्तु विष्णुवीर्याभियोगाच्चेति व्याख्येयम् । एवं च निमित्तान्तरप्रदर्शन एव भारो न वर्णान्तरविधौ, येनात्र वर्णान्तरं नोच्यते । किन्तु पूर्वोक्त एव पीतवर्णः कथ्यत इति कथमेतदिति चोद्यानवकाश इति ध्येयम् । केचित्तु वर्णान्तरस्य पीतादेर्गतिरेवमेव नाभिपद्माभिसम्बन्धादित्येवमादिप्रकारेणैवेत्यर्थः । तथा चैवमेवेत्युक्तमेव दर्शयतीति टीकाया एवमादीत्यादिशब्दोक्तं प्रकारं स्वयमेव दर्शयतीत्यर्थः । इत्याहुः ।
ननु विष्णुवीर्याभियोगेऽपि कुतो भुवः पीतत्वमित्यतस्तदुपपादयति ॥ स्वर्णवीर्यो हीति ॥ सुवर्णे च पीतरूपमस्तीति भावः । एतदुपलक्षणम् । नाभिपद्मक्षत्ररक्तबहूदकसम्बन्धेऽपि कुतो भुवः पीतत्वरक्तत्वशुक्लत्वानीति शङ्कापरिहाराय पीतं हि भगवन्नाभिपद्मं, रक्तवर्णं हि क्षत्ररक्तं, शुक्लं ह्युदकं प्रसिद्धमतस्तत्सम्बन्धाद्भुवोऽपि पीतत्वादि । जपाकुसुमसम्बन्धात् स्फटिके लौहित्य-मिवेत्युपपादनं च द्रष्टव्यम् ।
वाक्यार्थमञ्जरी
साक्षादन्यद्वारा वेति ॥ न वियदश्रुतेरेतेन मातरिश्वाव्याख्यात इत्यधिकरणाभ्यां महाकाश-वाय्वोः साक्षाद्ब्रह्मजातत्वे तेजोतस्तथा ह्याह आप इत्यधिकरणाभ्यां भूतवाय्वादीनामाकाशादिद्वारा ब्रह्मजातत्वे च सिद्धे सतीत्यर्थः ॥ द्वारविषयेति ॥ अवान्तरकारणविषयेत्यर्थः । तत्र कोटिद्वये किमस्येत्यादिप्रश्नद्वयोत्तरमाह ॥ तत्र श्रुतीति ॥ शङ्कायामित्यर्थः । सावकाशत्वादिना व्यवस्थास्त्वित्याह ॥ निरवकाशत्वेनेति ॥ श्रुतिद्वयस्येति वर्तते । अन्यतरसावकाशत्वमाशङ्क्य निराकरोति ॥ न चेत्यादिना ॥ बहुवाक्येति ॥ ता अन्नमसृजन्त ता आपोऽन्नमसृजन्त अद्भ्य एव तद्ध्यन्नाद्यं जायत इत्यादि बहुवाक्येत्यर्थः ॥ तस्मादिति ॥ तस्मादन्नस्याप्कार्यत्वादेव यत्र क्वच देशे वर्षति तत्रैव भूयिष्ठमन्नं भवति ॥ अन्यथासिद्धिं निरस्यति ॥ अद्भ्य एवेति ॥ तदन्नाद्यं प्रसिद्धान्नप्रभृतिपार्थिवमद्भ्य एव जायते नान्यस्मादित्यर्थः । अशितं भक्षितं त्रेधा पुरीषमांस-मेदोरूपेण ॥ लिङ्गादिति ॥ वृष्टिजन्यत्वाद्यत्वपुरुषाद्यात्मना परिणामरूपादित्यर्थः । उक्तश्रुति-विरोधादिति पृथिवीजन्यौषधिजन्यत्वप्रतिपादकौषधीभ्योऽन्नमिति श्रुतिविरोधादित्यर्थः ॥ बहुकल्पनापातादिति ॥ अन्नस्याब्जन्यत्वमौषधिजन्यत्वं पृथिव्याश्चाब्जन्यत्वं चेति बहुकल्पना-पातादित्यर्थः ॥ मुख्यार्थेति ॥ साक्षादब्जन्यत्वरूपेत्यर्थः ॥ ॐ पृथिव्यधिकाररूपशब्दान्तरा-दिभ्यः ॐ ॥ अन्नं पृथिव्यैव न प्रसिद्धान्नं कुतो ऽधिकारात्तत्तेजोऽसृजत’ इत्यादिभूतप्रकरणात् । यत्कृष्णं तदन्नस्येति कृष्णरूपात् पृथिवी चान्नमिति शब्दान्तराद् वेदो नाप्रमाणमपौरुषेयत्वादिति युक्तेश्चेत्यर्थः । तासामिति तासां तेजो बन्नादिदेवतानां मध्ये एकैकदेवतां त्रिवृतं त्रिवृतं स्वाभिमन्य-मानभूतेन सहान्योन्यप्रविष्टामकरोदित्यर्थः ॥ भूतविषयत्वादिति ॥ अन्नं च भौतिकमेव न भूतमिति भावः । ननु देवतानामन्योन्यप्रवेशे एकैकत्र कार्यं त्रयेण भाव्यं तत्कथमित्यतो यदग्नेरित्यादिवाक्यं प्राप्तं तस्यार्थः । अग्नेर्यद्रोहितं लोहितं रूपं तत्तेजसो रूपं तेजोऽभिमानिश्रीरूपसम्भवम् । अग्नेर्यच्छुक्लं रूपं तदपां रूपम् अम्नामकवायुरूपजन्यम् अग्नेर्यत्कृष्णं रूपं तदन्नाभिमानिरुद्ररूप-सम्भवम् ॥ जानीयादिति ॥ तेजोऽशितमितिवदिति ॥ तत्र तेजस एव भक्षणासम्भवाद् यथा तेजःशब्दस् तैजसपदार्थ परस्तथा पृथिवीवाचकोऽन्नशब्दः पार्थिवपदार्थपर इत्यर्थः । प्रत्यक्षवत् साक्षिवत् पद्मस्वर्णगतपीतयोर्लोकेऽवान्तरविशेषदर्शनान्न भाष्ये पुनरुक्तिः शङ्क्या ।
॥ इति पृथिव्यधिकरणम् ॥