ॐ आपः ॐ
५. अथ अबधिकरणम्
सूत्रभाष्यम्
॥ ॐ आपः ॐ ॥ ११ ॥
‘ब्रह्मैवेदमग्र आसीत्तदपोऽसृजत तदिदं सर्वम्’ इति श्रुतेः ‘अग्नेरापः’ (तै.उ.२-१) इत्युक्तेऽपि ब्रह्मण एवाबादिसृष्टिः ।
‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी’ (मुं.उ. २-१-३) इत्यादि च ।
‘कर्ता सर्वस्य वै विष्णुर् एक एव न संशयः ।
इतरेषां तु सत्ताद्या यत एव तदाज्ञया’ ॥ इति भविष्यत्पुराणे ॥
वामने च –
‘तत्र तत्र स्थितो विष्णुस् तत्तच्छक्तीः प्रबोधयन् ।
एक एव महाशक्तिः कुरुते सर्वमञ्जसा’ ॥ इति ।
धर्मात्स्वेदादिदृष्टेः पुनः प्रतिषेधः ।
तत्त्वप्रदीपिका
अत एव परादापो जायन्ते । ‘ब्रह्मैवेदमग्र आसीत्तदपोऽसृजत’ इति ह्याह । ‘अग्नेराप’ इति वचनेऽपि ब्रह्मण एवाबादिसृष्टिः । उक्तन्यायेन ‘तदपोऽसृजत’ इत्युक्तेऽपि नाकाशादिक्रमपरित्यागो मन्तव्य इत्येतदर्थमाह । ‘खं वायुर्ज्योतिरापः’ इत्यादि सति चैवमुपादानाद्यसिद्धिर्ब्रह्मैव वा तदस्त्विति चेन्मैवम् । तत्सत्ताशक्त्यादिकमपि ब्रह्माधीनमित्येतदेवाऽकूतम् । आह च– ‘कर्ता सर्वस्य वै विष्णुः’ इत्यादिना । अत्र च सृष्टिक्रमप्रदर्शनं द्वारविशेषप्रकाशनं वाक्यान्तरोपसङ्ग्रह इति महत्प्रयोजनमित्यगतार्थत्वम् । अन्यच्च, आह हि भगवानाप इति सूत्रस्य विशेषशङ्कानिरासार्थत्वम्– प्रत्यक्षत इति ॥ प्रत्यक्षत एव घर्मभयशोकात्स्वेददृष्टिबाष्पादिदृष्टेस् तन्निमित्ता शङ्का स्यादिति ।
तत्त्वप्रकाशिका
अत्र ब्रह्मणि श्रुतिसमन्वयसिद्ध्यर्थमपां जन्मविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । सकलकारणं ब्रह्मेत्युक्तम् । तत्रापां तेजोजातत्वे तद्विरुद्धं स्यादिति तन्निराकरणीयम् । तेजसोऽनन्तरप्राप्ता आपोऽत्र विषयः । किं तेजसो जायन्ते ब्रह्मणो वेति सन्देहः । ‘अग्नेरापः’ ‘तदपोऽसृजत’ इति श्रुतिविगानं सन्देहबीजम् । अग्नेरेवापो जायन्त इति पूर्वः पक्षः । ‘अग्नेरापः’ इति श्रुतेः । न चान्यश्रुतिविरोधः । विमता आपस्तेजसो जायन्ते अप्त्वात् स्वेदादिवदिति युक्तियुक्तत्वेन तेजोजातत्वश्रुतेः प्राबल्यात् । बलवदेतच्छ्रुतिविरुद्धायास्तस्या एवाप्रामाण्योपपत्तेः । तथा च श्रुत्यन्तरं ‘तत्तेज ऐक्षत बहु स्यां प्रजायेय’ इति तदपोऽसृजत । तस्माद्यत्र क्व च शोचति स्वेदते वा पुरुषस्तेजस एव तद्ध्यापो जायन्त’ इति । अतो न सर्वकारणे ब्रह्मणि श्रुतिसमन्वयसिद्धिरिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ आप इति ॥ अत्राप्यतस्तथा ह्याहेति ग्राह्यम् । नाग्नेराप इति श्रुतेरपामन्यत उत्पत्तिर्ग्राह्या किं त्वापोऽपि ब्रह्मण एव जायन्ते ब्रह्मैवेति श्रुतेरित्यर्थः । अत्र न्यायप्राप्तभूतवायुपृथिव्योषध्यादीनां ब्रह्मजातत्वज्ञापनार्थमादिपदं भाष्ये । सूत्रेऽप्पदमन्योपलक्षणम् । वाय्वादेः सर्वस्य ब्रह्मजातत्वं कुत इत्यत आह ॥ एतस्मादिति ॥
ननु विष्णोरिवान्येषामपि कारणत्वं किं न स्यात्तथा श्रुतेरिति । शक्त्यभावादित्याह ॥ कर्तेति ॥ उक्तयुक्त्युपेता श्रुतिः कथं तर्ह्युपपद्यत इत्यत आह ॥ वामने चेति ॥ महाशक्तिरपि हरिर्लीलयैवाग्न्यादिषु स्थित्वाऽबादिकं जनयतीति श्रुत्यादि तद्विषयमिति भावः । ननु कारणत्वे-नेत्यत्रैवापां ब्रह्मणो जन्मनः सिद्धत्वाद् व्यर्थमेवेदमधिकरणम् । अथोभयकारणत्वनिवृत्यर्थमुच्यते । तदपि पूर्वन्यायेन निवृत्तमित्यत आह ॥ धर्मादिति ॥ भवतु वायोरग्न्युत्पत्तौ द्वारत्वप्रतिपादकता तच्छ्रुतेः । अत्र पुनरग्नेः कारणत्वमेव प्रत्यक्षानुकूल्यादिति विशेषाकाङ्क्षानिवृत्यर्थमेतदधिकरणमिति भावः । तस्माच्छ्रुत्यविरोधेनापां ब्रह्मजातत्वसिद्धेर्युक्तो हरौ वेदसमन्वय इति सिद्धम् ।
गुर्वर्थदीपिका
अप्रामाण्योपपत्तेरित्यत्र स्वतन्त्रकारणतायामप्रामाण्योपपत्तेरित्यर्थः । अन्येषामपि कारणत्वं किं न स्यादित्यत्र कारणत्वं स्वतन्त्रकारणत्वमित्यर्थः । ‘ता अन्नमसृजन्त’ ‘अद्भ्यो वा अन्नमुत्पद्यते’ ।
भावबोधः
श्रुतिक्रमेणैवानन्तरसङ्गतिं दर्शयन् विषयमाह– तेजसोऽनन्तरप्राप्ता इति ॥ किमिति ॥ अत्रापः किं तेजसो जायन्त उत ब्रह्मण एवेति चिन्ता । तदर्थं ब्रह्मजातत्वश्रुतिः’ ‘अग्नेराप’ इति श्रुतिबाधितोताबाधितेति । तदर्थम् ‘अग्नेराप’ इति श्रुत्यनुग्राहिका घर्मात् स्वेददृष्टिरूपा युक्ति-स्तन्मूलभूता ‘तस्माद्यत्र क्वच’ इति श्रुतिश्च किं निरवकाशा द्वारकारणत्वपरत्वेन सावकाशेति । अग्नेराप इत्युक्तेऽपीति भाष्यानुरोधेनाऽऽह– अग्नेरेवेति ॥ तेजस एवानुत्पत्त्यङ्गीकारे घर्मात् स्वेददृष्ट्यनुसार इति गुणाधिक्यमिति न्यायविवरणोक्तं तन्निवर्तनीयाशङ्कानिरासपूर्वकमाह– न चेति ॥ प्रत्यक्षव्याप्तिमूलकत्वेन युक्तेः प्राबल्यमुक्त्वा श्रुतिसंवादित्वेनापि तदाह– तथा च श्रुत्यन्तरमिति ॥ ब्रह्मैवेत्यादिभाष्यस्योत्सूत्रितत्वशङ्कानिरासार्थमाह– अत्रापीति ॥ ब्रह्मैवेति श्रुतेरित्यर्थ इति । उपलक्षणमेतत् । मुख्यार्थत्यागापत्तेरिति न्यायविवरणानुसारेण तदिदं सर्वमिति श्रौतसर्वशब्दमुख्यार्थत्यागापत्तेरित्यपि ग्राह्यम् । अन्यथा भाष्ये तन्नोदाह्रियेत’ इति ज्ञेयम् । न्यायप्राप्तेति ॥ यद्यपि पूर्वाधिकरण एव सौत्रतेजःपदस्यान्योपलक्षकत्वमङ्गीकृत्य ‘आदि’पदं भाष्ये प्रयोक्तव्यम् । प्रथमातिक्रमे कारणाभावात् । तथाप्येतदधिकरणद्वयान्तेऽधिकरणद्वयार्थप्रमाणे उदाहरणीये, तत्र च वाय्वादीनां ग्रहणात्तदनुसारेणात्रैव ‘आदि’पदप्रयोग इति भावः ।
भावदीपः
श्रुतीति ॥ सकलकारणत्वेनेति योज्यम् ॥ अपां जन्मेति ॥ अपामन्यस्मा-ज्जन्मबोधकश्रुतीत्यर्थः । एवमन्यत्राप्यूह्यमिति भावेनाव्यवहितपूर्वसङ्गतिमाह ॥ तेजसोऽनन्तरेति ॥ अत्राप्यप्शब्देन भूतं देवता चोच्यते । तेजस इत्यनेनापि तेजोभूतं तद्देवता च तयोरब्जन्महेतुत्वं च यथायोगं परिणममानत्वं च ध्येयम् । तेजस एवेति वा स्वतन्त्रादिति वा योज्यम् ॥ ब्रह्मण इति ॥ ब्रह्मणः सकाशादेव नान्यस्मात्स्वतन्त्रादित्यर्थः ॥ श्रुतिविगानमिति ॥ श्रुतिद्वयेऽग्निब्रह्मणोः स्वातन्त्र्येणाब्जन्महेतुत्वप्रतीतेरिति भावः । अत्र पूर्वापेक्षया विशेषशङ्कासद्भावादग्नेरेवापो जायन्त इत्यवधारणोक्तिः । अग्नेराप इति भाष्योक्तहेतुमाह ॥ अग्नेराप इति श्रुतेरिति ॥ प्रत्यक्षत एव घर्मात्स्वेदादिदृष्टेरिति भाष्योक्तयुक्तिं वक्तुं शङ्कामाह ॥ न चान्येति ॥ तदपोऽसृजतेति भाष्योक्तश्रुतीत्यर्थः । विमतः सर्गाद्याः । एतेन तेजस एवापाम् उत्पत्त्यङ्गीकारे घर्मात्स्वेदादि-दृष्ट्यनुसारित्वमित्यन्यत्रोक्तं विवृतं ध्येयम् । अप्त्वहेतोरप्रयोजकताशङ्कानिरासाय प्रत्यक्षत एव घर्मात्स्वेदादिदृष्टेः । किमु घर्मात्स्वेदादिश्रवणादित्यवधारणसूचिता युक्तिमूलभूतश्रुतिमाह ॥ तथा चेति ॥ छान्दोग्ये षष्ठे । तेजःपदेनाभिमान्यधिकरणन्यायेन देवताया अप्युक्तेरैक्षतेति युक्तम् । शोचति अश्रु मुञ्जति । यद्वा शोचति घर्मवान् भवतीत्यर्थः ॥ अत इति ॥ सयुक्तिप्रबल-श्रुतिविरुद्धतया तदपोऽसृजतेति श्रुतेरप्रामाण्यादित्यर्थः । भाष्यस्योत्सूत्रत्वभ्रमनिरासायाह ॥ अत्रापीति ॥ अवधारणार्थतुशब्दानुवृत्तिरपि ध्येया । भाष्यस्थावधारणव्यावर्त्यं व्यञ्जयन् भाष्यसूत्रयोरर्थमाह ॥ नाग्नेराप इति श्रुतेरिति ॥ एतस्मादिति भाष्योक्तश्रुत्युपयोगायाह ॥ न्यायप्राप्तेति ॥ आकाशाद्वायुर् वायोरग्निर् अग्नेरापो ऽद्भ्यः पृथिवी पृथिव्या ओषधय ओषधीभ्योऽन्नम् अन्नात्पुरुष इत्यन्यजातत्वश्रवणरूपपूर्वपक्षन्यायेन द्वारपरत्वरूपसिद्धान्तन्यायेन च प्राप्तानामित्यर्थः ॥ तथा श्रुतेरिति ॥ अग्नेराप इति श्रुतेरित्यर्थः ॥ उक्तेति ॥ विमता इत्यादिनोक्तेत्यर्थः । प्रकृतोपयोगाय भाष्यभावमाह ॥ महाशक्तिरिति ॥ इतिर्हेतौ ॥ विशेषाकाङ्क्षानिवृत्त्यर्थमिति ॥ निवृत्तिप्रकारश्च महाशक्तिरपीत्यादिना प्रागेवोक्त इति भावः ॥ तस्मादिति ॥ अन्यजातत्वश्रुतेर्द्वारपरत्वात्तदपोऽसृजतेति श्रवणाच्चेत्यर्थः ।
अभिनवचन्द्रिका
पूर्वपक्षस्तु – न हरेः श्रुतिसमन्वयेन जगत्कारणत्वं युक्तम् । अपाम् ‘अग्नेरापः’ इति श्रुतिबलात्तेजोजातत्वात् । न च ‘तदपोऽसृजत’ इति श्रुतिविरोधात् प्रतीतार्थे तेजोजातत्वश्रुतेर् अप्रामाण्यं वक्तुं युक्तम् । ‘आपस् तेजसो जायन्ते अप्त्वात् स्वेदादिवत्’ इति युक्तियुक्तत्वेन प्राबल्यात् । तथा च श्रुतिः ‘तत्तेज ऐक्षत बहुस्यां प्रजायेयेति । तदपोऽसृजत, तस्माद्यत्र क्व च शोचति, स्वेदते वा, पुरुषस् तेजस एव तध्द्यापो जायंत’ इति । ततश्च न ब्रह्मणः श्रुतिसमन्वयेन जगत्कारणत्वमिति ।
सिद्धान्तस्तु – युक्तमेव हरेरशेषकारणत्वम् । ‘अग्नेरापः’ इति श्रुतेर् अपां परमात्मन उत्पत्तौ अग्निर्द्वारमित्येवंपरत्वात् । ‘ब्रह्मैवेदमग्र आसीत् तदपोऽसृजत’ इति श्रुतेः । ननु श्रुतिद्वयान्यथानुपपत्त्या ब्रह्मतेजसोः साम्येनैव कारणत्वं किं न स्यादिति चेत्, न–
कर्ता सर्वस्य वै विष्णुरेक एव न संशयः ।
इतरेषां तु सत्ताद्या यत एव तदाज्ञयेति ॥
वचनविरोधात् । तस्माच्छ्रुत्यविरोधेनाऽपां ब्रह्मजातत्वसिद्धेर् युक्तं वेदसमन्वयेन जगत्कारणत्वं हरेरिति सिद्धम् ।
वाक्यार्थमुक्तावली
अनन्तरसङ्गतिमाह ॥ तेजस इति ॥ किं तेजस इति । आपः किं तेजसो जायन्ते ब्रह्मणो वेति चिन्ता । तदर्थं किमग्नेराप इति श्रुतिः प्रबला उत ब्रह्मैवेदमग्र आसीत्तदपोऽसृजत’ इति श्रुतिः प्रबलेति । तदर्थमग्नेराप इति श्रुत्यनुग्राहिका घर्मात्स्वेदादिदृष्टिरूपयुक्तिः किं तेजसोद्वारमात्रेण न युक्ता उत युक्तेति । अग्नेरापस्तदपोऽसजत’ इति श्रुतिविगानमिति ॥ अग्नेर्देवताया जडस्य वा निमित्तत्वोपादानत्वप्रतिपादिकाया अग्नेराप इति श्रुतेः कर्तृत्वशक्त्या उपादानत्वशक्त्या च ब्रह्मणोऽप्सृष्ट्रत्वप्रतिपादिकायास् तदपोऽसृजत’ इति श्रुतेश्च विगानं सन्देहबीजमित्यर्थः । अग्नेराप इत्युक्तेऽपीति भाष्येऽपिपदेन, घर्मात्स्वेदादिदृष्टेरिति भाष्ये वक्ष्यमाणलिङ्गसद्भावेति समुच्चीयत इत्यर्थं मत्वा, दृष्टयुक्त्यनुसारित्वमित्युक्तन्यायं सङ्गमयति ॥ विमता इत्यादिना ॥ युक्तेः प्राबल्याय तन्मूलभूतां श्रुतिमुदाहरति तथा चेति ॥ शोचति शोकाग्निनाऽश्रु मुञ्चति ॥ अत्रापीति ॥ उपलक्षणं चैतत् । अवधारणार्थकोऽप्यर्थकश्च तुशब्द अनुवर्तते इत्यपि ग्राह्यम् । ब्रह्मण एवादिसृष्टिरपीत्यपिशब्दसम्बन्धं मत्वा व्याचष्टे ॥ नाग्नेरिति ॥ ब्रह्मैवेति श्रुतेरिति ॥ ब्रह्मैवदमग्र आसीत्तदपोऽसृजत तदिदं सर्वमसृजत’ इति श्रुतेरित्यर्थः । अन्यथा तदपोऽसृजत’ इत्येतावता पूर्णत्वात्तदिदमित्युदाहरणं व्यर्थम् । अबादिसृष्टिरित्यादिपदोपात्तवाय्वादिसृष्टिरपि न प्रमिता स्यादिति ज्ञेयम् ॥ न्यायप्राप्तेति ॥ आकाशाद्वायुः, अद्भ्यः पृथिवी, एतस्माज्जायते प्राणः, ‘खं वायुर्जोतिरापः पृथिवी’ इति श्रुतिविरोधस्य पूर्वपक्षन्यायस्य, सिद्धान्तन्यायस्य च, भूतवाय्वादि-विषयेऽपि साम्यादित्यर्थः । वाय्वादेः सर्वस्येति । तदिदं सर्वमित्यत्र सर्वशब्दस्य वाय्वादीतर-विषयत्वेन सङ्कोचसम्भवादिति भावः । भाष्ये एतस्मादिति श्रुत्युदाहरणमुपलक्षणम् । बाधकं विना सर्वशब्दमुख्यार्थत्यागप्राप्तेरिति च ग्राह्यम् । मुख्यत्वस्यैव सिद्धान्तन्यायत्वादिति भावः । ननु कथं बाधकाभावः श्रुतेरेव सत्वादित्याशयेन शङ्कते ॥ नन्विति ॥ शक्त्यभावादित्याहेति ॥ अत एव सूत्रे सतः स्वतन्त्रात्पूर्णशक्तेरिति सत्पदमनुवर्तितमिति भावः ॥ श्रुत्यादीति ॥ आदिपदेन प्रत्यक्षदृष्टव्याप्तिकं लिङ्गं गृह्यते । तद्विषयमिति द्वारं विना सृष्टुं समर्थस्य स्वतन्त्रस्यापि स्वेच्छयैव स्वीकृतद्वारकारणत्वविषयमित्यर्थः ।
तत्त्वसुबोधिनी
श्रुतिक्रमेणैवानन्तरसङ्गतिं दर्शयन् विषयमाह ॥ तेजसोरन्तरप्राप्ता इति ॥ अग्नेराप इत्युक्तेऽपीति भाष्यानुरोधेनाह ॥ अग्नेरेवेति ॥ प्रत्यक्षमूलव्याप्तिकत्वेन युक्तेः प्राबल्यमुक्त्वा श्रुतिसंवादित्वेनापि तदाह ॥ तथा च श्रुत्यन्तरमिति ॥ ब्रह्म वेत्यादिभाष्यस्योत्सूत्रितत्व-शङ्कानिरासार्थमाह ॥ अत्रापीति ॥ न केवलम् अतस्तथा ह्यहेयत्वस्य पूर्वत्रान्वयः । किन्तु आप इत्यत्रापीत्यपेरर्थः । ननु भाष्ये वादिसृष्टिरित्यत्र आदिशब्दः किमर्थमित्यत आह ॥ अत्र न्यायप्राप्तेति । ननु तर्हि सूत्रे किं ज्ञापकमित्यत आह ॥ सूत्रपदमिति ॥ सूत्रस्थाप इति पदमित्यर्थः । यद्यपि पूर्वाधिकरणे एव सौत्रतेजःपदस्यान्योपलक्षकत्वमङ्गीकृत्यादिपदं भाष्ये प्रयोक्तव्यम् । प्रथमातिक्रमे कारणाभावात् । तथापि एतदधिकरणद्वयात्तदधिकरणद्वयार्थे प्रमाणे उदाहरणीये तत्र च वाय्वादीनां ग्रहणात्तदनुसारेणात्रैवादिपदप्रयोग इति भावः ।
वाक्यार्थविवरणं
विमताः ॥ आदिकालीनाः ॥ तस्मादिति ॥ यस्मादादौ तेज आपोऽसृजत तस्मादित्यर्थः । अधुनापीति शेषः ॥ यत्र ॥ यदा ॥ तत् ॥ तदा । ‘खं वायुरित्युत्तरभाष्यानुरोधादाह ॥ अत्रेति ॥ सूत्रे अप्पदम् । सूत्रस्थम् अप्पदमित्यर्थः ॥ अन्येषाम् ॥ तेज आदीनाम् ॥ कारणत्वम् ॥ अबादिकारणत्वम् ॥ तथेति ॥ अपां तेजोजातत्वप्रतिपादकोक्तश्रुतेरित्यर्थः । इतीत्यस्यानन्तरं ‘चेन् न’ इत्यध्याहारः ॥ शक्तीति ॥ तेज आदेरबादिजनन इति शेषः ॥ श्रुत्यादि ॥ अग्नेराप इत्यादि ॥ तद्विषयम् ॥ अपाम् अग्निस्थहरिजातत्वप्रतिपादकम् । अग्न्यादिषु स्थित्वाऽबादिकं जनयती-त्युक्त्याऽस्वातन्त्र्यशङ्का प्राप्ता । तन्निरासाय महाशक्तिरित्यारभ्य जनयतीत्यन्तमुक्तमिति ध्येयम् ॥ तदपि ॥ चोद्यम् । इति वचनं वा ॥ पूर्वन्यायेनेति ॥ ब्रह्मण एवाग्न्युत्पत्तौ वायोर्द्वारवद् ब्रह्मण एवाबाद्युत्पत्तौ अग्नेरपि द्वारत्वेन उभयोः प्राधान्येन कारणत्वमिति पूर्वन्यायेन निवृत्तमित्यर्थः ॥ तद्द्वारत्वेति ॥ तस्य हरेर्वायुर्द्वारभूत इत्येवंरूपेणेत्यर्थः ॥ तच्छ्रुतेः ॥ वायोरग्निरिति श्रुतेः ॥ कारणत्वमेव ॥ अपः प्रतीति शेषः । न द्वारत्वमित्येवार्थः ॥ विशेषाकाङ्क्षेति ॥ आकाङ्क्षा-विशेषेत्यर्थः ।
वाक्यार्थमञ्जरी
प्रत्यक्षमूलव्याप्तिकत्वेन युक्तेः प्राबल्यमुक्त्वा श्रुतिमूलव्याप्तिकत्वेनापि तदाह ॥ तथा च श्रुत्यन्तरमिति ॥ तत्तेज इति ॥ तत्तेजो रमाख्यमैक्षत विचारमकरोत् ॥ किमिति ॥ अहं बहुरूपं स्यां तदर्थं जगदुत्पादयामीति इत्थं विचिंत्य तत्तेजोपोऽम्नामकप्राणसहितं तदभिमन्यमानमबाख्यं भूतमसृजद् यस्मादादौ तेजस एवापो जातास्तस्मादद्यापि पुरुषः यत्र क्वचिद्देशे काले वा शोचति रोदते स्वेदते प्रस्विद्यते वा तत्तत्रापस्तेजस एव जायन्त इति हि प्रसिद्धमित्यर्थः ॥ ॐ आपः ॐ ॥ आपोप्यत एव जायन्ते यस्माद्ब्रह्मैवेदमिति श्रुतिस्तथाहेत्यर्थः । तर्ह्यसूत्रितत्वं स्यादित्यत आह ॥ सूत्रेऽप्पदमिति ॥ तद्विषयं तेजोगतभगवद्विषयम् । पूर्वं न्यायेनैवेति ॥ द्वारत्व-प्रतिपादकत्वन्यायेनेत्यर्थः ।
॥ इति अबधिकरणम् ॥