०४ तेजोऽधिकरणम्

ॐ तेजोऽतस्तथा ह्याह ॐ

४. अथ तेजोऽधिकरणम्

सूत्रभाष्यम्

॥ ॐ तेजोऽतस्तथा ह्याह ॐ ॥ १० ॥

‘वायोरग्निः’ (तै.उ. २-१) इत्यादेर्नान्यत उत्पत्तिर्ग्राह्या । अत एव परात्तदपि जायते । तत्तेजोऽसृजतेति ह्याह । कारणत्वेनेत्युक्तेऽप्यमुख्यतयाऽन्येषामपि शब्दोक्तत्वात्पुनरुक्तिरुभय-कारणत्वनिवृत्यर्थम् ॥ इति तेजोऽधिकरणम् ॥

तत्त्वप्रदीपिका

एवं वाय्वाकाशयोरुत्पत्तिरुक्ता । तेजसस्तु कुत उत्पत्तिरिति विचार्यते । वायोरिति पूर्वपक्षः । ‘वायोरग्निः’’ इत्यादिश्रुतिबलात्परमात्मनोऽन्यतस्तेजस उत्पत्तिर्न ग्राह्या । अपि तु यतो वियद्वायू जातौ ततोऽत एव परात्तदपि जायते । वायोरग्निरित्यादेरत एव च प्रमाणात् । अपिशब्दाद्भूतवायुरपि परादेव जायत इति साधितमिति सूचयति । ‘आकाशाद्वायुः’ इत्युक्तेऽप्युक्तं हि ‘कारणत्वेन चाकाशादिषु’ इत्यत्राऽकाशादिभूतस्थ आकाशादिशब्दमुख्यार्थः पर एव वाय्वाद्युत्पत्तिकारणमिति तथा च पुनरुक्तिरित्यत आह– कारणत्वेनेति ॥ यद्यपि विष्णुरेव मुख्यार्थः । तथाऽप्याकाशा-दीनामप्यमुख्यार्थतया शब्दोक्तत्वाङ्गीकाराथ ‘‘आकाशाद्वायुर्वायोरग्निः’’ इत्यादावुभयकारणत्वाशङ्का स्यात् । तन्निवृत्त्यर्थं च पुनरुक्तिरिति फलवती । तेत्तेजोऽसृजतेति प्रत्यक्षश्रुत्युपन्यासार्थत्वाच्च । उभयकार्यत्वाशङ्का व्युदस्ता पुरस्तादेव । पररूपस्य व्यक्तिमात्रोक्तेः । कार्यत्वापादकस्य कार्यशब्द-मुख्यार्थत्वमिति च विस्तृतम् ।

तत्त्वप्रकाशिका

एवं सर्वस्यापि ब्रह्मेतरस्योत्पत्तौ सिद्धायां वियदादीनां च परमात्मनो जन्मेत्यत्र विवादाभावेऽत्र ब्रह्मणि श्रुतिसमन्वयसिध्द्यर्थं तेजोजन्मविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । सकल-जगत्कारणं ब्रह्मेत्युक्तम् । तत्र तेजसो वायुजातत्वे तदभावप्रसङ्ग इति तन्निरसनीयमेव । वायो-रनन्तरप्राप्तं तेजोऽत्र विषयः । किं वायोर्जायते ब्रह्मणो वेति सन्देहः । वायोरग्निः । ‘तत्तेजोऽसृजत’ इति श्रुतिविरोधः सन्देहबीजम् । वायोर्जायत इति पूर्वः पक्षः । ‘वायोरग्निः’ इति श्रुतेः । न च तेजसो वायुद्वारा परमात्मजातत्वाभिधायकत्वं श्रुतेर्वाच्यम् । किं ब्रह्म वायुद्वारमन्तरेण तेजः स्रष्टुमीष्टे न वा । आद्ये व्यर्थं वायुद्वारा सर्जनम् । द्वितीये सिद्धं नः समीहितं यावताऽस्माभिरप्युभय-कारणत्वमेवोच्यते । न च तत्तेजोऽसृजत इति श्रुतिविरोधः । तस्या उभयकारणत्वेऽप्यविरोधात् । ब्रह्ममात्रकारणत्वाभिधायकत्वे निरवकाशैतच्छ्रुतिविरोधेनाप्रामाण्यापातात् । अतो न जगत्कारणत्वेन ब्रह्मणः सर्वश्रुतिवेद्यतेति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ तेज इति ॥ न ‘वायोरग्निः’ इत्यादि श्रुत्या तेजसो वायोरुत्पत्तिर्ग्राह्या । किं तु ब्रह्मणः सकाशादेव तेजो जायते । ‘तत्तेजोऽसृजत’ इति श्रुतेः । न च वायोरग्निरित्यादिश्रुतिविरोधः । तत्र वायुद्वारा तेजसो ब्रह्मजातत्वोक्तेः । न च द्वारवैयर्थ्यादुभयकारणत्वं वाच्यम् । वाय्वादेरकारणत्वेऽपि वाय्वादिद्वारमनुसृत्य ब्रह्मणः स्वेच्छयैव लीलया तेजः प्रभृतिकारणत्वस्य श्रुत्यादिसिद्धत्वात् । श्रुत्यादिकं चोत्तराधिकरणे दर्शयिष्यत इति भावः ।

ननु ‘कारणत्वेन चाकाशादिषु यथा व्यपदिष्टोक्तेः’ इत्यधिकरणे वाय्वादिशब्दानां ब्रह्मणि समन्वयस्योक्तत्वेन तेजसो ब्रह्मजातत्वस्य सिद्धत्वात् किं पुनरुक्त्येत्यत आह ॥ कारणत्वेनेति ॥ कारणत्वेनेत्यत्रैव ब्रह्मणस्तेजःकारणत्वसिद्धावपि तस्य पुनरुक्तिर्युक्ता उभयकारणत्वनिवृत्त्यर्थत्वात् । न च तत्तेन निरस्तं भवति । तत्र वाय्वादीनामप्यमुख्यतया वाय्वादि शब्दवाच्यत्वस्याङ्गीकृतत्वे-नोभयकारणत्वाविरोधादिति भावः । अतः श्रुत्यविरोधेन तेजसो ब्रह्मकारणत्वे सिद्धे युक्तो ब्रह्मणि वेदसमन्वय इति सिद्धम् । स्यादेतत् । एतत् श्रुतीनामुपादाननिमित्तविषयतया स्वत एव व्यवस्थित-त्वात् किमेतेनायासेनेति । मैवम् । वायुप्रभृतीनां देवतात्वादुपादानशक्तेश्च परमात्माधीनत्वादिति ।

गुर्वर्थदीपिका

न तु तेजोऽधिकरणे ‘वायोरग्निः’ ‘तत्तेजोऽसृजत’ इति वाक्यद्वयात्तेजस उभयकारणत्व-शङ्कावद्वायोरपि ‘आकाशाद्वायुः’ ‘स इदं सर्वमसृजत’ इति वाक्यद्वयाद्वायोरप्युभयकारणत्व-शङ्काप्राप्तिरस्त्येव । लीलया वायुं द्वारीकृत्य परमात्मनैव तेजसस्सर्जनान्नोभयोस्समकारणत्वमिति समाधानवदाकाशं द्वारीकृत्य परमात्मनैव वायोस्सर्जनान्नोभयोस्समकारणत्वमिति समाधानस्यापि साम्यात् । भूतवायोरेवाधिकरणान्तरं कुतो न क्रियत इति चेत्सत्यम् । अधिभूतपञ्चकविषये अधिकरणपञ्चकं चिकीर्षुस्सूत्रकार आकाशवायुविषयतयाऽधिकरणद्वयस्य कृतत्वात्क्रमप्राप्ततेजो-विषयेऽप्येकमधिकरणमेवाकरोत् । अनयैव दिशा वायुजनने आकाशस्य द्वारतामाकाशजननेऽ-हङ्कारस्य द्वारतां चासूचयत् । न तु विचारितवायोरेव पुनर्विचाराय मतिं चक्र इति विवेकसम्भवात् । जगत्कारणं ब्रह्मेत्यत्र कारणत्वमात्रस्य पूर्वपक्षिणाऽप्यङ्गीकृतत्वात्स्वतन्त्रकारणं ब्रह्मेत्युक्तमिति शङ्कितुरभिप्रायः । उभयकारणत्वमेवोच्यत इत्यस्य स्वातन्त्र्येणोभयकारणत्वमित्यर्थः । तच्च वायुं विना भगवतः करणसामर्थ्यं नास्तीति सिद्धान्तिनाऽप्यङ्गीकृतं चेदिष्टापत्तिरिति भावः । तत्तेजोऽ-सृजतेति श्रुतेरिति वदता असृजतेति कर्तृप्रयोगाद्ब्रह्मणः स्वतन्त्रकारणत्वं लभ्यत इति सूचितम् । वायुब्रह्मणोरुभयोरपि साम्ये तद्ब्रह्म वायोरसृजतेत्यवक्ष्यत् । अत एव यथा स्वातन्त्र्यं स्यात्तथाऽऽहेति सूत्रमिति भावः । वाय्वादेरकारणत्वेऽपीत्यत्र स्वातन्त्र्येणाकारणत्वेऽपीत्यर्थः । तत्र वाय्वादीनामप्यमुख्यतयेत्यत्र वाय्वादीनां शब्दवाच्यतामात्रस्यामुख्यत्वेन कथनेऽपि कारणतामुख्य-तायाः सूत्रमर्यादयाऽलाभादिति भावः । नन्वेवमपि ‘तदनन्यत्वमारम्भणशब्दादिभ्य’ इत्यधिकरणे ब्रह्मणोऽन्यस्य स्वतन्त्रकारणताया अपि निवारितत्वात्किमनेनेति चेत्सत्यं तत्रोदाहृतश्रुतौ ‘यतो भूमिम्’ इति भूमात्रजनने कारणान्तराक्षेपात्तेजोवारिणोर्विषये नेति मन्दाशङ्कापरिहारार्थं पुनरारम्भ इति ज्ञेयम् ।

भावबोधः

अनन्तरसङ्गतिमाह– एवं सर्वस्यापीति ॥ उत्पत्तेरेवासिद्धौ कारणविशेषचिन्ताया अनवसरग्रस्तत्वेनाद्यद्वितीयाभ्यां सर्वस्योत्पत्तौ साधितायां जनकीभूतस्य ब्रह्मणोऽप्यन्यजन्यत्वे पुनस्तत उत्पत्तिर्न सम्भवतीति शङ्कायां तृतीयाधिकरणेन परिहृतायां सर्वस्यापि ब्रह्मेतरस्या-विवादेनोत्पत्तौ सिद्धायामेतच्चिन्तावसर इति भावः ॥ विवादाभावेनेति ॥ अधिकरणद्वय-प्रतिपादितवियन् मातरिश्वादीनां ब्रह्मान्यजन्यत्वप्रापकाभावाद् विवादाभावेन न तदर्थमधिकरणान्तरं कर्तव्यमिति भावः । यद्वा, पूर्वाधिकरणे सत इत्युक्तस्य ब्रह्मणोऽत्र ‘अतः’ इति परामर्शादनन्तर-सङ्गतिर्द्रष्टव्या । श्रुतिक्रमेणाप्यनन्तरसङ्गतिं दर्शयन् विषयमाह– वायोरनन्तरप्राप्तमिति ॥ ‘असम्भवस्तु’ इत्यनेनोक्तरीत्या व्यवधानं न दोष इति भावः ॥ किमिति ॥ अत्र तेजः किं वायोर्जायते ब्रह्मणो वेति चिन्ता । तदर्थं ब्रह्मजातत्वश्रुतिर् वायोरग्निरिति श्रुतिविरुद्धा न वेति । तदर्थं सा श्रुतिर्वायोर्मुख्यकारणत्वप्रतिपादकत्वेन निरवकाशोत द्वारपरत्वेन सावकाशेति । तदर्थं ब्रह्मणो द्वारतया वायुग्रहणं किं तद्रहितस्याशक्त्योत शक्तस्यापि लीलयेति । तदर्थं तत्र प्रमाणं नास्त्युतास्तीति । वायोरग्निरित्यादेर्नान्यत उत्पत्तिर्ग्राह्येति भाष्यानुसारेण पूर्वपक्षमाह– वायोरिति ॥ विष्णोरेव तेजस उत्पत्तौ द्वारकारणवैयर्थ्यमिति न्यायविवरणोक्तयुक्तिं वक्तुमाह– न चेति ॥ विष्णोरेवेत्येवशब्दानुरोधादाह– वायुमन्तरेणेति ॥ आद्यपक्षोत्तरत्वेन न्यायविवरणं योजयति– आद्ये व्यर्थमिति ॥ उभयकारणत्वनिवृर्त्त्यमिति भाष्यानुसारेण द्वितीये दोषमाह– द्वितीय इति ॥ तत्तेजोऽसृजतेति श्रुतिर्ब्रह्मकारणत्वमात्रपरा वा ब्रह्ममात्रकारणत्वपरा वेति विकल्पं हृदि निधाय क्रमेण पक्षद्वये दोषमाह– तस्या इत्यादिना ॥ सूत्रे ‘अत’ इत्येतत्पूर्वसूत्रस्थ ‘स’च्छब्दोक्त परमात्मपरामर्शकं सावधारणं च । ‘तथा’ शब्दो वियदादिसमुच्चयार्थः । ‘हि’शब्दो हेत्वर्थः । असम्भव इत्युक्तप्रकृत्यर्थमात्रस्य विवक्षितप्रत्यययोगेनानुवृत्तिरित्यभिप्रेत्यप्रवृत्तस्य वायोरग्निरित्यादि-भाष्यस्याभिप्रायमाह– न वायोरित्यादिना ॥ द्वारमनुसृत्यैव विष्णोः प्रवृत्तिरिति न्यायविवरणाभि-प्रायमाह– वाय्वादेर् अकारणत्वेऽपीति ॥ अनेनानुसृत्यैवेत्येवशब्दाध्याहृतेन लीलयेत्यनेन सम्बन्धो वा शक्तोऽपि स्वेच्छामनुसृत्यैवेत्यभिप्रायो वा उक्तो भवति ।

ननु ‘वायोरग्निः’ इति श्रुतेर्भूतवायोरग्निं प्रत्युपादानत्वमात्रप्रतिपादकत्वं ‘तत्तेजोऽसृजत’ इति श्रुतेस्तु ब्रह्मणः कर्तृत्वप्रतिपादकत्वम् । सति चैवं श्रुत्योर्विरोधाभावादधिकरणमेवेदं व्यर्थमिति दूरे उभयकारणत्वनिवृत्त्यर्थेति अभ्यधिकचिन्तावसर इत्याशयेन शङ्कते स्यादेतदिति ॥ देवता-त्वादिति ॥ तथा च श्रुतिद्वयस्यापि निमित्तपरत्वेन विरोधप्राप्तौ ‘वायोरग्निः’ इति श्रुतेर्देवता-द्वारत्वमात्रपरत्वेन व्यवस्थां वक्तुमायास इति भावः ॥ उपादानशक्तिश्चेति ॥ ‘तत्तेजोऽसृजत’ इति श्रुतेर्ब्रह्मणो भूतवाय्वनुप्रवेशेन तद्गतोपादानत्वशक्तिप्रेरकत्वेनापि कारणत्वप्रतिपादकत्वमभिप्रेतम् । ‘वायोरग्निः’ इति श्रुतेर्ब्रह्मनैरपेक्ष्येणोपादानत्वप्रतिपादकत्वे विरोधप्राप्तौ ब्रह्मप्रेरितोपादानत्व शक्तियुक्तत्वरूपद्वारत्वप्रतिपादकत्वेन ‘वायोरग्निः’ इति श्रुतेर्व्यवस्थां वक्तुमायास इति भावः ।

भावदीपः

अत्र तेजसो ब्रह्मान्यस्मात्स्वतन्त्राज्जन्मास्ति न वेति विशेषविचारस्यावसरप्राप्तिरूपसङ्गतिमाह ॥ एवमिति ॥ सिद्धायामिति ॥ वियन्मातरिश्वनयाभ्यामिति भावः । वियन्नये अनादित्वेनाभि-मतस्य सर्वस्योपलक्षणं वियत्पदमिति व्याख्यानात् । तत्र विशेषशङ्कायां मातरिश्वनयस्याग्रे ज्ञोऽत इति नयस्य च प्रवृत्तेः । उत्पत्तिः पराधीनविशेषावाप्तिरूपा ध्येया । परतन्त्रविशेषो हि विकार इति कीर्तित इत्युक्तेः । अत्र ब्रह्मेतरस्येत्युक्त्या ब्रह्मणः पराधीनविशेषावाप्त्यभावरूपानुत्पत्तौ सिद्धायाम् इति लभ्यते । तर्हि वियदादावियं चिन्ता कुतो न कृतेत्यत आह ॥ वियदादीनामिति ॥ स इदं सर्वमसृजत । एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी’ इत्यादिश्रुत्या विकारहेतुकं सर्वं कुरुते निर्विकारवानित्यादिस्मृतिभिरीश्वरजातत्वस्य सिद्धत्वात् । अन्यजातत्वबोधकविपरीतश्रुत्यभावाच्च विवादाभाव इति भावः । यद्यप्याकाशाद्वायुरित्यस्ति वायावन्यजातत्वबोधिका विवादहेतुभूतश्रुतिः । तथाप्यतिव्यवहितस्य तेजसो ब्रह्मजातत्वसाधकै-तन्नयन्यायेनैवाव्यवहितवायोस्तत्सिद्धेः पृथग्विवादाभाव इति भावः । तथा च वक्ष्यति आप इत्यत्र अत्र न्यायप्राप्तभूतवाय्वित्यादि । अत्र वायुरतस्तथा ह्याहेत्युक्तावप्येतन्न्यायेनैवान्यजातत्वेन श्रुतीनां तेजःप्रभृतीनामीश्वरादेव जन्म नान्यस्मात्स्वतन्त्रादिति सिध्यति । तथापि वायौ मुख्यदेवतामादायैव विचारस्य कृतत्वादुदाहरणदारिद्य्राभावाद्वायुमपि विषयीकुर्वतो विचारान्तरस्यापि व्यवहिते तेजसि कृते वायौ कैमुत्यसिद्धिलाभाच्च तेजोऽत इत्येवोक्तिरिति तात्पर्यं ध्येयम् ॥ श्रुतिसमन्वयेति ॥ सर्वकारणतयेति योज्यम् ॥ श्रुतिविरोधेति ॥ श्रुत्योर्विरोधेत्यर्थः । यद्वा अन्यतो जन्मविषयिण्या वायोरग्निरिति श्रुत्या यो विरोधः कारणत्वेनोक्तसमन्वयस्य तत्परिहारादित्यर्थः ॥ वायुजातत्व इति ॥ वायुशब्दोऽत्र भूतवायुतद्देवतारूपोभयपरः । एवं तेजःशब्दोऽपि । अभिमानिव्यपदेशस्तु शरीररूपकविन्यस्तगृहीतेरिति च नयद्वयोक्तन्यायद्वयात् । स्वातन्त्र्येणेति योज्यम् ।

ननु वायुदेवतागतकर्तृत्वशक्तेर् भूतवायुगतोपादानशक्तेश्च स्वातन्त्र्येऽपि न ब्रह्मणो जगत्कारणत्वाभावप्रसङ्गः । कारणत्वेन चेति नये ब्रह्मणोऽपि स्वातन्त्र्येण तेजःप्रभृतिसर्वकारण-त्वोक्तेः । तथा च तेजसो वायुशब्दितब्रह्मतद्देवतारूपोभयकर्तृत्वेऽपि स्वातन्त्रेण भूतवायू-पादानकत्वेऽपि न क्षतिरिति चेन्न । सर्वस्वातन्त्र्येण जगत्कारणत्वस्य जन्मादिसूत्रे विवक्षितस्या-भावप्रसङ्ग इति तात्पर्यात् ॥ वायोरनन्तरेति ॥ आकाशाद्वायुर् वायोरग्निरिति श्रुतावित्यर्थः । वायोरेकरूपेण प्राग्विचारितत्वादिति भावः ॥ किमिति ॥ अयमर्थः । तेजोभूतं किं वायुभूतादीशा-प्रेरितोपादानशक्तिकाज्जायते तथा तेजोभूतं तद्देवता च वायुदेवतात ईशवत् स्वतन्त्रकर्तृशक्तिमत्या जायते किं वा सर्वस्वतन्त्राद् ब्रह्मणः क्रमाद् द्विविधवायुद्वारा जायते । अन्यगतकर्त्रुपादान-शक्त्योरपि प्रेरकं ब्रह्मेति यावदिति ॥ श्रुतिविरोध इति ॥ उभयत्रापि स्वातन्त्र्येण कारणत्वोक्तावित्यर्थः । वायोरग्निरित्यादिभाष्यं नञ्परित्यागेन व्याकुर्वन्नाह ॥ वायोर्जायत इति ॥ सन्देहग्रन्थे अभिहितोऽर्थोऽत्राप्यनुसन्धेयः । विष्णोरेव तेजस उत्पत्तौ द्वारकारणवैयर्थ्य-मित्यन्यत्रोक्तयुक्तिं शङ्कापूर्वमाह ॥ न च तेजस इति ॥ शक्तस्य द्वारवैयर्थ्यमित्येव वाच्ये विकल्पमुखेनोक्तिरुभयकारणत्वेति भाष्यविवरणाय ॥ यावतेति ॥ यस्मादित्यर्थः । ईश्वरकारणत्वं द्विरूपवायुकारणत्वं चेत्युभयकारणत्वमित्यर्थः । स्वातन्त्र्येति योज्यम् । श्रुतिः किं ब्रह्मकारणत्वपरा अन्यकारणत्वनिषेधपरा वा आद्ये आह ॥ तस्या इति ॥ अन्त्ये आह ॥ ब्रह्मेति ॥ एतत् श्रुतीति ॥ वायोरग्निरिति श्रुतीत्यर्थः ॥ अत इति ॥ द्वारपरत्वायोगेन निरवकाशान्यकारणत्व-श्रुतिभावात्तत्तेज इति श्रुतेश्चोभयकारणत्वेऽप्युपपन्नत्वादित्यर्थः ॥ सर्वेति ॥ यद्यपि वायोरग्नि-रित्यस्योभयकारणत्वपरत्वेऽपि अन्यस्येवास्ति ब्रह्मणोऽपि वेद्यता । तथाप्यन्यस्यापि स्वातन्त्र्येण तेजःकारणत्वप्राप्तावितरासाधारणकारणत्वेन तद्वेद्यता न प्राप्तेति सर्वश्रुतिवेद्यता नेत्युक्तम् । सूत्रे पूर्वस्मात्तुशब्दानुवृत्तिमुपेत्य भाष्ये अत एवेति सौत्रपदमनूद्य परादिति व्याख्यातम् । तत्रावधारण-व्यावर्त्योक्तिपरं वायोरित्यादि भाष्यमिति दर्शयन् भाष्यं व्याचष्टे ॥ न वायोरिति ॥ वायोरुत्पत्तिरिति ॥ जडाजडाख्याद्विरूपाद्वायोर्द्विरूपतेजस इत्यर्थः । स्वातन्त्र्येणेति योज्यम् । हिर्हेताविति मत्त्वोक्तमिति श्रुतेरिति । एवं सूत्रभाष्यं व्याख्याय द्वारमनुसृत्यैव विष्णोः प्रवृत्तेरित्य-न्यत्रोक्तमत्र संयोज्य व्याकर्तुं प्रागुक्तशङ्कामनुवदति ॥ न च वायोरिति ॥ वायुद्वारेति ॥ अन्यथा तत्तेज इति श्रुतिविरोधादिति भावः । नन्वथापि वायोरग्निरिति श्रुतिर्वायुद्वारा अग्नेरीशजत्वमाह । तत्तेज इति तु साक्षादेवेति पुनर्विरोधतादवस्थ्यम् । न च तत्तेज इत्यत्रापि वायुद्वारेति मतम् । तथात्वे तेजोभिमानिनी लक्ष्मीः प्राणस्त्वभिमानवानिति स्मृत्या श्रीदेव्या वायुद्वारा जन्मायोगात् । प्राथम्याच्च तेज आद्या लक्ष्म्यादय इति सिद्धमिति तद्भाष्यविरोधादिति चेन्न । सृष्टिभेदेनाविरोधात् । न चैवं छान्दोग्ये क्रमानुक्तावापि तैत्तिरीयोक्तस्य स इदं सर्वमसृजत इत्यादाविव ग्राह्यत्वेना-विरोधादिति वियदधिकरण चन्द्रिकावाक्यविरोधः । तस्याभ्युपगमवादत्वात् । छान्दोग्यभाष्य-स्यार्थान्तरत्वमुपेत्य प्रवृत्तत्वाद्वा पररीत्या वा न दोष इत्याहुः ॥ अकारणत्वेऽपीति ॥ स्वतन्त्र-कारणत्वाभावेऽपीत्यर्थः ॥ श्रुत्यादिकं चेति ॥ एतस्माज्जायत इत्यादीत्यर्थः ॥ उभयकारणत्वेति ॥ ब्रह्मवद्वायुरपि स्वतन्त्रकारणमिति शङ्कानिवृत्त्यर्थत्वादित्यर्थः ॥ न च तत्तेन निरस्तमिति ॥

नन्वथापि तदनन्यत्वनये विष्णोरन्यस्य स्वतन्त्रसाधनत्वं निरस्तमित्युभयकारणत्वमपि निरस्तमिति चेन्न । तत्र युक्तिप्राप्तस्यैवान्यस्वातन्त्र्यस्य निरासादत्र पुनः श्रुतिप्राप्तस्य निरास इति तात्पर्यात् ॥ अमुख्यतयेति ॥ हरौ परममुख्यत्वापेक्षयैतदुक्तिः । समाकर्षादिति न्यायात् । अन्यथा कल्पनासूत्रविरोधात् ॥ अत इति ॥ वायोरग्निरिति श्रुतेर्द्वारपरतया सावकाशत्वात्ततेज इति श्रुतिबलाच्चेत्यर्थः । सूत्रभाष्ययोरयुक्ततामाशङ्क्याधिभूताधिदैवेति पादादिस्थभाष्यानुरोधेन समाधिमाह ॥ स्यादेतदिति ॥ एतच्छ्रुतीनां वायोरग्निस् तत्तेजोऽसृजतेत्येवं रूपश्रुतीनामित्यर्थः ॥ देवतात्वादिति ॥ तथा च वायुदेवताया अपीशवत्स्वातन्त्र्येण तेजः प्रतिनिमित्तकारणत्वं प्राप्तमिति श्रुत्योर्विरोधः प्राप्त इति तन्निरासायासः सफल इति भावः । वाय्वादिशब्देषु भूतपरत्वस्यापि सत्त्वात् । तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तीः प्रबोधयन्नित्यग्रे वक्ष्यमाणस्मृत्यनुरोधेनाह ॥ उपादानशक्तेश्चेति ॥ न केवलं देवतागतकर्तृशक्तेरित्यर्थः । तथा च कारणत्वेनेत्यन्यत्रोक्तन्यायेन वाय्वादौ स्थितो भगवान्वाय्यादिशब्दित भूततद्देवतागतोपादानकर्तृशक्तीः प्रेरयंस्तेजःप्रभृतिकार्यं करोतीति वक्तुमयमारम्भ इत्यर्थः । नन्वथापि कर्तेति नये परात्तु तच्छ्रुतेरिति गुणसूत्रे जीवगत-कर्तृत्वशक्तिरपि ईश्वरायत्तेति वक्ष्यमाणत्वात्तन्न्यायेन वाय्वादिदेवतास्थितकर्तृत्वशक्तिरपि ईश्वरायत्ता सेत्स्यति किमनेनेति चेन्मैवम् । तेन विनापि कर्तुं शक्तिसत्त्वे द्वारोक्तिवैयर्थ्येनान्यगत-कर्तृत्वादिशक्तेः स्वातन्त्र्यस्य श्रुतिप्रापितत्वादुभयकारणत्वं श्रौतमिति शङ्कायां लीलया द्वारोपादानेनैवेश्वरेण सृष्टिकारणात्तस्यैव च श्रुतावुक्त्युपपत्तेरीशाधीनैव कर्तृत्त्वादि शक्तिरन्यगतेत्यत्र कथनादिति भावः । यत्तु तत्तेज इति श्रुतौ साक्षात्तेजसः सृष्टिर् वायोरग्निरित्यत्र वायुद्वारा । तथा च विरोध इति चोद्यं तत्तूक्त्यनुक्त्योर्विरोधाभावादिति प्रागेव निरस्तप्रायमिति भावः ।

अभिनवचन्द्रिका

एवमिति ॥ उत्पत्तौ सिद्धायामित्यन्तमवसरसङ्गतिसूचनार्थम् । ननु प्राथमिकत्वाद्वियद्विचार एव कर्तव्यः, न तेजोविचार इत्याशङ्कापरिहाराय ‘वियदादीनां च परमात्मनो जन्मेत्यत्र विवादाभावेन’ इत्यन्तं वाक्यं प्रवृत्तम् । अत्राऽऽदिशब्दः प्रक्षिप्तः वियतश्चेत्येव पाठः । वायोरबधिकरणे विचार्यमाणत्वाद् विवादसद्भावाच्चादिशब्दसङ्ग्रह्याभावात् । ततः परं ‘वियद्विचारं परित्यज्य’ इति शेषः । अत्र ब्रह्मणि श्रुतिसमन्वयसिद्ध्यर्थमित्याद्यन्तर्भावसङ्गतिनिरूपणार्थम् । वायुविचारपरित्यागेन, प्रथमं तेजोविचारस्तु क्वचित् तेजः पूर्वसृष्टेः श्रवणात् तत्प्राधान्यविवक्षयेति बोध्यम् ॥ तदभावप्रसङ्ग इति ॥ स्वातन्त्र्येण जगत्कारणत्वाभावप्रसङ्ग इत्यर्थः ॥ तस्या इति ॥ उभयकारणत्वेऽपि तस्याः श्रुतेर् अविरोधात् । निरवधारणत्वेनोपपन्नत्वादित्यर्थः । सर्वं वाक्यं सावधारणम्’ इति न्यायेन ‘तत्तेजोऽसृजत’ इति श्रुतिरवधारणतात्पर्यवतीत्यत आह – ब्रह्ममात्रेति ॥ व्रीह्यादेरकारणत्वेऽपीति ॥ वाय्वादीन् विना स्नष्टुं शक््यत्वेऽपीति भावः । वायुप्रभृतीनां देवतात्वादिति ॥ वायुप्रभृतीनां देवतात्वेन ‘वायोरग्निः’ इति श्रुतेर् निमित्तपरत्वस्यापि सद्भावेन विरोधसद्भावादायासः सार्थक इति भावः । ‘उपादानशक्तेश्च परमात्माधीनत्वात्’ इति वाक््यं प्रक्षिप्तं न टीकावाक्यमिति बोध्यम् ।

पूर्वपक्षस्तु – न श्रुतिसमन्वयेन विष्णोरसाधारण्येन जगत्कारणत्वं वाच्यम् । तेजसः वायुजातत्वे श्रुतिसद्भावेन विष्णुवद् वायोरपि अग्निकारणत्वेन विष्णोर्विशेषाभावात् । न च वायुद्वारा तेजसः परमात्मजातत्वाभिधायकत्वं श्रुतेर्वाच्यम् । किं ब्रह्म वायुद्वारमन्तरेण तेजः स्रष्टुमीष्टे, न वा । आद्ये द्वारवैयर्थ्यम् । द्वितीये तु साम्यं तयोरवर्जनीयम् । अतो न जगत्कारणत्वेन सर्वश्रुतिसमन्वयो युक्त इति ।

सिद्धान्तस्तु – युक्तमेव तत्र सर्वश्रुतिसमन्वयेन जगत्कारणत्वं ‘तत्तेजोऽसृजत’ इति श्रुतेरग्नेर्विष्णुजातत्वात् । न च ‘वायोरग्निः’ इत्यादिश्रुतिविरोधः । तत्र वायुद्वारा तेजसो ब्रह्मजातत्वोक्तिः । न च द्वारवैयर्थ्यानुपपत्त्या उभयोरपि कारणत्वं वाच्यम् । शक्तस्यापि ब्रह्मणः स्वेच्छयैव द्वारमनुसृत्य कारणत्वस्य प्रमाणसिद्धत्वात् । अतः श्रुत्यविरोधेन तेजसो ब्रह्मजातत्वे सिद्धे सर्वश्रुतिसमन्वयेन जगत्कारणत्वं हरेरिति सिद्धम् ।

वाक्यार्थमुक्तावली

भगवतः स्वतन्त्रत्वाद्वायुद्वारमन्तरेण स्रष्टुं समर्थस्यापि स्वेच्छयैव वायुद्वारानुसरणमिति इह सिद्धान्तस्य वर्तिष्यमाणत्वेन, अनुसारितेत्येदधिकरणसिद्धान्तन्यायस्य स्वातन्त्र्यरूपपूर्वाधिकरण-सिद्धान्तन्यायावष्टम्भेन प्रवृत्तेरव्यवहितसङ्गतिः । अत एव सूत्रे तेजोत इति तत्परामर्श इति ज्ञेयम् ॥ वियदादीनामिति ॥ नन्वस्त्येवादिपदोपात्तस्य वायोःपरमात्मजातत्वे, आकाशाद्वायुर् एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च खं वायुर्जोतिराप इति श्रुतिविवादः । अत एवा-बधिकरणटीकायां ब्रह्मण एवाबादिसृष्टिरिति भाष्यस्थादिपदं मूलीकृत्य टीकायां सौत्रापशब्दस्योप-लक्षणत्वं वक्ष्यतीति चेन्न । टीकायामादिपदेन प्रकृतिकालादयो गृह्यन्ते न तु वाय्वादयस् तेषामपि विप्रतिपत्तिविषयत्वात् । तर्हि प्रथमातिक्रमे कारणाभावाद्वायुरतस्तथाहेति सूत्रयितव्यम् अप्पदेनोप-लक्षणमयुक्तमिति चेन्न । अतिव्यवहितानामपां ब्रह्मजत्वसाधकतदधिकरणन्यायेनैकव्यवहितस्य वायोस्तत्सिद्धिरिति कैमुत्यद्योतनायाप्शब्देनोपलक्षणसम्भवात् । नन्वेवं सति तेजोत इति व्यर्थम् आप इत्यनेन वायोरिव तेजसोऽप्युपलक्षणसम्भवात् । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी’ इति तदधिकरणोपात्तश्रुतौ तेजसोऽपि ब्रह्मजातत्वाभिधानादिति चेन्न ।

सिद्धान्ते ‘तत्तेजोऽसृजत’ इत्यसाधारणश्रुत्युपन्यासायैतदधिकरणोपपत्तेः । यद्यपि तत्रैव सौत्रतेजः शब्दस्यान्योपलक्षकत्वमङ्गीकृत्यादिपदं भाष्ये प्रयोक्तुमुचितं प्रथमातिक्रमे कारणाभावात् । तथापि तदपोऽसृजत तदिदं सर्वमित्यत्राद्भिः सह वाय्वादिसर्वसृष्ट्युक्तेस्तत्रैवोपलक्षणा कृता । किं चैतदधिकरणद्वयार्थे उदाहरणीये प्रमाणे वाय्वादीनां ग्रहणात्तत्रैवोपलक्षणाभिप्रायेणादिपदप्रयोगः । तत्त्वप्रदीपे तु, तेजःशब्दो वायूपलक्षको ऽत एव भाष्ये तदपीत्यपिपदमुक्तं वायोरनन्तरप्राप्तमिति । एतेन श्रुतिक्रमेणाप्यनन्तरसङ्गतिरुक्ता भवति । असम्भवस्त्वित्यनेन व्यवधाने कारणं तूक्तम् । किमिति । तेजः किं वायोर्जायते ब्रह्मण एवेति चिन्ता । तदर्थं वायोरग्निरिति श्रुतिर् वायोर्मुख्य-कारणत्वपरा उत द्वाराकारणत्वपरेति । तदर्थं किं ब्रह्मणो द्वारोपादानम् अशक्त्या, उत लीलयेति । सूत्रे सतः स्वातन्त्र्यादिति सत्परामर्शलब्धं विष्णोः स्वतन्त्रकारणत्वं, वायोर्द्वारकारणत्वं चाशङ्क्य द्वारवैयर्थ्यमित्युक्तं न्यायं सङ्गमयति । सूत्रे सत्परामर्शात्तथा ह्याहेति सूत्रखण्डं प्रतिक्षिपति न चेति । कुतो वाच्यमित्यतस्तत्तेजोऽसृजतेति श्रुतिब्रह्ममात्रकारणत्वपरा वेति विकल्पं हृदि निधाय क्रमेण पक्षद्वये दोषमाह ॥ तस्या इत्यादिना ॥ उभयकारणत्वनिवृत्यर्थमिति वक्ष्यमाणस्याक्षेपोऽयम् । उभयकारणत्वेऽपीति ॥ अत एव परादिति सिद्धान्तानुसारेण ब्रह्ममात्रकारणत्वेति सूत्रे अत इति सत्परामर्शः । पूर्वसूत्रात्तुरनुवर्तते । स चावधारणेऽप्यर्थे च । अवधारणस्यात इत्यनेनान्वयः । अपेस्तु तेज इत्यनेनान्वयः । न केवलं वियदादिरित्यर्थः । हिर्हेतौ ॥ यस्मात्तथा श्रुतिराहेति ॥ जायत इति शेष इत्यभिप्रेत्य प्रवृत्तं भाष्यं व्याचष्टे ॥ न वायोरित्यादिना ॥ सूत्रे सत इति भाष्ये परादिति स्वातन्त्र्योक्त्या वायोर्द्वारत्वमवसीयत इत्याह ॥ तत्र वायुद्वारेति ॥ न च द्वारवैयर्थ्या-दिति ॥ तथा चात एवेत्यवधारणायोग इति भावः । कुतो न वाच्यमित्यतो ऽपि वाय्वादेः स्वतः कारणत्वाभावेऽपि स्वातन्त्र्यादेव पराद् वायुद्वारैव तज्जायते कुतो ऽत एव परात्तत्संकल्पादेव हि यस्मादुदाहरिष्यमाणश्रुतिस्तथा हेति सूत्रभाष्ययोरर्थं मत्वाऽनुसारितेति सिद्धान्तन्यायं दर्शयन् व्याचष्टे ॥ वाय्वादेरिति । अस्मिन् व्याख्याने तत्तेजोऽसृजतेति श्रुत्युदाहरणं परित्यज्य वक्ष्यमाणमनुसन्धेयम् ॥ श्रुत्यादीति ॥ खं, वायुर्जोतिराप इति तेजःकारणवायोरपि ब्रह्मजातत्व-मुक्त्वा पुनस्तेजसोऽपि ब्रह्मजातत्वप्रतिपादनाद्वायोर्द्वारकारणत्वमवसीयते । वामनपुराणे लीलयैव द्वारानुसरणं प्रतीयत इति भावः ॥ उभयकारणत्वेति ॥ उभयोरपि स्वतन्त्रकारणत्वनिवृत्यर्थत्वा-दित्यर्थः ॥ अमुख्यतयेति ॥ ‘भूतं भूताभिमानी च तद्देहोऽन्तर्नियामकः । हरिश्चाकाशशब्दोक्तो मुख्यतो हरिरेव तु’ इत्यनुव्याख्यानोक्तेरिति भावः । तदधीनत्वादर्थवदिति न्यायेन वायोरग्निरित्यत्र वायुगताग्निकारणत्वस्य तदायत्तत्वेन वायोरिति कारणत्वपरपञ्चम्यन्तशब्दवाच्यत्वस्य, यथा-व्यपदिष्टोक्तेरित्यनेन लब्धत्वात्स्वातन्त्र्येणोभयकारणत्वशङ्कैव नोदेतीति चेन्न । ईश्वरस्य स्वातन्त्र्येणान्यस्य पारतन्त्र्येणेत्युभयकारणत्वे द्वारवैयर्थ्यमिति तदाक्षेपोपपत्तेः ॥ स्वत एवेति ॥ वायोस्तेजः प्रत्युपादनत्वस्य प्रसिद्धत्वात्तदैक्षत, तत्तेजोऽसृजतेति ईक्षया श्रुत्या ब्रह्मणो निमित्तत्वस्य स्पष्टं प्रतिभासादित्यर्थः ॥ देवतात्वादिति ॥ ‘भूतं भूताभिमानी च’ इत्युक्तदिशा देवतात्वस्यापि भावात् । चेतनस्योपादानत्वाभावेन च निमित्तत्वश्रुत्योर् विरोधप्राप्तौ, देवताद्वारव्यवस्थया विरोधः परिहार्य एवेति भावः । वायोरग्निरित्यत्र वायुशब्दस्याचेतनपरत्वेऽपि तत्तेजोसृजत’ इत्यत्र तेनास्तिविरोधः । तथा हि । तदैक्षत तत्तेजोऽसृजतेत्यत्र तद्ब्रह्मतेजसो यदुपादानं वायुतेजःसूक्ष्म-तामसाहङ्काररूपं यच्च निमित्तं कालादि तत्सर्वमैक्षतेतीक्षितृत्वाच्च तदुपानत्वशक्तिः प्रबोध्य तेजोऽसृजन्तेति विवक्षितम् । ततश्चोपादानत्वशक्तेः परमात्माधीनत्वाद्वायोरग्निरित्यत्र साक्षाद्वायु-भूतादेव तेजोभूतपरिणामप्रतीतेर्विरोधे प्राप्ते तत्परिहारयामासेति भावेनाह ॥ उपादानत्वशक्तेरिति ॥ तदनन्यत्वमारम्भणशब्दादिभ्य इत्यत्र कारणान्तरस्य युक्तिप्राप्तं स्वातन्त्र्यं निरस्तम् । अत्र तु श्रुतिप्राप्तमिति भेदः ।

तत्त्वसुबोधिनी

अनन्तरसङ्गतिमाह ॥ एवमिति ॥ एवं ब्रह्मान्यस्य सर्वस्योत्पत्तौ, ब्रह्मणश्चानुत्पत्तौ सिद्धायाम् इदानीं कार्यविशेषकारणविशेषविप्रतिपत्तिर्निरस्यते इति संगतिः ॥ यदा पूर्वाधिकरणे सत इत्युक्तस्य ब्रह्मणो ऽत्रात इति परामर्शाद् अनन्तरसंगतिरिति भावः ॥ विवादाभावे इति ॥ यद्यपि आकाशाद्वायुर् एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च खं वायुर्ज्योतिरिति श्रुत्योर् विवादोऽस्ति तथापि अतिव्यवहितस्य तेजसो ब्रह्मजत्वसाधके तदधिकरणन्यायेनैवाव्यवहितस्य वायोस् तत्सिद्धेर् अर्थे विवादाभावादिति भावः ॥ श्रुतिक्रमेणास्य अनन्तरसङ्गतिं दर्शयन् विषयमाह ॥ वायो-रनन्तरमिति ॥ असम्भवस्त्वित्यनेन व्यवधानं तु न दोषः । उक्तरीत्या संगतिलाभेन तस्य मध्ये उक्तत्वादिति भावः । वायोरग्नि इत्यादेर् नान्यत उत्पत्तिर् ग्राह्या इति भाष्यानुसारेण पूर्वपक्षमाह ॥ वायोरिति ॥ विष्णोरेव तेजस उत्पत्तौ द्वारकारणवैय्यर्थ्यमिति न्यायविवरणोक्तां युक्तिं वक्तुमाह ॥ न चेति ॥ विष्णोरेवेत्येवशब्दानुरोधेनाह वायुद्वारमन्तरेण इति ॥ आद्यपक्षोत्तरत्वेन न्यायविवरणं योजयति ॥ आद्य इति ॥ उभयकारणत्वमन्तरेणेति भाष्यानुसारेण द्वितीये दोषमाह ॥ द्वितीय इति ॥ कथं समीहितं सिद्धमित्यत आह यावतेति ॥ नन्वेवं तेजसः साक्षाद् ब्रह्मजातत्व-प्रतिपादकतत्तेज इत्यादीत्यत आह ॥ न चेति ॥ ‘तत्तेजोऽसृजत’ इति श्रुतिर् ब्रह्मकारणत्व-मात्रपरा वा ब्रह्ममात्रकारणत्वपरा वेति विकल्पं हृदि निधाय क्रमेण पक्षद्वये दोषमाह ॥ तस्या इत्यादिना ॥ सूत्रे अत इत्येतत् पूर्वसूत्रस्थसच्छब्दोक्तं परमात्मपरामर्शकं सावधारणं तथाशब्दो वेदादिसमुच्चयार्थ हि शब्दो हेत्वर्थः । असम्भव इत्यस्य प्रकृतार्थपरत्वेनानुवृत्तिर् इति अभिप्रेत्य प्रवृत्तस्य वायोरग्निरित्यादिभाष्यस्याभिप्रायमाह ॥ न वायोरित्यादिना ॥

ननु परमात्मनोऽतिसमर्थत्वेन द्वारमन्तरेणैव सर्जनसमर्थत्वात्तेजआदिसर्जने वाय्वादिरूप-द्वारानुसरणम् अनर्थकम् इत्याशङ्क्य निषेधति ॥ न चेति ॥ वाय्वादेरकारणत्वेऽपि स्वतन्त्र-कारणत्वाभावेऽपीत्यर्थः । किञ्च श्रुत्यादिकमित्यत आह ॥ श्रुत्यादिकं चेति ॥ पौनरुक्त्यमाशङ्कते नन्विति ॥ उभयकारणत्वनिवृत्त्यर्थत्वादिति ॥ ब्रह्मवद् वायुरपि स्वतन्त्रकारणमिति शङ्का-निवृत्त्यर्थत्वादिति भावः । ननु कारणत्वेनेत्यनेनैवोभयकारणत्वस्य निरासादधिकरणानर्थक्यं तदवस्थमेवेत्यत आह न चेति ॥ ननु वायोरग्निरिति श्रुतेर्भूतवायोरग्निप्रत्युपादानत्वमात्रप्रतिपादकत्वं तत्तेजोऽसृजतेति श्रुतेस्तु ब्रह्मणः कर्तृत्वप्रतिपादकं सति चैवं श्रुत्योर्विरोधाभावादधिकरणमेवेदं व्यर्थमिति दूरे उपादानकारणत्वनिवृत्त्यर्थमिति अभ्यधिकाचिन्तानवसर इति शङ्कते स्यादेतदिति ॥ देवतात्वादिति ॥ तथा च श्रुतिद्वयस्यापि निमित्तपरत्वेन विरोधप्राप्तौ वायोरग्निरिति श्रुतेर्देवता-द्वारत्वमात्रपरत्वेन व्यवस्थां वक्तुम् आयास इति भावः । वायोरग्निरिति श्रुतेर्ब्रह्मनैरपेक्ष्येण वायोरुपादानत्वप्रतिपादनत्वप्रतिपादकत्वे तत्तेज इति श्रुतिविरोधः स्यादित्याह ॥ उपादानशक्ते-श्चेति ॥ तत्तेजोऽसृजतेति श्रुतेर् ब्रह्मणो भूवाय्वनुप्रवेशेन तद्गतोपादानत्वशक्तिप्रेरकत्वेनापि कारणत्वप्रतिपादकत्वमभिमतम् । वायोरग्निरिति श्रुतेर्ब्रह्मनैरपेक्ष्येणोपादानत्वप्रतिपादकत्वे विरोध-प्राप्तौ ब्रह्मप्रेरितोपादानशक्तियुक्तत्वरूपद्वारत्वप्रतिपादकत्वेन वायोरग्निरिति श्रुतेर्व्यवस्थां वक्तुमय-मायास इति भावः ।

वाक्यार्थविवरणम्

अत्र किं तेजस उत्पत्तिविषये श्रुतिविरोधः परिह्रियते तदुत्पत्तिकर्तृविषये वा । नाद्यः । विवादाभावादित्याशयनोक्तम् । एवं सर्वस्यापि ब्रह्मेतरस्योत्पत्तौ सिद्धायामिति । द्वितीय आकाशाद्युत्पत्तिकर्तृविषये श्रुतिविरोधमपरिहृत्य तेजस उत्पत्तिकर्तृविषय एव तद्विरोधः कस्मात्परि-हरणीय इत्यत उक्तं वियदादीनां चेत्यादि । तेजोजन्मकर्तृविषये ‘तेजोऽसृजत’ ‘वायोरग्निः’ इति परस्परश्रुतिविरोधवदाकाशस्य ‘आत्मन आकाशः सम्भूत इति परमात्मन एवोत्पत्तिश्रवणेन भगवदन्यस्मादुत्पत्तेरश्रुतत्वेन परस्परश्रुतिविरोधाभावादादौ तेजोजन्मकर्तृत्वविषय एव श्रुतिविरोधः परिह्रियत इत्यर्थः ॥ श्रुतेरिति ॥ वायोरग्निरितिश्रुतेरित्यर्थः । तथा चास्यापि परमात्मजातत्वाभि-धायकत्वेन विरोध इत्याशयः ॥ सिद्धं न इति ॥ वायुकारणकत्वस्य प्राप्तत्वादिति भावः । ननु परमात्मकारणकत्वस्यापि प्राप्तत्वात् कथं समीहितसिद्धिरित्यत आह ॥ यावतेति ॥ यस्मादित्यर्थः ॥ अविरोधादिति ॥ तदेवेत्यवधारणाभावादिति भावः ॥ निरवकाशैतच्छ्रुतीति ॥ वायोरग्निरिति श्रुतीत्यर्थः ॥ अप्रामाण्यापातादिति ॥ ब्रह्ममात्रकारणत्वप्रतिपादिकायास्तत्तेजोऽसृजतेति श्रुतेरित्यर्थः ॥ अत इति ॥ एतद्दृष्टान्तेन सर्वस्याप्यप्रामाण्यप्राप्त्येत्यर्थः । एवमुत्तराधिकरणेऽपि एवमेवाभिप्रायो द्रष्टव्यः ॥ श्रुत्यादिकम् ॥ ‘तत्र तत्र स्थित’ इत्यादिकम् । तदुभयकारणत्वम् । तेन कारणत्वेनेति सूत्रेण । कुत इत्यत आह– तत्रेति ॥ कारणत्वेनेति सूत्रे ।

वाक्यार्थमञ्जरी

ननु तेज उत्पद्यते न वेत्यविचार्य परमात्मनो जायते अन्यतो वेति विशेषविचारकरणमयुक्त-मित्यत उक्तम् ॥ एवमिति ॥ तर्ह्याकाशाविषये तत्किं न विचार्यत इत्यत उक्तम् ॥ वियदादीनां चेति ॥ तद् ब्रह्म वायुद्वारेति वायुलक्षणावान्तरकारणव्यवधानेनेत्यर्थः ॥ अविरोधादिति ॥ अन्यनिषेधाभावादिति भावः ॥ ॐ तेजोऽतस्तथा ह्याह ॐ ॥ यथा वियदादि तथा तेजोऽप्यतः भगवत एवोत्पद्यते कुतः हि यस्मात्तत्तेज इति श्रुतिराहेत्यर्थः ॥ देवतात्वादिति ॥ तथा च श्रुतिद्वयस्यापि निमित्तपरत्वेन विरोधप्राप्तौ वायोरग्निरिति श्रुतेर्देवताद्वारत्वमात्रपरत्वेन व्यवस्थां वक्तुमयमायास इति भावः । ननु वाय्वादिशब्दानामुभयपरत्वे नोपादानत्वमात्रग्रहणे विरोधा-भावस्तदवस्थ एवेत्यत आह ॥ उपादानशक्तिश्चेति ॥ तत्तेजोऽसृजतेति श्रुतेर् ब्रह्मणो भूतवाय्वनु-प्रवेशेन तद्भूतोपादानत्वशक्तिप्रेरकत्वेनापि कारणत्वप्रतिपादकत्वेन वायोरग्निरिति श्रुतेर्ब्रह्मनैर-पेक्षेणोपादानत्वप्रतिपादकत्वे विरोधप्राप्तौ ब्रह्मप्रेरितोपादानत्वशक्तियुक्तत्वरूपद्वारवत्वप्रतिपादकत्वेन वायोरग्निरिति श्रुतेर्व्यवस्थां वक्तुमयमायास इति भावः ।

॥ इति तेजोऽधिकरणम् ॥