०३ असम्भवाधिकरणम्

ॐ असम्भवस्तु सतोऽनुपपत्तेः ॐ

३. अथ असम्भवाधिकरणम्

**सूत्रभाष्यम् **

॥ ॐ असम्भवस्तु सतोऽनुपपत्तेः ॐ ॥ ९ ॥

‘असद्वा इदमग्र आसीत् । ततो वै सदजायत’ (तै.उ.२-७) ‘असतः सदजायत’ (ऋ.सं. १०-७२-२) इत्यादि श्रुतिभ्यः सतोऽप्युत्पत्तिरिति चेन्न । अनुत्पत्तिरेव सतः । तुशब्देनोक्तव्यवस्थामपाकरोति । न ह्यसतः सदुत्पद्यते । अदृष्टत्वादनुपपत्तेः । ‘तद्वा एतद् ब्रह्माहुर्बृहति बृंहयति चेति । तद्वा एतदसदाहुर् न ह्यासादयति कश्चनेति । तद्वा एतत्परमाहुः परतो हि तदुदीक्ष्यत’ इति श्रुतेरसच्छब्दो ब्रह्मवाची । ‘देवानां पूर्वे युगेऽसतः सदजायतेति ब्रह्म वा असत् सद्वाव प्राणः प्राणो वाव महान् सह ओजो बलमित्याचक्षत’ इति पैङ्गिश्रुतिः ।

‘त्वं देव शक्त्यां गुणकर्मयोनौ रेतस्त्वजायां कविरादधेऽजः ।

ततो वयं सत्प्रमुखा यदर्थे बभूविमाऽऽत्मन् करवाम किं त’ इति भागवते ॥

‘अजायमानो बहुधा विजायत’ (तै.आ. ३-१३) इति च ।

‘प्रत्यक्षत्वं हरेर्जन्म न विकारः कथञ्चन ।

पुरुषः प्रकृतिः कालो महानित्यादिषु क्रमात् ॥

विकार एव जननं पुरुषे तद्विशेषणम् ।

परतन्त्रविशेषो हि विकार इति कीर्तित’ इति (च) पाद्मे ॥

‘अविकारोऽपि भगवान् सर्वशक्तित्वहेतुतः ।

विकारहेतुकं सर्वं कुरुते निर्विकारवान् ॥

शक्तिशक्तिमतोश्चापि न विभेदः कथञ्चन ।

अविभिन्नाऽपि सेच्छादिर्भेदैरपि विभाष्यते’ इति भागवततन्त्रे ॥

॥ इति असम्भवाधिकरणम् ॥

तत्त्वप्रदीपिका

असम्भाव्यमानोत्पत्तिकयोर्वियत्पवनयोः कथञ्चिदुत्पत्तावुक्तायामत्यन्तासम्भाव्यामपि ब्रह्मण उत्पत्तिं प्रत्यतिशङ्कामुन्मूलयितुमयमारम्भः । असम्भवस्तु सतोऽनुपपत्तेः । अनुत्पत्तिरेव परब्रह्मणः । न भागोत्पत्तिरपि । नापि पराधीनविशेषः । अतो नात्र पूर्वोक्तव्यवस्था । न ह्यसतः सदुत्पद्यते । अदृष्टत्वात् प्रमाणतस्तदुत्पत्तेः । बृहति वर्धते । नित्यवृद्धस्याप्ययं व्यपदेश आत्माऽस्तीतिवत् ।

‘पुरुषः प्रकृतिः कालो महानित्यादिषु क्रमात् ।

विकार एव जननं पुरुषे तद्विशेषणम्’’ ॥ इत्यत्र प्रकृत्यादयो जडा उच्यन्ते ।

चेतनानां पुरुषशब्दार्थान्तर्भावादयुक्तेः । जडप्रकृतेर्विकारः परिणामः । कालस्योत्पत्तिरेव । ‘अहानि पूर्वीरुषसो जरन्त’ ‘सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि’ इति हि श्रुतिः । महदादीनां च । पुरुषे तद्विशेषणं चेतने तद्विशेषणं जननमित्यर्थः । तत्र चित्प्रकृतेः सिसृक्षुत्वादिः पराधीनो विशेषः । तथा चोक्तं– ‘स एव भूयो निजवीर्यचोदिताम्’ इत्यादि ॥ सर्वचेतनेषु विकारो विशेषणम् । विकारविशिष्टत्वं विकारिवस्त्वभिमानेन ।

कः पुनरयं विकारो नाम ? यः प्रत्यक्षताप्रत्यक्षते प्राप्नुवति स्रष्टृत्वादिविस्पष्टविशेषशालिनि द्वैधतद्विलयविश्वग्रासोद्गारगमनादिमति भगवति कथञ्चिदपि नास्तीत्युक्तः । यश्च नित्येषु प्रकृत्यादिषु भवत्येव । कथं च व्याप्तस्याविकारिणो गत्यादिकं युज्येत । अप्राप्तं हि गम्यते, गमने च स्थितिदेशाद्वियुज्यते । संयोगविभागयोरसमवायिकारणत्वात्तत्कर्मण इत्यत आह । परन्त्रविशेषो हि विकार इति कीर्तित इति । नात्र परिणाममात्रं विकारो विवक्षित इत्यर्थः । अविकारोऽपि भगवानित्यादि च व्याप्तस्यापि गत्यादिकं श्रूयते । ‘जवनो गृहीत’ इत्युक्त्वा ‘तमाहुरग्यूं पुरुषं महान्तम्’ इत्याह । ‘कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि, कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति, सप्राणमसृजत’’ इत्यादि च । प्राप्तमेव च रूपान्तरेण गम्यते । वियुज्यमानदेशे च रूपान्तरमस्ति बहुरूपत्वादित्यदोषः । ‘अनेजदेकं मनसो जवीयः’ इत्यादि श्रुतेश्चैवमुपपत्तिः । एष्टव्यमेव चानेकरूपत्वमेकत्रेश्वरस्येश्वरवादिनाम् । आत्मनो वा घटज्ञातृपटज्ञात्रित्याद्येकमेव रूपं घटादिकं जानाति सृजति चेति चेत्तर्हि तज्ज्ञातृत्वमेतज्ज्ञातृत्वं तत्स्रष्टृत्वमेतस्रष्टृत्वमित्यादयो विशेषास्तस्य स्युः । विशेषबहुत्वेऽपि विशेष्येक एवेति चेदत्रापि गन्तृत्वं स्थायित्वमित्यादयस्तस्यैकस्य विशेषाः । युगपदेकस्य तदुभयं विरुद्वमिति चेन्न । पूर्वदेशस्थितिपरमाण्वादिनयनयोरप्येकस्यैव विरोधेन तदसम्भवात् ।ननु नायं गच्छन्नयति स्थित एव स्वेच्छया । एवं च स्वावस्थानेच्छा तदपवाहेच्छेति विरोध इच्छायाम् । न च लोके कश्चित्स्वयमचलन्नन्यं देशान्तरं नयन् दृश्यते । तत्स्थायिनः सा निनीषा मुधा स्यात् । अतस्सर्वशक्तित्वेनेश्वरस्य सर्वमेतन्निर्वोढव्यम् । न च तत्तज्ज्ञातृत्वस्रष्टृत्वादिक-मौपाधिकमिति वाच्यम् । तज्जन्यत्वे तद्गम्यत्वे च तत्सत्यत्वानिवारणात् । स्वरूपादि-विकल्पासहत्वाच्च । स्वरूपत्वे तस्य मुधोपाधिः । उपाधिजन्यत्वे च तन्नाशे नाश इति न स्वरूपत्वम् । न च भेदः, सम्बन्धासम्भवात् । अथोक्तदोषमुमुक्षया तदौपचारिकमिति मतं, तदपि न चातुर्यमाधत्ते । सर्वज्ञत्वादेरभावार्थत्वादुपचारपदस्य । तस्मात्स्वाभाविका विशेषा ज्ञातृत्वस्रष्टृत्वादयो ऽस्तित्वेश्वरत्वादिवत् ।ननु तवापि सर्वसंहार ईश्वरस्य तत्तज्ज्ञातृत्वस्रष्टृत्वादिकं नास्तीति कथं स्वरूपत्वम् ? मैवम् । तदाऽपि तच्छक्तिमत्त्वात् । तदेव हि शक्तिरूपेण तिष्ठति । व्यक्तता च न शक्तितोऽन्या, शक्तिरेव हि व्यक्ता भवति, तौ च विशेषौ ज्ञानादेः स्वरूपभूतौ । न चैवंविधं स्वाभाविकं विशेषमन्तरेण नित्यज्ञानेच्छावादिनां निर्वाहः स्यात् । नित्यसामान्यादिवादिनां च विशेषाद्यभावसमये न तत्सामान्यत्वादिकं स्यात् । औपाधिकविशेषस्य पूर्वमेव निरस्तत्वात् । न चाक्रियस्येच्छामात्रेण लोके कर्तृत्वं दृष्टम् । न च चेतनाप्रेरितस्याचेतनस्य प्रवृत्तिमत्त्वम् । शवशरीरस्यापि तत्प्रसङ्गात् । प्रयत्नवदात्मसंयोगाच्छरीरस्य कर्तृत्वं चेत्क्रियावत्त्वमात्मन इष्टं स्यात् । तद्व्यतिरेकेण प्रयत्नानिरूपणात् । न चाप्रवृत्तस्य प्रवर्तकत्वम् । अतः कर्ता चेदात्माक्रियावानिष्यताम् । कर्ता न करोतीति च विप्रतिषिद्धम् । अहो खलु चास्य कृतिलक्षणं प्रयत्नं नित्यमभ्युपगच्छतो नित्यकर्मणा किमपराद्धम् । नाममात्रभेदात् । न चेश्वरस्य क्रियावत्त्वेऽपि श्रमाद्यापातः, परमैश्वर्यात् । सर्वज्ञत्वेऽपि विक्षेपहर्षशोकाभाववत्तदभावोपपत्तेः । अक्रियस्यैवेच्छामात्रेण स्रष्टृत्वशक्तिं प्रविजानन्नविकारेण करण एव तां किमिति नानुजानीयात् । अशक्तिवादी चेदक्रियस्य स्रष्टृत्वमिच्छन्न विक्रियस्य सृष्टिक्रियामिच्छेदेव । तथा च ‘सत्यं ह्येवेदं विश्वमसौ सृजते’ ‘‘नित्यं ह्येवासौ कुरुते’ ‘स्वाभाविकी ज्ञानबलक्रिया च’ इत्यादि श्रुतयस्सङ्गृहीता भवन्ति । अतस्सुष्ठूक्तं–

‘अविकारोऽपि भगवान्सर्वशक्तित्वहेतुतः ।

विकारहेतुकं सर्वं कुरुते निर्विकारवानि’ ॥ इति ।

विकारवान्धर्मोऽप्यस्य नास्तीति निर्विकारवान् ।

तत्त्वप्रकाशिका

अत्र सर्वजगत्कारणे ब्रह्मणि श्रुतिसमन्वयसिद्ध्यर्थं तदुत्पत्तिविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । सकलजगत्कारणं ब्रह्मेत्युक्तम् । तस्य चोत्पत्तिमत्त्वे कारणत्वानुपपत्ते-स्तन्निराकार्यमेव । ब्रह्मात्र विषयः । उत्पत्तिमन्न वेति सन्देहः । ‘असतः सदजायत’ ‘सदेव सोम्येद-मग्र आसीत्’ इति श्रुतिविरोधः सन्देहबीजम् । तत्र सूत्रमेवोदाहृत्य पूर्वपक्षं तावद्बहिराह ॥ असम्भवस्त्विति ॥ अस्त्येवोत्पत्तिर्ब्रह्मणः ‘सदजायत’ इति श्रुतेः । न च ब्रह्मणः सर्वकारणस्योत्पत्तौ कारणाभावः । असतस्तत्कारणतया श्रुतत्वात् । न चानादित्वेऽपि श्रुतिरस्तीति वाच्यम् । असम्भवदुद्भवयोर्न भोनभस्वतोरुत्पत्तावनादितया समस्य ब्रह्मणोऽनुत्पत्तिरयुक्तेति जन्मश्रुतेः सयुक्तिकत्वेन प्राबल्यात् । अनुत्पत्तिश्रुतिस्तु सर्वात्मनाऽनुत्पत्तिवादिनीत्यभिमान-श्चेत्तर्ह्यप्रमाणमेव । न चेदाकाशादाविव व्यवस्था स्यात् । अतो ब्रह्मणोऽप्युत्पत्तिमत्त्वान्न तत्राशेषकारणतया श्रुतिसमन्वयो युक्त इति भावः । सिद्धान्तयत्सूत्रं व्याचष्टे ॥ नेति ॥ मयापि वियदादिवद् व्यवस्थाया ब्रह्मणोऽनुत्पत्तेरङ्गीकृतत्वात् सिद्धार्था प्रतिज्ञेत्यत आह ॥ तुशब्देनेति ॥ न व्यवस्थया ब्रह्मणोऽनुत्पत्तिः सूत्रे प्रतिज्ञायते येन सिद्धार्था प्रतिज्ञा स्यात् । किं तु सर्वात्मना-नुत्पत्तिरेवेति भावः । अत एव तुशब्दमेवेति व्याचष्टे । अस्यां च प्रतिज्ञायां सत इत्यनेनैव स्वातन्त्र्याख्यो व्यतिरेकी हेतुः सूचितः । तेनैव पूर्वपक्षयुक्तेर्गतिश्चोक्ता भवति । गगनपवनादीना-मस्वातन्त्र्यादेवोत्पत्तिरिति ।

नन्वसतः सदजायत’ इत्यादिश्रुतौ ब्रह्मणोऽप्युत्पत्तिश्रवणात्कथं सर्वात्मनानुत्पत्तिरुच्यत इत्याह ॥ न हीति ॥ नानया श्रुत्या ब्रह्मणो जनिः सिद्ध्यति । असतः सकाशात्पदार्थोत्पत्तेरदृष्टत्वेन प्रातीतिकार्थस्याप्यनुपपन्नत्वादिति भावः । तर्ह्येतच्छ्रुतेरप्रामाण्यप्रसङ्ग इत्यतः श्रुत्यन्तरेण तां सम्यग्व्याचष्टे ॥ तदिति ॥ तद्वा एतदसदाहुः । न ह्यासादयति कश्चनेत्यस्यैवात्रोपयोगित्वेऽपि तस्य ब्रह्मपरत्वज्ञापनायान्यांशोदाहरणम् । असच्छब्दस्य ब्रह्मपरत्वेऽपि कः समस्तश्रुत्यर्थ इत्यत आह ॥ देवानामिति ॥ कथं प्राणः सदिति महत्वादिसद्गुणत्वादित्याह ॥ प्राण इति ॥ एतच्छ्रुत्यैवोक्तार्थसिद्धावप्यसच्छब्दस्य ब्रह्मणि निर्वचनार्थं पूर्वश्रुत्युदाहरणम् । सच्छब्दवाच्यस्य वायोर्ब्रह्मजातत्वे स्मृतिं चाह ॥ त्वमिति ॥ रामकृष्णादिरूपेण हरेर्जायमानत्वात् कथं जन्माभाव इत्यत आह ॥ अजायमान इति ॥ अजायमानस्य कीदृशं जन्मेत्यत आह ॥ प्रत्यक्षत्वमिति ॥ क्रमादित्युपचयाधिक्यक्रमात् । पुरुषस्य चेतनत्वात्कथं विकार इत्यत आह ॥ पुरुष इति ॥ तेन विकारेण विशेषितत्वं भवतीत्यर्थः । तर्हि तस्य नोत्पत्तिरित्यत आह ॥ परतन्त्रेति ॥ जगत्कारणत्वात् परमेश्वरस्य कथमविकारित्वमित्यत आह ॥ अविकारोऽपीति ॥ सर्वशक्तित्वेन सर्वं करोतीत्यनेन निमित्तमित्युक्तं भवति । विकारहेतुकं प्रकृत्याद्युपादानकं निर्विकारवानिति तद्धर्मादेरविकार उच्यते । शक्त्या चेज्जगत्कारणत्वं तद्विनाशे तदभावः स्यादित्यत आह ॥ शक्तीति ॥ इच्छाज्ञानप्रयत्नानां कर्तृत्वोपयोगित्वात्कथं शक्त्या तदित्यत आह ॥ अविभिन्ना-पीति ॥ एकैवेत्यर्थः । एतेनेच्छादिपूर्वककारणत्वं नोपादानस्येत्युक्तं भवति । अतः श्रुत्यविरोधेन ब्रह्मणोऽनादित्वसिद्धेर्युक्तः श्रुतिसमन्वयस्तत्रेति सिद्धम् ।

गुर्वर्थदीपिका

प्रलये महालक्ष्मी वेदाव्याकृताकाशादिषु सत्स्वपि सदेवेति विशिष्य ब्रह्मणस्सत्पदेन ग्रहणं स्वातन्त्र्येण स्थितिमादायैव भवेदिति भावेनोक्तं सत इत्यनेनैवेति ॥ यद्वा सीदत्यवसीदति सर्वं जगद्यस्मात्सीदति निषीदत्यस्योदरे सूक्ष्मं जगदिति वा । पारतन्त्र्यादिदोषरहितत्वाद्वा सत् स्वतन्त्र इति भावः । परतो हि तदुदीक्ष्यत इत्यत्र भावप्रधानो निर्देशः । परतया तदुदीक्ष्यते ब्रह्मादिभि-रित्यर्थः । हि यस्मात्परतयोदीक्ष्यते अतः परमाहुरिति योजना । नन्वधिभूतविचाराय प्रवृत्तेन सूत्रकृता भूतद्वयविचारानन्तरं भूतत्रयविचारात्पूर्वमकस्मान्मध्ये ब्रह्मविचारायैकमधिकरणं कस्मा-त्कृतमिति चेत्सत्यम् । अनुत्पन्नत्वेन प्रसिद्धयोर्वियन्मरुतोरुत्पत्तिसमर्थने अनेनैव न्यायेनानादितया प्रसिद्धब्रह्मणोऽप्युत्पत्तिः स्यादिति शङ्कायां स्मृतस्य ब्रह्मानुत्पादस्योपेक्षानर्हत्वात् । प्रसङ्गसङ्गत्या निरूपणमिति समाधानसम्भवात् ।

भावबोधः

तदुत्पत्तिविषयश्रुतीति ॥ अत्र यदि नभोनभस्वतोरुत्पत्तिश्रुत्यवष्टम्भेनोत्पत्तिरिष्यते, तर्हि सतो ब्रह्मणोऽप्युत्पत्तिश्रुतिसामान्यात् स्यादिति पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति ज्ञातव्यम् ॥ उत्पत्तिमदिति ॥ अत्र ब्रह्मोत्पत्तिमन्न वेति चिन्ता । तदर्थ‘मसतः सदजायत’ इति श्रुति-र्ब्रह्मोत्पत्तिप्रतिपादिका भवत्युत न भवतीति । तदर्थमाकाशाद्युत्पत्तिश्रुतेः पराधीनविशेषलाभ-लक्षणोत्पत्तिपरत्वेन व्यवस्थाव‘दसत’ इति श्रुतेस्तत्परत्वेन व्यवस्था सम्भवत्युत नेति । तदर्थं ब्रह्मणः पराधीनविशेषः किं सम्भवत्युत नेति । तदर्थं तस्यानादितया किमाकाशादिसाम्यमेवोत सर्वथाऽनुत्पत्तिसाधकं स्वातन्त्र्याख्यं ततो वैलक्षण्यमस्तीति । तदर्थं स्वातन्त्र्याङ्गीकारे ‘असत’ इति श्रुतेरप्रामाण्यं प्रसज्येत न वेति । तदर्थमसतः सदिति श्रुतिस्थौ सदसच्छब्दौ किं ब्रह्मशून्यपरौ किं वायुविष्णुपराविति । तदर्थं सदसच्छब्दयोर्ब्रह्मवायुपरत्वेऽसतो जनकत्वादृष्टिरूपबाधकं वायुविष्णुपरत्वे प्रमाणं च न स्त उत स्त इति ॥ अस्त्येवोत्पत्तिरिति ॥ पराधीनविशेषलाभ-लक्षणेत्यर्थः । अनेन सतः पराधीनविशेषवत्वमिति न्यायविवरणमपि व्याख्यातं भवति । असत-स्तत्कारणतया श्रुतत्वादिति । पूर्वोक्ताच्छादनेनैवेदमुक्तम् । तेनासतः कारणत्वस्य ‘प्रतिषेध-मात्रत्वात्’ ‘नासतो दृष्टत्वात्’ इति पूर्वमेव निराकृतत्वात् कथं पूर्वपक्षोत्थानमिति शङ्कानवकाशः । अत एव सिद्धान्तेऽदृष्टत्वादनुपपत्तेरिति पूर्वोक्तहेत्वतिदेशेनासतः कारणत्वं निराकरिष्यते ।

ननु तथापि असतः कारणत्वनिरासपरतया अधिकरणद्वयेनास्य गतार्थतेति चेत्, न; तत्र प्रतिषेधमात्रत्वादृष्टत्वाभ्यां जगत्प्रत्यसतः कारणत्वं न सम्भवतीत्युक्तम् । अत्र तु तद्धेत्वतिदेशेनैव ब्रह्म प्रति कारणत्वं न सम्भवतीत्युच्यमानत्वेन भेदादिति ज्ञातव्यम् । ‘सतः साम्यम्’ इत्यनु-व्याख्यानोक्तयुक्तिमुपपादयति– असम्भवदुद्भवयोरिति ॥ अनेन ब्रह्मोत्पत्तिमत् तदविरोध्य-नादित्वकत्वादिति युक्तिरुक्ता भवति । न च विशेषणवैयर्थ्यम्; विरोधनिरासकव्याप्त्यौपयिकत्वात् ॥ न चाप्रसिद्धिः ॥ आकाशादावेव प्रसिद्धत्वादिति । तद्वा एतदसदाहुरिति श्रुत्युदाहरणानु-रोधेनाह– अनुत्पत्तिश्रुतिस्त्विति ॥ ‘तु’शब्देनोक्तव्यवस्थामपाकरोतीति भाष्यानुरोधेनाह– न चेदिति ॥ स्वातन्त्र्यादिति न्यायविवरणानुसारेण सत इति भाष्याभिप्रायमाह– सत इत्यनेनैवेति ॥ ‘सत्त्वं स्वातन्त्र्यमुद्दिष्टम्’ इति भारतोक्तेरिति भावः ॥ गतिरिति ॥ सोपाधिकत्वमित्यर्थः । साध्यव्यापकत्वरूपप्रयोजकत्वमेव दर्शयन्नुपाधिमेवाह– गगनेति ॥ अविकार इत्यनेन पौनरुक्त्य-परिहारार्थमाह– तद्धर्मादेरिति ॥ शक्तिमता भगवताऽविभिन्नापीति न विभेद इत्युक्तानुवाद इति प्रतीयते । तन्न युज्यते । भगवदभिन्ना अपि भगवतः शक्तिरिति तत्सम्बन्धित्वेन व्यवहारादि-रूपभेदकार्यस्यानुक्तेः । शक्तेरिच्छाद्यभेदालाभाच्चेति आशयवान् व्याचष्टे– एकैवेत्यर्थ इति ॥ अनेना‘पि’रवधारणार्थ इत्युक्तं भवति ।

भावदीपः

असतः सदजायतेति ॥ एतेन सर्वे इत्यत्रासदादिशब्दस्य ब्रह्मपरत्वोक्तावपि असदिति चेदित्यत्र भाष्योक्तदिशा अन्यप्रापकत्वादिति भावः । सूत्रार्थभ्रान्तिं निराह ॥ बहिराहेति ॥ भाष्यस्थप्रतिज्ञाहेतू आकाङ्क्षाक्रमेणाह ॥ अस्त्येवोत्पत्तिरिति ॥ पराधीनविशेषावाप्तिरूपेत्यर्थः । न च सतः पराधीनविशेषवत्त्वमिति न्यायविवरणोक्तिर् भाष्ये श्रुतिभ्य इत्युक्तबहुत्वस्य पूर्वपक्ष-युक्तित्वभ्रमनिरासाय इति श्रुतेरित्युक्तम् । असद्वेति वाक्यमसतो लयवर्तित्वाद्युक्त्या कारणत्वो-पपादकमिति भावेन शङ्कापूर्वं तदर्थमाह ॥ न च ब्रह्मण इति ॥ असदिति चेदित्यत्रासतो विश्वप्रागभावस्य विश्वकारणत्वं शङ्कितमत्रासत एव ब्रह्मकारणत्वमाशङ्क्यत इति भेदः । अनादित्वश्रुतितो जन्मश्रुतेः प्राबल्याय चित्प्रकृतेश्च सममेवेत्यन्यत्रोक्तपूर्वपक्षयुक्तिं शङ्कापूर्वं व्यनक्ति ॥ न चेति ॥ श्रुतिरस्तीति ॥ सदेव सोम्येत्यादिरूपेत्यर्थः ॥ अनादितया समस्येति ॥ देहानादित्वादिना चित्प्रकृतिसमस्येत्यर्थः । तर्हि का गतिः श्रुतेरित्यत आह ॥ अनुत्पत्तिश्रुति-स्त्विति ॥ सौत्रतुशब्दव्यावर्त्यमाह ॥ व्यवस्थेति ॥ तत्स्वरूपादिपरानादित्वश्रुतिः । जन्मश्रुतिस्तु पराधीनविशेषावाप्तिपरेत्यर्थः ॥ अत इति ॥ सयुक्तिकोत्पत्तिश्रुतिभावादनादित्वश्रुतेः स्वरूपानादिपरत्वेनाऽविरोधकत्वाच्चेत्यर्थः । उत्पत्तिमत्त्वात्पराधीनविशेषावाप्तिरूपोत्पत्तिमत्त्वा-दित्यर्थः । उत्पत्त्यसम्भव इत्यनुवृत्त्यानुत्पत्तिरिति लाभेऽपि तस्य न वियदिति नञन्वितत्वा-त्सूत्रेऽसम्भव इति पुनरप्युक्तस्यानुत्पत्तिरिति व्याख्येति भावेनाह ॥ सूत्रं व्याचष्ट इति ॥ भाष्ये विष्णोरित्यनुक्त्वा सत इति यथाश्रुतानुवादस्य भावमाह ॥ अस्यां चेति ॥ स्वातन्त्र्याख्य इति ॥ ‘सत्त्वं स्वातन्त्र्यमुद्दिष्टं तच्च कृष्णे न चापरे । अस्वातन्त्र्यात्तदन्येषामसत्त्वं विद्धि भारतेति एकादशस्कन्धतात्पर्योदाहृतभारतोक्तेरिति भावः । एतेन स्वातन्त्र्यादित्यन्यत्रोक्तो हेतुः सूत्रारूढो’’ दर्शितः । गतिमेव व्यनक्ति ॥ गगनेति ॥ उत्पत्तिः पराधीनविशेषावाप्तिरूपेत्यर्थः ॥ महत्त्वादि-सद्गुणत्वादिति ॥ सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते इति गीतोक्तेरिति भावः ॥ स्मृतिं चाहेति ॥ स्मृत्यर्थस्तु हे देव त्वं कविर् अजश्च तथापि भवान् शक्त्यां भार्यायां गुणानां कर्मणामदृष्टानां योनौ हेतावजायां चिदचित्प्रकृतौ रेतो गर्भम् आदधे । ततस् तस्याः प्रकृतेर् वयं सत्प्रमुखा यदर्थे यत्प्रयोजनाय आत्मन् स्वामिन् बभूविम तत्किं करवाम ते तवेति तृतीयस्कन्धे देवानां वाक्यम् । यद्यपि तत्र सत्प्रमुखा महदादय इति तात्पर्यं तथापि वायुरपि महत्तत्वाभि-मानीत्यविरोधः ॥ विकारेणेति ॥ देहेन विशिष्टत्वमित्यर्थः । अविकारोऽपीत्यनेनापौनरुक्त्याह ॥ निर्विकारवानितीति ॥ विकारान्निर्गता निर्विकारा धर्मास्तद्वानित्यर्थः ॥ एकैवेत्यर्थ इति ॥ यद्यभिन्नेत्यस्य भेदहीनेत्यर्थः स्यात्तर्हि तत्प्रति समर्पकस्य भेदैरपि विभाष्य(व्य)त इत्यस्य भेदार्थः स्यात् । न च तद्युक्तम् । निर्भेदत्वात् । भेदैरिति बहुवचनायोगाच्च । एकेत्यर्थे तु भेदैरित्यस्यापि द्वित्वादिसङ्ख्याभिरित्यर्थो भवति । तथा च निर्भेदेऽपि द्वित्वादिसंख्यानां सत्त्वान्न दोष इति भावः ॥ एतेनेति ॥ तथा चेश्वरे (रस्येच्छा) च्छापूर्वककारणत्वान्नोपादानत्वमिति भावः ॥ अत इति ॥ क्वाप्यदर्शनेनासतः कारणत्वानुपपत्त्या विष्णोः स्वातन्त्र्येण पराधीनविशेषावाप्तिरूपजन्मानुपपत्त्या च श्रुतेर्ब्रह्मकारणत्वपरत्वादित्यर्थः ।

अभिनवचन्द्रिका

न चानादित्वेऽपीति ॥ अनादित्वेऽपि श्रुतिसद्भावात् तया प्रतिरुद्धया नोत्पत्तिः सिद्ध्यतीति न वाच्यमिति भावः । असम्भवदुद्भवयोरिति ॥ अनादित्वेनासम्भवदुद्भवयोर्नभोनभस्वतोर् उत्पत्तौ सिद्धायां समस्य नभोनभस्वद्भ्याम् अविशिष्टस्य, ब्रह्मणोऽनुत्पत्तिरयुक्तेति युक्तिसाहित्येन जन्मश्रुतेः प्राबल्यादित्यर्थः । अनादित्वेनोक्तत्वं तु नभोनभस्वतोरपि सद्भावेन नोत्पत्तिवारकमिति भावः । अनेन च ब्रह्मोत्पत्तिमदविशिष्टत्वात्, यो येनाऽविशिष्टः स तद्धर्मवान्, यथा सम्प्रतिपन्न इत्यनुमानं सूचितं भवति । का तर्हि अनादित्वश्रुतेर्गतिरिति वदन्तं तटस्थं प्रत्याह– अनुत्पत्तिश्रुतिश्चे-त्यादिना ॥ यदि अनुत्पत्तिश्रुतिः सर्वात्मनानुत्पत्तिपरेत्यभिमानेन पृच्छसि, तर्हि अप्रमाणमेवे-त्युत्तरम् । न चेदभिमानस् तत्त्वं चेत् पृच्छसि तदा आकाशादाविव व्यवस्थेत्युत्तरमिति विवेकः । ऐतन अनादित्वेऽपि श्रुतिरस्तीति शङ्कमानस्य सर्वथाऽनुत्पत्तिवादिनीत्यभिमानस्य सिद्धत्वाद् अभिमानश्चेद् अप्रमाणम्, न चेद् व्यवस्थेत्युक्त््ययोग इति परास्तम् । ननु सूत्रोक्ता प्रतिज्ञा अनुपपन्नेत्याशंकते – मयापीति ॥ एतेन अनुत्पत्तिरेवेति सावधारणं प्रतिज्ञातत्वात् सिद्धार्था प्रतिज्ञेति शङ्कानुदय इति परास्तम् । ननु भाष्योक्ता प्रतिज्ञाऽनुपपन्नोत्सूत्रत्वादित्यत आह– अत एवेति ॥ तेनैवेति ॥ स्वातन्त्र्यसूचनेनैव नभोनभस्वद्भ्यामविशिष्टत्वरूपपूर्वपक्ष्युक्त-हेतोर्गतिरसिद्धिश्चोक्ता भवतीत्यर्थः । असिद्धिं दर्शयति – गगनपवनादीनामिति ॥ अस्वातन्त्र्यात्तेषामुत्पत्तिः, ब्रह्मणस्तु स्वातंत्र्यमिति अविशेषो नेति भावः ।

पूर्वपक्षस्तु – न विष्णोः श्रुतिसमन्वयेन जगत्कारणत्वं युक्तं तस्योत्पत्तिमत्त्वेन जगत्कारणत्वायोगात् । न च तत्र प्रमाणाभावः ‘असतः सदजायत’ इति श्रुतिसद्भावात् । न चाऽनादित्वश्रुतिप्रतिरुद्धत्वान्न तयोत्पत्तिः सिद्ध्यतीति वाच्यम् । ब्रह्मोत्पत्तिमदविशिष्ट-त्वादित्युत्पत्तिश्रुतेः सयुक्तिकत्वेन प्रबलत्वात् । न च कारणाभावादनुत्पत्तिः । असत एव तत्कारणत्वात् । अतो ब्रह्मणोऽप्युत्पत्तिमत्त्वादशेषकारणतया न श्रुतिसमन्वय इति ।

सिद्धान्तस्तु – युक्तमेव विष्णोर्जगत्कारणत्वम् । असतः सदुत्पत्तेः क्वाप्यदर्शनेन असतः सकाशाद् उत्पत्त्यनुपपत्तेः का तर्हि ‘असतः सदजायत’ इति श्रुतेर्गतिरिति चेद् उच्यते – ‘ब्रह्म वा असत् सद्वाव प्राण’ इति श्रुतेर् ब्रह्मणः सकाशाद्वायोरुत्पत्तिः श्रुत्यर्थ इति ॥ तदुक्तम्–

‘त्वं देवशक्त्यां गुणकर्मयोनौ रेतस्त्वजायां कवि रादधेऽजः ।

ततो वयं सत्प्रमुखा यदर्थे बभूविमाऽऽत्मन् करवाम किं ते ॥ इति । (भा.३.६.२८)

ननु – रामकृष्णादिरूपेण हरेर्जायमानत्वात् कथं न जन्मेति चेत्, रामकृष्णादेः प्रादुर्भूतत्वेनाऽनुत्पन्नत्वात् । तदुक्तं–प्रत्यक्षत्वं हरेर्जन्म न विकारः कथंचनेति ।

अतः श्रुत्यविरोधेन ब्रह्मणोऽनादित्वे सिद्धे युक्तं तत्र श्रुतिसमन्वयेन जगत्कारणत्वमिति सिद्धम् ।

वाक्यार्थमुक्तावली

असम्भाव्यजन्मनोर्गगनपवनयोः श्रुत्यवष्टम्भेनोत्पत्तौ श्रुतिसाम्याद्ब्रह्मणोऽप्युत्पत्तिः स्यादिति पूर्वपक्षोत्थानादनन्तरसङ्गतिः । अत्र ब्रह्मोत्पत्तिमन्नवेति चिन्ता । तदर्थमसतः सदजायतेति श्रुतौ सदसच्छब्दौ ब्रह्मशून्यपरौ किं वायुविष्णुपराविति चिन्ता । तदर्थं ब्रह्मपरत्वे बाधकं नास्ति उत अस्तीति चिन्ता ॥ सूत्रमेवेति ॥ सङ्गत्यादिजिज्ञासाजननायेति पूरणीयम् ॥ बहिरेवेति ॥ न तु सूत्रार्थतयेति भावः । सतोऽपीत्यपिशब्देनानुभूतियुक्तिबहुवाग्विरोधेनासम्भवदुत्पत्तिकस्यापि गगनपवनवदुत्पत्तिरिति सूचितम् । सतः साम्यमित्युक्तन्यायमाह ॥ न चानादित्वेऽपीत्यादिना ॥ अनेन ब्रह्म, अनुत्पत्तिमत्, उत्पत्तिमदवशिष्टत्वात्, यो येनावशिष्टः स तद्धर्मवानित्यनुमानं सूचितं भवति । का तर्हि अनादित्वश्रुतेर् गतिरिति वदन्तं तटस्थं प्रत्याह ॥ अनुत्पत्तिश्रुतिश्चेति ॥ सौत्रतुशब्दव्यावर्त्यमाह ॥ न चेदिति ॥

ननु ‘एतेन सर्वे व्याख्याता, इति असच्छब्दस्य हरौ समन्वितत्वादसदिति चेन्न प्रतिषेध-मात्रत्वात्, नासतोऽदृष्टत्वादित्यसतः कारणत्वस्य प्रतिक्षिप्तत्वात्कथमत्र पूर्वपक्षोदय इति चेदसच्छब्दस्य ब्रह्मपरत्वे स्वस्य कारणत्वापातेनेत्युक्ताक्षेपात् । अधिकरणद्वये प्रतिषेधमात्रत्वा-दृष्टत्वाभ्यां जगत्प्रत्यसतःकारणत्वं निषिद्धम् । अत्र तु तद्धेत्वतिदेशेन ब्रह्म प्रत्यसतः कारणत्वं निषिध्यत इति भेदात् । प्रतिज्ञासूत्रोक्तप्रतिज्ञानुपपन्नेति शङ्कते ॥ मयेति ॥ तेन भाष्ये सावधारणं व्याख्यातत्वात्कथं शङ्केति निरस्तम् । भाष्यं तूत्सूत्रमिति भावः । अत एव वक्ष्यति । अत एव तुशब्दमेवेति व्याचष्टे इति ।

ननु ब्रह्मणोऽसम्भवस्तु सतोऽनुत्पत्तिरेवेति प्रतिज्ञायते नत्वसतः सकाशद्ब्रह्मण उत्पत्तिर्नेति ॥ अस्यांच प्रतिज्ञायां नानुपपत्तेरित्येतत् सर्वथाऽप्युत्पत्यभावमुपपादयितुमलं कारणविशेष प्रतिषेधेऽप्युत्पत्तिसामान्यप्रतिषेधायोगादित्यत आह ॥ अस्याञ्चेति ॥ स्वातन्त्र्याख्य इति ॥ स्वातन्त्र्यमित्यनुव्याख्याने सिद्धान्तन्यायतयोक्त इत्यर्थः । सत्वं स्वातन्त्र्यमुद्दिष्टमिति भारतोक्तेरिति भावः । अनुपपत्तेरित्युक्तहेतुः किमर्थमित्यत आह ॥ न त्वित्यादिना ॥ यद्यपि प्रसक्तकारण-निरासादन्यस्याप्रसङ्गात्कारणाभावस्यैवासिद्धेरुत्पत्तिरेव नास्तित्यनुपपत्तेरित्युक्तहेतुरेव पूर्यते तथापि हेत्वन्तरसूचनाय सत इत्युक्तमिति सुधानुसारेण बोध्यम् ॥ गतिश्चोक्तेति ॥ अस्वतन्त्रत्व-लक्षणोपाधिग्रस्तत्वं वेत्यर्थः ॥ अन्यांशोदाहरणमिति ॥ पूर्वांशोदाहरणमित्यर्थः । बृंहति वर्धते । परतः परत्वेन । पूर्वे युगे आदिकाले देवानां मध्ये असतः सदजायतेति योजना ॥ महत्वादि-सद्गुणत्वादिति ॥ सद्भावे साधुभावे च सदित्येत्प्रयुज्यत इति गीताभाष्योक्तेरिति भावः । हे देव कविरजश्च त्वं, गुणकर्मणां योनौ हेतौ शक्त्यां भार्यायाम् अजायां च प्रकृतौ रेतः गर्भम् आदधे । ततः प्रकृतेः सत्प्रमुखा महदादयो वयं ब्रह्मवायुप्रभृतयो वयं यदर्थं यत्प्रयोजनाय बभूविम । हे आत्मन् स्वामिन् ते तव किं करवामेति स्मृत्यर्थः । पुरुषः प्रकृतिः काल इत्यत्र प्रकृत्यादयो जडा उच्यन्ते । अत एव टीकायां पुरुषस्य चेतनत्वादित्युक्तम् ॥ उपचयाधिक्येति ॥ प्रकृतिकालयो-र्नित्यानित्यत्वसाम्येऽपि तत्वसङ्ख्यानटीकायां स्वरूपेणोत्पत्याद्यभावेऽपि अवस्थागमापायवत्व-लक्षणमित्युक्तरीत्याऽव्यक्तस्यापि किञ्चित्स्थूलत्वकर्तुरित्येकादशतात्पर्योक्तरीत्या च सूरणबीजादीनां काले किंचित्स्थूलीभाववत्तूलपिण्डस्य प्रचयेनेवोपचयकारणं विना स्वत एव स्थूलीभूतायाः सत्व-रजस्तमोगुणात्मिकायाः साम्यावस्थां गतायाः प्रकृतेः सृष्टिकाले वैषम्यावस्थापत्याल्प एवोपचयः । कालस्य तु प्रवाहरूपेणोत्पत्याद्यभावेऽपि प्रवाहिणां क्षणादीनां घटादिवदुत्पाद एवेति प्रकृतित उपचयाधिक्यमसंसृष्टानाम् । महत्वस्य तु स्वसूक्ष्मैर्जन्यगुणत्रयैश्चोपचयः । अहंकारस्य तु स्वसूक्ष्मै-र्महत्तत्वेन गुणैश्चोपचय इत्युपचयाधिक्यक्रमादित्यर्थः ॥ तेन विकारेणेति ॥ विकारिवत्वाभिमानेन विकारविशिष्टत्वं भवतीत्यर्थ इति, तत्त्वप्रदीपोक्तेरिति भावः ॥ तद्धर्मादेरिति । निर्गतो विकारो येभ्यस्ते निर्विकारास्ते अस्य सन्तीति निर्विकारवानिति तद्धर्माणां तच्छरीरस्य चाविकारित्व-मुच्यतेऽतोऽविकारोऽपीत्यनेननपौनरुक्त्यमिति भावः । एकैवेत्यर्थ इति । एकैव शक्तिर् इच्छाज्ञान-प्रयत्नप्रभेदैर्विभाव्यते, श्रूयत इत्यर्थः ।

तथा च श्रुतिः । ‘परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’ इति । अभिन्नेत्यस्य भेदरहितेत्यर्थोक्ते तु प्रतियोगित्वेनेच्छादिभिरित्यध्याहारो दोषः । अध्याहाराभाव-वचनविभेद इत्यस्यानुवाद इति प्रतीतिप्रसङ्ग इति ज्ञेयम् ।

तत्त्वसुबोधिनी

अत्रेति ॥ यदि नभो नभस्वतोरुत्पत्तिश्रुत्यवष्टम्भादिहोत्पत्तिरिष्यते तर्हि सतो ब्रह्मणोऽपि उत्पत्तिश्रुतिसाम्यादुत्पत्तिः स्यादिति पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भावः ॥ अस्त्वेवेति ॥ पराधीनविशेषलक्षणेत्यर्थः ॥ असम्भवदुद्भवयोरिति ॥ अनेन न ब्रह्मोत्पत्तिमत् तदविरोध्य-नादित्वकत्वादिति युक्तिरुक्ता भवति । न च विशेषवैय्यर्थ्यं विरोधनिरासकतया व्याप्तौपयिकत्वात् ॥ न चाप्रसिद्धिर् आकाशादावेव प्रसिद्धत्वादिति ॥ अनादितया समस्येति ॥ देहानादित्वादिना चित्प्रकृति समस्येत्यर्थः ॥ किञ्च अनुत्पत्तिश्रुतिः सर्वथानुत्पत्तिवादिनी वा कथञ्चिदुत्पत्तिवादिनी वा ॥ नाद्य इत्याह ॥ अनुत्पत्तिश्रुतिश्चेति ॥ द्वितीयं प्रत्याह ॥ न चेदिति ॥ अत एवेति ॥ अनुत्पत्तिमत्वस्य प्रतिज्ञातत्वादेवेत्यर्थः ॥ सत इत्यनेनैवेति ॥ सत्वं स्वातन्त्र्यमुद्दिष्टमिति भारतोक्तेरिति भावः । तर्हि पूर्वपक्ष्युक्तयुक्तेः का गतिरित्यत आह ॥ तेनैवेति ॥ स्वातन्त्र्याख्यहेतुनैवेत्यर्थः ॥ गतिश्चेति ॥ सोपाधिकत्वमित्यर्थः । उपाधिमेवाह ॥ गगनेति ॥ तथा चास्वातन्त्र्य उपाधिरिति भावः ।ननु तद्वा एतदसदाहुर् इत्यनेनैवाभीष्टसिद्धेर् ब्रह्माहुः परमाहुरित्यंशद्वयोदाहरणमनर्थकमित्यत आह तद्वा एतदिति ॥ महत्वादिसद्गुणत्वादिति ॥ सद्भावे साधुभावे च सदित्येतत् प्रयुज्यते इति गीतोक्तेरिति भावः । त्वं दैवेत्यस्यायमर्थः । हेदेवत्यङ्कविरतिक्रान्तदर्शि अजश्चासि भवान् शङ्क्यां भार्यायां सत्वादिगुणानां कर्मणाम् अदृष्टानां योनौ कारणभूतायाम् अजायां जन्मरहितायां चिदचि-त्प्रकृतौ रेतो गर्भे आदधे इत्यन्वयः । तु शब्देन उभयेषां विशेषं सूचयति । प्रकृते वयं सत्प्रमुखा महत्तत्वप्रमुखा बभूविम ततः किं तदु यदर्थ इति आत्मन् यदर्थे यत्प्रयोजनाय बभूविम तदर्थं ते तव किं करवाम वियुक्ता अस्वतन्त्रा इति यस्मात् तस्मादिति अविकार इत्यनेन पौनरुक्त्य-परिहारार्थमाह ॥ तद्धर्मादेरिति । शक्तिमता भागवताभिन्नापीति न विभेद इत्युक्तानुवाद इति प्रतीयते तन्न युज्यते भगवदधीनापि भगवतः शक्तिरिति तत्सम्बन्धित्वेन व्यवहारादिरूप-भेदकार्यस्यानुक्तेः शक्तेरिच्छाद्यभेदालाभाच्चेत्याशयवान् व्याचष्टे एकैवेत्यर्थ इति ॥ अनेन अपिर् अवधारण इति उक्तं भवति । एतेन सर्वशक्तित्वेन सर्वं करोतीत्यनेनेत्यर्थः ।

वाक्यार्थविवरणम्

उत्त्पत्तौ । समर्थितायां सत्यामिति शेषः । अनादितया समस्येति । ‘ब्रह्म देहत उत्पत्तिमत् । तदविरोध्यनादित्वात् । नभो नभस्वद्वत् ॥’ इत्यनुमानमुक्तं भवति ॥ अशेषेति ॥ स्वोत्पादकं प्रति कारणत्वाभावादिति भावः । ननु उक्तव्यवस्थाऽपाकरणं कथं तुशब्दो न लब्धमित्यतस्तस्याव-धारणार्थत्वादित्याशयनाह ॥ अत एवेति ॥ उक्तव्यवस्थापाकरणार्थमेवेत्यर्थः ॥ स्वातन्त्र्याख्य इति ॥ यथोक्तम् । ‘स्वतन्त्रत्वात् परात्मनः । नैवोत्पत्तिः कथमपि न’ इति ॥ पूर्वपक्षयुक्ते-रिति ॥ यदि असम्भवदुद्भवतयाऽनादिनोर्नभोनभस्वतोरुत्पत्तिरुच्यते तर्हि तद्वदेव ब्रह्मणोऽप्युत्पत्तिः स्यात् । तदविरोध्यनादित्वादिति जन्मसाधकयुक्तेरित्यर्थः । तामेव गतिं दर्शयति ॥ गगनेति ॥ इति गतिरित्यन्वयः । तथा चोक्तयुक्तावस्वातन्त्र्यमुपाधिरिति भावः ॥ उक्तार्थेति ॥ असच्छब्दस्य ब्रह्मपरत्वरूपेत्यर्थः ॥ पूर्वेति ॥ तत्र न ह्यासादयति’’ इति असच्छब्दस्य निरुक्तत्वादिति भावः । ‘त्वं देव’ इति तत्त्वाभिमानिनां देवानां वाक्यम् । तत्र ‘सत्प्रमुखा’ इत्यस्य ‘वायुप्रमुखा’ इत्यर्थो निश्चितोऽस्तीति भावः ॥ विकारेण ॥ भूतादिविकारेण देहादिनेत्यर्थः ॥ परतन्त्रतेति ॥ तथा च देहलाभ एव तस्य परतन्त्रविशेषलाभ इति युक्ता तस्योत्पत्तिरिति भावः । जगत्कारणत्वात् । जगदुपादानकारणत्वादित्यर्थः ॥ करोतीत्यनेनेति ॥ कर्तृत्ववचनेनेत्यर्थः । निमित्तम् । नोपादान-कारणमित्यर्थः ॥ तद्धर्मादेरिति ॥ अन्यथा पुनरुक्तिः स्यादित्याशयः । न विद्यते विकारो येषां ते निर्विकारास्तद्धर्मास्ते अस्य सन्तीति व्युत्पत्तिः ॥ कथं शक्त्या तदिति ॥ कर्तृत्वमित्यर्थः । सर्वशक्तित्वहेतुतः सर्व कुरुत इति शक्तेः कथं कर्तृत्वोपयोगित्वमित्यर्थः । भगवता ‘अविभिन्नाऽपि’ इति योजनायां शक्तेरिच्छाद्यभेदालाभेनोक्तशङ्काया अपरिहारादविभिन्नापीत्यस्य अर्थमाह ॥ एकैवेति ॥ तथा चाविभिन्नापि एकैव सा शक्तिरिच्छादिप्रभेदैर्विशेषबलेन विभाष्यत इति प्रमाणार्थः । एवं सति ब्रह्मणो जगत्कारणत्वात् कथमविकारित्वमिति नाशङ्कनीशयमित्याह ॥ एतेनेति ॥ शक्तेरिच्छाद्यात्मकत्वात् सर्वशक्तित्वतः सर्वं करोतीतीच्छापूर्वककारणत्ववचनेनेत्यर्थः ।

वाक्यार्थमञ्जरी

सद् ब्रह्म । सौम्य इति सम्बुद्धिः । इदम् अस्य ॥ ॐ असम्भवस्तु सतोऽनुपपत्तेः ॐ । सतो ब्रह्मणः । असम्भवस्त्वनुत्पत्तिरेव । कुतः । अनुपपत्तेः । असतः सकाशात्सज्जन्मनो क्काप्यदर्शनेनानुपपत्तेरित्यर्थः । तर्हि तस्याः का गतिरित्यत आह ॥ अनुपपत्तिश्रुतिश्चेति ॥ व्यवस्थास्वरूपानादित्वरूपा ॥ सिद्धेति ॥ सिद्धार्थेत्यर्थः । अत एव उक्तव्यवस्थाया-व्यवच्छेद्यत्वादेव । सत इत्यनेनैवेति ॥ सत्वं स्वातन्त्र्यमुद्दिष्टमिति भारतोक्तेरिति भावः । तेनैव सच्छब्देन गतिर् अस्वतन्त्ररूपोपाधिर् एतदेवाह ॥ गगनेति ॥ कथं प्राणः सदिति प्रश्नोत्तरमाह ॥ महत्वादिति ॥ स्मृतिं चाहेति । हे देव त्वं कविः सर्वज्ञोऽजश्च तथापि भवान् शक्त्यां भार्यायां, गुणानां कर्मणाम् अदृष्टानां, योनौ हेतावजायां प्रकृतौ रेतोगर्भम् आदधे स्थापितवान् । ततस्तस्याः प्रकृतेः सत्प्रमुखा वायुप्रधाना वयं यदर्थे यत् प्रयोजनाय बभूविम ते तव किं करवामेत्यर्थः ॥ उपचयेति ॥ उत्तरोत्तरमुपचयोधिक इत्यर्थः । विशेषितत्वं विशिष्टित्वं विकारवद्देह सम्बन्ध एव तस्य न स्वतो विकार इति भावः । कारणत्वाद् उपादानत्वात् ॥ तद्धर्मादेरिति ॥ अतो नाविकार इत्यनेन पुनरुक्तमिति भावः । भगवदभिन्नत्वानुवादप्रतीतिनिरासायाह ॥ एकैवेति ॥ तथात्वे इच्छाद्यभेदेनोक्तः स्यादिति भावः । अविभिन्नेत्यादेः प्रयोजनांतरमाह ॥ एतेनेति ॥

॥ इति असम्भवाधिकरणम् ॥