ॐ एतेन मातरिश्वा व्याख्यातः ॐ
२. अथ मातरिश्वाधिकरणम्
सूत्रभाष्यम्
‘अथ ह नित्याश्चानित्याश्च तेजोऽबन्नान्याकाश इति तान्यनित्यानि वायुर्वाव नित्यो वायुना हि सर्वाणि भूतानि नेनीयन्ते’ ‘अथ ह चेतनाश्चाचेतनाश्च तेजोऽबन्नान्याकाश इति तान्यचेतनानि वायुर्वाव चेतनो वायुना हि सर्वाणि भूतानि विज्ञायन्ते’ । ‘कुविदङ्ग नमसा ये वृधासः पुरा देवा अनवद्यास आसन् । ते वायवे मनवे बाधितायाऽऽवासयन्नुषसं सूर्येण’ (ऋ.सं. ७-९१-१) । ‘सा वा एषा देवताऽनादिर्योऽयं पवत’ इति । ‘यस्यानाऽदिर्न मध्यं नान्तो नोदयो न निम्लोच’ इत्यादिश्रुतिभ्यो वायोरनुत्पत्तिरित्यतो ब्रवीति–
॥ ॐ एतेन मातरिश्वा व्याख्यातः ॐ ॥ ८ ॥
एतेन मुख्यामुख्यानुत्पत्तिवचनेन विभक्तत्वाच्च वाय्वनुत्पत्तिश्रुतिरपि व्याख्याता ।
‘नित्यः परमनित्यश्च तथाऽनित्यः परस्तथा ।
चतुर्धैतज्जगत्सर्वं परानित्यं तु पार्थिवम् ।’
अनित्यानि तु भूतानि नित्यो वायुरुदाहृतः । परस्तु नित्यः पुरुषःप्रकृतिः काल एव च ।
‘एतच्चतुष्टयं विष्णुः स्वयं नित्यः परात्परः ।
प्रतिव्यूह्य व्यूह्य चासावतीत्य च जनार्दनः ।
धारयत्यनिशं देवो नित्यानन्दैकलक्षणः’ इति कौर्मे ॥
॥ इति मातरिश्वाधिकरणम् ॥
तत्त्वप्रदीपिका
तेजोऽबन्नान्याकाश इत्यत्र भूताकाशः । एतेन मातरिश्वा व्याख्यातः । परब्रह्मणि मुख्याऽनुत्पत्तिरुच्यते, अन्यत्रामुख्या, अत एवोत्पत्तिर्मुख्येत्येतेन कारणेनाल्पशक्तित्वहेतोर्विकारात्, अन्यथा सर्वसृष्टिप्रतिज्ञाहानेश्च वाय्वनुत्पत्तिश्रुतिरप्यल्पभागविषयत्वेन गौणीति व्याख्याता । उत्पत्तिश्रुतीनां बाहुल्यान्मुख्यार्थतोपपत्तेः । ‘आकाशाद्वायुः’ ‘खं वायुः’ ‘प्राणाद्वायुरजायत’ इत्यत्रापि भूतवायोरुत्पत्तिः ।प्रधानवायोर्देहोत्पत्तावप्यनुत्पत्तिश्रुतिर्ज्ञानानुत्पत्त्या युक्तिमती । भूतनेतृत्वेन च नित्यत्वोपपत्तिः । सर्वज्ञत्वेन च मुख्यचेतनत्वोपपत्तिश्च । अनित्यानि तु भूतानीति पञ्चभूतानि । नित्यो वायुःप्रधानः । एतच्चतुष्टयं विष्णुर् धारयति । तत्र कानिचिद्व्यूह्य कानिचित्प््रातीपतया व्यूह्य स्वरूपेण चानन्तबलेन तत्सर्वमतिशय्य । अथवा केषुचिन्निजरूपाणि व्यूह्य तत्प््रातिकूलकर्तृतयाऽन्येषु रूपान्तराणिप्रतिव्यूह्य स्वशक्त्या च तान्यतीत्य । अथवाप्रतिबिम्बभूताञ्जीवान्प््रातिप्रति निजरूपं व्यूह्य जीवेषु च व्यूह्य गुणैस्तानतीत्य ।
तत्त्वप्रकाशिका
अत्रेश्वरे वेदसमन्वयसिद्धये मुख्यवायूत्पत्तिविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । सर्वोत्पादको हरिरित्यभिहितम् । तत्र मुख्यवायोरुत्पत्त्यभावे तदयुक्तं स्यादिति तदुत्पत्तिः समर्थनीया । मुख्यवायुर्विषयः । उत्पत्तिमान्न वेति सन्देहः । तासां वायुर्वत्सः ‘सा वा एषा देवतानाऽदिर्योऽयं पवत’ इति श्रुतिविगानं सन्देहबीजम् । सयुक्तिकं पूर्वपक्षयति ॥ अथेति ॥ वायोरनुत्पत्तिरेव । ‘वायुर्वाव नित्यः सा वा एषा देवताऽनादिः’ इत्यादिश्रुतेः । न चाकाशानुत्पत्तिश्रुतिवद् गौणार्थत्वम् । तथा सत्याकाशादिवन्मुख्यवायोरुत्पत्त्यनुत्पत्तिमत्त्वे तेजोऽबन्नाकाशानामनित्यत्वमुक्त्वा वायोर्नित्यत्वोक्तिरयुक्ता स्यात् । न चाकाशपदेन भूतमेवोच्यत इत्यत्र नियामकमस्ति । किं च वायोरनुत्पत्तिर्गौणीति स्वरूपमात्रविषयेति वक्तव्यम् । तथा सति तस्य सर्वचेतनसाम्येनातिशयितचेतनत्वमयुक्तं स्यात् । सर्वदेवतोपास्यता च नोत्पत्तिमत्त्वे घटते । तस्योदयनिम्लोचाभावे च कुतो जन्मसम्भवः । एवंविधस्य चोत्पत्त्यङ्गीकारेऽनुभवव्याकोपः स्यात् । अतोऽत्यन्तमनुभूतियुक्तिबहुवाग्विरोधेन वायोरुत्पत्त्ययोगादुत्पत्तिश्रुतिरप्रमाणमेवेति न जगत्कारणे ब्रह्मणि श्रुतिसमन्वयो युक्त इति भावः ।
एवमभ्यधिकाशङ्कया पूर्वपक्षितेऽतिदेशेन सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ मुख्यवायुरप्युत्पत्तिमानेव । अनुत्पन्नत्वेनाश्रुतत्वात् । ‘प्राणाद्वायुरजायत’ इत्यादावुत्पन्नत्वेन श्रुतत्वाच्च । न चोदाहृतश्रुतिविरोधः । तस्याः स्वरूपविषयत्वेनाकाशानुत्पत्तिश्रुतिव्याख्यानेनैव व्याख्यातत्वात् । उत्पत्ति श्रुतेः पुनः शरीरविषयत्वाद् व्यवस्थोपपत्तेः । न चैवं व्यवस्थाभ्युपगमे कारणाभावः । अथैतान्युत्पत्तिमन्ति चानुत्पत्तिमन्ति च प्राणः श्रद्धाकाश इति भागशो ह्युत्पद्यन्त इति वायोर्मुख्यामुख्योत्पत्त्यनुत्पत्त्यभिधायकवचनात् । अनुत्पत्तिश्रुतिर्ब्रह्मण्येव मुख्यान्यत्रामुख्येत्यस्य स्याच्चैकस्येत्यादिना कथितत्वाच्च । विभक्तशक्तित्वाच्च । वायोर्मुख्यानुत्पत्त्यनुपपत्तेः । किं च वायोरनुत्पत्तिं वदन्प्रष्टव्यो जायते । किं वायुरेवानादिरीशोऽपि वा । नाद्यः ।प्रमाणविरोधेन वायोरेवानुत्पत्त्यनुपपत्तेः । न द्वितीयः । द्वयोरपि स्वातन्त्र्यापातात् । पराधीनविशेषलाभो ह्युत्पत्तिः । न च स्वातन्त्र्यं द्वयोर्युक्तम् । अन्योऽन्यानुरोधाननुरोधयोर्विरोधात् । अतो वायोर्मुख्यानुत्पत्तौ बाधकसद्भावाद्युक्तैवोक्तव्यवस्थेति भावः ।
वायोर्मुख्यानुत्पत्त्यभावे वियदादिभ्य उत्पत्त्यनुत्पत्तिमभ्द्यो विशेषेणानुत्पत्तिश्रुतिर्मुख्य-चेतनत्वादियुक्तिश्च विरुणद्धीत्याशङ्कां परिहर्तुं स्मृतिमुदाहरति ॥ नित्य इति ॥ परः परानित्य एतव्द्यूह्य स्वात्मानं च तत्रप्रतिव्यूह्य स्वगुणैस्तदतिक्रम्य धारयतीत्यर्थः । तत्र वायोः परात्परनित्यत्वं स्वातन्त्र्यलक्षणं परनित्यत्वं देहादेरपि नित्यत्वं च नास्त्येव । तथापि सम्यगनित्यताशून्येभ्यो नित्येभ्यो वियदादिभ्यः स्वरूपातिरिक्तज्ञाननित्यत्वाभिप्रायेणातिशयेन नित्यतोच्येते । अतः श्रुत्यविरोधेन वायोरुत्पत्तिसिद्धेर्युक्तो ब्रह्मणि श्रुतिसमन्वय इति सिद्धम् । नन्वत्राकाशानन्तरं भूतवायोः प्राप्तिर्न मुख्यस्येति । मैवम् । वायुशब्देन खलु भूतं तदमुख्यमुख्याभिमानिनौ चोच्येते । तत्र मुख्यवायुविषय एव विवादप्राप्तेः । न हि भूतादिविषये श्रुतिविरोधोऽस्ति । तैत्तिरीय-श्रुतावाकाशाद्वायुरिति श्रूयते । छन्दोग श्रुतौ तु तेजः पूर्वैव सृष्टिरिति चेन्मैवम् । उक्त्यनुक्त्यो-र्विरोधाभावात् । किं च नित्यविभुवियदुत्पत्तौ निर्णीतायां वायुभूतविषये शङ्कासाम्यस्याप्य-भावेनाधिकाशङ्का प्रागेव नास्तीत्युक्त एव सूत्रार्थ इति ।
गुर्वर्थदीपिका
वायोरनुत्पत्तिर्गौणीत्यत्र पूर्वसूत्रबलाद्विष्णोरन्यत्रानुत्पत्तिर्गौणीति हेतोस् तस्य वायोरनुत्पत्तिरपि स्वरूपमात्रविषया न तु बाह्यदेहरहितस्वरूपविषया । तथा सति भागश उत्पद्यन्त इत्युक्तभाक्तत्वा-योगादिति भावः । तस्योदयनिम्लोचाभाव इत्यत्र कदाचिदुदयः कदाचिदस्तमय इति द्विविधधर्मा-भावेन सदोदितत्वे सतीत्यर्थः । जन्मपदेन चाजहत्स्वार्थलक्षणया प्रागुक्तादिमध्यान्ता गृह्यन्ते । एवं च ‘नादिर्न मध्यं नान्त’ इति पूर्वोक्तार्थत्रयमुत्तरवाक्येन विव्रियत इति भावः । ‘वाय्वनुत्पत्तिश्रुतिः’ इति भाष्येण सूत्रे विषयपदेन विषयिण उपलक्षणमिति सूचितम् । अन्योन्यानुरोधाननुरोधयो-रित्यत्रान्योन्यानुरोधे उभयोरस्वातन्त्र्याख्यविरोधप्रसङ्गः । अननुरोधे उभयोः स्वतन्त्रतया परस्पर-कलहे सति जगत्सृष्ट्याद्यभावप्रसङ्ग इत्यर्थः । अनित्यानि तु भूतानीत्यत्र भूतपदेनाजहत्स्वार्थ-लक्षणयाऽहङ्कारादीनि तत्त्वानि तदभिमानिदेवाश्च गृह्यन्ते । अन्यथा जडमात्रनित्यताया इदानीन्तनज्ञानमादाय चेतनमात्रे सम्भवाद्वायोरेव नित्यत्वकथनमसङ्गतं स्यात् । तत्र देवानां स्वरूपेण नित्यत्वं देहस्य च ज्ञानस्य चप्रलये नष्टत्वादनित्यत्वम् । जडानां तु सूक्ष्मरूपेण नित्यत्वं स्थूलरूपेणानित्यत्वम् । नित्यानित्ययोर्नित्यपदवाच्येभ्य एतेभ्यो वायोरतिशयेन नित्यत्वम् । अन्यथा जडमात्रनित्यताया बाह्यज्ञाननित्यत्वमादायेति स्मृतेस्तात्पर्यम् । परस्तु नित्यः पुरुष इत्यत्र पुरुषपदेन सकलजीवचैतन्यमुच्यते ।प्रकृतिपदेनाविकृतप्रकृतिस्वरूपं तदभिमानिनी लक्ष्मीश्च गृह्यते । कालपदेन कालप्रवाहस्तदभिमानिनी लक्ष्मीश्च गृह्यत इत्यर्थः । तत्र चेतनस्यप्रकृतिकालपदवाच्य-लक्ष्म्याश्च स्वरूपतश्चिन्मयदेहतश्च नित्यत्वात्परनित्यत्वम् । जडयोरविकृतप्रकृतिस्वरूपकालप्रवाहयोः कदाऽपि विकाराभावात्परनित्यत्वमिति ज्ञेयम् । अत एव परनित्यत्वं देहादेरपि नित्यत्वमित्युक्तम् । उक्त्यनुक्त्योरित्यत्र तेजःप्रभृतिसृष्टिप्रतिपादकश्रुतावाकाशवाय्वोरनुक्तिरित्यर्थः ।
भावबोधः
मुख्यवायूत्पत्तिविषयेति ॥ अत्र ‘आकाशाद्वायुः’ इति श्रुतौ भूतवायुमुख्याभिमानि-मुख्यवायोरपि वायुशब्देनप्रतिपादनेन श्रुतिक्रमात् पूर्वोक्तसिद्धान्तन्यायातिदेशाद् वानन्तर-सङ्गतिरिति भावः ॥ उत्पत्तिमान्न वेति ॥ अत्र मुख्यवायुरनुत्पत्तिमानुतोत्पत्तिमानिति चिन्ता । तदर्थमुत्पत्तिश्रुतिर्बहुवाग्युक्त्यनुभवविरुद्धा भवत्युत न भवतीति । तदर्थमनुत्पत्तिश्रुत्यादेः सावकाशत्वं नास्त्युतास्तीति । तदर्थं श्रुत्यादेः सावकाशत्वप्रापकं नास्त्युतास्तीति । तदर्थं सावकाशत्वप्रापिका वायोर्मुख्यानुत्पत्त्यनुपपत्तिर्न सम्भवत्युत सम्भवतीति । तदर्थं तस्योत्पत्त्यङ्गीकार उत्पत्त्यनुत्पत्ति-मद्भ्यो वियदादिभ्यो वायोर्विशिष्य नित्यत्वोक्तिर्न घटते उत घटत इति । तदर्थं वायोर्विशिष्य नित्यत्वोक्तिः पराधीनविशेषलाभाभावरूपस्वातन्त्र्यलक्षणनित्यत्वेन वा स्वरूपातिरिक्तमनोवृत्ति-ज्ञानमात्रनित्यत्वेन वेति । तदर्थं तत्रप्रमाणं नास्त्युतास्तीति । इत्यादि श्रुतेरित्यनेन न्यायविवरणोक्तबहुवाग्विरोधो दर्शितो भवति । वायोर्नित्यत्वोक्तिरयुक्तेत्यनेन अभ्यधिकाशङ्का-प्रदर्शनाय ततोऽधिकमिति न्यायविवरणोक्तं वियदनुत्पत्तिश्रुतिभ्यो वाय्वनुत्पत्तिश्रुतीनामाधिक्यमुक्तं भवति ।
ननु भाष्योदाहृतश्रुतीनामाकाशादिपदैर्भूतान्येवोच्यन्ते । तेभ्यश्च मुख्यवायोः स्वरूपनित्यत्वमेव विशेष इति नेत्यह– न चात्र आकाशपदेनेति ॥ न्यायविवरणे अनुभूत्यादीत्यादि पदोक्तयुक्ति-प्रदर्शनपरतया भाष्योदाहृतश्रुतीर्व्याचष्टे– किं चेत्यादिना ॥ बहुयुक्तिकथनेन न्यायविवरणोक्तयुक्ते-राधिक्यमुक्तं भवति । नन्वनुभवायोग्यवायूत्पत्तौ कथं न्यायविवरणे तद्विरोध उक्त इत्यत-स्तमुपपादयति– एवंविधस्येति ॥ नित्यत्वव्याप्तोक्तबहुहेतुमत उत्पत्तिरनुभवबाधितेत्यर्थः । सौत्रेणैतेनेत्यनेन पूर्वाधिकरणोक्तः सर्वोऽपि हेतुर्विवक्षित इत्याशयवानाह– अनुत्पन्नत्वेन अश्रुतत्वादित्यादिना ॥ भाष्ये मुख्यामुख्येत्यनन्तरमुत्पत्तीत्यध्याहृत्य तद्भाष्यं व्याचष्टे– अनुत्पत्तिश्रुतिरपीति ॥ भाष्योक्तहेतूनां साध्यप्रदर्शनपरतया वायोरेवानुत्पत्त्यनुपपत्तेरित्यादिना । सर्वैश्वर्यमित्यन्तं न्यायविवरणं योजयितुं विकल्पेन पृच्छति– किं चेत्यादिना ॥ आद्यपक्षदूषणत्वेन अवधारणसहितन्यायविवरणमनुवदति ॥ वायोरेवेति ॥ द्वितीयपक्षदूषणत्वेन पराधीनविशेषवत्त्वं ह्युत्पत्तिस्तदभाव उभयोः स्वातन्त्र्यं विरुद्धमेवेति न्यायविवरणमाकाङ्क्षाक्रमेण योजयति । द्वयोरपीत्यादिना ॥ द्वयोर्युक्तमिति ॥ सर्वोत्तमत्वानुपपत्तेरिति भावः । कथं सर्वोत्तमत्वानुपपत्ति-रित्यतस्तदुपपादनपरमुभयोरपि पराधीनत्वप्राप्तेश्चान्योन्यानुरोधेऽननुरोधे तु न सर्वैश्वर्यमिति न्यायविवरणं तात्पर्यतो व्याचष्टे– अन्योन्यानुरोधाननुरोधयोरिति ॥ मुख्यानुत्पत्तौ बाधक-सद्भावादिति ॥ अनेनानुपपत्तिस्तु तत्प््र•पिकेति न्यायविवरणमुक्ततात्पर्यकं भवति । स्मृतौ पर इत्यस्य श्रूयमाणानित्यपदेनैवान्वये त्रैविध्यप्राप्त्या चतुर्धेत्यनुपपन्नम् । द्वितीयस्तथाशब्दोऽप्यनुपपन्नः । ‘अनित्यानीह भूतानि’ इत्येतच्चायुक्तं स्यादित्यतोऽनित्य इति पदानुवृत्त्याह– परः परानित्य इति ॥ कथमनेन स्मृतिवचनेन श्रुतियुक्तिविरोधपरिहार इत्यत आह– तत्रेति ॥ स्वरूपातिरिक्त-ज्ञाननित्यत्वाभिप्रायेणेति ॥ अनेन ज्ञानाविस्मृत्या वायावपि व्यवस्थेत्यतिदेश इति न्यायविवरण-मुक्ततात्पर्यकं भवति । अतिशयेन नित्यतोच्यत इत्युपलक्षणम् । अतिशयितचेतनत्वं सर्वदेवो-पास्यत्वं, वृत्तिज्ञानप्रवाहोदयनिम्लोचनाभावेन तस्योदयनिम्लोचनाभावश्चोच्यत इति न युक्तिविरोधोऽपीति ग्राह्यम् ।
भावदीपः
वेदसमन्वयसिद्धय इति ॥ विरोधापरिहारे वायूत्पत्तिश्रुतेरनुत्पत्तिश्रुतिविरोधेनाप्रामाण्येऽ-न्यत्राप्यनाश्वासेन समन्वयो न सिध्येदिति भावः ॥ मुख्यवाय्विति ॥ मुख्यवायूत्पत्तिविषये यः सा वा एषा देवताऽनादिरित्यादिश्रुतिविरोधस्तस्य परिहारादित्यर्थः । भूतवायूत्पत्तिविषये आकाशाद्वायुरित्युत्पत्तिश्रुतिवदनुत्पत्तिश्रुत्यभावे विरोधशङ्काया एवानुदयादुदये वा पूर्वन्यायेन सुपरिहरत्वादेतेनेति सौत्रातिदेशोपयुक्ताभ्यधिकाशङ्काया भूतवायौ सुतरामभावाद् भूतवायु-मुख्याभिमानिनि मुख्यवायावेव वक्ष्यमाणदिशा तदुभयसम्भवादिति भावः । पूर्वसङ्गतिमाह ॥ सर्वेति ॥ एवमग्रेऽपि । भाष्येऽनुक्तेश् छान्दोग्यतृतीयाध्यायस्थां श्रुतिं स्वयमाह ॥ तासामिति ॥ तस्य प्राची दिग्जुहूः’ इत्यादिपूर्ववाक्योक्तचतुर्दिगवस्थितदिङ्नामकभगवद्बाहूनां वत्स इति भगवद्बाहुजातत्वमुच्यते । यद्यप्यत्राकाशाद्वायुरित्येव जन्मश्रुतिर्वाच्या तत्र वायुशब्दस्य भूत-तदमुख्यमुख्याभिमानिरूपत्रितयपरत्वस्योपरि व्यक्तत्वात् । प्राणस्योपरि वक्ष्यत इति पूर्वत्रोक्तत्वेनै-तदेवोदाहृत्य वायुजन्मश्रुतेस्त्रिभिरपि भागैर्वायूत्पत्तिपरत्वस्य वर्णनीयत्वात् । तथाप्यस्य पूर्वोक्तदिशा व्यक्तत्वादत्र केवलमुख्यवायोरेव विशेषशङ्कया चिन्ता नान्यस्येति सूचनाय केवलमुख्यवायुजन्म-परश्रुतिरेवोक्ता । भाष्यस्थप्रतिज्ञांशमाकाशादाविव गौणमुख्यापेक्षयोत्पत्त्यनुत्पत्तिमत्त्वनिरासाय सावधारणं व्याचष्टे ॥ वायोरनुत्पत्तिरेवेति ॥ भाष्योक्त श्रुतिमाह ॥ वायुरिति ॥ भाष्ये बहुवचनोक्तावपि श्रुतेरित्येकवचनोक्तिरितरश्रुतीनामनुत्पत्तावतिशयितचेतनत्वसर्वदेवोपास्यत्वोदयाद्य-भावरूपयुक्तिसूचनपरत्वाशयया । एतेन ततोऽधिकमेतत्सर्वमनुभूत्यादिविरुद्धत्वं वायूत्पत्ताविति न्यायविवरणस्थादिपदोक्तबहुवाग्विरोधो विवृतः । पूर्वेण गतार्थत्वं शङ्कते ॥ न चेति ॥ गौणार्थ-त्वमिति ॥ अभिमानिचैतन्यस्वरूपरूपभागपरत्वाख्यं गौणार्थत्वमित्यर्थः । अतिदेशत्वसिद्धये भाष्योक्तमभ्यधिकाशङ्काचतुष्टयं विवृण्वानोऽथ ह नित्याश्चेति श्रुत्युक्तमाह ॥ तथा सतीति ॥
ननु तत्त्वप्रदीपे तेजोऽबन्नान्याकाश इति श्रुतौ भूताकाश इत्युक्तत्वात्ततो मुख्यवायोः स्वरूपनित्यत्वमेव विशेष इत्यतो नेत्याह ॥ न चाकाशपदेनेति ॥ अत्र तेजोऽबन्नान्याकाश इति श्रुतौ । किं त्वंव्याकृताकाशस्याप्यस्ति ग्रह इति भावः । अथ ह चेतनाश्चेति श्रुत्युक्तशङ्कामाह ॥ किं चेति ॥ कुविदंगेति श्रुत्युक्तामाह ॥ सर्वदेवेति ॥ ते जन्मादिदोषित्वे तदयोगादिति भावः । मन्त्रार्थः शब्दादेवेत्यत्र उक्तः । यस्येति वाक्योक्तामाह ॥ तस्येति ॥ एवं न्यायविवरण-स्थादिपदोपात्त श्रुतियुक्तिविरोधं भाष्योक्तश्रुतितात्पर्यविवरणेन विवृत्य युक्तीनां विपक्षे बाधकत्वेन तत्रोक्तानुभवविरोधमपि योजयति ॥ एवं विधस्येति ॥ नित्यत्वव्याप्तोक्तबहुहेतुमत इत्यर्थः । उक्तं सर्वं न्यायविवरणारूढं कुर्वन्नुपसंहरति ॥ अत इति ॥ उक्तानेकश्रुतेर्भावादित्यर्थः । तत्रत्याधिकशब्दार्थोऽत्यन्तमिति । आकाशादेरनित्यत्वमुक्त्वा वायोर्नित्यत्वाद्युक्तिराकाशा-दधिकेत्यर्थः । उत्पत्तिश्रुतिस् तासां वायुर्वत्स इति श्रुतिः । भाष्ये सौत्रैतच्छब्देन शब्दाच्च यावद्विकारमिति च सूत्रद्वयोक्तश्रुतियुक्तिपरामर्शित्वप्रतीतावपि सौत्रमातरिश्वपदस्य तदुत्पत्त्यनु-त्पत्तिश्रुतिलक्षणां विनैव मातरिश्वा मुख्यवायुरुत्पत्तिमान्व्याख्यात इति यथाश्रुतयोजनायाम-श्रुतेरित्यादिहेतवोऽप्यन्वीयन्त इति मत्त्वा विभक्तत्वाच्चेति भाष्यस्थ चशब्दानुसारात्सर्वोऽपि प्राचीनहेतुरेतेनेत्यनेन विवक्षित इति भावेनाह ॥ अनुत्पन्नत्वेनेति ॥ पराधीनविशेषावाप्ति-रूपोत्पत्तिमत्त्वाभावेनाश्रुतत्वादित्यर्थः । उत्पन्नत्वेनेत्यत्राप्येवं ध्येयम् । अस्ति त्वित्युक्तमाह ॥ श्रुतत्वाच्चेति ॥ इत्यादावित्यादिपदेन वायुपदोपेतोत्पत्तिवाक्यानामेवात्र ग्रहः । न तु स प्राण-मसृजत’ इत्यादिप्राणपदोपेतस्य तस्याध्यात्मविषयत्वात् । एतेनासम्भवात् शब्देभ्य इति सूत्रद्वयोक्तहेतुरप्युक्तो भवति । वाय्वनुत्पत्तीति भाष्यवाक्यमवतार्य व्याचष्टे ॥ न चोदाहृतेति ॥ वायुर्वाव नित्य इत्यादिश्रुतीत्यर्थः ॥ स्वरूपेति ॥ अभिमानिस्वरूपेत्यर्थः । अपि शब्दार्थव्यक्तिराकाशानुत्पत्तीति । भाष्येऽनुत्पत्तिश्रुतिरित्युपलक्षणं मत्त्वाह ॥ उत्पत्तिश्रुतेरिति ॥ मुख्यामुख्येत्यादिभाष्यमवतार्य व्याचष्टे ॥ न चैवमिति ॥ भाष्येऽनुत्पत्त्युक्तिमुपलक्षणं मत्त्वाऽऽह ॥ उत्पत्त्यनुत्पत्त्यभिधायकेति ॥ कैश्चिद्भागैर्नोत्पद्यन्त इत्यस्योपलक्षकत्वेन श्रुतेः पूर्वं व्याख्या-नादिति भावः ॥ वचनादिति ॥ तृतीयापञ्चम्योर्हेतुरूपैकार्थत्वाद्वचनेनेत्यस्य वचनादित्यर्थ उक्तः । स्याच्चैकस्येतिसूत्रोक्तं च हेतुमाह ॥ अनुत्पत्तीति ॥ अनेन भाष्यस्य ब्रह्मतदन्ययोर्मुख्या-मुख्यानुत्पत्तिवचनेनेत्यर्थान्तरं दर्शितम् । विभक्तत्वाच्चेति भाष्योक्तहेतोर्वायोरेवानुत्पत्त्यनुपपत्तेरिति न्यायविवरणोक्तं साक्षात्साध्यं भाष्ये पूरयति ॥ वायोरिति ॥ पराधीनविशेषावाप्त्यभावरूपा-नुत्पत्त्यनुपपत्तेरित्यर्थः । नन्वस्तूक्तश्रुतियुक्त्यनुभवबलाद्वायोरुक्तरूपानुत्पत्तिस् तथा चाल्पशक्तित्व-रूपविभक्तशक्तित्वाच्चेत्युक्तहेतुर्विपक्षे बाधकाभावेनाप्रयोजक इत्याशङ्क्य वायोरेवानुत्पत्त्यनुपपत्ते-रित्यादिवाक्यमत्र योजयितुमाह ॥ किञ्चेति ॥प्रमाणेति ॥प्रतिज्ञाहान्यादिसूत्रे भाष्योक्तप्रमाणविरोधेनेत्यर्थः । पराधीनविशेषमात्रं ह्युत्पत्तिः । तदभावे उभयोः स्वातन्त्र्यं विरुद्धमेव । सर्वोत्तमत्वानुपपत्तेरिति न्यायविवरणार्थमाह ॥ द्वयोरपीति ॥ कुतो न युक्तमित्यत उभयोरपि पराधीनत्वप्राप्तेश्चान्योऽन्यानुरोधे अननुरोधे तु न सर्वैश्वर्यमिति न्यायविवरणोक्तयुक्तिं सङ्गृह्णाति ॥ अन्योन्येति ॥ अत इति ॥ द्वयोः स्वातन्त्र्यायोगादित्यर्थः ॥ अनुत्पत्तिश्रुतिरिति ॥ वायुर्वावनित्य इति श्रुतिरित्यर्थः । पर इत्यनुवादः परानित्य इति व्याख्या । तत्र जगति ।प्रतिव्यूह्यप्रतिव्यूहशः कृत्वा । कथं स्मृत्युक्त्योक्तशङ्कानिरास इत्यतः ज्ञानाविस्मृत्या वायावपि व्यवस्थे-त्यतिदेश इति न्यायविवरणानुरोधेन भावमाह ॥ तत्र वायोरिति ॥ नित्यतेति ॥ नित्यत्वमुख्यचेतनत्वादिकमुच्यत इत्यर्थः । भाष्ये स्मृत्या एतच्छङ्कानिवृत्युक्तावपि न्यायविवरणेऽ-नुपपत्तिस्तु तत्प््र•पिकेति विशिष्य नित्यत्वचेतनत्वाद्युक्त्यन्यथानुपपत्त्यैवैतच्छङ्कानिरास उक्तः ॥ अत इति ॥ वायावपि व्यवस्थासम्भवादित्यर्थः । परकीयसूत्रप्रमेयं स्वमते असाङ्गत्यं च व्युदसितुमाह ॥ नन्वत्रेति ॥ मायावाद्युक्तं शङ्कते ॥ तैत्तिरीयेति ॥ छन्दोगेति ॥ ‘तदैक्षत बहु स्यांप्रजायेय’ इति । तत्तेजोऽसृजत’ इति तेजसःप्रथमं सृष्टिरित्यर्थः ॥ विरोधाभावादिति ॥ छान्दोग्ये क्रमानुक्तावपि तैत्तिरीयोक्तस्य स इदं सर्वमसृजत’ इत्यादिवद्ग्राह्यत्वात् । श्रुत्यन्तरोक्तोपसंहारस्य च सर्ववेदान्त-नयसिद्धत्वादिति भावः । ननु आकाश इव भूतवायावनुत्पत्तिशङ्कायां तन्निरास-स्त्वावश्यक इत्यस्त्विदं भूतवायुपरमित्यत आह ॥ किञ्चेति ॥ अधिकेति ॥ यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयादिति भावः ।
अभिनवचन्द्रिका
तथा सतीति ॥ यद्यपि आकाशस्यैवोत्पत्त्यनुत्पत्तिमत्त्वम्, तथापि छत्रिन्यानेनाकाशादिवदिति उक्तम् । एवमुत्तरत्रापि द्रष्टव्यम् । अनुत्पत्तिश्रुतेर्गौणार्थत्वे आकाशवन् मुख्यवायोरुत्पत्त्यनुत्पत्तिमत्त्वं स्यात् । तस्मिंश्च सति तेजोऽबन्नादिष्वाकाशं निक्षिप्याऽनित्यत्वमुक्त्वा वायोर्नित्यत्वोक्तिरयुक्ता स्यात् । वाय्वाकाशयोर्नित्यानित्यत्वे वैषम्येणोक्तेः कारणाभावादिति भावः । ननु नित्या-नित्यात्मकस्याऽव्याकृताकाशस्य न तेजोऽबन्नाद्यनित्यवर्गे निवेशः । यस्य तु भूताकाशस्य निवेशः नासौ नित्यानित्यः । ततश्च नित्यानित्यस्यापि वायोर्नित्यत्वोक्तिर्नानुपपन्नेत्यत आह– न चाकाशपदेनेति ॥ भूतमेवात्रेत्यतः परं ‘विवक्षितम्’ इति शेषः । इतिशब्दात्परं ‘अत्र’ इति शेषः । भाष्ये ‘अथ ह चेतनाश्चाचेतनाश्च’ इत्यादि श्रुत्युदाहरणमयुक्तम्, अनुत्पत्ति-प्रतिपादकत्वाभावादित्यतस्तदभिप्रायमाह – किञ्चेत्यादिना ॥ वायोरनुत्पत्तिर् अनुत्पत्तिप्रतिपादिका श्रुतिः । न्यायविवरणाभिप्रेतमुत्पत्तिपक्षेऽनुभवविरोधमाह – एवंविधस्य चेति ॥ नित्यत्व-व्याप्तोक्तानेकहेतुमतोऽपि उत्पत्तिमत्त्वेऽनुभवव्याकोपः स्यात् । यद् यत्साधकहेतुमत् तत् तद्वद् इत्यनुभवादित्यर्थः ॥ अनुत्पन्नत्वेनाश्रुतत्वादिति ॥ नन्वसिद्धोऽयं हेतुः ‘सा वा एषा देवताऽनादिर् योऽयं पवते, यस्य नादिर्न मध्यं नान्तः’ इत्यादिना अनुत्पत्तेः श्रुतत्वादिति चेत्, न । श्रूयमाणापि श्रुतिर्नार्थसाधिका गौणत्वादिति भावेन तथोक्तत्वात् । अत एव ‘आकाशानुत्पत्तिश्रुतिव्याख्यानेनैव व्याख्यातत्वात्’ इत्यनेन स्वाभिप्रायमुत्तरत्र व्यक्तीकरिष्यति । अन्योन्यानुरोधाननुरोधयोरिति ॥ अनुरोधे पराधीनविशेषप्राप्त्या स्वातन्त्र्यहानिः । अननुरोधे तु परस्परप्रतिरोधेन कार्यासिद्ध्या कर्तुमकर्तुमन्यथाकर्तुं शक्तत्वाख्यसर्वैश्वर्यहानिरिति भावः । भाष्ये ‘परस्तु नित्यः पुरुषः प्रकृतिः काल एव च’ इति ॥ पुरुषपदेन जीवचैतन्यं, प्रकृतिपदेन महालक्ष्मीः, कालपदेन श्रीभूदुर्गा उच्यन्ते ।
ननु वायोर्मुख्यनित्यत्वाभावे विशेषेणानुत्पत्तिश्रुतिर् मुख्यचेतनत्वाद्युक्तिश्च विरुणद्धीत्याशङ्का न परिहृतेत्यत आह– तत्र वायोरिति ॥ उच्यत इत्यत परम् ‘इति भावः’ इति शेषः । तत्रेत्यस्य उच्यत इत्यनेन सम्बन्धः । यद्यपि पूर्वपक्षिणा शङ्कितं परात्परनित्यत्वं परनित्यत्वं च नास्त्येव, तथापि सम्यगनित्यताशून्येभ्योऽनित्येभ्य उत्पत्त्यनुत्पत्तिमद्भ्य इति यावद् एतादृशेभ्यो वियदादिभ्यः स्वरूपातिरिक्तज्ञाननित्यत्वाभिप्रायेण अतिशयेन नित्यता । तत्र ‘अथ ह नित्याश्चानित्याश्च’ इति श्रुतौ ‘वायुर्वाव नित्य’ इत्यनेनोच्यते । उपलक्षणमेतत् । ‘अथ ह चेतनाश्चाचेतनाश्च’ इत्यादि श्रुतौ ज्ञाननित्यत्वाभिप्रायेणैव मुख्यचेतनत्वादिकमुच्यत इति भाव इत्यर्थः ॥ अमुख्यस्येतीति ॥ भूतवायुविषयतयेदं सूत्रं योजनीयमिति शेषः ॥ वायुशब्देन खल्विति ॥ यद्यपि वायुवाचकेनान्यत्र भूतादित्रयमुच्यत इति भूतस्य प्रतिपाद्यत्वप्रसक्तिरस्ति, तथापि न भूतपरंतया सूत्रं योजनीयम् । तत्र विवादाभावात् । मुख्यवायावेव विवादसद्भावादिति भावः ।
पूर्वपक्षस्तु – न विष्णोर्जगत्कारणत्वं युक्तम् । ‘वायुर्वाव नित्यः, सा वा एषा देवताऽनादिर्योऽयं पवत’ इत्यादिश्रुतेर्वायोरुत्पत्त्यभावेन तत्कारणत्वाभावात् । न च आकाशानुत्पत्तिश्रुतिवद् इयं श्रुतिर् गौणीति वाच्यम् । ‘अथ ह नित्याश्चानित्याश्च । तेजोऽबन्नान्याकाश इति तान्यनित्यानि वायुर्वाव नित्यो वायुना हि सर्वाणि भूतानि नेनीयन्ते’ इति श्रुत्या आकाशस्यानित्यत्वमुक्त्वा, वायोर्नित्यत्वोक्तेः । अन्यथा वायोर्विशिष्य नित्यत्वोक्तिरयुक्ता स्यात् । किं च यदि वायुरुत्पत्तिमान् स्यात् तदा सर्वापेक्षयाऽतिशयितचेतनत्वं सर्वदेवेपास्यत्वं च न स्यात् । ‘यस्य नादिर्न मध्यं नांतमित्यादिश्रुत्या अनादित्वमुक्त्वा उदयनिम्लोचाभावस्याप्युक्तेः । न चोदयनिम्लोचशून्यस्योत्पत्तिः सम्भावयितुं शक्या । साधकवतः साध्य(वत्ता)दर्शनेनानुत्पत्तिसाधकवतोऽप्युत्पत्तिमत्वाङ्गीकारेऽनुभवव्याकोपः स्यात्ः । अतः वायोरुत्पत्त्यभावेनोत्पत्तिश्रुतेरप्रामाण्यान् न श्रुतिसमन्वयेन विष्णोर्जगत्कारणत्वं युक्तमिति ।
सिद्धान्तस्तु – युक्तं विष्णोर्जगज्जन्मादिकारणत्वम् । वायोरप्युत्पत्तिमत्वात् । न च तत्र प्रमाणाभावः । ‘प्राणाद्वायुरजायत’ इत्युत्पत्तिश्रुतेः । न चाऽनुत्पत्तिश्रुतिविरोधः । तस्याः स्वरूपानुत्पत्तिपरत्वेन गौणत्वात् । ननु वायोर्मुख्यानुत्पत्तिमत्त्वाभावे आकाशस्यानित्यत्वमुक्त्वा वायोर्विशिष्यनित्यत्वोक्तिर् अतिशयेन चेतनत्वोक्तिः, देवोपास्यत्वोक्तिश्चाऽनुपपन्ना स्यादिति चेत्, न स्वरूपातिरिक्तज्ञाननित्यत्वाभिप्रायेणाऽतिशयनित्यत्वाद्युक्तिसंभवात् । अतः श्रुत्यविरोधेन वायोरुत्पत्तिसिद्धेर् युक्तं ब्रह्मणि श्रुतिसमन्वयेन जगत्कारणत्वमिति सिद्धम् ।
वाक्यार्थमुक्तावली
मुख्यवायूत्पत्तिविषयेति ॥ अत्राकाशाद्वायुरिति श्रुतौ मुख्यवायोरपि वायुशब्देनप्रतिपादन-श्रुतिक्रमात्पूर्वोक्तसिद्धान्तन्यायातिदेशाद्वाऽनन्तरसङ्गतिरिति भावः । मुख्यवायुग्रहणेनैव न भूतवायु-विषयमिदं सूत्रं तत्राधिकाशङ्काभावात् । अत एव नावान्तराभिमानिविषयं किं नाम तत्परमाभि-मानिविषयमेवेति सूचयति ॥ उत्त्पत्तिमानिति ॥ वायुरुत्पत्तिमानुतानुत्पत्तिमानिति । तदर्थं सा वा एषा देवता अनादिर्योऽयं पवत इति तदनादित्वश्रुतिर्मुख्या उत गौणीति । तदर्थं तस्या गौणत्वे तेजो बन्नानामनित्यत्वमुक्त्वा वायोर्नित्यत्वोक्तिर्न घटत उत घटत इति । तदर्थमनित्येभ्यस्तेजोऽ-बन्नेभ्यः वार्योर्विशेषः किं स्वातन्त्र्यादिरूपेण, परात्परनित्यत्वेन किं वा स्वरूपातिरिक्त-ज्ञाननित्यत्वमात्रेणेति । तासां वायुर्वत्स इति तस्य प्राची दिक् जुहुर्नामेति पूर्ववाक्येप्रकृतानां दिङ्नामकभगवद्बाहूनामित्यर्थः ॥ सयुक्तिकमिति ॥ अतिशयितनित्यत्वातिशयितचेतनत्व सर्वदेवोपास्यत्वोदयनिम्लोचाभावरूपयुक्तिपूर्वकं सा वा एषा देवताऽनादिरिति श्रुतिविरोधेन पूर्वपक्षयतीत्यर्थः । गौणार्थत्वमिति ॥ पराधीनविशेषलाभाभावरूपमुख्यमनादित्वं परित्यज्याभि-मानिचैतन्यरूपमुख्यानादित्वपरत्वेन गौणार्थत्वमित्यर्थः । कुत इत्यतोऽतिदेशत्वसिद्धये भाष्योक्तमभ्यधिकाशङ्काचतुष्टयं विवृणोति तथा सतीत्यादिना । अयुक्ता स्यादिति । विशेषाभावादिति भावः ।
ननु भाष्योदाहृतश्रुतावाकाशादिपदेन भूतान्येवोच्यन्ते । तेभ्यश्च मुख्यवायोः स्वरूपानित्यत्वमेव विशेष इत्यत आह ॥ न चाकाशपदेनेति ॥ अभिमानिदेवतानामपि तत्र ग्रहणसम्भवादिति भावः । अधिकमनुभूत्यादिविरुद्धत्वमिति न्यायविवरणे आदिशब्दोक्तं पूर्वपक्षहेतुं भाष्यारूढं कर्तुम् इत्यादि श्रुतिभ्य इति भाष्यं युक्तिघटितश्रुतिभ्य इति व्याख्याय उपलक्षणत्वेनानुभवविरोधमप्याह– एवं विधस्येति ॥ नित्यत्वव्याप्योक्तबहुहेतुमत उत्पत्तिरनुभवबाधितेत्यर्थः । सौत्रेणेतेनेत्यनेन पूर्वाधिकरणोक्तः सर्वोऽपि हेतुर्विवक्षित इत्याशयेन तद्विवरणपरं मुख्यामुख्येतिभाष्यं व्याचष्टे ॥ मुख्यवायुरित्यादिना । अमुख्यानुत्पत्तिवचनेनेत्यस्य मुख्यानुत्पत्तिवचनाभावेनेत्यर्थं मत्वाप्रथमसूत्रोक्तहेतुमतिदिशति । अनुत्पन्नत्वेनेति ॥ मुख्योत्पत्तिवचनेनेति बुध्या विवेकेन भाष्यान्वयं मत्वा द्वितीयसूत्रोक्तमतिदिशति ॥ प्राणादिति ॥ आकाशानुत्पत्तिश्रुत्युत्पत्तिश्रुत्यो-र्मुख्यामुख्योत्पत्यनुत्पत्तिपरत्वव्याख्यानेन वाय्वनुत्पत्तिश्रुतिरपि शब्दानुत्पत्तिश्रुतिश्च गौणीत्युक्त-व्यवस्थया व्याख्यातेति भाष्यार्थं मत्वा तृतीयसूत्रोक्तमतिदिशति ॥ तस्याः स्वरूपेति ॥ वायुचैतन्यस्य परात्परनित्यत्व व्यावृत्तगौणानादित्वपरत्वेनेत्यर्थः ॥ शरीरेति ॥ शरीराभिमान-निमित्तकपराधीनविशेषलाभरूपोप्तत्तिविषयत्वेनेत्यर्थः । शब्दाच्चेति ॥ चतुर्थसूत्रोक्तव्यवस्था-कारणातिदेशकत्वेन भाष्यं व्याचष्टे ॥ न चैवमित्यादिना ॥ एकस्यैवानुत्पत्तिमच्छब्दस्य मुख्यामुख्यानुत्पत्तिपरत्वं ब्रह्मशब्दवदिति । स्याच्चैकस्येत्यत्र वचनेनेति भाष्यार्थं मत्वा पञ्चमोक्तमतिदिशति ॥ अनुत्पत्तिश्रुतिरिति ।
अनुत्पत्तिश्रुतिर्ब्रह्मण्येव मुख्या । अन्यत्र तुप्रतिज्ञाहान्यादिबाधकादमुख्येति वचनेन वाय्वनुत्पत्तिश्रुतिरमुख्यार्था व्याख्यातेति भाष्यार्थं मत्वा षष्ठोक्तमतिदिशति ॥ इत्यादिना कथितत्वाच्चेति ॥ सप्तमोक्तमतिदेष्टुं विभक्तत्वाच्चेति भाष्यम् । चशब्दाद्विष्णोरविभक्तत्वाच्चेति लभ्यते । तथा चानुमानेन सोऽविकारः परो हरिः’ इत्यादिवचनेन च विरोधात् । वायो-र्मुख्यानुत्पत्युपत्तेः । वाय्वनुत्पत्तिश्रुतिः स्वरूपपरेति व्यवस्थया व्याख्यातेति मत्वा व्याचष्टे ॥ विभक्तत्वाच्चेति ॥ वायोरेवानुत्पत्यनुपपत्तेरित्यादिन्यायविवरणोक्तमनुपपत्तिरित्युक्त सिद्धान्तन्यायं विभक्तत्वाच्चेति चशब्दाभिप्रायेणाह ॥ किञ्चेत्यादिना ॥ द्वयोः स्वातन्त्र्यं कुत इत्यत आह ॥ पराधीनेति ॥ अतस्तद्भावे द्वयोरपि स्वातन्त्र्यमवर्जनीयमिति भावः । न च स्वातन्त्र्यमिति । सर्वोत्तमत्वानुपपत्तेरिति भावः । तत्कथमित्यत आह ॥ अन्योन्येति ॥ वायुविष्ण्वोरुभयो-रन्योऽन्यानुसारेणोभयोरपि पराधीनत्वप्राप्तेः । अननुरोधे तु वायोरीश्वरनियामकत्वाभावादीश्वरस्य वायुनियामकत्वाभावान्न तयोः सर्वैश्वर्यमित्यर्थः । स्मृतौ पर इत्यस्यानित्य इत्यनेनान्वये त्रैविध्यप्राप्तेश्चतुर्थेत्यनुपपन्नमित्याशङ्क्यानित्य इति पदमावृत्य योजयति ॥ परः परानित्य इति ॥ नित्य इत्यादि तु समस्तश्रुतेरयमर्थः । जगच्चतुर्विधम् । नित्यं, परनित्यम्, अनित्यं, परानित्यमिति । तत्र पार्थिवं संसृष्टमण्डादि परानित्यम् । भूतानि त्वनित्यानि । उपचयमात्रनाशात्तदभिमानिनां देहादिमात्रनाशात् । न च प्रागाकाशस्य नित्यानित्यत्वोक्तिविरोधः । परानित्यात्पार्थिवा-न्नित्याद्वायोश्च व्यावृत्तत्वेन तथोक्तिसम्भवात् । वायुर्नित्यः स्वरूपातिरिक्तप्रातिभज्ञानस्यापि नित्यत्वात् । न च प्राङ्नित्यानित्यत्वोक्तिविरोधः । शरीरसहितस्य तदविरोधात् । परनित्याछ्री-तत्वादनित्यादाकाशादेश्च व्यावृत्तत्वाच्च । पुरुषादिपदाभिहितश्रीभूदुर्गाभिधा, रमा परनित्या । देहस्यापि नित्यत्वात् । विष्णुः परात्परनित्यः स्वतन्त्रत्वात् । स चैतज्जगद्व्यूह्य तत्प््रातिनियामक-त्वेनात्मानं विभज्य धारयतीति तत्र वायोः परनित्यत्वादि कुतो नेत्यत आह ॥ तत्र वायोरिति ॥ तत्र वायुर्वाव नित्य इत्येतत्कथं युज्यत इत्यत आह ॥ तथापीति ॥ पार्थिववत्सम्यग-नित्यत्वशून्येभ्यो नित्येभ्यो वियदादिभ्योऽतिशयेन निमित्तेन नित्यतोच्यतेति योजना । कोऽय-मतिशय इत्यतो भाव उक्तः स्वरूपातिरिक्तज्ञाननित्यत्वाभिप्रायेणेति । अथवा नित्यो वायु-रुदाहृतः । परस्त्वित्यत्र पर इत्यस्य नित्य इत्यनेनान्वयः । तथा च वायुः परनित्य इत्यर्थः । महालक्ष्मीरूपाणि पुरुषपदेनोच्यन्ते । सौकर्यक्रमेण नित्य इत्यादिक्रमोल्लङ्घनम् । कीदृशं वायोः परनित्यत्वमित्यतस्तत्र दर्शयितुं सम्भावितंप्रतिक्षिपति परनित्यत्वदेहादेरपीति । तत्र परनित्यत्व-मनूद्य देहादेरपि नित्यत्वमिति विवरणम् । तर्हि केनाभिप्रायेण परनित्यत्वमित्यत आह तथापीति ॥ आदिपदेन पुरुषादिसङ्ग्रहः । नित्यतेत्युपलक्षणम् । अतिशयितचेतनत्वं, सर्वदेवोपास्यत्वं, वृत्तिज्ञानप्रवाहोदयनिम्लोचाभावेनोदयाद्यभावश्चोच्यत इति न युक्तिविरोधोऽपीति ग्राह्यम् । भौतादि-विषये श्रुतिविरोधमुपपादयन् केषाञ्चिद्व्याख्यानमाशङ्क्य निराह ॥ तैत्तिरीयेति ॥ सदेव सौम्येदमग्र आसीत्तत्तेजोऽसृजत तत्तेज ऐक्षत, तदपोऽसृजतेति, छान्दोग्ये वायोर्भूतस्याश्रवणात् । तैत्तिरीये तच्छ्रवणाद्विरोध इति चेदित्यर्थः ।
तत्त्वसुबोधिनी
अत्रेति ॥ आकाशाद्वायुरिति श्रुतौ मुख्याभिमानिमुख्यवायोरपि वायुशब्देनप्रतिपादनेन श्रुतिक्रमात् पूर्वोक्तसिद्धान्तन्यायातिदेशाद्वाऽनन्तरसङ्गतिरिति भावः । तासां दिशां वत्सः पुत्र एषा वाय्वाख्यादेवता अनादिर् उत्पत्तिरहिता वायोरनुत्पत्तिप्रतिपादिकां श्रुतिं तावदाह वायुरिति ॥ अतिदेशत्वसिद्धये भाष्योक्तम् अतिशयितनित्यत्वम् अतिशयितचेतनत्वं देवोपास्यत्वम् उदय-निम्लोचाभावश्चेत्यभ्यधिकाशङ्काचतुष्टयं विवृणोति ॥ तथा सतीत्यादिना ॥ ननु भाष्योक्तश्रुतौ आकाशादिशब्दैर्भूतान्येवोच्यन्ते तेभ्यश्च मुख्यवायोः स्वरूपनित्यत्वमेव विशेष इति नेत्याह ॥ न चेति । तथा च चेतनस्यापि ग्रहणसम्भवान् न स्वरूपनित्यत्वरूपो विशेषो वक्तुं शक्यते इति भावः । युक्तिविरोधमाह ॥ किञ्चेति ॥ श्रुतिविरोधयुक्त्या अनुभवविरोधमपि आह ॥ एवं विधस्येति ॥ नित्यत्वव्याप्तोक्तबहुहेतुमत उत्पत्तिरनुभवबाधितेत्यर्थः ॥ अत्यन्तमिति ॥ आकाशादेरनित्यत्वमुक्त्वा वायोर्नित्यत्वाद्युक्तिराकाशादधिका इत्यर्थः । कुविदङ्गेति श्रुत्यर्थस्तु ईशानाधिकरणे उक्त इति दृष्टव्यः । सौत्रेणैतेनेत्यनेन पूर्वाधिकरणोक्तः सर्वोऽपि हेतुर्विवक्षित इत्याह ॥ अनुत्पन्नत्वेनाश्रुतत्वादित्यादिना ॥ न चोदाहृतेति ॥ उत्पत्त्यभावेऽनुत्पत्तिमते च उदाहृते-त्यर्थः । व्यवस्थया परिहारमाह ॥ तस्या इति ॥ भाष्ये मुख्यामुख्येत्यनन्तरम् उत्पत्तीत्यध्याहृत्य भाष्यं व्याचष्टे । ॥ अथैतानीति ॥ तदनध्याहारेण यथा श्रुतमपि व्याचष्टे ॥ अनुत्पत्तिश्रुतिरिति ॥ दूषणान्तरं चाह ॥ किञ्चेति ॥ द्वयोरनादित्वेऽपि द्वयोः स्वातन्त्र्यं कुत इत्यत आह ॥ पराधीनेति ॥ तथाचानादित्वाङ्गीकारे पराधीनत्वरूपोत्पत्त्यभावात् स्वातन्त्र्यं स्यादित्यर्थः । अस्तु उभयोरपि तदित्यत आह ॥ न चेति ॥ सर्वोत्तमत्वानुपपत्तेरिति भावः । कथं सर्वोत्तमत्वानुपपत्तिरित्यतस् तामुपपादयति ॥ अन्योन्येति ॥ तथाचाऽन्योन्यानुरोधेन उभयोरपि परार्थितत्वप्राप्तिः । अननुरोधे तु न सर्वैश्वर्यमिति भावः । स्मृतौ पर इत्यस्य श्रूयमाणानित्य-पदेनैवान्वयत्रैविध्यशक्त्या चतुर्थेऽनुपपन्नं द्वितीयस्तथाशब्दोऽप्यनुपपन्नः । अनित्यानीह भूतानीत्येतच्चायुक्तमित्यत अनित्य इति पदानुवृत्त्याह परः परानित्य इति । व्यूह्यव्यूहाकारेण कृत्वाप्रतिव्यूहनियामकत्वेन स्थापयित्वा । कथमनेन स्मृतिवचनेन श्रुतियुक्तिविरोधपरिहार इत्यत आह ॥ अत्रेति ॥ सम्यगित्यादि आकाशादिपदेन चेतनस्यापि ग्रहणाद् इति भावः ॥ अतिशयेनेति ॥ उपलक्षणमेतत् । अतिशयितचेतनत्वं सर्वदेवोपास्यत्वं वृत्तिज्ञानप्रवाहोदयनिम्लोचाभावेन तस्योदयानिम्लोचाभावश्चोच्यते इति न युक्तिविरोधोऽपीति ग्राह्यम् । तैत्तरीयछन्दोगश्रुत्योः परस्परविरोध इति शङ्कते ॥ तैत्तरीयेति ॥
वाक्यार्थविवरणम्
अतिदेशो नाम शङ्काया आधिक्ये सति परिहारसाम्यम् ॥ गौणार्थत्वम् ॥ एकदेशानुत्पत्ति-परत्वम् ॥ तथा सतीति ॥ एवं नित्यानित्यत्वप्राप्तौ सत्यामित्यर्थः । ननु तेजोऽवन्नानीत्यादिश्रुतौ आकाशादिशब्दैराकाशादिभूतानामेव वाच्यत्वात् ‘वायुर्वाव’ इत्यत्र च वायुपदेन देवताया एव वाच्यत्वादाकाशादिभूतापेक्षया वायुदेवताया एव विशिष्य नित्यत्वोक्ति-र्युक्तैवेत्यत आह ॥ न चेति ॥ भूतमेवेति ॥ एवञ्चाकाशादिदेवताया अप्याकाशादिपदेन वाच्यत्वसम्भवात् तदपेक्षया वायुदेवतायाः पुनर्विशिष्य नित्यत्वोक्तिरयुक्तेति भावः ॥ तस्य ॥ स्वरूपोत्पत्त्यभावस्य ॥ सर्वदेवतोपास्यता ॥ ‘कुविदङ्ग’ इत्यादिनोच्यमाना । एवं विधस्य । उदयादिशून्यतयाप्रमितस्य । न्यायविवरणस्थततोऽधिकशब्दार्थकथनमत्यन्तेति । तदुपपादयति ॥ परेति ॥ तथा चोभयोरप्यनादिनित्यत्वे पराधीनविशेषलाभरूपोत्पत्त्यभावेनोभयोः स्वातन्त्र्यमेव प्राप्तमिति भावः । अस्तु स्वातन्त्र्यं को दोष इत्यत आह ॥ न चेति ॥ न हीत्यर्थः । अन्योन्यानुरोधे । अन्योन्याधीनत्वे उभयोरपि पराधीनत्वप्राप्तेः स्वव्यतिरिक्तसर्वोत्तमत्वायोगेन न स्वातन्त्र्यमिति भावः । अन्योन्याननुरोधे तु न सर्वोत्तमत्वम् । एकस्यापराधीनत्वेन तदुत्तमत्वायोगेन सर्वोत्तमत्वा-योगादिति भावः । विशेषेणानुत्पत्तिश्रुतिः । ‘‘वायुर्वाव नित्य’’ इति श्रुतिः । व्यवहितत्वादन्वयं दर्शयति ॥ एतद्व्यूह्येति ॥ एतच्चतुष्टयं व्यूह्य समूहीकृत्य स्वात्मानमिति शेषोक्तिः । तत्र । नित्यादिचतुष्टये नियामकत्वेन रूपव्यूहं कृत्वा ।
ननु अनेनातिशयेन नित्यत्वोक्तेः परमचेतनत्वोक्तेश्च कोऽभिप्राय उक्त इत्यत आह ॥ अत्रेत्यादिना ॥ परात्परनित्यत्वस्य व्याख्यानं स्वातन्त्र्यलक्षणमिति । इदं भगवन्निष्ठम् । परमनित्यत्वस्य व्याख्यानं देहादेरपि नित्यत्वमिति । इदं श्रीतत्त्वनिष्ठम् । नास्त्येव । बाधादिति भावः । सम्यगनित्यताशून्येभ्यो नित्येभ्य इति । एवञ्च पार्थिवपदार्थानां परानित्यत्वं नाम सम्यगनित्यत्वम् । आकाशादिभूतानामनित्यत्वं तु भौतिकपदार्थवत्सम्यगनित्यताशून्यत्वादित्युक्तं भवति । सम्यक्त्वादिकं चेत्थम् । उत्तरत्र क्रमाद्विकार एव जननमिति उपचयाधिक्यक्रमाद्विकारो जननमित्युच्यते । एवं चोपचिताल्पभागापगमाद् भूतानामनित्यत्वमात्रं, पार्थिवपदार्थानां तूपचित-बहुभागापगमात् परानित्यत्वमिति ज्ञेयम् । नित्यतोच्यत इत्युपलक्षणम् । सर्वदेवतोपास्यत्वादिकं चोच्यत इति वक्तव्यम् । ‘परस्तु नित्यः पुरुषःप्रकृतिः काल एव च’ इत्यत्र पुरुषादिशब्दैः रमैवोच्यते । ‘पुरुषाव्यक्तकालानां रमैवैकाभिमानिनी’ इत्युक्तेः । तस्याः परमनित्यत्वं नाम देहतोऽपि नित्यत्वं ज्ञातव्यम् । भूतवायोरमुख्याभिमानीप्रवहः । भूतविषये श्रुतिविरोधं शङ्कते ॥ तैत्तरीयेति ॥ तेजःपूर्वैवेति । ‘तत्तेजोऽसृजत’ इत्युक्तेरिति भावः ॥ उक्त्यनुक्त्योरिति ॥ तथा च छान्दोग्येऽनुक्तिरेवास्त्यत आकाश वायुद्वारा तत्तेजोऽसृजतेति व्याख्यानेन विरोधोऽ-स्तीत्याशयः । प्रागेव । दूरत इत्यर्थः ।
वाक्यार्थमञ्जरी
तासामिति ॥ प्राच्यादिदिक्स्थितपरमात्मबाहुविशेषाणां धर्मज्ञानादिरूपप्रधानवायुपुत्र इत्यर्थः । योऽयं पवते वीजते सैषा देवतानादिरित्यर्थः । गौणार्थत्वं स्वरूपानादित्वरूपम् ।
ननु भाष्योदाहृतश्रुतावाकाशादिपदैर्भूतान्येवोच्यन्ते तेभ्यश्च मुख्यवायोः स्वरूपनित्यत्वमेव विशेष इत्यत आह ॥ न चाकाशपदेनेति ॥ निम्लोचोऽस्तमयः ॥ एवं विधस्येति ॥ नित्यत्व-व्याप्तोक्तबहुहेतुमत उत्पत्तिरनुभवबाधितेत्यर्थः ॥ ॐ एतेन मातरिश्वा व्याख्यातः ॐ । एतेनाश्रुते-रित्यादिप्रागुक्तहेतुसमुदायेन मातरिश्वा वाय्वनुत्पत्यादिपरशब्दोऽपि गौणत्वेन व्याख्यात इत्यर्थः । एतेनेत्यनेन परामृष्टहेतुसमुदायं क्रमेणाह अनुत्पन्नत्वेनाश्रुतत्वादिना मुख्यानुत्पत्त्यनुपपत्तेरित्यन्तेन ॥प्रमाणविरोधेनेति ॥ न जायते म्रियत इत्यादीश्वरस्यानादित्वप्रतिपादकप्रमाणविरोधेनेत्यर्थः । कुत इत्यत आह ॥ पराधीनेति ॥ तथा चोत्पत्तेः पारतन्त्र्यरूपत्वेन तदनङ्गीकारे स्वातन्त्र्यमनिवार्यमिति भावः ॥ द्वयोर्युक्तमिति ॥ तथात्वे द्वयोरपि सर्वोत्तमत्वप्राप्तेरिति भावः । तदप्यस्त्वित्यत आह ॥ अन्योन्येति ॥ परस्पराधीनत्वानधीनत्वयोरित्यर्थः । वायोः सर्वोत्तमत्वे विष्णुस्तदधीन इत्यङ्गीकार्यम् । विष्णोः सर्वोत्तमत्वे वायुस्तदधीन इत्यङ्गीकार्यम् । एकस्यैवोच्चत्वं नीचत्वं विरुद्धमिति भावः । व्यूह्य समूहीकृत्य स्वात्मानं नियामकत्वेन कथमनेन स्मृतिवचनेन श्रुतियुक्तिपरिहार इत्यत आह ॥ अत्रेति ॥ परात्परनित्यत्वमित्यस्य व्याख्यानं स्वातंत्र्यलक्षणमिति परनित्यत्वमित्यस्य देहादेरपि नित्यत्वमिति ॥ सम्यगनित्यतेति ॥ पार्थिवादिवद्बहूपचयापचय-शून्येभ्य इत्यर्थः । अतिशयेन नित्यतोच्यत इति । उपलक्षणमेतत् । अतिशयितचेतनत्वं सर्वदेवोपास्यत्वं वृत्तिज्ञानप्रवाहोदयनिम्लोचाभावेन तस्योदयनिम्लोचाभावश्चोच्यत इति न युक्तिविरोधोऽपीति ग्राह्यम् । अमुख्यमुख्याभिमानिनौप्रवहप्रधानवायू विरोधं शङ्कते ॥ तैत्तिरीयेति ॥ तेजः पूर्वैवेति ॥ तत्तेजोऽसृजतेत्युक्तेरिति भावः । प्रागेव मूलत एव ।
॥ इति मातरिश्वाधिकरणम् ॥