ॐ न वियदश्रुतेः ॐ
श्री आनन्दतीर्थभगवत्पादाचार्यविरचितम्
ब्रह्मसूत्रभाष्यम्
अथ द्वितीयाध्याये तृतीयः पादो
ऽथ वियदधिकरणम्
सूत्रभाष्यं
जीवपरमात्माधिभूताधिदैवेषु श्रुतीनां परस्परं विरोधमपाकरोत्यनेन पादेन ।
॥ ॐ न वियदश्रुतेः ॐ ॥ १ ॥
न वियदनुत्पत्तिमत् । तथाऽश्रुतेः ।
श्रीत्रिविक्रमपण्डिताचार्यविरचिता
तत्त्वप्रदीपिका
जीवपरमात्माधिभूताधिदैवेषु श्रुतीनां परस्परविरोधमपाकरोत्यनेन पादेन । अधिभूतेषु महाभूते-ष्वाकाशादिषु । ‘इमानि च पञ्च महाभूतानि पृथिवी वायुराकाश आपो ज्योतींषि’ इति हि श्रुतिः । अधिदैवेषु तदभिमानिषु । अथवाऽधिभूतेष्विति भूततत्सम्बन्धिविवक्षया । अधिदैवेष्विति तदभिमानितत्सम्बन्धिविवक्षया । एतदुक्तं भवति । समन्वयस्य स्मृतियुक्तिविरोधः परिहृतः प्रथमपादे । द्वितीये प्रमाणत्वेन कैश्चिदभिमतानां मतान्तराणां भ्रान्तिमूलकत्वापादनेन तदविरोध उक्तः । भूतेषु तत्कारणेषु चाव्यक्तादिषु भूताभिमानिषु देवेषु तत्कारणेषु चाव्यक्तादिदेवेषु परमात्मनि जीवे चोत्पत्त्यादिविषयाणां श्रुतीनां मिथोऽप्यविरोधं प्रकाशयत्यनेन पादेन । क्रमविपर्यासस्तु द्वन्द्वेऽल्पाक्षरपदप्राथम्यार्थम् । न चायमविरोधः समन्वयानुपयोगीति मन्तव्यम् । मिथोऽप्यनपाकृते विरोधे तेनैव दौर्बल्यमिति स प्रशिथिलतामापद्येत । विरोधनिरासमुखेन च प्रतिपाद्यन्त एव खलु परमात्मन एवोत्पत्तिविलयादयः सर्वस्य ।
ॐ न वियदश्रुतेः ॐ । वियदिति विशेषव्याप्तिमत्त्वादहङ्कारादिकमप्युच्यते । तस्यापि सम्भवात् । ब्रह्मणस्त्वसम्भव एवोच्यते ॥ न वियदनुत्पत्तिमत् ॥ तथाऽश्रुतेः ॥ यथा श्रवणेऽ-नुत्पत्तिमदिति स्यात् । न हि तथा श्रूयते । तथाविधश्रवणाभावं वक्ष्यति । यथा वा ब्रह्मणोऽनुत्पत्तिः श्रूयते, यथा वोत्पत्तिर्बहुशः श्रूयते, न च तथाऽनुत्पत्तिः श्रूयते ।
श्रीजयतीर्थविरचिता
तत्त्वप्रकाशिका
एतत्पादार्थं दर्शयति ॥ जीवेति ॥ युक्तिसमयविरोधाभावेऽपि न वेदसमन्वयेन विष्णो-र्जगत्कारणत्वं सिद्ध्यति । वेदानां परस्परविरोधेनाप्रमाणत्वात् । न ह्यप्रमाणसिद्धोऽर्थः सिद्ध्यतीत्याशङ्कानिवृत्यर्थं श्रुतीनां विरोधः परिहरणीयो भवति । श्रुतिविरोधश्चाधिभूतादि-विषयोऽध्यात्मविषयश्च । तत्र जिज्ञासोरध्यात्म विषयविचारस्यान्तिमत्वादधिभूतादिविषयश्रुतीनां परस्परविरोधमस्मिन्पादे परिहरतीति भावः । न च वाच्यं श्रुतीनां जीवादिविषय एव विरुद्ध-त्वेनोक्तबाधाभावाद् व्यर्थः पादद्वयारम्भ इति । अभ्युपगतार्थद्वयेऽन्यतरार्थेऽप्रामाण्यप्राप्तावन्यार्थेऽ-नाश्वासप्रसङ्गात् । जगत्स्वरूपानिर्णये तत्कारणत्वानिर्णयाच्च अत्र ‘ज्ञोऽत एव’ इत्यारभ्यापादसमाप्तेर्जीवविचारः । ‘असम्भवस्तु’ ‘नात्माश्रुतेः’ इत्याधिकरणद्वये परमात्मविचारः । एकैकस्मिन्नेवाधिकरणेऽधिभूतादिविचारः । अतो विचारबाहुल्याभिप्रायेण क्रमोल्लङ्घनम् । अधिभूतं नाम सकारणकार्यभूतानि । तदभिमानिदेवता अधिदैवम् । अत्र भूतेष्वाकाशस्योत्पत्त्याद्यष्टके चोत्पत्तेः प्राथम्याद् ब्रह्मणि श्रुतिसमन्वयसिद्ध्यर्थमाकाशोत्पत्तिविषयश्रुतिविरोधपरिहारादस्ति शास्त्रादि-सङ्गतिः । सकलजगज्जन्मादिकर्ता विष्णुरित्युक्तम् । तच्चाकाशस्य नित्यत्वेऽसम्भवि स्यात् । श्रुतिविरोधेन गुणान्तरस्य चाभावापातात् । श्रुत्यविरोधेनाकाशस्योत्पत्तिः समर्थनीया । आकाशोऽत्र विषयः । उत्पत्तिमान्न वेति सन्देहः । ‘आत्मन आकाशः सम्भूतः’ । ‘अनादिर्वा अयमाकाशः’ इति श्रुतिविप्रतिपत्तिः सन्देहबीजम् । वियदनुत्पत्तिमदेवेति पूर्वः पक्षः । आकाश-स्योत्पत्यङ्गीकारेऽनुभूतियुक्तिबहुवाग्विरोधात् । न ह्यवकाशस्योत्पत्तिरनुभवानुसारिणी । वियदनुत्पत्तिमद्विभुत्वादित्यादियुक्तिः । ‘अनादिर्वा अयमाकाशः’ इत्यादिबहुश्रुतयः । न च ‘आत्मन आकाशः सम्भूतः’ इति श्रुत्या तदुत्पत्तिसिद्धिः । अनुभूत्यादिविरुद्धायास्तस्याः प्रामाण्यानुपपत्तेः । अत एवानुत्पत्तिश्रुतेर्भाक्तत्ववर्णनं च परास्तम् । तस्मादाकाशोत्पत्तिश्रुतेरप्रामाण्यादयुक्तं श्रुतिसमन्वयेनाकाशकारणत्वं ब्रह्मणः । न च सम्भूतश्रुतेरन्यार्थतया विरोधाभावः । तथा सति वाय्वादावप्यन्यार्थतापातात् । न ह्यस्ति सम्भवशब्दो यत्र श्रूयते तत्रामुख्यो यत्रापकृष्यते तत्र मुख्य इति । अतो दुष्परिहरं श्रुत्यप्रामाण्यमिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ नेति ॥ अत्रोत्पत्त्यसम्भवादिति प्रकृतानुत्पत्तिः सम्बध्यते । यदुक्तं वियदनुत्पत्तिमदिति न तद्युक्तम् । तथा अनुत्पत्तौ श्रुत्यभावादित्यर्थः ॥
श्री वादिराजतीर्थविरचिता
गुर्वर्थदीपिका
अध्यात्मविचारस्यान्तिमत्वाद् इति वदता स्थूलपृथिव्यादिषु बाह्यार्थेषु दोषदर्शनेन क्रमेण जातवैराग्यस्य तदनन्तरमतिसूक्ष्मेषु दैहिकप्राणेन्द्रियादिषु वैराग्योत्पत्तिरिति सूचितम् । यद्वा सुगम-स्थूलविचारानन्तमतिसूक्ष्माध्यात्मिकचर्चायां शक्तिर्भवति । अतस्तद्विचारस्यान्तिमत्वमित्यभि-संहितम् । अभ्युपगतार्थद्वये इत्यस्य वेदार्थतयाऽभ्युपगते परापराख्यार्थद्वय इत्यर्थः । ननु द्वितीयाध्यायस्य तृतीयपादे ‘न वियदश्रुतेः’ इति ‘एतेन मातरिश्वा व्याख्यातः’ इति ‘तेजोऽ-तस्तथा ह्याह’ इति ‘आपः’ इति ‘पृथिव्यधिकाररूपशब्दान्तरादिभ्यः’ इत्यधिकरणपञ्चकेऽधि-भूतादिविचारः क्रियते ‘विपर्ययेण तु क्रमोऽत उपपद्यते च’ ‘अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात्’ इत्यधिकरणद्वये भूतादिलयविचारचर्चा क्रियते । सोऽप्यधिभूतादि-विचार एव ‘असम्भवस्तु सतोऽनुपपत्तेः’ ‘तदभिध्यानादेव तु तल्लिङ्गात्सः’ ‘नात्माऽश्रुतेः’ इत्यधिकरणत्रये परमात्मविचारः क्रियते । अतोऽधिकरणद्वये परमात्मविचार एकैकस्मि-न्नधिकरणेऽधिभूतादिविचार इति कथं टीकेति चेत् सत्यं, ‘ज्ञोऽत एव’ इत्यधिकरणे जीवस्या-नादित्वात्तदंशे न भगवतो जन्मादिकारणत्वमित्यापतति । ‘उत्क्रान्तिगत्यागतीनाम्’ इत्यधिकरणे जीवस्य परमात्मवद्विभुत्वान् न जन्मादिमत्त्वमिति प्राप्तम् । ‘व्यतिरेको गन्धवत्तथा च दर्शयति’ इत्यधिकरणे निरवयवत्वाज्जीवस्य न व्यतिरेक इति वदता निरवयवत्वापरपर्यायनित्यत्वमेवोदितम् । अतोऽपि न जन्मादिप्राप्त, ‘पृथगुपदेशात्’ इत्यस्मिन्नधिकरणे जीवपरयोरभेदस्य पूर्वपक्षिणोऽभि-मतत्वान्न जीवस्य जन्मादि प्राप्तम् । ‘यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात्’ इत्यधिकरणे जीवस्य स्वरूपत एवोत्पत्तिमाशङ्कमानस्य जीवप्रागभावदशायामदृष्टाभावेन सृष्टेरेवाभावान्न कुत्रापि भगवतो जन्मादिकारणत्वमित्यापतति । ‘पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात्’ इत्यधिकरणे जीवानादि-त्वादिकमङ्गीकृत्य ‘आनन्दस्यैवोत्पत्तेराशङ्कितत्वात् पूर्ववदेव दोषः । कर्ता शास्त्रार्थवत्वात्’ इत्यधिकरणे जीवस्य सर्वथा कर्तृत्वाभावे तत्कृतपुण्यपापाख्यादृष्टस्याप्यभावप्रसङ्गेन पूर्ववदेव दोषः । ‘अंशो नानाव्यपदेशात्’ इत्यत्रांशश्रुतिबलाज्जीवस्यापि मत्स्यादिवद्भगवदंशत्वे न जन्मादीति प्राप्तम् । ‘अदृष्टानियमात्’ इत्यधिकरणे प्रतिबिम्बभूतजीवानां वैचित्र्ये कारणाभावेन तारतम्याख्य-महाप्रमेयभङ्गः । एवं च ‘ज्ञोऽत’ इत्यारभ्यापादसमाप्तेस्सर्वाण्यधिकरणानि महातत्वविरोधिपूर्वपक्ष-निराकरणरूपत्वादावश्यकानि । तानि च नव । तस्माद् बह्वधिकरणेषु विचार्यमाणत्वेनान्तिम-विचारविषयस्यापि विचारबाहुल्यादादौ ग्रहणं भाष्ये । ‘असम्भवस्तु सतोऽनुपपत्तेः’ ‘नात्माऽश्रुतेः’ इत्यधिकरणद्वये ब्रह्मणोऽप्युत्पत्तिलयवत्त्वेन जीववन्न जगज्जन्मादिकारणत्वमिति प्राप्तम् । अतस्तदधिकरणद्वयमपि महातत्वविरोधि । ‘तदभिध्यानात्’ इत्यधिकरणे संहारमात्रस्यान्यपरत्व-शङ्कायामपि तदतिरिक्तजन्मादिसप्तकर्तृत्वस्य तेनैवाङ्गीकृतत्वान्न बहुविरोधिता । अतस्तदुपेक्षितं टीकाकृता ।
‘तेजोऽतस्तथा ह्याह’ ‘आप’ इत्यधिकरणद्वये ब्रह्मणस्सर्वकारणत्वमङ्गीकृत्य तेजोमात्रे वायोस्तन्मात्रे च तेजसस्साचिव्यमात्रस्याशङ्कितत्वान्न बहुविरोधिता । अतिरिक्ताधिकरणत्रयं तु कथञ्चित् श्रुत्यप्रामाण्यप्रतिपादकमपि न मुख्यतो भगवन्महिमविरोध्यर्थकम् । अतोऽस्मिन्नधिकरणे मातरिश्वाख्याधिदेवताधिकरणे च तयोरनादित्वस्य पूर्वपक्षिणाऽऽशङ्कितत्वात्तदंशे न जन्मादि-कारणत्वं भगवत इति प्राप्तम् । तस्मान्महातत्त्वविरोधित्वादिदमधिकरणद्वयमेकैकस्मिन्निति गृहीतं टीकाकृता । नित्यत्वेनाभिमतगगनस्य भगवतस्सकाशादुत्पत्तिसिद्धौ नित्यत्वेनाभिमत-वाय्वादिभूतचतुष्टयोत्पत्तिरपि तत एव सिद्धेत्यतो ऽधिभूतोत्पत्तिविषये एकमधिकरणम् । मातरिश्वाधिकरणं तु वाय्वाख्याधिदैवविषयमेवेति भावेन तत्राप्येकमेवाधिकरणमित्युक्तम् । अत आदिपदेनाधिदैवमेवोच्यत इत्यभिप््रोतम् ।
वस्तुतस्तु भाष्यमर्यादया सूत्रमर्यादया च सकलसूत्रार्थस्यापि सङ्ग्राह्यत्वाद्भाष्यकृता च जीवपरमात्माधिभूताधिदैवेष्वित्येवोक्तत्वेनाधिकरणसङ्ख्याया अनुक्तत्वाच्च जीवविषये नवाधि-करणानि । ब्रह्मविषये त्रीण्येवाधिकरणानि । अधिभूताधिदैवविषये उक्तविधया महातत्व-विरोधित्वादेकमेकमधिकरणम् । अत एव विचारबाहुल्यापेक्षया क्रमोल्लङ्घनं भाष्ये । अवशिष्ट-मधिकरणपञ्चकमपि परम्परयोपयोगित्वादधिभूतपदेनैव सङ्गृहीतमिति ज्ञेयम् । सूत्रकारस्तु मन्दमतीनामप्युपकाराय सूचीकटाहन्यायेन प्राक्प््राबलैकैकविषये एकमेकं, मध्ये त्वेकस्य विषये द्वे, अन्ते पुनरेकस्यैव विषये बहून्यधिकरणानि सूत्रितवान् । अल्पविरोधपरिहारायापि कानिचि-दधिकरणानि निर्ममे । अतोऽसौ निरवधिककृपाम्बोधिरिति युक्तमुत्पश्यामः । श्रुतिविरोधेन गुणान्तराभावापातादित्यत्र श्रुतिविरोधेन आकाशोत्पत्तिविषयश्रुत्योर्मिथो विरोधेनाप्रामाण्ये गुणप्रतिपादकवेदस्याप्यप्रामाण्येन स्रष्टृत्वातिरिक्तसार्वज्ञादिगुणान्तरस्याप्यभावापातादित्यर्थः । अवकाशस्योत्पत्तिः कुत्रेति पृष्टे अत्रेति देशाख्यावकाशस्यैव प्रागपि वक्तव्यत्वेन साक्षिविरुद्धत्वा-त्तदुत्पत्तिरनानुभाविकीति भावेनाह न हीति ।
यद्वा सर्वलयेऽवकाशस्य सुतरां सत्वेन पुनः सृष्टिकाले तस्योत्पत्तिरनानुभाविकीति भावः । अत्रोपत्त्यसम्भवादित्यत्र मतुबर्थसङ्ग्रहेण विभक्तिव्यत्ययेन च सम्बध्यत इत्यर्थः । अत एव अनुत्पत्तिमदिति फलितमाह । ‘अनादिर्वा अयमाकाशः’ इत्यादिबहुश्रुतिष्वाकाशानादित्व-श्रवणात्कथमनुत्पत्तेरश्रुतिरित्यत उक्तं भाष्यकृता तथाऽश्रुतेः’ इति । यथा सूत्रकारस्योत्पत्तिरभिमता तद्विरोधितयाऽनुत्पत्तेरश्रुतत्वादित्यर्थः । ‘आत्मन आकाशः सम्भूतः’ इति भूतचतुष्टयप्रायपठितस्य तद्वदेव सम्भूतपदेनोत्पत्तिर्वक्तव्या, न चात्रोपचरितोत्पत्तिर्वक्तुं शक्या भूतान्तरेऽपि तत्प्रसङ्गात् । न हि सम्भवति यत्र साक्षात्सम्भूतपदेनोत्पत्तिः श्रूयते तत्र साऽमुख्या यत्राऽऽकृष्यते तत्र मुख्येति । अतो निरवकाशोत्पत्तिश्रुतिविरोधादव्याकृताकाशादिषु सावकाशा ‘अनादिर्वा अयमाकाशः’ इत्यादिश्रुतिर् नैतदनुत्पत्तिं श्रावयतीति भावेनाऽश्रुतेरित्युक्तमित्यर्थः । अन्यत्रापि स्वरूपानादित्व-परवादिसम्भवेनाभिमानिनि देहोत्पत्तेरव्याकृताकाशे तदभिमानिश्रीदेव्यां च पराधीनविशेषावाप्ति-रूपोत्पत्तेरभञ्जकत्वेन सूत्रकृदभिमतोत्पत्त्यभावरूपानुत्पत्तेरश्रुतेरित्यर्थ इति भावः ।
श्री रघूत्तमतीर्थविरचितः
तत्त्वप्रकाशिकाभावबोधः
‘अध्यात्मप्रवणो भूत्वा तस्य सन्निहितत्वतः’ इत्यनुव्याख्यानं मनसि निधायाह– तत्र जिज्ञासोरिति ॥ सुगमस्थलाधिभूतादिविचारानन्तरम् अतिसूक्ष्माध्यात्मिकचर्चायां शक्तिर्भवति । अतस्तद्विचारस्यान्तिमत्वमिति भावः । अधिभूतादिविषयश्रुतीनां परस्परविरोधमिति ॥ तथा च सूत्रकृता सर्वानपि वेदविरोधान् परिहर्तुं द्वितीयाध्यायस्यारब्धत्वात् श्रुतीनां परस्परविरोधपरिहार-स्यावसरप्राप्तत्वाच्चास्य पादस्यान्तर्भावलक्षणानन्तर्यलक्षणा च सङ्गतिरिति भावः । न चैवमस्य पादस्यानेकविषयत्वेनानेकत्वापत्तिरिति वाच्यम्; अध्यात्मेतरविषयत्वेनैकत्वोपपत्तेरिति ॥ अभ्युपगतार्थद्वय इति । श्रुत्यर्थत्वेनाभ्युपगते परापरतत्त्वरूपार्थद्वयेऽन्यतरार्थे जगति श्रुतीनाम-प्रामाण्यप्राप्तावन्यार्थे परमात्मगुणपूर्त्यादावनाश्वासप्रसङ्गादित्यर्थः । हेत्वन्तरमाह– जगत्स्वरूपा-निर्णय इति ॥ विचारबाहुल्याभिप्रायेण क्रमोल्लङ्घनमिति ॥ सूचीकटाहन्यायेन वर्तिष्यमाण-क्रमानुसारेणाधिभूताधिदैवपरमात्मजीवेति वक्तव्ये जीवपरमात्माधिभूताधिदैवेष्विति जीवादिशब्दानां पूर्वनिपातोऽत्र जीवादिविचारस्य बह्वर्थविषयकत्वेन जिज्ञासुं प्रत्यभ्यर्हितत्वादल्पाक्षरत्वाच्चेत्यर्थः ॥ आकाशोत्पत्तिविषयेति ॥ ‘उत्पत्त्यसम्भवात्’ इति पूर्वसूत्रप्रकृतोत्पत्तेराकाशसम्बन्धित्वेनात्र विचारादनन्तरसङ्गतिरिति भावः ।
उत्पत्तिमान्न वेति ॥ अत्र पादे श्रुतिसमन्वयेन विष्णोर् जगज्जन्मादिकारणत्वमयुक्तमुत युक्तमिति चिन्ता । तदर्थं जगत्कारणत्वाद्यभिधायकश्रुतिरप्रमाणमुत प्रमाणमिति चिन्ताद्वयानुवृत्तिः सर्वत्र द्रष्टव्या । अत्राकाशः किमनुत्पत्तिमानुतोत्पत्तिमानिति चिन्ता । तदर्थमाकाशस्योत्पत्तिमत्त्व-मनादित्वश्रुतिविरुद्धं न वेति । तदर्थमनादित्वश्रुतिः किं मुख्यार्थोत गौणीति । तदर्थं सा श्रुतिः किमनुभूत्यादियुक्तत्वेन निरवकाशोत सावकाशेति । तदर्थं वियत उत्पत्तिमत्वे श्रुतियुक्त्यादि-रूपप्रमाणमस्त्युत नास्तीति । वियत उत्पत्तिमत्त्वेऽनुभूतियुक्तिबहुवाग्विरोधोऽस्तीति न्याय-विवरणोक्तपूर्वपक्षयुक्तिमाह– आकाशस्योत्पत्त्यङ्गीकार इति ॥ भाक्तत्ववर्णनमिति ॥ अनादित्व- श्रुतेः स्वरूपानादित्वपरत्वेन भाक्तत्ववर्णनमित्यर्थः ॥ अन्यार्थतयेति ॥ प्रादुर्भावार्थतयेत्यर्थः ।
श्रीराघवेन्द्रतीर्थविरचितः
भावदीपः
ननु श्रुतीनामन्योन्यमविरोधोक्तिर्व्यर्था । तत्राप्येतत्पादीयश्रुत्यविरोधस्य प्राथम्यं निर्बीजमित्यत आह ॥ युक्तिसमयेति ॥ अन्तिमत्वादिति ॥ ‘अध्यात्मप्रवणोर् भूत्वा तस्य सन्निहितत्वतः’ इत्युपासनापादीयानुभाष्योक्तेरिति भावः ॥ अभ्युपगतेति ॥ पादद्वयप्रतिपाद्यजीवाधिभूताध्यात्म-रूपेऽर्थद्वये अन्यतरार्थे अधिभूतादिरूपे अध्यात्मरूपे चार्थेऽप्रामाण्यप्राप्तावीश्वरकर्तृत्वाद्यर्थेऽप्यना-श्वासप्रसङ्गादित्यर्थः । यद्वा विरुद्धश्रुतिभ्यामभ्युपगतार्थद्वयेऽन्यतरार्थेऽप्रामाण्यप्राप्तावित्यर्थः । अन्यतरार्थे वेति वाशब्दसंयोजनेन विरुद्धश्रुतिद्वयाप्रामाण्यमिति पूर्वपक्षस्थलेऽर्थद्वयेऽप्यप्रामाण्यप्राप्तौ दौर्बल्येनान्यतरश्रुत्यप्रामाण्ये तत्पूर्वपक्षस्थलेऽन्यतरार्थेऽप्राप्ताविति ध्येयम् । अथवा समन्वयाध्याये सर्वश्रुतीनां कल्पनोपदेशादित्यादिन्यायेन परममुख्यमुख्यवृत्तिभ्यामभ्युपगते परमात्मतदन्यरूपेऽर्थ-द्वयेऽन्यतरस्मिन्जीवादिरूपेऽर्थे अप्रामाण्यप्राप्तौ परमात्मपूर्णगुणत्वाद्यर्थेऽनाश्वासप्रसङ्गादित्यर्थः । तथा च विरुद्धश्रुत्योः प्रामाण्यायाविरोधेन तयोरर्थव्यवस्थापनाय पादद्वयारम्भो युक्त इति भावः ।
ननु जगत्स्वरूपविषयश्रुतीनां विरोधेन तदर्थे तासामप्रामाण्येऽन्यार्थेनाश्वासो निर्बीजः । तत्र श्रुतिविरोधाभावात् । शङ्कामात्रस्याप्रयोजकत्वादित्यत आह ॥ जगदिति ॥ ननु सूत्रेषु वक्ष्यमाणक्रमानुरोधेन भाष्य अधिभूताधिदैवपरमात्मजीवेष्विति वाच्ये विपरीतक्रमेण निर्देशो निर्बीज इत्यत आह ॥ अत्र ज्ञोऽत एवेतीति ॥ अत्र पाद इत्यर्थः ॥ अधिभूतादिविचार इति ॥ एकैकाधिभूतादिविचार इत्यर्थः । भूतमधिकृत्य स्थितमधिभूतं भूतकार्यमिति भ्रान्तिनिरासायाह ॥ अधिभूतं नामेति ॥ तथा चैतन्नयार्थोऽपि सङ्गृहीत इति भावः । अत्र देवताविचारपरं सूत्रं नोपलभ्यत इत्यत आह ॥ तदभिमानीति ॥ भूतविचारपरसूत्राण्येवाधिदैवविचारपराणीति भावः ।
ॐ नवियदश्रुतेः ॐ ॥ प्राथम्यादिति ॥ ‘आकाशाद्वायुः’ इत्यादिश्रौतक्रमाल्लब्धजन्मनः स्थित्यादेरिति भावः । अन्येषामुपलक्षणतया विचारः सिद्ध्यतीति हृदयम् ॥ ब्रह्मणि श्रुतिसमन्वयसिद्ध्यर्थमिति ॥ अभ्युपगतार्थद्वय इत्याद्युक्तदिशा हेतुहेतुमद्भावो बोध्यः । अनेन शास्त्रेऽन्तर्भाव उपपादितः । श्रुतीति पादे विरोध इति चाध्याय इति विवेक्तव्यम् । एवमग्रेऽपि । श्रुत्यधिकरणसङ्गती आह ॥ सकलेति ॥ श्रुतिविरोधेनेति ॥ अनुत्पत्तिश्रुतिविरोधे-नोत्पत्तिश्रुतेरप्रामाण्यप्राप्तौ सर्वस्रष्टृत्वासिद्धावानन्दादिश्रुतिप्रामाण्येऽप्यनाश्वासापत्त्या तदुक्तगुण-स्याप्यभावापातादित्यर्थः । अजन्मश्रुत्यविरोधाय जन्मैव नेति निर्णयस्य दुःशकत्वान्निर्णयप्रकारमाह ॥ श्रुत्यविरोधेनेति ॥ न वियदनुत्पत्तिमदिति भाष्यसूचितप्रतिज्ञामाह ॥ वियदनुत्पत्तिमदेवेति ॥ वियदिति प्रकृतिजीवचैतन्यकालवेदमहदहंमनोबुद्ध्यादीनामुपलक्षणम् । वियत उत्पत्तिमत्त्वे अनुभूतियुक्तिबहुवाग्विरोधोऽस्ति व्यवस्थायोगादित्यन्यत्रोक्तयुक्तिमाह ॥ आकाशस्योत्पत्त्यङ्गीकारे अनुभूतियुक्तीति ॥ तां विवृणोति ॥ न हीत्यादिना ॥ व्यक्तमेतद्वैशेषिकनयानुभाष्यसुधयोः केवलं साक्षिमानेन कालो देशोऽपि नान्तवानित्यादौ । विभुत्वाद् व्याप्तत्वादित्यर्थः । निरुपादानत्वादि-रादिपदार्थः । न चासिद्धिः । धर्मिग्राहकसाक्ष्यनुभवसिद्धत्वात् । अत एवानुभवस्य प्रागुक्तिः । न च क्षणलवादिसूक्ष्मकालावयवेषु विभुत्वे सत्यप्यनुत्पत्तेरभावाद्व्यभिचारः । ‘सर्वे निमेषा जज्ञिरे’ इत्यादिश्रुत्या तेषां सिद्धान्ते जन्माङ्गीकारात् । तथैव वैशेषिकाधिकरणभाष्यादावुक्तेरिति वाच्यम् । पूर्वपक्षे तेषु जन्मासम्प््रातिपत्तेरिति भावः ।
ननु वियदिति भूतस्य पक्षत्वे विभुत्वमसिद्धम् । ‘आकाशस्तल्लिङ्गात्’ इत्यत्र तस्यान्त-वत्त्वोक्तेः । अव्याकृतस्य पक्षत्वे सिद्धसाधनमिति चेन्न । आकाशद्वैताज्ञानेन तदैक्यबुध्द्यैवमुक्तेः । अव्याकृतस्य पक्षत्वेऽपि विष्णोः सर्वस्रष्टृत्वासिद्धेश्च । यद्वा काशद्वित्वोपगमेऽपि ‘अनादिर्वा अयमाकाशः’ इत्यादौ सामान्याकाशपदेन द्वयोरपि गृहीतेर्भूतेऽप्यन्तवत्त्वादिकमप्यसिद्धमिति भावेन पूर्ववादिनैवमनुमानमवादीति ध्येयम् ॥ इत्यादीति ॥ ‘आकाशवत्सर्वगतश्च नित्यः’ । ‘स यथा अनन्तोऽयमाकाश’ इत्यादिरादिपदार्थः । विरोधपदतात्पर्यं व्यावर्त्यपूर्वं व्यनक्ति ॥ न चात्मन इति ॥ नन्वनादित्वश्रुतेरनेककालवर्तित्वमात्रेण वा श्रुतिद्वयबलेनाकाशद्वयं कल्पयित्वा एकैका-काशविषयत्वेन व्यवस्था वाऽस्त्वित्यतो व्यवस्थायोगादिति न्यायविवरणांशतात्पर्यमाह ॥ अत एवेति ॥ सम्भूतश्रुत्यप्रामाण्यादेव कल्पकाभावादित्यर्थः । व्यवस्थायोगादित्यस्य श्रुतौ सम्भूत-शब्दस्य आकाशे अभिव्यक्त्यर्थत्वं वाय्वादावुत्पत्त्यर्थत्वमिति व्यवस्थाया अयोगादित्यर्थान्तरमुपेत्य शङ्कापूर्वं व्यनक्ति ॥ न च सम्भूतश्रुतेरिति ॥ अत इति ॥ अनुभूत्यादिविरोधादित्यर्थः । एवं वियत्पदोपलक्षितप्रकृत्यादेरपि पूर्वपक्षो ध्येयः । ‘अनुत्पत्तिमत्’ इति भाष्यमनुवृत्तसौत्रपदार्थ इति दर्शयति ॥ अत्रोत्पत्त्यसम्भवादितीति ॥ अप्राप्तस्य निषेधायोगादाह ॥ यदुक्तमिति ॥ अश्रुतेरित्यादिवक्ष्यमाणयुक्तीनां सामान्यादत्रापि वियदिति प्रकृत्यादेरुपलक्षणं ध्येयम् । एतेन सूत्रे वियदुत्पत्तिमदेवेत्येव कुतो नोक्तमिति शङ्काऽपास्ता । अनुत्पत्तेरेव शङ्किततया तस्या एव निरस्यत्वात् । पूर्वस्मादनुत्पत्तेरेव प्रकृतत्वाच्चेति भावः । तथेति भाष्यस्थानुवादः । अनुत्पत्ताविति व्याख्या पराधीनविशेषावाप्तिरूपोत्पत्त्यभाव इत्यर्थः ।
श्रीसत्यनाथतीर्थविरचित
अभिनवचन्द्रिका
एतत्पादार्थमिति ॥ ‘अध्यायस्यैकार्थत्वात् पादभेदः किं निबन्धन इत्यत’ इति वर्तते । तस्य एतत्पादार्थं दर्शयतीत्यनेन सम्बन्धः । ननु ‘जीवपरमात्माधिभूताधिदैवेषु’ इति भाष्यमनुपपन्नम् । जीवविचारस्य प्रथममदर्शनादित्यत आह तत्र जिज्ञासोरिति ॥ भाष्यं न पादप्रतिपाद्यक्रमप्रदर्शनाय प्रवृत्तमपि तु पादप्रतिपाद्यमात्रप्रदर्शनाय प्रवृत्तम् । यद्यपि जीवविचार-स्यानेकाधिकरणनिर्वाह्यत्वात् सूत्रकृता महामल्लभङ्गन्यायेन जीवविचारं कृत्वा अन्यविचारः कर्तव्यः । तथा हि जिज्ञासोरध्यात्मविचारस्यान्तिमत्वसूचनाय सूचीकटाहन्यायेन अधिभूताधिदैव-परमात्मजीवविचारः क्रमेण कृत इति भावः ॥ व्यर्थः पादद्वयारम्भ इति ॥ ईश्वरे श्रुतिविरोधपरिहारार्थान्येवाधिकरणान्यारम्भणीयानि नाऽन्यानीति भावः । अनुत्पत्तिश्रुत्य-विरोधेनोत्पत्तिसमर्थनस्याऽऽवश्यकत्वमाह सकलजगज्जन्मादिकर्तेत्यादिना ॥ श्रुत्यविरोधेनाकाशो-त्पत्तिः समर्थनीयेति विशिष्टा प्रतिज्ञा । तत्र उत्पत्तिसमर्थनाभावे तच्चाऽऽकाशस्य नित्यत्वेऽसम्भवि स्यादिति बाधकमुक्तम् । तस्यार्थः यदि श्रुतिविरोधेनैवाकाशोत्पत्तिः समर्थ्यते, अनादित्व-श्रुतेरप्रामाण्यमभ्युपेत्यैव समर्थ्यत इति यावत् । तर्ह्याकाशानादितानियामकत्वलक्षणगुणहानिः स्यादिति ॥ अन्यार्थतयेति ॥ प्रादुर्भावाद्यर्थतयेत्यर्थः । अत्र टीकायां न वियदश्रुतेरिति सूत्रप्रतीकग्रहणानन्तरं श्रूयमाणम् ‘अत्रोत्पत्त्यसम्भवादिति प्रकृतानुत्पत्तिः सम्बध्यत’ इति वाक्यं प्रक्षिप्तं न टीकावाक्यम् । अवश्यं चैतदेवं विज्ञेयम् ‘उत्पत्त्यसम्भवात्’ इति सूत्रे अनुत्पत्तिशब्दाभावाद् अनुत्पत्तिमच्छब्दस्यापेक्षितत्वेनाऽनुत्पत्तिशब्दस्यानपेक्षितत्वाच्च ।
ताम्रपर्णी श्रीनिवासविरचिता
वाक्यार्थमुक्तावली
पादप्रतिपाद्यमिति ॥ अन्यथैतत्पादस्यैतदध्यायान्तर्भावपूर्वपादानन्तर्यसङ्गत्योरज्ञानप्रसङ्गादिति भावः । श्रुतीनां परस्परविरोधपरिहारस्यानन्तरसङ्गतिमुपपादयति ॥ युक्तीति ॥ सर्वविरोधानां युक्तिमूलत्वेन युक्तिविरोधस्याप्राथम्ये तत्प्रपञ्चात्मकत्वेन समयविरोधस्य तदानन्तर्ये श्रुतीनां परस्परविरोधस्यावसरप्राप्तत्वादस्यानन्तरसङ्गतिविरोधपरिहारादेवाध्यायान्तर्भावश्चेति भावः । चतुर्थ-पादेऽपि श्रुतिविरोधपरिहारात्कथमस्य ततो विषयभेद इत्याशङ्कां परिहरन्नस्य प्राथम्ये च कारणमाह श्रुतिविरोधश्चेति ॥ अधिभूतादिविषय इत्यनेनैवास्य पादस्यानेकविषयत्वेऽप्यध्यात्मेतर-विषयत्वोपाधिनैकत्वमिति सूचयति । तदुक्तं सुधायाम् । अध्यात्मेतरविषयकत्वेनेकत्वोपपत्तेरिति ॥ जिज्ञासोरिति ॥ ‘अध्यात्मप्रवणो भूत्वा तस्य सन्निहितत्वतः’ इत्यनुव्याख्यानोक्तेरिति भावः ॥ अभ्युपगतार्थद्वय इति ॥ ‘आकाशः सम्भूत’ इत्यादीनामभ्युपगतमुख्यामुख्यार्थद्वय इत्यर्थः । यद्वा ‘सत्यं ज्ञानमनन्तं’ ‘आकाशः सम्भूतः’ इत्यादि श्रुतीनामर्थत्वेनाभ्युपगतपरापरतत्वयोर्मध्य इत्यर्थः । पूर्वमनाश्वासमुखेनोक्तबाध उक्तः । इदानीं साक्षादाह ॥ जगदिति ॥ सूचीकटाहन्यायेन वर्तिष्यमाणसौत्रक्रमानुरोधेनाधिभूताधिदैवपरमात्मजीवा इति वक्तव्ये प्रतिपाद्यक्रमोल्लङ्घनमनुचित-मित्यतो बह्वधिकरणप्रतिपाद्यत्वलक्षणप्राधान्यविवक्षयोक्तमिति भावेनाह ॥ अत्रेत्यादिना ॥ एकैकस्मिन्निति ॥ एकैकस्मिन्नेवाधिकरणे एकैकाधिभूततदभिमानिविचार इत्यर्थः । भूतमधिकृत्य स्थितं भूतकार्यमेवाधिभूतमिति प्रतीतिनिरासायाह अधिभूतं नामेति ॥ भूतपदेन भूतसमुदाय उच्यते । तमधिकृत्य विद्यमानमधिभूतम् । तच्च भूतकार्यं भूतकारणं तदेकदेशवियदादिकं चेति समुदायाकारेण कार्यभूतान्यधिभूतमित्यर्थः । उक्तं च न्यायविवरणटीकायाम्, अधिभूतादि-शब्देनाकाशादीन्युच्यन्ते ॥ समुदायैकदेशाश्रयणेनाधिकरणाधिकर्तव्यतोपपत्तेरिति । अत्र देवता-विचारपरं सूत्रं नोपलभ्यत इत्यत आह ॥ तदभिमानीति ॥ अधिगतं च तद्दैवं चेति विग्रहः । भूतपराण्येव सूत्राण्यधिदैवपराणीति भावः ।
ननु जीवविचारोऽप्यध्यात्मविचार एव तस्यापीन्द्रियादिवदात्मशब्दितं शरीरमधिकृत्य विद्यमानत्वादिति चेन्न । आत्मानं जीवमधिकृत्य वर्तते यत् तदध्यात्ममिति विवक्षितत्वेन जीव-भोगसाधनप्राणादीनामेवाध्यात्मपदेन विवक्षितत्वात् ॥ ॐ न वियदश्रुतेः ॐ ॥ आकाशोत्पत्ति-विषयेति ॥ उत्पत्यसम्भवादिति पूर्वाधिकरण प्रकृतोत्पत्तेराकाशसम्बन्धित्वेनात्र विचारादनन्तर-सङ्गतिरिति भावः ॥ उत्पत्तिमान्न वेति ॥ आकाशोऽनुत्पत्तिमानुत उत्पत्तिमानिति चिन्ता, तदर्थमाकाशानुत्पत्तिश्रुतिर् अनुत्पत्तेरनुभूतियुक्ति बहुवाक्सिद्धत्वेन निरवकाशतया मुख्यार्थतोत्पत्ति-श्रुत्यादिबाहुल्येन गौणीति ‘गौण्यसम्भवात्’ इत्यत्र, श्रुत्यनुभवयुक्तीनां व्यवस्थाश्रयेणाविरोधो त्वया सूचितं पूर्वपक्षसाधकमनुभूतियुक्तिबहुवाग्विरोधलक्षणन्यायमुक्त्वा अनुभूतिविरोधमुपपादयति न हीति ॥ आकाशस्योत्पत्यङ्गीकारेऽत्राकाशो नेति तत्प््र•गभावोऽवश्यं प्रत्येतव्यः । न चाकाशा-भावस्याश्रयप्रतीतिरुपपद्यते । यदेवेह’ इति निर्दिश्यते तस्यैवाकाशत्वात् । अतस्तदभावस्य धर्मिग्राहकानुभवबाधितत्वेनाकाशोत्पत्तिर्नानुभवानुसारिणीति भावः ॥ विभुत्वादिति ॥ क्षण-लवादिव्यतिरिक्तत्वे सतीति विशेषणीयम् । अन्यथा तत्र व्यभिचारात् । अथवा सोऽपि पक्षसम इति न व्यभिचारः । निरुपादानत्वात्प््र•गभावशून्यत्वादित्यादिपदार्थः । न चासिद्धिः । धर्मिग्राहकसाक्ष्यनुभवसिद्धत्वादिति भावः ॥ इत्यादीति ॥ ‘आकाशवत्सर्वगतश्च नित्यः’ । ‘स यथाऽनन्तो यमाकाशः’ इत्यादिरादिपदार्थः ॥ न चात्मन आकाश इति ॥ ननु अव्याकृताकाशोपीह पूर्वपक्षविषयः । कथमेतच्छ्रुत्युदाहरणमस्याभूतप्रकरणत्वादिति चेन्नपरेणाकाश-द्वैतस्यानङ्गीकृतत्वेन तं प्रति तदुदाहरणासम्भवात् ।
यद्वाऽव्याकृताकाशविषये, ‘इदं सर्वमसृजत’ इति श्रुतेरुदाहर्तव्यत्वात् । उक्तमेतत्सुधायाम् । ननु अव्याकृताकाशस्योत्पत्यभावे माभूत् ‘आत्मन आकाशः सम्भूतः’ इति श्रुतिविरोधः ‘इदं सर्वमसृजत’ इति श्रुतिविरोधो भविष्यतीति । नन्वनादित्वश्रुतेर् बहुकालवर्तित्वमात्रेण वा श्रुतिद्वय-बलेनाकाशद्वयमङ्गीकृत्यैकैकाकाशविषयत्वमात्रेण वा सूक्ष्मरूपानादित्वपरत्वेन वा भाक्तत्व-मस्त्वित्यत आह ॥ अत एवेति ॥ उक्तन्यायविरोधेनोत्पत्तिश्रुतेरप्रामाण्येन कल्पकाभावादेवेत्यर्थः ॥ अन्यार्थतयेति ॥ व्यक्त्यर्थतयेत्यर्थः । अत्र वियत्पदं नाकाशमात्रपरं किं नाम ‘अथ ह वाः’ नित्यानि पुरुषः प्रकृतिरात्मा काल इत्यादि श्रुतिविगानविषयाणां प्रकृतिपुरुषकाल तदभिमानि-देवमहदहङ्कारमनोबुद्धीन्द्रियभूतसूक्ष्मतन्मात्रवदादीनामुपलक्षणार्थम् । मातरिश्वप्रभृतिषु पुनरभ्यधिका-शङ्कानिरासायाधिकरणान्तरारम्भः । प्रकृत्यादीनां भूतकारणत्वादधिभूतपदेन तत्सम्भवोपपत्ते-र्नाधिकरणावच्छेदकोपाध्यानाक्रान्तत्वं कालाव्याकृतवेदादीनां भूतकारणत्वाद्यभावेऽपि न्यायसाम्येन विचार्यता । मनोबुद्धीन्द्रियाणामध्यात्मत्वाच्चतुर्थ एव विचार्यतेति चेन्न ॥ तेषामिति भूतकारण-त्वेनाधिभूतत्वस्येह विवक्षितत्वादध्यात्मत्वस्याविवक्षितत्वात् । स्पष्टं चैतदनुव्याख्यान इति ज्ञेयम् । तथेति भाष्यानुवादः । अनुत्पत्ताविति व्याख्या पराधीनविशेषावाप्तिरूपोत्पत्यभाव इत्यर्थः ।
पाण्डुरङ्गि श्रीनिवासाचार्यविरचिता
तत्त्वसुबोधिनी
पूर्वपादेनास्य सङ्गतिमाह ॥ युक्तीति ॥ नन्वध्यात्मविषयश्रुतिविरोधपरिहारः प्रथमं किं न क्रियते इत्यत आह ॥ तत्रेति ॥ अधिभूतादिविषयेति ॥ तथा च सूत्रकृता सर्वानपि विरोधान् परिहर्तुं द्वितीयाध्यायस्यानारब्धत्वात् श्रुतीनां परस्परविरोधपरिहारस्य तदानन्तर्ये सति श्रुतीनां परस्परविरोधपरिहारस्यापि तदन्तर्भूतत्वात् प्राधान्याद्युक्तिविरोधस्य प्राथम्ये तत्प्रपञ्चनात्मकत्वेन समयविरोधपरिहारस्य तदानन्तर्ये सति श्रुतीनां परस्परविरोधपरिहारस्यावसरप्राप्तत्वाच्चास्य पादस्यान्तर्भावलक्षणा आनन्तर्यलक्षणा च सङ्गतिरिति भावः ॥ अभ्युपगतार्थद्वय इति ॥ श्रुत्यर्थत्वेनाभ्युपगते परापरतत्वरूपार्थद्वये अन्यतरार्थे जगति श्रुतीनामप्रामाण्यप्राप्तौ अन्यार्थे परमात्मगुणपूर्त्यादावनाश्वासप्रसङ्गादित्यर्थः । तत्र हेत्वन्तरमाह जगदिति ॥
ननु सूचिकटाहन्यायेन वर्तिष्यमाणक्रमानुसारेण अधिभूताधिदैवेति वक्तव्यम्, तथा च जीव-परमात्मेति क्रमोल्लङ्घने किं बीजमित्यत आह ॥ अतो विचारबाहुल्येति ॥ यत एवं विचारबाहुल्यम् अतस्तदभिप्रायेणेत्यर्थः । विचारबाहुल्यमेव दर्शयति ॥ अत्र ज्ञोऽत एवेति अधिभूतादिविचार इति ॥ एकैकाधिभूताधिविचार इत्यर्थः । तथा चात्र जीवादिशब्दानां पूर्वनिपातोऽत्र जीवादि-विचारस्य बह्वर्थमाह ॥ अधिभूतमिति ॥ नन्वादौ आकाशविचार एव कुतः, तत्रापि उत्पत्ति-विचार एव कुत इत्यत आह अत्र भूतेष्विति ॥ आकाशोत्पत्तिविषयेति ॥ उत्पत्त्यसम्भवादिति ॥ पूर्वसूत्रप्रकृतापत्तेराकाशस्यानादिनित्यत्वे न केवलं सकलजगज्जन्मादिकारणत्वस्यैवासम्भवः किन्तु आकाशस्य नित्यत्वेन तत्संहर्तृत्वाङ्गीकारे तन्नित्यत्वप्रतिपादकश्रुतिविरोधापत्त्या सर्वसंहर्तृत्वरूपगुणान्तरस्याभावप्रसङ्ग इत्यर्थः । आकाशस्य नित्यत्वे नित्यत्वस्य भगवल्लक्षण-त्वानुपपत्तिः । नित्यत्वस्य तल्लक्षणत्वे, आकाशस्य नित्यत्वप्रतिपादकश्रुतिविरोधादित्यर्थ इत्याह । अनुभवादिविरोधमेव दर्शयति ॥ न हीति ॥ अत एवेति अनुभूतादिविरोधेन उत्पत्तिश्रुतेरप्रामाण्यादेवेत्यर्थः ॥ भाक्तत्ववर्णनमिति ॥ अनादित्वश्रुतेः स्वरूपानादित्वपरत्वेन भाक्तत्ववर्णनमित्यर्थः ॥ अन्यार्थतयेति ॥ प्रादुर्भावार्थतयेत्यर्थः ॥ वाय्वादीति ॥ आकाशाद्वायुरिति ॥ वाय्वनित्यत्वप्रतिपादकश्रुतेरपि प्रादुर्भावार्थत्वं स्यादित्यर्थः । ननु सम्भूतः श्रुतेराकाशे प्रादुर्भावार्थत्वेत्यन्यत्रोत्पत्त्यर्थत्वमेवास्त्वित्यत आह ॥ न ह्यस्ति सम्भव इति ॥ यत्र ‘आकाशाद्वायुः’ इत्यत्र सम्भूतिशब्द आकृष्यते अत्रायं मुख्योत्पत्त्यर्थकः । यत्र ‘आत्मन आकाशः’ इत्यत्र सम्भूतशब्दः श्रूयते तत्र तु प्रादुर्भावरूपमुख्योत्पत्त्यर्थक इति न कुत्रापि दृष्टमित्यर्थः ।
श्रीनिवासतीर्थविरचिता श्रीतत्त्वप्रकाशिकाव्याख्या
वाक्यार्थविवरणम्
अन्तिमत्वादिति ॥ आध्यात्मिका हि भावा मिथ्या सम्यग्वा विदिता बन्धमोक्षयोरन्तरङ्गता-मश्नुवते न तथा बाह्याः । अत आध्यात्मिकपदार्थविचारेऽप्यन्ते सावधानताया अपेक्षितत्वेनादौ बाह्यविचारे व्युत्पन्नं प्रति पश्चादध्यात्मविचारस्य कार्यत्वेनाध्यात्मविचारस्य चरमत्वमिति भावः ॥ अधिभूतादिति ॥ न चैवमस्य पादस्यानेकविषयत्वेनैकवाक्यत्वायोग इति वाच्यम् । अत्र देहमधिकृत्य विद्यमानमिन्द्रियमध्यात्मपदेन विवक्षितम् । तथा च जीवपरमात्मनोरप्यध्यात्मत्वात् कथं तदितरत्वेनैकार्थतेति शङ्कानवकाशः । अध्यात्मेतरविषयकत्वेन तदुपपत्तेरिति ध्येयम् ॥ उक्तबाधाभावादिति ॥ उक्ते जगज्जन्मादिकर्तृत्वरूपे प्रमेये विरोधाभावादित्यर्थः । उक्तेऽर्थे विरोधं दर्शयतीति ह्युक्तम् ॥ अनिर्णयाच्चेति ॥ ततश्चोक्तबाधोऽस्त्येवेति भावः । क्रमः । प्राधान्यक्रमः ।
ननु भूतमधिकृत्य विद्यमानं यत्प्रकृत्यादिकारणं ब्रह्माण्डादिकार्यं तदेवायास्यति । न तु भूतम् । न प्रकृते च भूतविषय एव श्रुतिविरोधः परिह्रियते । अतः कथमेतदित्यतो व्याचष्टे ॥ अधिभूता-नामिति ॥ सत्यम् । प्रकृत्यादि कारणं, ब्रह्माण्डादि कार्यमेव पूर्वोक्तव्युत्पत्त्याऽधिभूतशब्दं न तु भूतम् । तथापि कारणकार्यसाहित्यस्य भूतेऽपि सत्त्वेनोपचाराद् भूतेषु अधिभूतशब्द इति भावः । अत एव सकारणकार्यभूतानीत्युक्तमिति । अधिदैवमित्यत्र दैवशब्दो देवतावाची । तथा च देवानधिकृत्य विद्यमानं यत्तेषां पदादिकं तदेवायास्यति । न तु स्वयं देवताः । प्रकृते च भूतविषय एव श्रुतिविरोधपरिहारेण तदभिमानिदेवताविषय एव श्रुतिविरोधः परिह्रियते । अतः कथमेतदिति चेदुच्यते । अत्र न देवतावाची दैवशब्दः । किन्तु देवानां सम्बन्धि दैवमिति व्युत्पत्त्या देवतासम्बन्धि यदाकाशादितत्त्वजातं तद्वाची । एवं च देवानां सम्बन्धि यत्तत्त्वजातं तदधिकृत्य तदभिमानितया विद्यमाना ये देवास्ते अधिदैवमित्यभिप््रोत्याह ॥ तत्त्वाभिमानिनो देवा अधिदैवमिति ॥ भूतादितत्त्वाभिमानिन इत्यर्थ इत्याहुः ।
वस्तुतस्तु न्यायविवरणटीकानुसारेणाधिभूताधिदैवशब्दयोरयमर्थः । अव्ययविभक्तीति सूत्रे विभक्त्यर्थे अधिकरणमात्रे अव्ययसमास उक्तः । यथा अधिहरि प्रवृत्ता कथा, हरौ प्रवृत्ता कथेत्यर्थः । एवं प्रकृते विभक्त्यर्थेऽधिकरणमात्रे अधीत्यव्ययं भूतदैवपदाभ्यां समस्तम् । तथाचाधिभूतं भूतेष्वित्यर्थः । एवमधिदैवं देवेष्वित्यर्थः । विषयसप्तमीयम् । तथा चाधिभूताधिदैवेषु भूतदैवविषयेष्विति भावार्थः । एवं भाष्ये भूतमात्रवाचिना अधिभूतशब्देन तत्कारणकार्येऽपि लक्षणया ग्राह्ये इत्याशयेन सकारणकार्येत्युक्तम् । तदभिमानिन इति तु देवानां स्वरूपकथनमिति ध्येयम् । यथोक्तं न्यायविवरणटीकायां टीकाकारैः ‘अत्र विभक्त्यर्थेऽधिकरणमात्रे अव्ययं समस्तम् । ततश्चाधिभूतं भूतेष्वित्यर्थः । सर्वत्र विषयसप्तमी’ इत्यादि । ननु एवमधिभूतशब्दस्याव्ययीभावत्वे ‘अधिदैवानि अव्यक्ताद्यभिमानिदेवता, अधिभूतानि अव्यक्तादिकारणकार्योपेतानि भूतानि’ इति वियत्पादीयसुधाविरोधः । अव्ययीभावत्वे नपुंसकैकवचनत्वप्राप्त्या अधिदैवान्यधिभूतानीति प्रयोगानुपपत्तिरिति चेन्न । यथाऽत्र नानुपपत्तिस्तथा गुरुचरणैस्तट्टीकायां प्रतिपादितमनुसन्धेयम् ॥ उत्पत्त्यष्टकेति ॥
‘‘ॐ तदभिध्यानादेव तु तल्लिङ्गात् सः ॐ इति सप्तमाधिकरणमारभ्याधिकरणदशकपर्यन्तं संहारविषयेऽपि श्रुतिविरोधपरिहारात्तदपेक्षयोत्पत्तेः प्राथम्यादुत्पत्तिविषय एव श्रुतिविरोधः परिह्रियत इत्यर्थः । श्रुत्यविरोधेनास्योत्पत्तिस्समर्थनीयेत्यत्र निमित्तमुक्तं श्रुतिविरोधेनेति पूर्वभागेन । उत्पत्तिश्रुतेरनादित्वश्रुतिविरोधेनाप्रामाण्ये तद्दृष्टान्तेन सर्ववेदस्याप्यप्रामाण्यापत्त्या तत्प्रतिपादितजग-ज्जन्मादिकर्तृत्वरूपगुणान्तरस्याप्यभावापातादित्यर्थः । तथा च अनादित्वश्रुत्यविरोधेन तद्विरोधो यथा न स्यात्तथोत्पत्तिः समर्थनीयेत्यर्थः ॥ अवकाशः ॥ अव्याकृताकाशः ॥ अत एवेति ॥ अनुभूत्यादिविरुद्धाया उत्पत्तिश्रुतेरप्रामाण्येन तद्विरोधाभावादेवेत्यर्थः । उत्पत्तिश्रुतेरप्रामाण्यं नास्तीत्याशङ्क्य निराकरोति ॥ न चेति ॥ तथा सतीति । ‘आकाशः सम्भूत’ इत्यत्र सम्भूतशब्दस्य प्रादुर्भावार्थतयाऽनादित्वश्रुतेस्तद्विरोधाभावोक्तौ ‘आकाशाद्वायुः’ इत्यादौ सम्भूत इत्यस्याकर्षणेन तत्र आकृष्टस्य सम्भूतशब्दस्यापि प्रादुर्भावाद्यन्यार्थोपपत्तौ वाय्वादेरप्युत्पत्तिर्न स्यादित्यर्थः । नन्वाकाशादौ श्रुतः सम्भूतशब्दोऽमुख्यार्थो वाय्वादावाकृष्टस्तु मुख्यार्थ एवेति चेत्तत्राह ॥ न हीति ॥ सम्बध्यत इति ॥ तथा च ‘वियदुत्पत्त्यसम्भववन्न तथा श्रुतेः ॥’ इति सूत्रयोजना भवति । ‘न वियदनुत्पत्तिमत्’ इति तात्पर्यतो व्याख्यातमित्यवधेयम् । भाष्ये तथेत्यस्यानुत्पत्तिमत्त्वेनेत्यर्थः ।
शर्करा श्रीनिवासविरचिता
वाक्यार्थमञ्जरी
अध्यात्मेति ॥ आत्मानं देहमधिकृत्य वर्तमानमिन्द्रियादीत्यर्थः ॥ अन्तिमत्वादिति ॥ तस्याः सन्निहितत्वेन प्रथममविचारविषयत्वेन तद्विचारश्चतुर्थपाद इति भावः ॥ उक्तेति ॥ जगत्कारणत्वादीत्यर्थः ॥ अभ्युपगतार्थद्वय इति ॥ श्रुत्यर्थत्वेनाभ्युपगते परापरतत्वरूपद्वये अन्यतरार्थे जगति श्रुतीनामप्रामाण्यप्राप्तावन्यार्थे ब्रह्मणो जगत्कारणत्वादावनाश्वासप्रसङ्गादित्यर्थः । प्रकारान्तरेणोक्तोपयोगमाह ॥ जगत्स्वरूपेति ॥ नन्वत्र पादे सूचीकटाहन्यायेन वक्ष्यमाणक्रमानुसारेणाधिभूताधिदैवपरमात्मजीवेति वक्तव्यम् । अतः कथं जीवादित्वेन ग्रहणमित्यत आह ॥ अत्रेति ॥ जीवादिविचारस्य बह्वर्थविषयकत्वेन जिज्ञासुं प्रत्यभ्यर्हितत्वादल्पाच्तरत्वाच्च क्रमोल्लङ्घनमित्यर्थः । नन्वधिभूताधिदैवेष्विति कथम् । अव्ययं विभक्तीत्यादिनाऽव्ययीभावे सति तस्याव्ययीभावश्चेत्यव्ययत्वापव्ययादात्’ ‘असुप इति सुपो’ लुकाभाव्यत्वादिति चेदुच्यते । नात्राव्ययीभावः । येनोक्तदोषः किन्तु कर्मधारय एव । तत्राधिभूतेत्यत्राधिराधिक्यार्थः । एवं चाधि अधिकानि च तानि भूतानि चेत्यधिभूतानि । भूतानामाधिक्यं च कार्यकारणसाहित्येनेत्यभिप््रोत्य तस्य तात्पर्यमाह ॥ सकारणकार्यभूतानीति ॥ कारणमव्यक्तादिकार्यमन्नादितत्सहित-पञ्चभूतानीत्यर्थः । वक्ष्यमाणरीत्या वियदादिशब्दानामन्योपलक्षकत्वादिति भावः । अधिदैवे-त्यत्राधिरैश्वर्यार्थः । ततश्चाधि ईश्वराणि च तानि दैवतानि चेति विग्रहमभिप््रोत्य तत्तात्पर्यमाह ॥ तदभिमानिदेवतेति ॥ सकारणकार्यभूताभिमानिदेवतेत्यर्थः । आकाशोत्पत्तीत्येतदुपपादनाय भूतेष्वित्याद्युक्तम् ॥ असम्भवीति ॥ आकाशोत्पत्तिविनाशाकर्तृत्वादिति भावः । आकाशोत्पत्ति-समर्थनेनैवासम्भवे निवृत्ते किं श्रुत्यविरोधेनेत्यत उक्तम् । श्रुतिविरोधेनेति ॥ आकाशोत्पत्तिश्रुतेः श्रुत्यन्तरविरोधेनाप्रामाण्ये तद्दृष्टान्तेन विशिष्टभागस्याप्यप्रामाण्यप्रसङ्गादिति भावः ॥ अत एवेति ॥ उत्पत्तिश्रुतेरप्रमाणत्वे न तद्विरोधाभावादेवेत्यर्थः ॥ भाक्तत्ववर्णनमिति ॥ आकाशपदवाच्यानां भूताव्याकृततदभिमानिनां मध्ये अव्याकृतादीनां स्वरूपानादित्वपरत्ववर्णनमित्यर्थः ॥ अन्यार्थ-तयेति ॥ प्रादुर्भावतयेत्यर्थः । वाय्वादावित्यनन्तरमनुवृत्तसम्भूतशब्दस्येति योज्यम् । कुत इत्यत आह ॥ न हीति ॥ ॐ न वियदश्रुतेः ॐ । वियदनुत्पत्तिमन्न भवति कुतो ऽश्रुतेर् अनुत्पत्तिश्रुत्यभावादित्यर्थः ।
ॐ अस्ति तु ॐ
सूत्रभाष्यम्
॥ ॐ अस्ति तु ॐ ॥ २ ॥
अस्त्येव चोत्पत्तिश्रुतिः –
‘आत्मन आकाशः सम्भूतः’ (तै.उ.२-१) इत्यादि ॥
तत्त्वप्रदीपिका
न केवलमनुत्पत्तिर्न श्रूयते । ॐ अस्ति तु ॐ । अस्त्येव चोत्पत्तिवादिनी श्रुतिः । आदिशब्दात् ‘खं वायुः’ ‘नाभ्या आसीदन्तरिक्षं’ ‘सन्देहो बहुल’ इत्यादिका ।
त्त्वप्रकाशिका
न वियत उत्पत्त्यभावे प्रमाणं नियमेन वक्तव्यम् । उत्पत्तौ प्रमाणाभावादेव तत्सिद्धेः । न हि घटे प्रमाणाभावे पुनस्तदभावे प्रमाणापेक्षा स्यादित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे ॥ अस्तीति ॥ नोत्पत्तौ प्रमाणाभावः । श्रुतेरेव विद्यमानत्वादिति भावः ।
भावबोधः
॥ नियमेनेति ॥ क्वचिदभावसद्भावे पृथक् प्रमाणस्याप्युपन्यासादिति भावः ।
भावदीपः
वियदनुत्पत्तौ प्रत्यक्षस्याप्रसरादश्रुतेरिति श्रुत्यभावोक्त्या च प्रत्यक्षश्रुत्यन्यतरमूलतया प्रवर्तमानस्यानुमानस्य तयोरभावेऽभावात्सूत्रादावश्रुतेरित्युक्तावपि प्रमाणाभावादित्येवोक्तं भवतीति मत्वाऽनुवदति ॥ न वियत उत्पत्त्यभावे प्रमाणं नियमेन वक्तव्यमिति ॥ ईक्षतेर्नाशब्द-मित्यादावभावसत्त्वेऽपि प्रमाणोपन्यासान्नियमेनेत्युक्तम् । नासतोऽदृष्टत्वादित्यादौ कारणत्वे प्रमाणाभावादेव कारणत्वाभावसिद्धेरुक्तत्वादिति भावः । उक्तशङ्कानिरासकत्वाप्रतीतेर्भाष्य-भावमाह ॥ नोत्पत्ताविति ॥
वाक्यार्थमुक्तावली
ईक्षतेर्नाशब्दमित्यत्र शब्दवाच्यत्वाभावे प्रमाणस्योक्तत्वान्नियमेनेत्युक्तम् ॥ तत्सिद्धेरिति ॥ नासतोदृष्टत्वादित्यादौ कारणत्वे प्रमाणाभावादेव तदभावसिद्धेरित्युक्तत्वादिति भावः ॥ श्रुतेरेवेति ॥ एतेनाश्रुतेरित्यतः श्रुतिरित्यनुवर्तते । तुरेवार्थ इत्युक्तं भवति ।
तत्त्वसुबोधिनी
॥ नियमेनेति ॥ क्वचिद् गगनाभावे पृथक् प्रमाणस्याप्युपन्यासादिति भावः ।
वाक्यार्थविवरणम्
॥ उत्पत्त्यभावे ॥ अनुत्पत्तिमत्त्वे ।
वाक्यार्थमञ्जरी
॥ नियमेनेति ॥ क्वचिदभावसद्भावेऽपि पृथक् प्रमाणस्योपन्यासादिति भावः ॥ ॐ अस्ति तु ॐ ॥ अस्त्येव वियदुत्पत्तिश्रुतिरात्मन आकाश इत्यादिकेत्यर्थः ।