ॐ उत्पत्त्यसम्भवात् ॐ
१२. अथ उत्पत्त्यधिकरणम्
सूत्रभाष्यं
शक्तिपक्षं दूषयति–
॥ ॐ उत्पत्त्यसम्भवात् ॐ ॥ ४२ ॥
न हि पुरुषाननुगृहीतस्त्रीभ्य उत्पत्तिर्दृश्यते ।
सत्तर्कदीपावली
पाशुपतपक्षनिराकरणन्यायेन स्कन्दसूर्यगणेशादिमतान्यपि निराकृतानि वेदितव्यानि । शाक्ते पक्षे तु दोषविशेषसम्भवात् तं दूषयति ॥ शक्तिपक्ष इत्यादिना ॥ त्रिपुरी भैरवीत्यादिनाभिधेया शक्तिः केवला शक्तिर् न ब्रह्मादिजगदुत्पादिका पुरुषरहितत्वात् । न हि पुरुषाननुगृहीतस्त्रीभ्य उत्पत्तिर्दृश्यते ।
तत्त्वप्रदीपिका
उक्तन्यायेन निरस्तेऽपि शाक्तेयसमयेऽधिकदूषणविवक्षया पुनरारम्भः । शक्तिस्सर्वज्ञा सर्वेश्वरी सर्वकर्त्री, सदाशिवप्रधानाः सर्वे तदधीना इति शाक्तेया मन्यन्ते । तेऽपि महान्तो मध्यमाः क्षुद्रा इति त्रिविधाः । तत्राऽद्ये पक्षे शक्तिरीषदपि पुरुषाकाङ्क्षिणी नेष्यते । अपरे तदङ्गभूतो दयितः शिवः । चरमे स एव सर्वज्ञादिगुणवान् सदृशो रमणः । तत्र प्रथमतः प्रथमं प्रतिक्षिपति । उत्पत्त्यसम्भवात् । पुरुषेभ्यः स्त्रीपुरुषेभ्यो वोत्पत्तिर्दृष्टा, न स्त्रीभ्य एव । अङ्गादीनामपि ह्यौचथ्यादिभ्यः स्पर्शनाद्यनु-ग्रहादेवोत्पत्तिः ।
तत्त्वप्रकाशिका
अधिकरणार्थं दर्शयति ॥ शक्तीति ॥ पूर्वन्यायेन निरस्तमपि शक्तिमतमसाधारण-दोषाविष्कारेण पुनर्दूषयतीति भावः । अत्र विष्णोर्जगत्कारणत्वे शक्तिमतविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । विष्णोर्जगत्कारणत्वमुक्तम् । तत्र शाक्तेयमतविरोधेऽनुपपत्तिशङ्का स्यादत-स्तन्निरसनीयमेव । विष्णोर्जगत्कारणत्वं विषयः । युक्तमयुक्तं वेति सन्देहः । समयविवादः सन्देहबीजम् । न युक्तमिति पूर्वः पक्षः । शक्तिरेव खलु सार्वज्ञादिगुणशालिनी सकलजगज्जननी श्रुतिस्मृतीतिहासपुराणेषु पठ्यते अतो न हरेर्जगत्कारणत्वलक्षणं सम्भवतीति प्राप्ते सिद्धान्तय-त्सूत्रमुपन्यस्य व्याचष्टे ॥ उत्पत्तीति ॥ न शक्तेरेव जगत्कर्तृत्वं युक्तम् । पुरुषाननुगृहीतत्त्वात् । न हि पुरुषाननुगृहीतस्त्रीमात्रात् क्वचिदुत्पत्तिर्दृष्टेति भावः ।
गुर्वर्थदीपिका
असाधारणदोषेत्यत्र पुरुषरहितस्त्रीमात्रस्य उत्पादकत्वासम्भवाख्यदोषाविष्कारेणेत्यर्थः । अयं च दोषो न पुरुषेषु स्त्रीरहितपुरुषमात्रादपि द्रोणादीनामुत्पत्तिदर्शनादिति भावेनोक्तम् असाधारणेति ।
भावबोधः
‘निराकृतौ विशेषस्य भावाच्छक्तिमतं पृथक् दूष्यते’ इत्यनुव्याख्यानानुसारेणानन्तर-सङ्गतिमाह– पूर्वन्यायेनेति ॥ युक्तमिति ॥ अत्र विष्णोर्जगत्कारणत्वं किं न युक्तमुत युक्तमिति चिन्ता । तदर्थं शक्तिमतं श्रुत्युक्ततदपबाधनक्षमं भवत्युत नेति । तदर्थं तत्परिकल्पितं शक्तेः सर्वकर्तृत्वं सम्भवत्युत पुरुषाननुगृहीतस्त्रीभ्य अपत्योत्पत्त्यदर्शनेन न सम्भवतीति । अनुग्राहक-पुरुषाङ्गीकारपक्षेऽपि तस्योत्पत्त्युपयोगिज्ञानादिसाधनं किमस्त्युत नास्तीति । तस्योत्पत्त्युप युक्तज्ञानाद्यङ्गीकारपक्षेऽपि शक्तेः कर्तृत्वाङ्गीकारे प्रयोजनं किमस्त्युत पाशुपतपक्ष इवानुग्राहक पुरुषस्यैव कर्तृत्वसम्भवान्नास्ति प्रयोजनमिति । ‘तन्नोपपद्यते, तत उत्पत्त्यसम्भवात्’ इत्यनु-व्याख्यानेऽध्याहृतशक्तिमताऽयुक्तत्वे ‘उत्पत्त्यसम्भवात्’ इति सौत्रो हेतुरित्युक्तम् । तत्रासिद्धि-परिहारकतया भाष्यं व्याचष्टे– न शक्तेरेवेति ॥ व्याप्तिप्रदर्शनपरत्वेन भाष्यं व्याचष्टे– न हीति ॥ उत्पत्तिरपत्योत्पत्तिरित्यर्थः ।
भावदीपः
पूर्वमेवास्य मतस्य तुल्यन्यायतया निराकृतत्वोक्तेरपौनरुक्त्याय निराकृतौ विशेषस्य भावा-च्छक्तिमतं पृथक् । दूष्यत इत्यनुभाष्योक्तं भाष्यस्य भावमाह ॥ पूर्वेति ॥ दशमस्कन्धेऽपि ‘पाषण्डवामशैवाद्यैर्वेदमार्गाः कलौ यथा’ इति वाममतस्य पृथगुक्तेरिति भावः । महावाममतमाद्य-सूत्रनिरस्यमनुवदति ॥ शक्तिरेवेति ॥ श्रुतिस्मृतीति ॥ सर्वेषामपि तत्परत्वादिति भावः । अनुक्तोपालम्भभ्रान्तिनिरासाय महावाममतनिरासकत्वं स्फोरयन्नञनुवृत्त्या साध्यसाधने आह ॥ न शक्तेरेवेति ॥ पुरुषाननुगृहीतत्वेऽपि कुतो न कर्तृत्वमित्यतः सौत्रो हेतुरिति भावेन तदुपपादकं भाष्यमनुवदति ॥ न हीति ॥
अभिनवचन्द्रिका
पुरुषाननुगृहीतस्त्रीमात्रादिति ॥ ननु पुरुषाननुगृहीतस्त्रीमात्रादुत्पत्तिः प्रमाणदृष्टा न भवति, आहोस्वित् प्रत्यक्षदृष्टा भवति । नाद्यः ‘अजामेकां लोहितशुक्लकृष्णाम्’ इति परोदाहृतबह्वागम-सद्भावात् । न द्वितीयः प्रमाणविशेषाभावस्य प्रमेयाभावासम्पादकत्वात् । मा हि भूत् प्रत्यक्षा-भावेन अतीन्द्रियार्थविलोपः, मा च भूद् आगमाभावेन ऐन्द्रियिकार्थविलोपः । किं च पुरुषाननु-गृहीताभ्योऽपि स्त्रीभ्यः घटाद्युत्पत्तिर्दृश्यत इत्यसिद्धिः । अपत्योत्पत्तिर्न दृश्यत इति चेत्, मा दर्शि, न ह्यस्माभिर् लौकिकस्त्रीवद् गर्भिणी भूत्वा जगज्जनयित्री शक्तिरित्यभ्युपगम्यते । येन पुरुषानुग्रहोऽपेक्षितः स्यात् । किं नाम सङ्कल्पादेव जगज्जनयित्री शक्तिरभ्युपगम्यते । अन्यथा पुरुषान्महदादिसृष्टिरदृष्टेति ईश्वरादपि जगत्सृष्टिर्न स्यात् । अथ तत्र प्रमाणबलादभ्युपेयं तर्हि इदमप्यभ्युपेयम्, विशेषादिति चेत्, मैवम् । शक्तिः सङ्कल्पमात्रेण जगज्जनयित्री इत्यस्यार्थस्य प्रमाणादृष्टत्वादित्याशयात् । यच्च परेणोदाह्रियते न तत् स्वातन्त्र्येण जगत्कर्तृत्वे मानम्, अपि तु ईश्वराधीनतया जगत्कर्तृत्वे मानमिति बोध्यम् ।पूर्वपक्षस्तु– न विष्णोर्जगत्कारणत्वं युक्तम् । शाक्तेयमतविरुद्धत्वात् । शक्तिरेव खलु सार्वज्ञादिगुणशालिनी सकलजगज्जननी श्रुतिस्मृतीतिहासपुराणेषु पठ्यते । अतो लक्षणं हरेर्न युक्तमिति ।
सिद्धान्तस्तु– युक्तमेव हरेर्जगत्कारणत्वं शाक्तेयमतस्याप्रामाणिकत्वेनाविरोधकत्वात् । तथा हि यदुच्यते शक्तिरेव पुरुषाननुगृहीता जगत्कारणमिति न तद्युक्तं, शक्तिरेव पुरुषाननुगृहीता जगत्कारणमित्यस्यार्थस्य प्रमाणादृष्टत्वात् । परोदाहृतानां ‘अजामेकाम्’ इत्यादिप्रमाणानां तु ईश्वराधीनतयैव जगत्कारणत्वाभिधायित्वेनातत्परत्वात् । अपरे तु शाक्ता मन्यन्ते सार्वज्ञादि-गुणविधुरः सदाशिवः शक्त््यनुग्राहकोऽस्ति । तदनुगृहीतायाः शक्तेर् जगत्कारणत्वे ‘अजामेकाम्’ इत्यादिश्रुतेः प्रमाणत्वात् । सदाशिवानुगृहीता शक्तिः, जगत्कारणमिति । तन्न सदाशिवस्य ज्ञानादिवैधुर्येणाऽनुग्राहकत्वायोगात् । ये तु शाक्ताः सदाशिवस्य सार्वज्ञादिकं मन्यन्ते तेषां शक्तिकारणत्वाङ्गीकारवैयर्थ्यात् तन्मतं पाशुपतमतेऽन्तर्भवतीति तन्निरासेनैव निरस्तम् । सर्वश्रुतिस्मृतिविरुद्धत्वाच्च सर्वमपि शाक्तेयमतमयुक्तमेवेति, युक्तं विष्णोर्जगज्जन्मादिकारणत्व-लक्षणमिति सिद्धम् ।
॥ इति श्रीमत्सत्यनिधितीर्थश्रीचरणाराधकश्रीमत्सत्यनाथयतिविरचितायां
तत्त्वप्रकाशिकाऽभिनवचन्द्रिकायां द्वितीयाध्यायस्य द्वितीयः पादः ॥
वाक्यार्थमुक्तावली
निराकृतौ विशेषस्य भावाच्छक्तिमतं पृथग्दूष्यत इत्यनुव्याख्यानानुसारेण गतार्थतां परिहर-न्ननन्तरसङ्गतिमाह ॥ पूर्वन्यायेनेति ॥ अत एव दशमस्कन्धे ‘पाषण्डवामशैवाद्यैर् वेदमार्गाः कलौ यथा’ इति वाममतस्य पृथगुक्तिरिति ज्ञेयम् ॥ युक्तमिति ॥ शाक्तेयमतविरोधादयुक्त-मुतयुक्तमिति चिन्ता । तदर्थं तत्प््राक्रिया प्रमाणवत्युत नेति । शाक्तेयास्त्रिविधा मताः । वामा मध्यमवामा अणुवामाश्चेति । तत्राद्यं सूत्रनिरस्यम् । महावाममतमनुवदति ॥ शक्तेरेवेति ॥ पुरुषानुग्रहरहिता शक्तिरेव सदाशिवाद्यखिलजगज्जननी । अतः सर्वज्ञादिगुणशालिनीत्यर्थः । तस्यास्सदाशिवाद्याश्च जायन्त इत्यनुव्याख्यानोक्तेरिति सूत्रे शक्तिमतमयुक्तम् । अध्याहृत-साध्येनोत्पत्त्यसम्भवादिति पञ्चम्यान्वयः । शक्तेर् जगदुत्पत्त्यसम्भवादित्यर्थः । तदुक्तमनु-व्याख्याने ‘तन्नोपपद्यते । तत उत्पत्त्यसम्भवादिति ॥ ननूत्पत्त्यसम्भवस्त्वसिद्ध इत्यतो हेतुं साधयति ॥ न शक्तेरेवेति ॥ तत्र व्याप्तिप्रदर्शनपरतया भाष्यं योजयति ॥ न हीति ॥ एतेन पुरुषाननुगृहीतस्त्रीभ्यः कुत्राप्युत्पत्त्यसम्भवाद् व्यभिचाराभावात् शक्तेरपि केवलाया उत्पत्त्य-सम्भवात् तन्मतमयुक्तमिति सूत्रार्थ उक्तो भवति । ननु केवलायाः स्त्रियो घटाद्युत्पत्तिदर्शनाद् व्यभिचार इति चेदपत्योत्पत्तेरिह विवक्षितत्वात् । उक्तं च सुधायाम् ‘सृष्टिशब्देनापत्योत्पत्ति-र्विवक्षिता न सृष्टिमात्रम् । केवलाभ्योऽपि स्त्रीभ्यो दर्शनात्’ इति । एतेनैतदपि निरस्तम् । शक्तेर् लौकिकस्त्रीवद् गर्भिणी भूत्वापत्योत्पादकत्वानङ्गीकारात् सङ्कल्पमात्रेणापत्योत्पादकत्वात् पुरुषानुपयोग इति पुरुषानुग्रहाभावे स्त्रीणामपत्योत्पादकत्वस्य कयापि विधयानुपपत्तेरिति ।
तत्त्वसुबोधिनी
निराकृतौ विशेषस्य भावशक्तिमतं पृथक् दूष्यते इत्यनुव्याख्यानं मनसि निधायानन्तर-सङ्गतिमाह ॥ पूर्वन्यायेनेति ॥ उत्पत्त्यसम्भवादिति सौत्रहेतोरसिद्धिपरिहारकतया भाष्यं व्याचष्टे न शक्तेरेव इति ॥ व्याप्तिप्रदर्शनपरतया भाष्यं व्याचष्टे ॥ न हीति ॥ उत्पत्तिर् अपत्योत्पत्तिः ।
वाक्यार्थविवरणं
ननु न दूषणीयोऽयं पक्षः । स्कन्दादिमतवदस्यापि पूर्वन्यायेन निरस्तत्वात् । यथा हि पत्युरित्यस्य स्थाने स्कन्दस्येत्यादि पठित्वा असामञ्जस्ये तदनुसारिण्यः श्रुतय उदाह्रियन्ते । सम्बन्धानुपपत्त्यादिकं तद्विषयं योज्यते, तथा शक्तावपि वक्तुं शक्यमेव । अन्यथा स्कन्दादिदर्शनमपि पृथगपाकरणीयं स्यात् । अथोच्यते । शाक्तमते पाशुपतादावाचारभेदादेः सत्त्वात् सिद्धान्ताविशेषो नास्तीति । तन्न । सौरादिमतेष्वपि तस्य सत्त्वात् । अथ किं तेन । देवतापरिग्रहमन्तरेणोक्तार्थविरुद्धो दूष्योऽर्थः सर्वत्र समान इति ब्रूषे । तच्छाक्तेऽपि समानमित्यतो नायं पक्षः पृथग्दूष्य इत्याशङ्कायां ‘निराकृतौ विशेषस्य भावाच्छक्तिमतं पृथग् । दूष्यत’ इत्यनुव्याख्यानं हृदि निधायोत्तरमाह ॥ पूर्वोक्तन्यायेनेति ॥ असाधारणेति । उत्पत्त्यसम्भवो हि शाक्तस्यैवासाधारणो दोषो न पुरुषदैवतानामिति भावः ॥ दूषयति ॥ सूत्रकार इति शेषः । ‘तस्याः सदाशिवाद्याश्च जायन्ते देवमानुषाः । भृतं भौतिकमप्येतत्’ इत्येतदनुसन्धायाह ॥ सकलजगज्जननीति ॥ इति प्राप्ते ॥ महावाममते प्राप्ते सतीत्यर्थः । शक्तेरेव केवलाया इत्यर्थः ॥ उत्पत्तिरिति ॥ अत्रोत्पत्तिशब्देनापत्योत्पत्तिरिति सुधारीत्या व्याख्येया ।
वाक्यार्थमञ्जरी
पूर्वोक्तन्यायेन असामञ्जस्यादित्यनेन महावाममतमाह ॥ शक्तिरेवेति ॥ न शक्ते-र्जगत्कारणत्वं कुत उत्पत्त्यसम्भवात् स्त्रीमात्रादपत्योत्पत्त्यसम्भवादित्यर्थः ।
ॐ न च कर्तुः करणम् ॐ
सूत्रभाष्यम्
॥ ॐ न च कर्तुः करणम् ॐ ॥ ४३ ॥
यदि पुरुषोऽङ्गीक्रियते तस्यापि करणाभावादनुपपत्तिः ।
सत्तर्कदीपावली
पुरुषो ज्ञानशक्त्यादिकरणरहितो न ब्रह्माद्युत्पादनाय शक्त्यापेक्ष्यते । असमर्थत्वेनानुपयुक्तत्वात् ।
तत्त्वप्रदीपिका
द्वितीयं दूषयति ॐ न च कर्तुः करणम् ॐ । यदि पुरुषः सृष्ट्यङ्गमङ्गीक्रियते, तथाऽपि ज्ञानैश्वर्यादि- तत्साधनाभावात्तस्यानुपपत्तिः । न च शक्तिकरणैर्निर्वोढुं शक्यते । तेषामस्वातन्त्र्यात् ।
तत्त्वप्रकाशिका
अस्त्येव शक्त्यनुग्राहकः पुरुषः सदाशिवोऽतस्तस्या जगदुत्पत्तिर्युक्तेति केषाञ्चिच्छाक्तेयानां मतं निराकुर्वत्सूत्रमुपन्यस्य व्याचष्टे ॥ न चेति ॥ यदि पुरुषोऽङ्गीक्रियते शक्त्यनुग्राहकस्तथापि तस्योत्पत्त्युपयोगिज्ञानादिसाधनाभावेनोत्पत्त्यनुपपत्तिरेवेत्यर्थः ।
भावबोधः
‘विज्ञानादिभावे वा’ इत्युत्तरसूत्रानुरोधेन कारणाभावादित्येतद्व्याचष्टे– उत्पत्त्युपयोगि-साधनाद्यभावेनेति ॥
भावदीपः
सौत्रश्चशब्दः कर्तुश्चेत्यन्वेतीति भावेन भाष्ये तस्यापीत्युक्तं तद्व्याचष्टे तथापीति ॥ केषा-ञ्चिदिति ॥ मध्यमवामानामित्यर्थः । करणशब्दार्थो ज्ञानादिसाधनेति । करणत्वोपपादक-मुत्पत्त्युपयोगीति ।
वाक्यार्थमुक्तावली
अनुग्राहक इति ॥ शक्तेः केवलत्वव्यावृत्यर्थं शिवोऽनुग्राहकमात्रम् । वस्तुतस्तु शक्तिरेव जगत्सृष्टौ स्वतन्त्रकारणम् । शिवस्तूपसर्जनमिति मध्यमवामानां मतमित्यर्थः । सूत्रे उत्पत्त्यसम्भव इत्यन्वेति । चोऽप्यर्थे यस्मादित्यर्थे च । करणमिति साधनं ज्ञानं तत्करणमिन्द्रियं तत्करणं शरीरं च विवक्षितम् । ततश्च कर्तुः शक्तेरनुग्रहकर्तुः शिवस्यापि यस्मात् करणं नास्ति तस्मा-दुत्पत्त्यसम्भव इति सूत्रार्थं हृदि निधाय भाष्याक्षरार्थमाह ॥ यदीति ॥ देहवता हि शिवेना-पत्योत्पत्तौ शक्तेः साचिव्यमाचरणीयम् । न च विना देहेन । तस्य प्रलीनवच्छरीरेन्द्रिय-विज्ञानादिविकलस्य तदनुपपत्तेः । न च शिवदेहोत्पत्तौ केवलायाः शक्तेः शक्तिरस्ति । अन्य-त्रापि तथात्वापत्तेः । अजागरस्तनायितशिवाङ्गीकारवैयर्थ्याद् अत्राप्युत्पत्त्यसम्भव एवेति भावः ।
तत्त्वसुबोधिनी
केषांचिच्छाक्तेयानामिति आद्यसूत्रनिरस्तमहावामातिरिक्तमध्यवामानामित्यर्थः । विज्ञानादि-भावे वेत्युत्तरसूत्रानुरोधेन कारणाभावादित्येतद् व्याचष्टे ॥ उत्पत्त्युपयोगीति ॥
वाक्यार्थविवरणं
केषाञ्चित् । मध्यमवामानाम् ॥ ज्ञानादिसाधनाभावेनेति ॥ ननु तदभावेऽपि कुत इति शङ्कोत्तरत्वेनापि न च कर्तुःकरणमिति योज्यम् । कर्तुरीश्वरस्य ज्ञानादौ करणभूतेन्द्रियाभावा-ज्ज्ञानानुपपत्तिः । ननु तदभावोऽपि कुत इति चेन्न । शरीराभावादिति ध्येयम् । अयं भावः । देहवता हि शिवेनापत्योत्पत्तौ शक्तेः साचिव्यमाचरणीयम् । न विदेहेन । तस्य विप्रलीन-वदिन्द्रियज्ञानादिविकलस्य तदनुपपत्तेः । न च शिवदेहोत्पत्तौ केवलायाः शक्तेः शक्तिरस्ति । प्रागुक्तदोषात् । अन्यत्रापि तथोपपत्तौ शिवाङ्गीकारवैय्यर्थ्यापत्तेश्च । न च शिवसहितायाः । विदेहस्य साहाय्यकरणानुपपत्तेः । अतोऽङ्गीकृतस्यापि शिवस्य अजागलस्तनायितत्वेन अत्रा-प्युत्पत्त्यसम्भव एवेति ।
वाक्यार्थमञ्जरी
केषाञ्चिन् मध्यमवामानाम् । कर्तुश्चानुग्राहकस्य शिवस्य करणं ज्ञानादिसाधनं नास्तीत्यर्थः ।