ॐ पत्युरसामञ्जस्यात् ॐ
११. अथ पत्युरधिकरणम्
सूत्रभाष्यम्
पाशुपतपक्षमपाकरोति–
॥ ॐ पत्युरसामञ्जस्यात् ॐ ॥ ३७ ॥
‘यं कामये तं तमुग्रं कृणोमि ।
तं ब्रह्माणं तमृषिं तं सुमेधाम्’ (ऋ.सं.१०-१२५-५)
‘अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्तवा उ’ (ऋ.सं. १०-१२५-५) ।
‘अस्य देवस्य मी•हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः ।
विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत्’ (ऋ.सं.७-४०-५) ।
‘एको नारायण आसीन्न ब्रह्मा नेशानो नाग्नीषोमौ’ (म.ना.उ.१)
इत्यादिश्रुतेः पारतन्त्र्येणासमञ्जसत्वान्न पशुपतिरीश्वरो जगत्कर्ता ।
सत्तर्कदीपावली
अधुना पशुपतेर्जगत्कर्तृत्वं श्रुतिभिस् तावन्निराकरोति । यं कामय इत्यादिना ।
तत्त्वप्रदीपिका
सकलगुणाश्रयः स्वतन्त्रः सर्वकर्ता पशूनां पाशबन्धमोक्षप्रदः पशुपतिरिति पाशुपताः । तत्पक्षं निराकरोति ॥ ॐ पत्युरसामञ्जस्यात् ॐ ॥ न च पशुपतेरीश्वर इति लोकसिद्धस्य रुद्रस्य सर्वेश्वरत्वं जगत्कर्तृत्वं च । एवं हि श्रुत्यर्थः । ‘यं यमुग्रं कामये तं तमुग्रं कृणोमि, यं यं ब्रह्माणं कामये तं तं ब्रह्माणं करोमि’ इति । इह च तात्पर्यमधिकमवगम्यते । ‘अहमेव स्वयमिदं वदामि, जुष्टं देवेभिरुत मानुषेभिः’ इत्यादरणीयत्ववर्णनात् । रुद्राय हन्तवे धनुरातनोमि, रुद्रं हन्तुमित्यर्थः । ‘अहये हन्तवा’ इतिवत् । ‘शरुः’ संहारशीलः । शृृ हिंसायामिति धातोः । उ एव । अस्य विष्णोरेषस्य मी•हुषो देवस्य हविर्भिर्मनसि प्रभरणे हि वयाः सन् रुद्रो रुद्रियं महित्वं विदे । हे अश्विनौ युवामप्यन्नवतीं वृत्तिं हविर्भिः प्रभरणे च विष्णोः सकाशादेव यासिष्टम् । ‘मीढ्वान्’ समर्थः । वया बन्धकः । ‘वय बन्धन’ इति धातोः । विदे लेभे ‘विद लाभ’ इति धातोः । हविर्भिः प्रभरणे । कर्मणा ध्यानेन । ‘प्रभृतं’ प्रभरणम् । इत्थं पारतन्त्र्यादयोगो रुद्रस्य सृष्टौ ।
तत्त्वप्रकाशिका
अधिकरणार्थं दर्शयति ॥ पाशुपतेति ॥ अवैदिकपाषण्डिसमयनिरासानन्तरं वैदिकाभासा निरसनीयाः । ते च पाशुपतशाक्तेयसौरस्कान्दगाणपताः । तेषु पाशुपतस्यैव प्राबल्यात्तन्मतमादौ दूष्यत इति भावः । अत्र हरेर्जगत्कर्तृत्वे पाशुपतमतविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । विष्णु-रेवाशेषजगत्कर्तेत्युक्तम् । तस्य पाशुपतमतविरोधेऽदार्ढ्यं स्यादिति तन्निराकर्तव्यमेव । तद्विष्णोर्जग-त्कारणत्वं विषयः । युक्तमयुक्तं वेति सन्देहः । समयविप्रतिपत्तिः सन्देहबीजम् । न युक्तमिति पूर्वः पक्षः । पशुपतिः खलु सार्वज्ञादिगुणशाली मायामुपादानीकृत्य हरिहिरण्यगर्भादिजगदुत्पत्त्यादि करोति । तथा श्रुतिस्मृतयोऽस्मिन्नर्थे भवन्ति । तथा च का वार्ता हरेर्जगत्कारणत्वस्यातो न लक्षणसूत्रं युक्तमिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ पत्युरिति ॥ न पत्युरज्ञजनप्रसिद्धेश्वरस्य पशुपतेर्जगत्कारणत्वं युक्तम् । पारतन्त्र्यजननमरणादिदोषित्वेन श्रुतत्वात् । न हि सकलकारणस्य दोषित्वं युक्तमिति भावः । ब्रह्मद्विषे चतुर्मुखस्य पञ्चममुखच्छेत्रे । शरवे हिंसनशीलाय । हन्त वै हन्तुमेव न तु भीषणाद्यर्थमिति भावः । अस्य आ समन्तादीशस्याभीष्टसेचकस्य विष्णोर्देवस्य हविर्भिः प्रभरणे कृते सत्यहङ्काररूपेण बन्धको रुद्रो रौद्रं महिमानं यथा लेभे तथा युवामपि विष्णुपूजयैवान्नवद्वर्तनं प्राप्तवन्तौ स्थ इत्यर्थः ।
गुर्वर्थदीपिका
‘हन्त वै हन्तुमेवेत्यत्र तुमर्थे सेसेन’ इत्यादिना सूत्रेण तुमर्थे तवै प्रत्ययस्य विधानात् हन्तवै हन्तुमित्यर्थः । एवेति तुशब्दार्थकथनमिति ज्ञेयम् । आ समन्तादीष्ट इति समासे गुणे च कृते एष इत्यकारान्तः शब्द इति भावेनाह– ईशस्येति ॥ एतच्छब्दरूपत्वे तु एतस्येत्येव स्यान् न तु एषस्येति अत उक्त एवार्थः । ‘मिह सेचन’ इति धातोर् अभीष्टसेचकस्येत्युक्तं, तृतीयोऽतिशय इति वचनात्तकारस्य थकारः । प्रकर्षेण भृथं प्रभृथमिति भावेनोक्तं प्रभरण इति ॥ अग्ना-वन्नाहुतिदानेन पूजायां बहुनैवेद्यसमर्पणेन वोदरपूर्तौ कृतायां सत्यामित्यर्थः । ‘वय बन्धन’ इति धातोर् वया बन्धक इत्युक्तम् । अहङ्कारेणेति तु योग्यतया लभ्यते । रुद्रस्याहङ्कारतत्वाभि-मानित्वात् । अभिनवैश्वर्यप्राप्तिसूचनार्थं रुद्रियमित्यस्यार्थकथनं रौद्रमिति । समुद्रियं लवण-मितिवद्रुद्रियमिति पदं ज्ञेयम् । रुद्रपदवन्तो रुद्रिणस्तैः प्राप्यमिति वा रुद्रियम् । ‘विद लाभे’ इति धातोर् विद इत्यस्यार्थकथनं लेभ इति । तद्वदेव पूर्ववर्णाभ्यासाभावोऽपि वैदिकत्वादिति ज्ञेयम् । ‘इरेत्यन्ननाम’ इति श्रुतेर् इरावदित्यस्य अन्नवदित्यर्थकथनम् । ‘वृतु वर्तन’ इति धातोः सर्पिःपदवत्, सकारान्तनपुंसकं च वर्तिःपदमिति भावेनोक्तं वर्तनमिति । ‘या प्रापण’ इति धातोर् अयासिष्टमिति लुङि मध्यमपुरुषद्विवचनम् । तस्य ‘बहुलं छन्दस्यमाङ्योगेऽपि’ इति सूत्रा-दडागमलोपे सति यासिष्टमित्येव रूपमिति भावेनोक्तं प्राप्तवन्तौ स्थ इति ॥ विष्णुपूजयेत्यस्य तु दृष्टान्तबलात्प््र•प्तिः ।
भावबोधः
अनन्तरसङ्गतिमाह– अवैदिकपाषण्डीति ॥ प्राथम्ये निमित्तमाह– तेषु पाशुपतस्यैव प्राबल्यादिति ॥ शक्तिसूर्यगणपत्यादीतरदेवापेक्षया पशुपतेर् वेदे त्वापाततः पुराणादौ मोहनार्थं जगत्सृष्ट्यादिकर्तृत्वसर्वोत्तमत्वादेरुक्तत्वेन तदवलम्बनेन प्रवृत्तस्यास्य मतस्यात्यन्तवेदविरोधितया प्राबल्यादित्यर्थः ॥ युक्तमिति ॥ अत्र विष्णोर्जगत्कारणत्वं किमयुक्तमुत युक्तमिति चिन्ता । तदर्थं पाशुपतसमयः किं श्रुत्युक्ततदपबाधनक्षमो भवत्युत नेति । तदर्थं पाशुपतैः परिकल्पितं पशुपतेर्जगत्कारणत्वमुपपन्नमुत दोषित्वाशरीरत्वनिरधिष्ठानत्वादियुक्तिविरुद्धत्वेनानुपपन्नमिति । तदर्थं मायादिनित्यकारणकलापस्य पशुपतेर्जगत्सृष्ट्याद्यर्थं शरीराधिष्ठानादिरूपत्वं सम्भवत्युत नेति । तदर्थं तस्य शरीररूपत्वे तदुपादानत्यागनिमित्तकोत्पत्तिविनाशसुखदुःखादिदोषा न प्राप्नुवन्ति उत प्राप्नुवन्तीति । तदर्थं पाशुपतकर्तृत्वपक्षोक्तदोषा विष्णुकर्तृत्वपक्षेऽपि प्राप्नुवन्त्युत न प्राप्नुवन्तीति । तदर्थं विष्णोर्निर्दोषत्वादौ पशुपतेर्दोषित्वादौ प्रमाणं नास्त्युतास्तीति ॥ पञ्चम-मुखच्छेत्र इति ॥ सुधायां तु विभक्तिवचनव्यत्ययेन ब्रह्मद्विषां दैत्यानां शरवे हिंसकायेति व्याख्यातम् । एष शब्दस्य आईश इति विग्रहः । शकारस्य व्यत्ययेन षकार इत्यभिप्रेत्याह– आ समन्तादीशस्येति । सुधायाम् इषु इच्छायामित्यतो घञ्प््रात्यये ‘पुगन्तलघूपधस्य च’ इति गुणे निष्पन्नस्यास्येच्छारूपस्येति व्याख्यानं कृतम् ।
भावदीपः
सङ्गतिमाह ॥ अवैदिकेति ॥ अत्र गाणपतेति पाठः साधुः । गणपतिशब्दस्य पत्युत्तर-पदत्वेऽपि दित्यादित्यपत्युत्तरपदाण्ण्य इति न भवति । अश्वपत्यादिभ्यश्च’ इति अण्प््रात्ययेनैव भाव्यत्वात् । चतुर्थाद्यपादे अश्वपत्यादिभ्यश्च’ इति सूत्रे मञ्जर्यां गाणपत्य इत्यपशब्द इत्युक्तत्वाच्च ॥ आदाविति ॥ अन्यमतोपलक्षणत्वेन मुखतो दूष्यत इत्यर्थः । यद्वा शक्तिमतापेक्षया आदा-वित्युक्तिः । सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तं सदाशिवमित्यनुभाष्यदिशाऽऽह ॥ पशुपतिरित्यादि ॥ स्रष्टृत्वादिघटनायोक्तम् ॥ सार्वज्ञादीति ॥ करणवच्चेदित्येतदुपयोगायाह ॥ मायामिति ॥ तथा श्रुतिस्मृतय इति ॥ सर्वासां पाशुपतोक्तदिशा तत्परत्वादिति भावः । पूर्वसूत्रान्नञनुवृत्तिं मत्वा सूत्रभाष्ययोः प्रतिज्ञाहेत्वंशौ व्यनक्ति ॥ न पत्युरिति ॥ व्याहतिनिरासायाह ॥ अज्ञजनेति ॥ श्रौतपदानि व्याचष्टे ॥ ब्रह्मद्विष इति ॥ सुधायां तु व्यत्ययमाश्रित्य ब्रह्मद्विषां शरवे हिंस-कायेति व्याख्यातम् । दक्षप्रजापतिद्विष इति वेति चन्द्रिका ॥ हिंसनेति ॥ शृहिंसायामिति धातोः ॥ हन्तुमेवेति ॥ तुमर्थे ‘सेसेनसेऽसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन् शध्यैशध्यैन्तवैत-वेङ्तवेन’’ इति तवै प्रत्ययः । एष शब्दस्य आईश इति विग्रहः । शकारस्य व्यत्ययेन षकार इति भावेनाह ॥ आसमन्तादीशस्येति ॥ इच्छारूपस्येति सुधायां व्याख्यातम् । मी•हुषो अभीष्टसेचकस्य । मिह सेचने । प्रभृथे प्रभरणे ॥ बन्धक इति ॥ वयबन्धन इति धातोः । विदे लेभे विदिर्लाभे । इरावद् अन्नवत् । यासिष्टम् अयासिष्टम् । छन्दस्यमाङ्योगेऽपीत्यडभावः । लुङ्मध्यमपुरुषद्विवचनम् । प्राप्तवन्तौ स्थ इति ।
अभिनवचन्द्रिका
हन्तुमेवेति ॥ ननु उशब्दस्य एवेति व्याख्यानमनुपपन्नम् । हननस्याकृतत्वात्, भीषणस्यैव कृतत्वात् । ततश्च हन्तुमेवेति प्रतिज्ञाय हननाकरणे भीषणमात्रकरणे च अम्भ्रण्या इच्छा मोघा स्यादिति चेत्, उच्यते न ब्रूमो वयं ‘हन्त वा उ’ इति हननसङ्कल्प इति येनोक्तदोषः स्यात् । किं नाम यथा क्रुद्धः पिता पुत्रं म्रियस्वेत्याक्षेपपूर्वकं दुर्गुणपरित्यागाभिप्रायेण वदति, तथा अम्भ्रण्यपि रुद्रस्याऽतिभीषणतया तद्वधमनभिप्रेत्यैव हन्तुमेव धनुरातनोमि न तु भीषणार्थ-मिति वदतीत्यङ्गीकारात् । ‘एषस्य’ इति पदं व्याचष्टे – आसमन्तादीशस्येति ॥ आ ईशस्येति स्थिते गुणे शकारस्य छान्दसे षत्वे च एषस्येति रूपं भवति । मील्हुषो इत्यस्य व्याख्यानम्– अभीष्टसेचकस्येति ॥
वाक्यार्थमुक्तावली
अनन्तरसङ्गतिमाह ॥ अवैदिकेति ॥ भाष्यटीकयोः पाशुपतशब्देन पशुपतिसर्वोत्तमत्त्व-वादित्वात् शैवपाशुपतकालामुखमहाव्रतसंज्ञकानां चतुर्णां ग्रहणम् ॥ प्राबल्यादिति ॥ बहुश्रुति-पुराणसंवादित्वेनास्य मतस्यातिविरोधित्वादित्यर्थः । बहुजनपरिगृहीतत्वाद्वा ॥ आदाविति ॥ अन्यमतोपलक्षणत्वे मुखतो दूष्यत इत्यर्थः । यद्वा शक्तिमतापेक्षयादावित्युक्तिः । न च शास्त्रयोनिसूत्रे पाशुपतस्य निरस्तत्वाद् गतार्थत्वमिति वाच्यम् । तत्र पाशुपतागमानुमाना-वष्टम्भेन पूर्वपक्षः । अत्र तु समयिनैव श्रुतिस्मृत्यवष्टम्भेनेति पूर्वपक्षप्रमाणभेदात् । सिद्धान्तेऽप्य-सामञ्जस्यादिबहुप्रमाणोपन्यासाच्च । पौनरुक्त्यभावाच्च । न च समन्वयसूत्रे श्रुत्याद्यवष्टम्भेन पूर्वपक्षे तेषामुपक्रमादितात्पर्यलिङ्गैर् भगवत्परत्वस्योक्तत्वादत्र शङ्कैव नोदेतीति वाच्यम् । तत्र वेदार्थनिर्णायकत्वं पाशुपतादिव्याख्यानस्य वा वेदापातप्रतीतेर्वा न सम्भवति किन्तूपक्रमादि-लिङ्गानामित्येवोक्तत्वेन वैदिकवाक्यविशेषमुपादाय समयिना स्वप्रक्रियोपपादनपूर्वकं शिवसर्वोत्त-मत्त्वस्याप्रतिपादितत्वात् । सिद्धान्तिनापि प्रक्रिया विघटनपूर्वकं श्रुत्यादेरसावकाशितृत्वादिति ॥ युक्तमिति ॥ पाशुपतसमयविरोधादयुक्तम् उत युक्तमिति चिन्ता । तदर्थं तत्प््राक्रिया प्रमाणवत्युत नेति । स्रष्टत्वादिघटनायाह ॥ सार्वज्ञादीति ॥ यद्वा यत्पूर्णगुणत्वं प्रधानलक्षणं विष्णोः प्रथमभूतोक्तं तस्य शिवैकनिष्ठत्वं वक्तुमिदम् । द्वितीयसूत्रोक्तमाक्षेप्तुं हरिहरहिरण्यगर्भेत्यादि । तदनन्यत्वमित्यत्राभिप्रेतप्रकृतिमहदाद्युपादानकत्वाक्षेपाय मायामिति ॥ एतेन तन्मते तत्त्वं त्रिविधम् । पशुपतिपाशा इति ॥ पशवो हरिहिरण्यगर्भादयः । तेषां पतिर्महादेवः । पाशो मायेत्युक्तं भवति ॥ श्रुतिस्मृतय इति ॥ नन्वन्तर्नये देवतावाचकशब्दानां द्युभ्वादिनये विशिष्य रुद्रादिशब्दानां ‘रुजं द्रावयते यस्माद् रुद्रस्तस्माज्जनार्दन’ इत्यादिना समन्वयस्योक्तत्वात् कथं श्रुत्याद्यवष्टम्भेन पूर्वपक्ष इति चेन्न, ‘एको रुद्रो न द्वितीयोऽवतस्थे’ ‘ज्ञात्वा शिवम्’ इत्यादावुप- क्रमादिकं रुद्रपक्षे एवास्तीति दुराग्रहेण प्रत्यवतिष्ठमानं प्रतीह शिवस्य जगत्कर्तृत्वसामर्थ्यविघटने तत्कारणत्वादिप्रतिपादकश्रुतीनां योग्यतादिविरहेण प्रतीतार्थेऽप्रामाण्योपपादनपूर्वकमुक्तसमन्वय स्थिरीकरणादित्यलम् । व्याहतिनिरासायाह ॥ अज्ञजनेति ॥ पञ्चममुखेति ॥ सुधायां तु ब्रह्मद्विषां दैत्यानां हिंसकायेति । दक्षद्विष इति चन्द्रिकायाम् ॥ न तु भीषणार्थमिति ॥ प्रलये दुर्गया हननादिति भावः । एषशब्दस्य आईश इति विग्रहः । शकारस्य षकार इत्यभिप्रेत्याह ॥ आसमन्तादिति ॥ इच्छारूपस्येति सुधायाम् । इरावदित्यस्यान्नवदिति । वर्तिरित्यस्य वर्तनमिति ।
तत्त्वसुबोधिनी
अत्रानन्तरसङ्गतिमाह ॥ अवैदिकेति ॥ प्राथम्ये हेतुमाह ॥ तेषु पाशुपतस्यैवेति ॥ शक्ति-सूर्यगणपत्यादीतरदेवापेक्षया पशुपतेर् वेदपुराणादौ मोहनार्थञ्जगत्सृष्ट्यादिकर्तृत्वसर्वोत्तमत्वादेरुक्त-त्वेन तदवलम्बनेन प्रवृत्तस्य मतस्यात्यन्तवेदविरोधितया प्राबल्यादित्यर्थः । पञ्चममुखछेत्र इति सुधायां तु विभक्तिव्यत्ययेन ब्रह्मद्विषां दैत्यानां शरवे हिंसकायेति व्याख्यातम् । दक्षप्रजापति-द्विष इति वा द्रष्टव्यम् । एषशब्दस्य आईश इति विग्रहः । शकारस्य व्यत्ययेन षकार इत्यभि-प्रेत्याह ॥ आसमन्तादीशस्येति ॥ सुधायां तु इषु इच्छायामित्यतः घञ्प््रात्यये ‘पुगन्तलघूपधस्यच’ इति गुणेति निष्पन्नस्यास्येच्छारूपस्येति व्याख्यानम् ।
वाक्यार्थविवरणम्
श्रुतिस्मृतय इति ॥ ‘जनितोत विष्णोः’ इत्यादिश्रुतीत्यर्थः । अत्र सोमः पवत इति पूर्ववाक्यात् सोम इत्यनुवर्तते । उमया सहितः सोमो रुद्र इत्यर्थः । ईश्वरत्वमेव हि पतित्वम् एवं च यदा तस्येश्वरत्वापरपर्यायं पतित्वं प्रसिद्धं तदा जगत्कारणत्वं प्राप्तमेवेति तन्निषेधो न युक्त इत्यत आह ॥ अज्ञजनप्रसिद्धेति ॥ तथा चाज्ञजनप्रसिद्ध्यैव तस्येश्वरत्वं न वास्तवमिति । युक्तस् तस्य जगत्कारणत्वनिषेध इत्यर्थः । असामञ्जस्याद्दोषत्वादित्यभिप्रेत्य व्याख्याति ॥ पार-तन्त्र्येति ॥ आदिपदेन प्रलये अभावपराधीनपदप्राप्त्यादेर्गहणम् । आ ईश इति विग्रहः । आईशित्यनयोर् एकाररूपं गुणं शकारस्य षत्वं निर्वचनत्वादित्यभिप्रेत्य व्याचष्टे ॥ आ समन्तादिति ॥ बन्धक इति ॥ वय् बन्धन इति धातोरिति ध्येयम् । बन्धकत्वमुपपादयितु-महंकारेणेत्युक्तम् । तदभिमानित्वादिति भावः । ‘इरावद् वर्ति’ इत्यस्य व्याख्यानमन्नवदिति । इरेत्यन्नसंज्ञेत्यन्यत्रोक्तत्वादिति ध्येयम् । ‘अत्र यं कामये’, ‘अस्य दोषस्य’ इत्याभ्यां पराधीन-पदप्राप्तिः । ‘अहम्’ इत्यनेन मृतिः । एक इत्यनेन प्रलये अभावो जनिश्च प्रतीयत इति द्रष्टव्यम् । इत्यादिग्रहणेन ‘एक’ इति श्रुतिविशेषे ‘स मुनिर्भूत्वा समचिन्तयत् । तत एते व्यजायन्त विश्वो हिरण्यगर्भोऽग्निर्यमो वरुणो रुद्रेन्द्रा’ इति रुद्रस्य जनिः प्रतीयते । सर्वाभिरप्येताभिः पारतन्त्र्यं प्रतीयत इति ध्येयम् ।
वाक्यार्थमञ्जरी
प्राबल्यादिति ॥ शक्तिसूर्यगणपत्यादीतरदेवापेक्षया पशुपतेर्वेदपुराणादौ मोहनार्थं जग-त्सृष्ट्यादिकर्तृत्वसर्वोत्तमत्वादेरुक्तत्वेन तदवलम्बेन प्रवृत्तपाशुपतमतस्यात्यन्तास्मन्मतविरोधितया प्राबल्यादित्यर्थः ॥ मायां प्रकृतिम् ॥ पत्युः पशुपतेर् न जगत्कारणत्वं कुतो ऽसामञ्जस्यात् पारतन्त्र्यादिदोषवत्वेन तस्यासमीचीनत्वादित्यर्थः । एषशब्दस्य आईश इति विग्रहः गुणः शकारस्य व्यत्ययेन षकार इत्यभिप्रेत्याह ॥ आसमन्तादीशस्येति ॥ मी•हुषो इत्यस्यार्थो ऽभीष्टसेचकस्येति ॥ वया इत्यस्य बन्धक इति । वयबन्धन इति धातोः । कथं बन्धकत्वमत उक्तम् ॥ अहंकाररूपेणेति ॥ तस्य तदभिमानित्वादिति भावः । इराशब्दार्थोऽन्नमिति ।
ॐ सम्बन्धानुपपत्तेश्च ॐ
सूत्रभाष्यम्
॥ ॐ सम्बन्धानुपपत्तेश्च ॐ ॥ ३८ ॥
अशरीरत्वात्तस्य जगता सम्बन्धो न युज्यते कर्तृत्वेन मृतपुरुषवत् ।
सत्तर्कदीपावली
श्रुतिभिर्निराकृतं युक्तिभिश्च निराकरोति । सम्बन्धानुपपत्तेरित्यादिना । वैशेषिकादिवत्पशु-पतेरीश्वरस्याशरीरत्वेन अङ्गीकृतत्वात् । प्राक् सृष्टेस्तु भौतिकाभावेन लीलागृहीतदेहासम्भवात् ।
तत्त्वप्रदीपिका
सशरीरस्य हि कुलालादेः कर्तृत्वेन सम्बन्धो दृष्टः ।
तत्त्वप्रकाशिका
युक्त्यन्तरेण पशुपतेर्जगत्कारणत्वं पराकुर्वत्सूत्रमुपन्यस्य व्याचष्टे ॥ सम्बन्धेति ॥ जगता सम्बन्धमात्रमशरीरस्यापि सम्भवतीत्युक्तः कोऽसौ सम्बन्ध इत्यतः कार्यकर्तृभाव इति भावेनोक्तम् ॥ कर्तृत्वेनेति ॥ इदमुक्तं भवति । रुद्रो न कर्ता अशरीरत्वान्मृतपुरुषवदिति ।
भावदीपः
सूत्रे चशब्दादाह ॥ युक्त्यन्तरेणेति ॥ पारतन्त्र्यादियुक्त्यपेक्षयेति भावः । किं तद्युक्त्यन्तर-मित्यतो निर्धारयति ॥ इदमुक्तमिति ॥ मृतपुरुषवदिति ॥ त्यक्तदेहजीववत् ।
अभिनवचन्द्रिका
अशरीरत्वादिति ॥ नन्वशरीरत्वमसिद्धं तेन तथानङ्गीकारात्, भवद्भिरपि पूर्वसूत्रे जननमरणादीनामभिधानेन शिवस्य शरीराङ्गीकाराद् इति चेत्, न ब्रूमो वयं सदातनमशरीरत्वं हेतुरिति, येनोक्तदोषः स्यात् । किं नाम आदिकालीनं, न च तदप्यसिद्धं श्रुत्योत्पत्तिश्रवणेन उत्पत्तेः प्राक् अशरीरत्वस्याङ्गीकरणीयत्वात् ।
वाक्यार्थमुक्तावली
अयुक्तः कोऽसौ सम्बन्ध इति । कोऽसावयुक्तः सम्बन्ध इत्यन्वयः । सूत्रे पत्युरित्यस्ति ।
वाक्यार्थविवरणम्
सम्भवतीति ॥ अशरीरस्यापि गगनादेर्जगता सम्बन्धदर्शनादिति भावः ॥ कर्मेति ॥ कार्यकर्तृत्वलक्षणः सम्बन्धोऽशरीरस्य न युज्यत इत्यर्थः ।
वाक्यार्थमञ्जरी
पत्युरशरीरत्वाज्जगता कार्यकर्तृभावसम्बन्धानुपपत्तेश्च न पत्युः कारणत्वमित्यर्थः ।
ॐ अधिष्ठानानुपपत्तेश्च ॐ
सूत्रभाष्यम्
॥ ॐ अधिष्ठानानुपपत्तेश्च ॐ ॥ ३९ ॥
पृथिव्याद्यधिष्ठाने स्थितो हि कुलालादिः कार्यं करोति । न चास्य तदस्ति ।
सत्तर्कदीपावली
अधिष्ठानासम्भवाच्च नासौ जगत्कर्ता । न हि देहरहितस्य अधिष्ठानरहितस्य कर्तृत्वं क्वचिद्दृष्टम् ।
तत्त्वप्रकाशिका
हेत्वन्तरेण पशुपतेर्जगत्कर्तृत्वं निराकुर्वत्सूत्रमुपन्यस्य व्याचष्टे ॥ अधिष्ठानेति ॥ न रुद्रः कर्ता निरधिष्ठानत्वात् । यः कर्ता स साधिष्ठानो यथा कुलालादिरित्यर्थः ।
भावदीपः
हेत्वन्तरमित्युक्तमवधारयति ॥ न रुद्र इति ॥ अन्वयव्याप्तौ दृष्टान्ताभावादाह ॥ यः कर्तेति ॥
वाक्यार्थमुक्तावली
पृथिव्याद्यधिष्ठानानामितःपरमुत्पाद्यत्वादिति भावः ।
वाक्यार्थविवरणम्
शरीरेति ॥ शरीराधिष्ठानयोरित्यर्थः । कुलालादयः कर्तारो दण्डादिकारकचक्रं साक्षात् प्रयत्नेनाधिष्ठातुमनीशानास्तदधिष्ठानाय साक्षात्प््रायत्नाधिष्ठेयं शरीरमपेक्षन्ते । अस्य तु विश्व-कारकचक्रमेव साक्षात्प््रायत्नाधिष्ठेयं शरीरवत् स्यात् । ततः किमपरेण प्रेर्यशरीरेणेति । अत एव भगवान् विश्वमूर्तिरिति गीयते ।
वाक्यार्थमञ्जरी
पृथिव्याद्यधिष्ठानानुपपत्तेश्च न पत्युःकारणत्वमित्यर्थः ।
ॐ करणवच्चेन्न भोगादिभ्यः ॐ
सूत्रभाष्यम्
॥ ॐ करणवच्चेन्न भोगादिभ्यः ॐ ॥ ४० ॥
इदमेव जगत्तस्य करणवदधिष्ठानादिरूपं नित्यस्यापि कस्यचिद्भावाद्युज्यत इति चेन्न भोगादिप्राप्तेः । उत्पत्तिविनाशौ सुखदुःखभोगाश्च प्राप्यन्ते तद्गताः ।
सत्तर्कदीपावली
यदि भौतिकाभावेऽपि तदुपादानस्य प्रधानस्य प्रलये विद्यमानत्वात्तदेव पशुपतेर्देहभूतमाधारभूतं भविष्यतीत्युच्यते । तर्हि पशुपतेर्जडदेहधारित्वेन देवदत्तवज्जन्ममरणसुखदुःखाद्यनुभवितृत्वं स्यात् ।
तत्त्वप्रदीपिका
इदमेव जगत्तस्य शरीरेन्द्रियवदधिष्ठानरूपं शरीररूपं वा । नित्यस्यापि कस्यचिदुपादानस्यान्यस्य वा भावाद्युज्यत इति चेन्न । भोगादिप्राप्तेः । अस्य पदस्य वर्णनारूपमुत्तरभाष्यम् । विकारात्मकोपादानशरीरत्वात्तदुत्पत्त्यादयस्तस्य प्राप्यन्ते ।
तत्त्वप्रकाशिका
उक्तमाक्षिप्य समादधत्सूत्रं पठित्वाऽऽक्षेपांशं तावद् व्याचष्टे ॥ करणवदिति ॥ न पशुपतेः शरीराधिष्ठानाभावेन कर्तृत्वानुपपत्तिः । कारकग्रामस्यैव साक्षात्प््रायत्नाधिष्ठेयतयाऽस्मदादिशरीर-समानत्वेन शरीरान्तरापेक्षाभावात् । साक्षात्प््रायत्नाधिष्ठेयविषयेऽपि शरीरान्तरापेक्षायां तत्रापि तत्प््रासङ्गात्तस्यैव चाधिष्ठानत्वमुपपद्यते । न च वक्तव्यं प्रलये सर्वस्यापि विनाशान्न कारकसमूह-स्याप्यधिष्ठानत्वादि युज्यत इति । प्रलयेऽपि मायादेः कारककलापस्य नित्यस्य विद्यमानत्वात् । अन्यथा कार्यजन्मासम्भवादिति भावः । परिहारांशं व्याचष्टे ॥ नेति ॥ तदेव स्फुटीकरोति ॥ उत्पत्तीति ॥ यदि कारकव्रातस्यैव साक्षात्प््रायत्नाधिष्ठेयतया शरीरादिवदेव कर्तृत्वोपयोगिता तर्हि तदुपादानहाननिमित्तोत्पत्तिमरणे च पशुपतेः स्याताम् । साक्षात्प््रायत्नाधिष्ठेयशरीरोपादानहा-नयोस्तद्दर्शनात् । तथा च सुखदुःखभोगप्राप्तिः स्यात्ततश्च न कर्तृत्वमिति भावः ।
गुर्वर्थदीपिका
शरीरान्तरापेक्षाभावाद् इत्यत्र कुलालहस्तादिकं च मृद्ग्रहणादिप्रयत्नायैवापेक्षते । स च प्रयत्नश् चेतनस्य स्वत एव चेत् कारकचक्रमेव साक्षात्प््रायत्नाधिष्ठेयत्वात्, पशुपतेः करणवत् शरीरवत् सतः किं शरीरान्तरेणेति भावः । तथा च सुखदुःखभोगप्राप्तिरित्यत्र हस्तपादादि-मच्छरीराभावान्न दुःखमिति परेणाऽऽशास्यम् । हस्तपादादिरहिताभिमन्यमानभूभारेणापि भूदेव-ताया दुःखदर्शनादिति भावः ।
भावदीपः
पूर्वसूत्रद्वयोक्तदोषाक्षेपसमाधिपरत्वमस्य व्यञ्जयन् भाष्यं व्याचष्टे ॥ नेति ॥ भाष्यस्थजग-च्छब्दार्थमाह ॥ कारकग्रामस्येति ॥ सूत्रे करणशब्दः शरीरपरः । सृष्टौ शरीरस्य सहकारि-त्वादिति भावेनाह ॥ अस्मदादिशरीरेति ॥ वतिप्रत्ययार्थः ॥ समानत्वेनेति ॥ तस्यैव चेति ॥ कारकव्रातस्येत्यर्थः ।
अभिनवचन्द्रिका
तदुपादानहाननिमित्तोत्पत्तिमरण इति ॥ अनेन ‘तद्गता’ इति भाष्यं तत्प्रयुक्ता इति व्याख्यातम् ।
पूर्वपक्षस्तु– न विष्णोर्जगत्कारणत्वं युक्तं पाशुपतसमयविरुद्धत्वात् । तथा हि पशुपतिःखलु सार्वज्ञ्यादिगुणशाली मायामुपादानीकृत्य हरिहिरण्यगर्भादिजगदुत्पत्त्यादि करोति । श्रुतिस्मृतयश्च अस्मिन्नर्थे भवन्ति । अतो लक्षणसूत्रमयुक्तमिति ।
सिद्धान्तस्तु– युक्तं विष्णोर्जगत्कारणत्वं, पाशुपतसमयस्याप्रामाणिकत्वात् । तथा हि न पशुपतिर्जगत्कर्ता पारतन्त्र्यजननमरणादिदोषदुष्टत्वात् । न चासिद्धो हेतुः, ‘यं कामये तं तमुग्रं कृणोमि’ इत्यादिश्रुतिसिद्धत्वात् । किं च आदिसृष्टौ तस्याशरीरत्वेन कर्तृत्वायोगः । न ह्यशरीरः कर्ता दृश्यते येनासौ तथा स्यात् । अपि च पशुपतेर् अधिष्ठानं नोपलभामहे । तेन चासौ न कर्ता । ननु प्रलयकाले नित्यतया विद्यमानं प्रकृत्यादिकं साक्षात्प्रयत्नाधिष्ठेयतया शरीरादिवत् । न च साक्षात्प्रयत्नाधिष्ठेयप्रेरणाय शरीरापेक्षा । शरीरप्रेरणार्थमपि शरीरान्तरापेक्षा-प्रसङ्गात् । अतः शरीरतुल्यत्वे शरीरोपादानपरित्यागाभ्यां जननमरणवत् तदुपादानपरित्यागा-भ्यामपि जननमरणप्रसङ्गात् । ततश्च सुखदुःखभोगप्राप्तिः । अपि च पशुपतिः कर्तेति वदन् प्रष्टव्यः, किमसौ शरीरी उत नेति । आद्ये विनाशप्रसङ्गः । द्वितीये ज्ञानाभावः । न चैते दोषा विष्णुपक्षेऽपि । ‘बुद्धिमान्मनोमान्’ इत्यादिश्रुत्या ज्ञानाभावस्य परिहृतत्वात्, ‘यदात्मको भगवान् तदात्मिका व्यक्तिः’ इत्यादिना अन्तवत्त्वादिदोषाणां परिहृतत्वात् । अनयैव दिशा शाक्तेयसौरस्कान्दगाणपतानां समया निराकृता वेदितव्याः । अतः पाशुपतसमयस्यानुपपन्नत्वेन अविरोधकत्वाद्युक्तं लक्षणसूत्रमिति सिद्धम् ।
वाक्यार्थमुक्तावली
जगच्छब्दार्थमाह ॥ कारकग्रामस्येति ॥ करणवदित्यस्याधिष्ठानादिरूपमिति भाष्यम् । तत्र करणपदेनोत्पत्तावन्तरङ्गतयोपयोगिशरीरमधिष्ठानं चोच्यते । अधिष्ठानादीत्यादिपदेन शरीर-मुच्यते । सम्बन्धानुपपत्तेरिति शरीरस्य प्रथमप्राप्तत्वेऽप्यधिष्ठानस्य सन्निहितत्वाद् भाष्ये स्वपदेनाधिष्ठानोपादानम् । अत एवानुव्याख्याने देहादिवदित्युक्तम् । अधिष्ठानादिरूपमिति अधिष्ठानादे रूपमिव रूपं यस्येति विग्रहमभिप्रेत्य वतिप्रत्ययार्थं शरीरसाम्यं तावत्कारक-ग्रामस्योपपादयति ॥ साक्षादिति ॥ प्रयत्नाधिष्ठेयतया प्रयत्नप्रेर्यतया तत्रापि देहविषयेऽपि तत्प््रासङ्गाद् देहापेक्षाप्रसङ्गादित्यर्थः । अधिष्ठानसाम्यमुपपादयति ॥ तस्यैवेति ॥ अधिष्ठानत्वं पृथिव्याद्यधिष्ठानतुल्यत्वम् ॥ तदेव स्पुटीकरोतीति ॥ आदिशब्दार्थकथनपूर्वकमित्यर्थः । फलतः प्राधान्येन भोगस्य सूत्रे मुखत उपादानेऽपि साधनतः प्राधान्येन स्वपदवर्णनपरभाष्ये आदि-शब्दोपात्तस्योत्पत्त्यादेः प्रथममुपपादनम् । भाष्ये सुखदुःखभोगा इति सुखदुःखव्यक्तिबाहुल्याद् बहुवचनम् । तद्वता इत्यस्य तन्निमित्तका इत्यर्थं तच्छब्दकथनपूर्वकमाह ॥ तदुपादानेति ॥ सूत्रे पत्युरित्यस्ति । सम्बन्धानुपपत्तेरित्यत्र प्रतियोगितया प्रकृतजगदन्तर्गतमायादिजगदत्रान्वेति । अत एव भाष्ये इदमेव जगदित्युक्तम् । ततश्च पशुपतेर्मायादिकारकमेव शरीरवदधिष्ठानवदिति चेन्न । भोगादिभ्यः सुखदुःखादिभोगानां तत्कारणोत्पत्तिविनाशयोर् भोगकार्यस्य सर्वकर्तृत्वा-भावस्य च प्राप्तेरिति सूत्रार्थः । उपपादनं टीकायां स्पष्टम् ।
वाक्यार्थविवरणम्
न चादिसृष्टेः प्राक् कारकाभावः यस्य साक्षात्प््रायत्नाधिष्ठेयता स्यादिति वाच्यम् । प्रकृत्यादेरनादेः सत्त्वात् । अन्यथा सृष्ट्यनुपपत्तिरित्याह ॥ कारकग्रामस्यैवेत्यादिना ॥ अधिष्ठेयं पै्रर्यम् । शरीरसमानत्वेन तस्यैव प्रकृत्यादिकारकग्रामस्यैवाधिष्ठानत्वमुपपद्यत इत्यन्वयः ॥ शरीरान्तरिति ॥ कारकग्रामभिन्नशरीरान्तरित्यर्थः । तमेवोपपादयति ॥ साक्षादिति ॥ साक्षात् प्रयत्नाधिष्ठेयं कारकग्रामादितद्विषयेऽपीत्यर्थः ॥ तत्रापि ॥ तस्मिन् । साक्षात्प््रायत्नाधिष्ठेय-शरीरविषयेऽपि ॥ तत्प््रासङ्गात् ॥ शरीरान्तरापेक्षाप्रसङ्गादित्यर्थः । तथा च अनवस्थेति भावः । समूहः । उपादानहान्योः सतोरित्यर्थः । ताभ्यामिति यावत् ॥ तद्दर्शनात् ॥ उत्पत्यादेर्दर्शनात् ।
वाक्यार्थमञ्जरी
कारकजातमेव तस्य करणवद्देह इवातो न सम्बन्धानुपपत्तिरिति चेन्न भोगादिभ्यः दुःखा-द्यनुभवरूपभोगोत्पत्तिमरणाख्यदोषेभ्य इत्यर्थः । कारकग्रामस्य कारणसमुदायस्याग्रहादि-व्यावर्तनाय साक्षादित्युक्तम् । तत्रापि अस्मदादिशरीरेऽपि असम्भवात्पुनः सृष्टिकाले उपादान-हानयोरिति सतिसप्तमी ।