१० नैकस्मिन्नधिकरणम्

ॐ नैकस्मिन्नसम्भवात् ॐ

१०. अथ नैकस्मिन्नधिकरणम्

सूत्रभाष्यं

स्याद्वादिमतं दूषयति–

॥ ॐ नैकस्मिन्नसम्भवात् ॐ ॥ ३३ ॥

सत्स्यादसत्स्यात्सदसत्स्यात्ततोऽन्यच्च स्यादित्येतन्नैकस्मिन्युज्यते । अदृष्टत्वेनासम्भवात् ।

सत्तर्कदीपावली

वेदप्रामाण्याभ्युपगमरहितत्वाविशेषाद्बौद्धपक्षनिराकरणानन्तरं जैनपक्षमुपक्षिप्य दूषयति ॥ स्यादित्यादिना ॥ जगत्सत्स्यादसत्स्यात्सदसत्स्यात् सदसद्विलक्षणं च स्यादिति स्याद्वादिमतं न युज्यते । परस्परपराहतत्वात् । न हि यदेव वस्तु सत्स्यादित्युक्तं तदेव तत्रैव तस्मिन्काल एव स्वेनैव रूपेणासत्स्यादितिवक्तुं शक्यते विरोधात् ।

तत्त्वप्रदीपिका

अथ वेदबाह्यान्तर्भावादनन्तरमेव जैनमतं निराकरोति । ॐ नैकस्मिन्नसम्भवात् ॐ । सत्स्यादसत्स्यात्सदसत्स्यादुभयविलक्षणं च स्याच् चकारादुभयमुभयविलक्षणं च स्यान् न च तत्स्यात्, उक्तं सर्वं च स्यादिति जैना जल्पन्ति तत्तद्गतदोषपरिजिहीर्षवः सार्वत्रिकदोषसमाजभाजनीभूताः । ततोऽन्यच्च स्यादित्यस्यान्योऽर्थ उक्तं त्रयं न स्यात्, सत्स्यान्न च स्यादसत्स्यान्न च स्यात्सदसत्स्यान्न च स्यादिति, तत्रैवावान्तरभेदोऽयम् । नैतत्सप्तप्रकारत्वमेकस्मिन्वस्तुनि वक्तुं युज्यते । न ह्येता भङ्गयः क्वचिदेकत्र दृष्टाः । न च सदसद्भङ्गिव्यतिरेकिण्यो भङ्गय एव दृष्टाः । अदृष्टकल्पने सप्तभङ्गिनियमोऽपि भङ्गी स्यात् ।

तत्त्वप्रकाशिका

अधिकरणार्थं दर्शयति ॥ स्यादिति ॥ अत्रेश्वरस्य जगत्कारणत्वे जैनमतविरोधनिरासादस्ति शास्त्रादिसङ्गतिः । ईश्वरो जगत्कारणमित्युक्तम् । तच्च स्याद्वादिमतविरोधे मन्दस्यानुपपत्तिशङ्का स्यादिति तन्निरासः कर्तव्य एव । तत्परमात्मनो जगत्कारणत्वं विषयः । युक्तमयुक्तं वेति सन्देहः । समयविगानं सन्देहबीजम् । न युक्तमिति पूर्वः पक्षः । सदसदुभयमुभयविलक्षणं सदसदुभयविलक्षणं नैतत्सर्वं चेति सप्तभङ्गिजगदात्मादृष्टात्परिदृष्टसाधनैश्च भविष्यति । स च कायपरिमाणः । अतः किमीश्वरेणेति लक्षणसूत्रमयुक्तमिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ नेति ॥ यदुच्यते जैनैर्जगत्सप्तभङ्गीति न तद्युक्तम् । व्यवस्थितसदसत्प््राकारद्वयातिरिक्तप्रकारस्याप्रामाणिकत्वेनासम्भवात् । एकैकप्रकाराभ्युपगमे दोषदर्शनादेतदुपेयत इति न वाच्यम् । तथा सति दोषभीरुणा सर्वमपि परित्याज्यं स्यात् । सदसत्प््राकारद्वये च न कोऽपि दोष इति भावः ।

गुर्वर्थदीपिका

नैतत्सर्वमित्यस्य एतत्सर्वस्याभाव इत्यर्थः । अन्यथा एतत्सर्वं न स्यादित्युक्ते स्याद्वादभङ्गः स्यात् । ततोऽन्यच्च स्यादिति भाष्ये ततः पूर्वोक्तपक्षत्रयादन्यत् पक्षचतुष्टयं च स्यादित्यर्थः । व्यवस्थितसदित्यत्र कालभेदेन देशभेदेन स्वरूपतश्च सतस् त्रिविधा व्यवस्था द्रष्टव्या । एकत्र एकदा एकस्यैव स्वरूपेण सत्त्वमसत्त्वं च नोपपद्यते । नापि कैश्चिदङ्गीक्रियते, सदसत्त्वादयस्तु सर्वथाऽसम्भाविताः पूर्वोत्तरव्याहताश्चेत्यर्थः । दोषभीरुणेत्यस्य एकैकपक्षे दोषाश्चेत्सर्वे पक्षा दोषवन्त इत्यागतम् । तथा च दोषवतां सर्वेषां परित्याग एव कार्यः । न तु एकैकदोषभीरुणा सकलदोषवत्यो सप्तभङ्ग्योऽप्यङ्गीकार्याः । न ह्येकैकसर्पाद्भीतः युगपद्दशसर्पसमुदायमङ्गीकुर्वाणः कोऽपि प्रेक्षावान् दृष्ट इति भावः सूत्रकारस्य ।

भावबोधः

जैनमतविरोधेति ॥ शून्यवाद्युक्तमसत्त्वं विज्ञानसत्त्ववाद्युक्तसत्त्वं च स्यादिति वदतां जैनानां तत्पक्षोक्तपूर्वपक्षोत्थानादनन्तरसङ्गतिरपीति भावः ॥ युक्तमिति ॥ अत्र हरेर्जगत्कारणत्वं किमयुक्तमुत युक्तमिति चिन्ता । तदर्थं जैनसमयः श्रुत्युक्ततदपबाधनक्षमो भवत्युत नेति । तदर्थं तत्परिकल्पितं प्रपञ्चस्य सत्यत्वं जीवस्य देहपरिमाणत्वं च किं युक्तमयुक्तमिति । तदर्थं जीवकायपरिमाणत्वस्थूलाण्वादिदेहप्राप्तौ सर्वशरीरव्यापिचेष्टाभावातिरेकौ न प्राप्नुत उत प्राप्नुत इति । तदर्थं देहपरिमाणत्वाभावे शरीरावच्छेदमन्तरेण स्वतः परिमाणाभावः प्राप्नोत्युत नेति । तदर्थं देहमन्तरेण परिमाणाङ्गीकारेण जीवनिःस्वरूपत्वं देहनित्यत्वं वा न प्राप्नोत्युत प्राप्नोतीति ।

‘आह क्षपणको विश्वं सदसद्द्वयमद्वयम् ।

द्वयाद्वयमतत्सर्वं सप्तभङ्गि सदातनम्’ ॥

इत्यनुव्याख्यानं मनसि निधायाह– सदसदुभयमिति ॥ तत्र सदित्येकः प्रकारः । असदिति द्वितीयः । उभयं सदसदात्मकमिति तृतीयः । उभयविलक्षणं सदसद्विलक्षणमिति चतुर्थः । एतावता सत्स्यादित्यादिभाष्यं यथाश्रुतं व्याख्यातं भवति । सदसदुभयविलक्षणमिति पञ्चमषष्ठौ । अत्र सत्तद्विलक्षणं चेति पञ्चमः । असत्तद्विलक्षणं चेति षष्ठः । सर्वं सदसदात्मकं नैतत् सर्वं सदसद्वि-लक्षणमिति सप्तम उक्त इति द्रष्टव्यम् । अनेन सत्स्यादित्यादिभाष्यं सत्स्यात्ततोऽन्यच्च स्यात्, असत्स्यात्ततोऽन्यच्च स्यात्, सदसत् स्यात्ततोऽन्यच्च स्यादिति प्रकारान्तरेण व्याख्यातं भवति । व्याहतिपरिहाराय व्यवस्थितमिति ॥

भावदीपः

जैनमतेति ॥ प्रागुक्तदिशा अवैदिकेषु बौद्धनिरासानन्तरम् अस्यावसरप्राप्तत्वादिति भावः । भाष्ये सत्स्यादिति स्याच्छब्दस्तिङन्तप्रतिरूपकोऽनेकार्थद्योतको निपात इति भावेन ‘आह क्षपणको विश्वं सदसद्वयमद्वयम् । द्वयाद्वयमतत्सर्वं सप्तभङ्गिसदातनम्’ इत्यनुभाष्यदिशा सप्त-पक्षपरत्वेन भाष्यं व्याचष्टे ॥ सदसदुभयेत्यादिना ॥ सदित्याद्यः प्रकारः । असदिति द्वितीयः । उभयं सदसदात्मकमिति तृतीयः । उभयविलक्षणमिति चतुर्थः । सदसदुभयविलक्षणमिति पञ्चम-षष्ठौ । तत्र सत्तद्विलक्षणं चेति पञ्चमः । असत्तद्विलक्षणं चेति षष्ठः । सर्वं सदसदात्मकं नैतत्सर्वं सदसद्विलक्षणमिति सप्तम उक्तो ध्येयः । एतेन भाष्ये पक्षचतुष्टयस्य स्पष्टत्वेऽपि शिष्टपक्षत्रयं तु तदन्यदित्येतच्छतुर्थप्रकारार्पकमेव पदं प्रागुक्तत्रितयशेषं कृत्वा सत्त्वे सति सद्विलक्षणम् असत्त्वे सत्यसद्विलक्षणं सदसत्त्वे सति सदसद्विलक्षणमित्येवं रूपेण बोध्यमिति दर्शितम् । पूर्वाक्षेपार्थ-माह ॥ आत्मादृष्टादित्यादि ॥ एवं चेति सूत्रनिरस्यमाह ॥ स चेति ॥ आत्मेत्यर्थः । अनुक्तोपालम्भभ्रान्तिं निरस्यन् भाष्यं प्राग्विवृतत्वादिदानीं सामान्यतो व्याचष्टे ॥ यदुच्यत इति ॥ व्यवस्थितेति ॥ देशकालाभ्यामिति योज्यम् । एतच्च वस्तुनो निस्स्वरूपत्वनिवृत्त्यर्थं वा अंशेऽसिद्धिनिवृत्त्यर्थं वोक्तम् । व्याहतिनिरासाय व्यवस्थितेति ॥ अदृष्टत्वेनेत्येतत्प््रामाण-सामान्याभावपरत्वेन व्याचष्टे ॥ अप्रामाणिकत्वेनेति ॥ ‘तत्तद्दोषनिवृत्त्यर्थं स्वीकृता तत्त-दात्मता । यदि तैरखिलैर्दोषैलिप्यते चलदर्शन’ इत्याद्यनुभाष्योक्तमाह ॥ एकैकप्रकारेति ॥ परित्याज्यमिति ॥ अन्यथा सर्वपक्षोक्तदोषलेपः स्यादिति भावः ॥ सदसदिति ॥ देशकालाभ्यां व्यवस्थितेति योज्यम् ।

अभिनवचन्द्रिका

‘आह क्षपणको विश्वं सदसद्द्वयमद्वयम् ।

द्वयाद्वयमतत्सर्वं सप्तभङ्गि सदातनम् ॥’

इत्यनुव्याख्यानानुसारेणाह– सदसदुभयमिति ॥ सदित्येकः प्रकारः, असदिति द्वितीयः, उभयं सदसदात्मकमिति तृतीयः, उभयविलक्षणं सदसद्विलक्षणमिति चतुर्थः, सदसदुभयविलक्षणमिति पञ्चमषष्ठौ, नैतत्सर्वं सर्वं चेति सप्तमः । तत्र सत्त्वे सति सद्विलक्षणमिति पञ्चमः, असत्त्वे सति असद्विलक्षणमिति षष्ठः । सदसदात्मकं सदसद्विलक्षणमिति सप्तम इति विवेकः । ‘स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यं, स्यादस्ति चावक्तव्यं च, स्यान्नास्ति चावक्तव्यं च, स्यादस्ति च स्यान्नास्ति चावक्तव्यं च’ इति क्षपणकोक्तेः ।

वाक्यार्थमुक्तावली

शून्यवाद्युक्तमसत्त्वं विज्ञानवाद्युक्तं सत्त्वं च स्यादिति वदतां स्याद्वादिनामस्माकं नैकैक-पक्षोक्तदोष इति पूर्वाक्षेपेणास्य प्रवृत्तेरनन्तरसङ्गतिरिति ज्ञेयम् ॥ युक्तमिति ॥ परमात्मनो जगत्कारणत्वं क्षपणकपक्षविरोधादयुक्तमुत युक्तमिति चिन्ता । तदर्थं तत्प््राक्रिया प्रमाणवत्युत नेति चिन्ता ।

‘आह क्षपणको विश्वं सदसद्वयमद्वयम् ।

द्वयाद्वयमतत्सर्वं सप्तभङ्गिसनातनम्’ ॥

इत्यनुव्याख्यानं मनसि निधाय सत्स्यादित्यादि भाष्यार्थं मत्वा तन्मतमुपन्यस्यति ॥ सद-सदिति ॥ तत्र सदित्येकः प्रकारः । असदिति द्वितीयः । उभयं सदसदात्मकमिति तृतीयः । उभयविलक्षणं सदसद्विलक्षणमिति चतुर्थः । एतावता सत्स्यादित्यादिभाष्यं यथा श्रुतं व्याख्यातं भवति । सदसदुभयविलक्षणमिति पञ्चमषष्ठौ । तत्र सत्तद्विलक्षणञ्चेति पञ्चमः । असत्तद्विलक्षणं चेति षष्ठः । सर्वं सदसदात्मकं नैतत्सर्वं सदसद्विलक्षणमिति सप्तमः । अनेन सत्स्यादित्यादि भाष्यं सत्स्यात् ततोऽन्यच्च स्याद् असत् स्यात् ततोऽन्यच्च स्यात् सदसत् स्यात् ततोऽन्यच्च स्यादिति प्रकारान्तरेण व्याख्यातं भवति । पूर्वाक्षेपार्थमाह ॥ आत्मेति ॥ धर्माधर्मसंज्ञित-जीवादृष्टात्कालाकाशपुद्गलशब्दितबाह्यसाधनैश्चेत्यर्थः । एवं चेति सूत्रनिरस्यं तदीयं प्रमेयान्तर-मनुवदति ॥ स चेति ॥ सूत्रे विरोधस्फोरणाय एकस्मिन्नित्युक्तम् । अनुपलब्धेरित्यनुवर्तते । एकस्मिन् जगति सप्तप्रकारत्वं न युज्यते अप्रामाणिकत्वेनासम्भावितत्वादित्यर्थं मत्वा व्याचष्टे ॥ यदुच्यत इति ॥ कथं प्रमाणविरोध इत्यत उक्तम् ॥ व्यवस्थितसदसद्वयेति ॥ सर्वं हि स्वदेशकालोपाधौ सद्देशान्तरेऽसदित्येव प्रतीयते । न तु स्वोपाधावेव सत्त्वमसत्त्वं चातस्तदति-रिक्तस्य प्रत्यक्षादिविरुद्धत्वेन तदसिद्धत्वेन चेत्यर्थः । तत्तद्दोषनिवृत्यर्थं स्वीकृता तत्तदात्मता । ‘यदि तैरखिलैर्दोषैर्लिप्यते चलदर्शन’ इत्यनुभाष्यमनुरुन्ध्याह ॥ एकैकेति ॥

तत्त्वसुबोधिनी

अत्रेश्वरस्येति शून्यवाद्युक्तमसत्त्वं विज्ञानवाद्युक्तं सत्त्वं चाङ्गीक्रियते इति न तत्तत्पक्षोक्तदोष इति पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भावः ॥ सदसदुभयमिति ॥ तत्र सदित्येकः प्रकारो ऽसदिति द्वितीयः । उभयं सदसदात्मकमिति तृतीयः । उभयविलक्षणं सदसद्विलक्षणमिति चतुर्थः । एतावता सत्स्यादिति भाष्यं यथाश्रुतं व्याख्यातं भवति । सदसदुभयविलक्षणमिति पञ्चमषष्ठौ । तत्र सत्त्वे सति सद्विलक्षणमिति पञ्चमः । असत्त्वे सत्यसद्विलक्षणमिति षष्ठः । सर्वं सदसदात्मकं नैतत्सर्वं सदसत्वे सति सदसद्विलक्षणमिति सप्तम उक्तमिति दृष्टव्यम् । अनेन सत्स्यादिति भाष्यं, सत्स्यात्, ततोऽन्यच्च सदसत्स्यात् ततोऽन्यच्च सदसत्स्यात् ततोऽन्यच्च

स्यादिति व्याख्यातं भवति । निराकार्योत्तरमप्याह स चेति ॥ व्याहतिपरिहारायाह व्यवस्थितेति ॥

वाक्यार्थविवरणम्

भाष्ये स्याद्वादिमतं दूषयतीत्युक्तम् । तत्र जैनानां स्याद्वादित्वं कुतः । भूयाद्वादित्वादिकं कुतो नास्तीति चेत् । अस्त्यत्र सम्प््रादायविशेषः । स्यादित्ययं न विधिलिङन्तशब्दः किं नाम चिराय मिथ्याया इत्यादिवत्तिडन्तविभक्तिप्रतिरूपकनिपातः । एकत्रापि पक्षे निष्ठाभावरूपा-नैकान्तवादद्योतकः । एवं च स्याद्वादीनामानैकान्तवादीत्यर्थः । एकत्र पक्षे अन्तः निर्णयो निष्ठा आस्था नेत्यनैकान्तवादस्तद्योतकोऽयं निपात इत्येतच्चन्द्रिकायां स्पष्टमुक्तम् । यथोक्तं शाब्दिकैः ॥ वाक्यष्वनैकान्तद्योती गम्यं प्रति विशेषणम् । स्यान्निपातोऽर्थयोगित्वाद्विभक्तिप्रतिरूपक इति । सत्त्वादिकं स्यादित्येवं वाक्येषु प्रयुज्यमानः स्यादिति निपातः, वाक्यैर् गम्यं यत्

सत्त्वादिकं तद्विशेषणीभूतः सन् अनैकान्तद्योती स्यादिति निपातस्यानैकान्तशब्दार्थत्वयोगि-त्वादित्यर्थः । स्वरादिनिपातमव्ययमिति निपातत्वेऽव्ययत्वम् । सदसदुभयविलक्षणम् । सदसदिति यदुभयं द्वयं तद्विलक्षणम् । सत्त्वे सति सद्विलक्षणम् । इति पञ्चमः । असत्त्वे सति असद्विलक्षणमिति षष्ठः । नैतत् सर्वं, सर्वं सदसन् नैतत्सर्वं तद्विलक्षणम् । सदसत्त्वे सति सदसद्विलक्षणमिति सप्तम इत्यर्थः ॥ परिदृष्टसाधनैः ॥ मृद्दण्डचक्रादिभिः । ‘वक्ति स्वप्रभ-मात्मानं देहमानम्’ इत्येतदनुसारेणाह ॥ स चेति ॥ एकत्र सदसत्त्वयोर्विरोधाद्यवस्थितेत्युक्तम् । कुत्रचित् पदार्थे सत्त्वं, कुत्रचित्सदसत्त्वमिति व्यवस्थितेत्यर्थः । तत्तद्दोषनिवृत्त्यर्थं स्वीकृता तत्तदात्मता । यदीत्येतदनुसारेणाह ॥ एकैकेति ॥ सत्त्वाद्येकैकप्रकारमात्राभ्युपगमे असत्त्वादि-वादी असत्त्वानङ्गीकारे दोषमभिधत्ते । एवमितरोऽपि । अतो दोषभीरुणा मया तदपि स्यादित्यङ्गीक्रियते । अत एव स्याद्वादित्वमित्यर्थः । ‘तैरखिलैर्दोषैर्लिप्यते चलदर्शन’ इत्ये-तदनुसारेणाह ॥ तथा सतीति ॥ सर्वमपि सप्तभङ्गित्वमपि त्वया सप्तभङ्गित्वाङ्गीकारेऽपि व्यवस्थितसदसत्प््राकारद्वयवादिभिरस्माभिर्दूषणमभिधीयते । अतो दोषभीरुणा त्वया सप्तभङ्गित्व-पक्षपरित्याग एव गरीयानिति भावः । यथोक्तं ‘अतिहाय प्रमाणाप्तनियमं सदसत्तया’ इत्यादि ।

वाक्यार्थमञ्जरी

सदसदुभयमिति ॥ सदित्येको ऽसदिति द्वितीयः सदसदात्मकमिति तृतीयः सदसद्वि-लक्षणमिति चतुर्थः सत्त्वे सति सद्विलक्षणमिति पञ्चमो ऽसत्त्वे सत्यसद्विलक्षणमिति षष्ठः सद-सदात्मकत्वे सति सदसद्विलक्षणमिति सप्तमः सप्तभङ्गीति सप्तप्रकारोपेतमित्यर्थः । एकस्मिन् जगति सत्त्वादिसप्तप्रकारा न युक्ताः कुतो ऽसम्भवादप्रामाणिकत्वेनासम्भावितत्वादित्यर्थः । विरोध-परिहारायोक्तम् ॥ व्यवस्थितेति ॥ देशादिभेदेनेत्यर्थः । सर्वमपि प्रकारसप्तकमपि । तत्राप्यस्माभि- र्दोषाभिधानादिति भावः । असिद्धं च सर्वत्र दोषदर्शनमित्याह ॥ सदसत्प््राकारेति ॥ व्यवस्थितेति योज्यम् ।


ॐ एवञ्चाऽऽत्माकार्त्स्न्यम् ॐ

सूत्रभाष्यम्

॥ ॐ एवञ्चाऽऽत्माकार्त्स्न्यम् ॐ ॥ ३४ ॥

जीवस्य शरीरपरिमितत्वाङ्गीकारेऽण्वादिशरीरस्थस्य हस्त्यादिशरीरेऽकार्त्स्न्यं स्यात् ।

सत्तर्कदीपावली

स्याद्वादिना यदभ्युपगतं देहपरिमाणो जीव इति । तदनुपपन्नम् । कीटदेहपरिमाणस्य जीवस्य कर्मवशाद् गजदेहे वर्तमानस्य देहाव्याप्तित्वापत्तेः । तदाह ॥ एवं चेत्यादिना ॥

तत्त्वप्रदीपिका

अपि चाऽहुः । अणुत्वे सर्वाङ्गवेदनानुसन्धानायुक्तेर्व्याप्तत्वे देहान्तरगतानुसन्धानप्रसङ्गा-च्छरीरपरिमाणो जीव इति । अत आह– ॐ एवञ्चात्माऽकार्त्स्न्यम् ॐ ॥ एवमङ्गीकारेऽण्वादि-शरीरस्थस्य ततो हस्त्यादिशरीरप्रवेशे कृत्स्नशरीरव्याप्तिर्न स्यात् । हस्त्यादिशरीरस्थस्याण्वादि-शरीरप्राप्तौ तच्छरीर एवाऽत्मनः कार्त्स्न्यं न स्यात् ।

तत्त्वप्रकाशिका

यदपि जीवस्य शरीरपरिमितत्वमभ्युपेयते तत्प््राष्टव्यम् । किं तत्सर्वशरीरगतचेष्टोपपत्त्यर्थमभ्युपेयते शरीरावच्छेदमन्तरेणात्मनः परिमाणाभावप्रसङ्गभयाद्वा । तत्राद्यं पक्षं प्रतिक्षेप्तुं सूत्रमुपन्यस्य व्याचष्टे ॥ एवं चेति ॥ जैनमतप्रसङ्गसंनिधापितमात्मनः शरीरपरिमाणत्वमेवमिति परामृशति । यद्यात्मा सर्वशरीरचेष्टोपपत्त्यर्थं शरीरपरिमाणोऽङ्गीक्रियते एवं तर्हि पिपीलिकादिशरीरस्थस्तत्परिमाण एव स्यात् तथा च तस्यैव कर्मवशाद्गजगर्दभादिशरीरप्राप्तौ तत्रापूर्णता स्यात् । ततश्च न सर्वशरीरचेष्टेति भावः । गजादिशरीरस्थस्याणुशरीरप्राप्तावतिरेकः स्यात् । तथा च शरीरपरिमाणत्वभङ्ग इत्यपि द्रष्टव्यम् ।

गुर्वर्थदीपिका

अण्वादीत्यत्रादिपदेन वितस्तिहस्तादिपरिमाणवन्तो गृह्यन्ते । पूर्वसूत्रे सप्तभङ्गीनां निषेध्य-तया प्रसक्तत्वेनात्मनोऽप्रस्तुतत्वात् । एवं चेति कथं परात्मपरामर्श इत्यत उक्तं जैनमतप्रसङ्ग-सन्निधापितमिति । इति च द्रष्टव्यमिति वदता पिपीलिकादेः कृत्स्नं यच्छरीरं तत्परिमाणवत्वं कार्त्स्न्यं ततोऽतिरेको ऽकार्त्स्न्यमिति सूत्रस्यार्थः सूचितो भवति ।

भावबोधः

सूत्रे ‘एवं च आत्माकार्त्स्न्यम्’ इति ‘च’शब्दान्वयमभिप्रेत्य तत्समुच्चयमाह– गजादि-शरीरस्थस्येति ॥ द्रष्टव्यमिति ॥ भाष्ये कार्त्स्न्यमित्यनन्तरमिति शेषः ।

भावदीपः

तत्राद्यं पक्षमिति ॥ द्वितीयपक्षदूषणं तु द्वितीयपक्षं प्रतिक्षिपदित्यत्राग्रे व्यक्तम् । पूर्वसूत्रे प्रकृतत्वाभावादाह ॥ जैनमतेति ॥ जीवस्येत्यादिभाष्यं सौत्रैवंशब्दव्याख्यानमिति दर्शयितुं भाष्यं सोपस्करमनुवदति ॥ यद्यात्मेति ॥ व्याख्येयं सौत्रपदमनुवदति ॥ एवमिति ॥ असङ्गति-निरासायापाद्यान्तरमुक्त्वा अकार्त्स्न्यापादनं योजयति । तत्परिमाण एव स्यात्तथा चेत्यादि । अण्वादिहस्त्यादिपदयोर्विनिमयेन तदेव भाष्यमन्यथापि योजयति ॥ गजादीति ॥ भाष्ये शरीर इति सावधारणम् । अणुशरीर एवाकार्त्स्न्यं पूर्णता न स्यात् । अतिरेकः स्यादिति यावदिति भावः ।

अभिनवचन्द्रिका

अस्त्वात्मा तत्परिमाण एव बाधकाभावादित्यत आह– तथा चेति ॥ प्राप्तावित्यनन्तरं ‘परिमाणस्य यावद्द्रव्यभावित्वेन पिपीलिकादिपरिमाणानपायात्’ इति शेषः । शरीरान्तरप्राप्तौ तदीयसर्वचेष्टानुपपत्तिलक्षणप्रमाणबलेन पूर्वपरिमाणविनाशेन परिमाणान्तरोत्पादोऽङ्गीक्रियत इत्याशङ्कते ।

वाक्यार्थमुक्तावली

जैनमतप्रसङ्गेनेति ॥ जैनमतप्रसङ्गेन बुद्धौ सन्निधापितमित्यर्थः । भाष्येऽण्वादीत्यत्राणुपदेन पिपीलिकाद्यणुशरीरग्रहणम् । आदिपदेन हस्त्यादिग्रहणम् । हस्त्यादीत्यादिपदेन महत्त्वेन सजातीयगर्दभादेर् अणोर् विजातीयस्य पिपीलिकादेश्च ग्रहणमित्यभिप्रेत्याणुशरीरस्थस्य हस्ति-गर्दभादिमहच्छरीरे कार्त्स्न्यं स्यादित्यंशं तावद् व्याचष्टे ॥ एवं तर्हीत्यादिना ॥ उभयत्रादि-शब्दानुसारेण हस्त्यादिशरीरस्थस्य पिपीलिकाद्यणुशरीरप्राप्तावात्मनो देह एव कार्त्स्न्यं स्यादति-रेकः स्यादिति यावदिति भाष्यार्थं मत्वा व्याचष्टे ॥ गजादिशरीरस्थस्येति ॥ सूत्रे चशब्दो जैनमतेऽनुपपत्यन्तरसमुच्चये । एवं च एवं सति शरीरपरिमाणत्वाङ्गीकारेऽणुशरीरस्थस्यात्मनो गजादिशरीरेऽकार्त्स्न्यमपूर्णता स्यात् । गजादिशरीरस्थस्याणुपिपीलिकादिशरीर एव कार्त्स्न्यं न स्यादतिरेकः स्यादित्यर्थः । तदुक्तं तत्त्वप्रदीपे ‘एवमङ्गीकारे अण्वादिशरीरस्थस्य सतो हस्त्यादि शरीरे प्रवेशे कार्त्स्न्यं शरीरव्याप्तिर् न स्यात् । हस्त्यादिशरीरस्थस्याण्वादिशरीरप्राप्तौ तच्छरीर एवात्मनः कार्त्स्न्यं न स्यात्’ इति ।

तत्त्वसुबोधिनी

नन्वात्मनः शरीरपरिमाणस्य पूर्वत्राप्रकृतत्वाद् एवं शब्देन (परामर्शो) युक्त इत्यत आह जैनमतेति ॥ सूत्रे एवम् आत्माकार्त्स्न्यं चेति चशब्दान्वयं समभिप्रेत्य तत्समुच्चयमाह ॥ गजादिशरीरस्थस्येति ॥ द्रष्टव्यमिति ॥ भाष्येऽकार्त्स्न्यम् इत्यनन्तरमिति शेषः ।

वाक्यार्थविवरणं

शरीरावच्छेदमन्तरेणेति ॥ परिमाणरूपगुणशून्यस्य द्रव्यस्यैवाभावेनावश्यं परिमाण-मङ्गीकार्यम् । तच्च शरीररूपावच्छेदमन्तरेण केवलात्मनि नास्त्येव शरीरभावे केवले आत्मनि इयत्ताविशेषरूपस्य परिमाणस्य सर्वथाऽज्ञानात् । अत आत्मनः परिमाणभावप्रसङ्गपरिहाराय परिमाणोपपत्यर्थं शरीररूपे परिमाणावच्छेदकेऽङ्गीकार्ये प्राप्तं तत्परिमाणत्वमिति भावः ॥ तथा सतीति ॥ नानाशरीरेषु प्रवेशादित्यर्थः । यथोक्तं ‘नानाशरीरेषु प्रवेशादन्यथाभावात्’ इति ।

वाक्यार्थमञ्जरी

शरीरावच्छेदमिति ॥ यथा घटगतं परिमाणं घटाकाशे प्रतीयते न तद्व्यतिरेकेण तस्य स्वतः परिमाणमस्ति तथाऽऽत्मनो न स्वतः परिमाणं किन्तु देहपरिमाणमेव तत्र प्रतीयते अतो देहसमानपरिणामवत्वमित्यर्थः । एवं चात्मनः कायपरिमाणत्वे सत्यात्मनः पिपीलिकादेहस्थस्य गजशरीरप्राप्तौ तत्राकार्त्स्न्यं सर्वदेहाव्यापित्वं स्यादित्यर्थः ॥ जैनमतप्रसङ्गेति ॥ निरसनीयत्वेन बुद्धिप्रसक्ते जैनमते प्रसक्तमित्यर्थः । अतिरेक आधिक्यम् ।