०९ अनुपलब्ध्यधिकरणम्

ॐ न भावोऽनुपलब्धेः ॐ

९. अथ अनुपलब्ध्यधिकरणम्

सूत्रभाष्यं

विज्ञानवादमपाकरोति–

॥ ॐ न भावोऽनुपलब्धेः ॐ ॥ ३० ॥

न विज्ञानमात्रं जगत् । तथाऽनुभवाभावात् ।

तत्त्वप्रदीपिका

यथा शून्यवादिनः शून्यं तथा प्रायो विज्ञानवादिनो विज्ञानं मन्यन्ते । तत्र यथासम्भवमुक्तदोषाः प्राप्नुयुरेवावकाशम् । वैशेषिकदोष एव प्रादुष्करिष्यते । ॐ न भावोऽनुपलब्धेः ॐ । न विज्ञानमात्रं जगदिति वाच्यम् । न हि ज्ञानात्मकं तदनुभूयते । तदज्ञासिषमिति ज्ञानविषयत्वेनैव । पराचीनप्रतीचीनतया प्रतीयमानयोरनयोर्विषयविषयिणोर्न कोऽपि कोविदोऽभेदवार्तामावर्तयीत । अतो न सहोपलम्भनियमाद- भेद इति वाच्यम् । न च विनष्टविद्यमानत्वेनोपलभ्यमानयोरतीतवृष्टितत्संविदोरभेदाशङ्का बालकेष्वपि प्रापणीया । नापि भविष्यतां दिनकरोदयादीनां वर्तमानतत्संविदभेदम् आशङ्कितुं शक्येत । अतस्समान-देशे समानकाले चानुपलब्धेर्न ज्ञानज्ञेययोरैक्यम् । द्वयोश्च सहोपलम्भ इष्यते । द्वितीयाभावे केन सहोपलम्भः स्यात् । अतस्सहोपलम्भ एवाभेदं निवारयति ।

तत्त्वप्रकाशिका

अधिकरणार्थं दर्शयति ॥ विज्ञानेति ॥ अत्रेश्वरस्य जगत्कारणत्वे विज्ञानवादविरोध-निरासादस्ति शास्त्रादिसङ्गतिः । ईश्वरो जगत्कारणमित्युक्तम् । तत्र च योगाचारमतविरोधेऽनु-पपन्नत्वप्रसङ्गादवश्यं निरसनीयं तद्भवति । हरेर्जगत्कारणत्वमेव विषयः । युक्तमयुक्तं वेति सन्देहः । समयविवाद एव सन्देहबीजम् । न युक्तमिति पूर्वः पक्षः । नित्यं निरञ्जनं विज्ञानतत्त्वमेकमेव खलु विद्यमानम् । तन्मात्रमेवेदं जगन्न तु ततोऽतिरिक्तमस्ति । ततो जगदुदये नेश्वरेण कृत्यमित्ययुक्तं लक्षणमिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ नेति ॥ न विज्ञानातिरिक्तं जगदिति वदन् प्रष्टव्यो जायते । किं विज्ञानतत्त्वे जगदध्यस्तमिति पक्ष उत परमार्थतो विज्ञानजगतोरभेद एवेति । तत्राद्योऽतीताधिकरणन्यायेन निराकर्तव्यः । नापि द्वितीयः । विज्ञानात्मकं जगदित्यत्र प्रमाणा-भावादिति भावः । न च ‘सहोपलम्भनियमादभेदो नीलतद्धियोः ।’ इति युक्तम् । भेदप्रतीतिविरोधात् । न चेयं भ्रान्तिः । बाधकाभावात् । अनुमानस्यैव बाधकत्वे स्फुटमितरेतराश्रयत्वं सहोपलम्भादभेद इति प्रतिज्ञाहेत्वोर्विरोधश्च । साहित्यस्य भेद एवोपपत्तेः । न च यत्प््राकाशते तद्विज्ञानं यथा ज्ञानम् । प्रकाशन्ते च नीलादय इति युक्तम् । प्रकाशत इति विज्ञानविषयत्वाभ्युपगमे स्ववृत्तिविरोधेन दृष्टान्ते साधनाभावः । अज्ञाने व्यभिचारश्च प्रकाशत्वाभिप्रायेऽसिद्धिरिति ।

गुर्वर्थदीपिका

‘विज्ञानमात्रं जगत्’ इति वदता भाष्यकारेण जगद्भावो भावना ज्ञानं नेति सूत्रार्थः सूचितो भवति । सहोपलम्भनियमादित्यस्य नीलमहं जानामीति सहोपलम्भनियमादित्यर्थः । भेदप्रतीति-विरोधादित्यस्यैकस्य कर्मतयाऽपरस्य क्रियात्वेन यो भेदः प्रतीयते तद्विरोधादित्यर्थः । अन्यथा समूहालम्बनज्ञाने सहोपलभ्यमानयोर्घटपटयोरप्यभेदप्रसङ्गः । घटोऽयमित्यपि प्रतीतेर्न नियम इति चेन् नीलोऽयमित्यपि प्रतीतेस्तवापि न नियम इत्युत्तरम् । अनुमानस्यैवेत्यत्र नीलं, नील-बुद्ध्यभिन्नं, नियमेन सहोपलभ्यमानत्वाद् बुद्धिवदित्यनुमानस्य । बाधकत्वे भेदप्रतीतिबाधकत्वे । इतरेतराश्रयत्वम् अनुमानप्रामाण्यसिद्धौ भेदप्रतीतेर्बाधसिद्धिः, भेदप्रतीतिबाधे च बाधित-विषयत्वाभावादनुमानस्य प्रामाण्यसिद्धिरितीतरेतराश्रयत्वमित्यर्थः । अङ्गीकृत्य चेदमुदितं वस्तु-गत्या प्रत्यक्षेण बाधेऽनुमानस्यैव कालात्ययापदिष्टत्वाद् भेदविरोधिज्ञाने नान्यापेक्षेति ज्ञेयम् ।

भावबोधः

विज्ञानवादिमतविरोधेति ॥ योगाचारैर्न माध्यमिकवत् प्रपञ्चस्यारोपितत्वमङ्गीक्रियते, किं तु सद्रूपज्ञानात्मकत्वमेव । तत्र न पूर्वोक्तदोषावकाश इति पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भावः ॥ युक्तमिति ॥ अत्र हरेर्जगत्कारणत्वं किमयुक्तमुत युक्तमिति चिन्ता । तदर्थं विज्ञानवादिसमयः श्रुत्युक्ततदपबाधनक्षमो भवत्युत नेति । तदर्थं विज्ञानवादिपरिकल्पितं प्रपञ्चस्य विज्ञानात्मकत्वं किं सम्भवत्युत नेति । तदर्थं विज्ञानात्मकत्वे जगतः प्रमाणाभावतद्विरोधौ न स्त उत स्त इति । विज्ञानात्मकं जगदित्यत्रेति । नाभाव इति, पूर्वसूत्र इवात्रापि भवतीति कर्तृसाधनेन भावशब्देन सद्रूपं ज्ञानमुच्यते । विज्ञानवादे ज्ञानादन्यस्यासत्त्वात् । ज्ञानमित्युक्त्वा भाव इत्युक्तिस्तु ‘नाभाव उपलब्धेः’ इति शून्यवादिनं प्रत्युक्तदोषः, नास्माकमिति पूर्वपक्षोत्थान-सूचनार्थमिति भावः ।

ननु ज्ञानजगतोरभेदे प्रत्यक्षाभावेऽप्यनुमानं स्यादित्याशङ्क्य निराकरोति– न चेति ॥ भेदप्रतीतिविरोधादिति ॥ अनेनानुपलब्धेरिति सौत्रो हेतुरुपलब्धिविरोधादिति प्रकारान्तरेण व्याख्यातः ॥ इतरेतराश्रयत्वमिति ॥ प्रत्यक्षस्य भ्रान्तित्वेऽनुमानप्रामाण्यम्, तस्मिश्च प्रत्यक्षस्य भ्रान्तित्वमित्यन्योन्याश्रयत्वमित्यर्थः ॥ स्ववृत्तिविरोधेनेति ॥ स्वस्यैव क्रियात्वेन कर्मत्वेन वृत्तिविरोधादित्यर्थः । एतच्च मतान्तराभिप्रायेण । अत एव दोषान्तरमाह– अज्ञान इति ॥ ज्ञानप्रागभावादौ ज्ञानावरणसंवृतौ च व्यभिचारः । न हि ज्ञानाभावादिरपि ज्ञानं, विरोधादिति भावः ।

भावदीपः

नित्यमिति ॥ प्रवाहतो नित्यमित्यर्थः । ज्ञानस्य क्षणिकत्वात्कैवल्यान्वयायैतदुक्तिः । नासत इत्युक्तदोषो नेति भावेनोक्तम् ॥ विद्यमानमिति ॥ विज्ञानमात्रं जगदिति भाष्यं व्यनक्ति ॥ तन्मात्रमेवेति ॥ तथा च नाभाव इत्याद्युक्तदोषोऽपि नेति भावः । छलोत्तरत्वनिरासाय विकल्प्यान्तिमपक्षे भाष्यं व्याचष्टे ॥ किं विज्ञानेति ॥ भाष्यस्थानुभवशब्दः प्रमाणत्रयजन्य-प्रमामात्रपर इति भावेनाह ॥ प्रमाणाभावादिति ॥ परोक्तमनुमानमाशङ्क्य निराह ॥ न च सहेति ॥ तथानुभवाभावादिति भाष्यस्य प्रत्युत वैपरीत्येनैवानुभवादित्यर्थमुपेत्याह ॥ भेदेति ॥ स्फुटमिति ॥ भेदप्रतीतेर्भान्तित्वे सिद्धे तस्या अविरोधकत्वादनुमानेनाभेदसिद्धिः । सिद्धे च तेनाभेदे भेदप्रतीतेर्भान्तित्वसिद्धिरिति स्फुटमितरेतराश्रयत्वमित्यर्थः । तद्रीत्या अवयवद्वये-नानुमानान्तरमाशङ्कते ॥ न च यदिति ॥ तथानुभवेत्यस्य स्वविषयज्ञानाभावादित्यर्थमुपेत्याह ॥ स्ववृत्तीति ॥ पररीत्यैतत् । यद्वा तार्किकादिमते स्ववृत्तिविरोधः न तु सिद्धान्तिमते । साक्षिणः स्वप्रकाशत्वाङ्गीकारादिति पूर्वत्रारुच्या दोषान्तरमाह ॥ अज्ञाने व्यभिचारश्चेति ॥ ज्ञानप्रागभावादौ ज्ञानावरणे संवृतौ च व्यभिचार इत्यर्थः । एतेन तथा प्रकाशविषयत्वेनानु-भवाभावाज् ज्ञानाभावसत्त्वादिति भावपदवृत्त्या भाष्यार्थः सूचितः । न हि ज्ञानाभावादिरपि ज्ञानम् । विरोधादिति भावः । तथा प्रकाशत्वेनानुभवाभावादित्यप्यर्थमुपेत्याह ॥ असिद्धिरिति ॥ भेदप्रतीत्या घटादेर्ज्ञानस्वरूपत्वा(नुभवा)भावात् । प्रतीतेर्भ्रान्तित्वं तु पूर्ववन्निरस्यमिति भावः । इतिशब्दः समाप्तौ ।

अभिनवचन्द्रिका

नित्यं निरञ्जनमिति ॥ ‘अयं घटः, अयं पट’ इत्यादिज्ञानानि भिन्नानीव दृश्यन्ते, तथापि न तेषां भेदो मन्तव्यः, किन्तु एकमेव विज्ञानतत्त्वम् अनेकज्ञेयाकारं भवतीति मन्तव्य-मिति भावः ॥ अतीताधिकरणन्यायेनेति ॥ ‘सदिति दृष्टत्वादिति न्यायेन’ इत्यर्थः ॥ बाधकाभावादिति ॥ उपलक्षणमेतत् । नीलादीनां प्रतीत्या सहोपलम्भनियमवद् भेदस्यापि स्वप्रतीत्या सहोपलम्भनियमात् स्वज्ञानात्मकत्वेन वास्तवत्वाच्चेत्यपि द्रष्टव्यम् ॥ स्ववृत्ति-विरोधेनेति ॥ ननु साधनवैकल्यं स्वरीत्योच्यते, उत परमतेन । न तावदाद्यः, अस्मन्मते ज्ञानेऽपि ज्ञानान्तरविषयत्वसद्भावेन स्ववृत्तिविरोधेऽपि दृष्टान्ते साधनसम्भवात् । न ह्यस्मन्मते पटोऽयमिति ज्ञानं न ज्ञेयं तदभावापातात् । नापि स्ववृत्तिविरोधः । ज्ञानमिति ज्ञानस्य स्वविषयत्वाभ्युपगमात् । नापि द्वितीयः । विज्ञानमेकमेव तत्त्वम् अन्यत् सर्वं तदात्मकमिति वदता परेण ज्ञानस्य स्वविषयत्वनैयत्याभ्युपगमादिति चेत्, न ब्रूमो वयं विज्ञानवादिरीत्या साधनवैकल्यमिति नाप्यस्मद्रीत्येति किं नाम यदि त्वदनुमानं मायावादी पश्येत्, तर्हि तेन एकस्यैव क्रियात्वकर्मत्वयोरनङ्गीकारात् साधनवैकल्यमाक्षिपेदेवेति ब्रूमः । न च विज्ञानस्यापि विज्ञानान्तरविषयत्वसम्भवेन न स्ववृत्तिविरोध इति वाच्यम् । विज्ञानवादिमते विज्ञानतत्त्व-स्यैकत्वेन विज्ञानान्तराभावात् ॥ अज्ञाने व्यभिचारश्चेति ॥ अज्ञानस्य ज्ञानत्वं विरोधादङ्गी-कर्तुमनुचितमिति साध्याभावनिश्चयसम्भवाद्व्यभिचार इति भावः । बौद्धेन श्रुत्यादिप्रामाण्या-नङ्गीकारात् कथं श्रुत्यादिविरोधाभिधानमित्यत आह– एतच्चेति ॥

पूर्वपक्षस्तु– न विष्णोर्जगत्कारणत्वं युक्तं, विज्ञानवादिमतविरुद्धत्वात् । तथा हि नित्यं निरञ्जनं विज्ञानतत्त्वमेकमेव खलु विद्यमानं तन्मात्रमेतदशेषं जगत्, न ततोऽतिरिक्तं किञ्चिदस्ति । अतो जगदुत्पत्तावीश्वरेण कृत्याभावादयुक्तं लक्षणमिति ।

सिद्धान्तस्तु– युक्तमेव हरेर्जगत्कारणत्वं विज्ञानवादिसमयस्यायुक्तत्वेनाविरोधकत्वात् । तथा हि विज्ञानातिरिक्तं जगन्नास्तीति वदन् प्रष्टव्यः, किं विज्ञानतत्त्वे जगदध्यस्तम्, उत विज्ञान-तत्त्वजगतोरभेद इति । नाद्यः सदिति प्रतीयमानत्वेनारोपितत्वायोगात् । न द्वितीयः जगतो ज्ञानात्मकत्वे प्रमाणाभावात् । न च सहोपलम्भनियमादभेदो नीलतद्धियोरिति वाच्यम् । भेदप्रतीतिविरोधात् । न च, सा भ्रान्तिः । बाधकाभावात् । नीलादीनां स्वप्रतीत्यभेदवद् भेदस्यापि स्वप्रतीत्यभेदेन यथार्थत्वात्तत्प्रतीतेर्भ्रमत्वायोगाच्च । साहित्यस्य भेदव्याप्तत्वेन सहोपलम्भादभेद इति प्रतिज्ञाहेत्वोर्विरोधाच्च । ननु यत्प्रकाशते तद्विज्ञानं, यथा ज्ञानं, प्रकाशन्ते च नीलादय इति अनुमानेन नीलादीनां ज्ञानत्वसिद्धिरिति चेत्, न प्रकाशत इत्यनेन ज्ञानविषयत्वमुच्यते आहोस्वित् प्रकाशत्वं वा । नाद्यः मायावादिना स्ववृत्तिविरोधेन विज्ञाने साधनवैकल्याभिधाने निरुत्तरत्वप्रसङ्गात् । अज्ञाने व्यभिचाराच्च । नेतरो ऽसिद्धेः । किं च ज्ञानस्य क्षणिकत्वेन जगतश्च स्थायित्वान्न तयोरैक्यम् । सकलश्रुतिस्मृतिविरुद्धत्वाच्च सकलमपि बौद्धमतं न सद्भिर्ग्राह्यम् । अतस्तद्विरोधाभावाद् युक्तं विष्णोर्जगत्कारणत्वमिति सिद्धम् ।

वाक्यार्थमुक्तावली

॥ विज्ञानवादविरोधेति ॥ शून्यवादिनं प्रति नासतोऽदृष्टत्वादित्युक्तदोषो नास्माकम् । अस्माभिः पारमार्थिकसद्विज्ञानात्मकत्वाङ्गीकाराद् विश्वस्येत्यष्टमाक्षेपेणाप्रवृत्तस्य विज्ञानवादस्य विरोधनिरासादस्ति शास्त्रादिसङ्गतिः । अव्यवहितसङ्गतिश्चेति भावः ॥ युक्तमयुक्तमिति ॥ विज्ञानवादविरोधाद्विष्णोः कारणत्वमयुक्तमुत युक्तमिति चिन्ता । तदर्थं तत्प््राक्रिया प्रमाणवत्युत नेति । ‘ज्ञानमेवाखिलज्ञेयाकारं प्रभासत’ इत्यनुव्याख्यानं मनसि निधाय योगाचारमतमुपन्यसति ॥ नित्येति ॥ विज्ञानतत्त्वमेव विद्यमानम् । न रूपादयश्चत्वारः स्कन्धा इत्यर्थः । विज्ञानाङ्गी-कारेऽपि विशेषमाह ॥ एकमिति ॥ ननु विज्ञानसन्ततीनामेकैकस्यामपि सन्ततौ पूर्वोत्तरज्ञान-भेदस्य सत्त्वात् कथमेकत्वमित्यत आह ॥ नित्येति ॥ घटज्ञानपटज्ञानादिसन्ततीनामेकैकस्या-मपि सन्ततौ पूर्वोत्तरज्ञानभेदस्य चारोपितत्वेनानित्यत्वाद्विज्ञानस्य च नित्यत्वात्तन्निर्विशेष-मेवेत्यर्थः । भेदस्य संवृत्त्यारोपेऽपि न तेन ज्ञानस्य लेप इत्याह ॥ निरञ्जनमिति ॥

ननु ज्ञेयमपि रूपादिकं प्रत्यक्षसिद्धं तत्कथं विज्ञानमेव तत्त्वमित्यत आह ॥ तन्मात्रमेवेदं जगदिति ॥ ज्ञानमेव ज्ञेयाकारं, न तु ज्ञेयं ज्ञानाद्भिन्नमस्तीत्यर्थः । तथा च नासतो नाभाव इत्युक्तदोषो नास्तीत्यर्थः । कुतो ज्ञेयस्य ज्ञानाकारत्वमित्यत आह ॥ खल्विति ॥ प्रसिद्ध-मित्यर्थः । ज्ञानं प्रकाशते तेन प्रकाशमानत्वस्य ज्ञानत्वेन व्याप्तौ सिद्धायां नीलादेरपि प्रकाश-मानस्य ज्ञानत्वसिद्धिरिति भावः । यद्वा यदा नीलादिकं ज्ञानेन सह प्रकाशमानं प्रसिद्धम् । तेन तयोरभेदः । ‘सहोपलम्भनियामादभेदो नीलतद्धियोः’ इति वचनादिति भावः । युक्तमेव परो वक्तीति नियमाभावात् सामान्यवाक्यं विकल्प्य द्वितीयपक्षोत्तरत्वेन सूत्रं सङ्गमयति ॥ न विज्ञानेति ॥ किं ज्ञेयं स्वरूपेणासदेव विज्ञानसमारोपितं विज्ञानात्मकमित्युच्यते किं वा परमार्थसत एव ज्ञेयस्य जगतो विज्ञानात्मकत्वं भेदमात्रं त्वसदिति विकल्पार्थः । सूत्रे जगदिति प्रकृतम् । तथा च जगद्भावो ज्ञानं न भवति अनुपलब्धेः । जगतो ज्ञानात्मकत्वस्य प्रमाणे-नानुपलब्धत्वादिति सूत्रार्थं मनसि निधायाह ॥ न द्वितीय इति ॥ भावपदेन कथं ज्ञानलाभ इति चेद् भवतु तर्ह्यनुभवेऽपि वर्तते । अत एव अनुभव इति प्रयोगः । अन्वित्युपसर्गस्तु धात्वर्थव्यञ्जक एव । ज्योतिश्चरणाभिधानादितिवत् । तदुक्तं सुधायां ‘जगद्भावो ज्ञानं न भवतीत्यर्थः । भवतेरनुभवार्थत्वात् । उपसर्गो हि धातुलीनस्यार्थस्य व्यञ्जक एव’ इति । प्रसिद्ध-ज्ञानपदं विहाय भाव इत्युक्तिस्तु परमते विज्ञानातिरिक्तसदभावाद् भवतीति भावः सन्निति व्युत्पत्या भावशब्देन ज्ञानस्य सत्त्वं ज्ञापयितुम् । नाभाव इत्युक्तदोषो नेति दर्शयितुमिति ज्ञेयम् ॥ अतीताधिकरणेति ॥ सदिति दृष्टत्वादिति न्यायेनेत्यर्थः ॥ प्रतीतिविरोधादिति ॥ अनेनानुपलब्धेरित्येतत् सौत्रो हेतुर् उपलब्धिविरोधादिति व्याख्यातो भवति ॥ बाधकाभावादिति ॥ एतेनापि अनुपलब्धेरित्येतद् बाधकानुपलब्धेरित्यपि व्याख्यातं भवति ॥ स्फुटमिति ॥ प्रत्यक्षस्य भ्रान्तित्वेऽनुमानप्रामाण्यम् । तस्मिंश्च सति प्रत्यक्षस्य भ्रान्तित्वमिति स्फुटमितरेतरा-श्रयत्वमित्यर्थः ॥ स्ववृत्तीति ॥ स्वस्यैव क्रियात्वेन कर्मत्वेन विरोधादित्यर्थः । पररीत्यैतत् । सिद्धान्ते साक्षिणः स्वप्रकाशत्वाङ्गीकारात् । अत एव दोषान्तरमाह ॥ अज्ञान इति ॥ ज्ञानप्रागभावादौ ज्ञानावरणसंवृत्तौ च व्यभिचारः । न हि ज्ञानाभावादिरपि ज्ञानं, विरोधा-दित्यर्थः ॥ असिद्धेरिति ॥ तस्यैव सिसाधयिषितत्वादिति भावः ।

तत्त्वसुबोधिनी

अत्रेश्वरेति योगाचारैर्न माध्यमिकवत् प्रपञ्चस्यारोपितत्वम् अङ्गीक्रियते किन्तु सद्रूपज्ञाना-सत्त्वमेव तत्र च न पूर्वोक्तदोषावकाश इति पूर्वपक्षोत्थानादनन्तरसङ्गतिर् इति भावः ॥ न विज्ञानातिरिक्तं जगदिति ॥ अत्रापि नाभाव इति पूर्वसूत्र इव भवतीति भाव इति कर्तृसाधनेन भावशब्देन सद्रूपज्ञानमुच्यते । विज्ञानवादे ज्ञानादन्यस्य सत्त्वाज् ज्ञानमित्यनुक्त्वा भाव इत्युक्तिस्तु नासतो दृष्टत्वादिति शून्यवादिनं प्रत्युक्तदोषो नास्माकमिति पूर्वपक्षोत्थानार्थम् । यद्वा भूप्राप्तौ भूचिन्तयोरिति वचनाच् चिन्तात्मकज्ञानार्थोऽपि भूधातुरस्तीति भावः । युष्माकं भाः साकारत्वेनाभिमतं ज्ञानमिति वाभिप्रेत्य भाव इत्युक्तिः ॥ तत्राद्य इति ॥ सत्त्वेन प्रतीय-मानत्वाद्बाधकाभावाच्च न ज्ञाने जगदध्यास इत्यर्थः । द्वितीयं प्रत्याह– ज्ञानात्मकमिति ॥

ननु ज्ञानजगतोरभेदे प्रत्यक्षाभावेऽपि अनुमानं स्यादित्याशङ्क्य निराकरोति ॥ न चेति ॥ भेदप्रतीतीति ॥ अनेनानुपलब्धेरिति सौत्रो हेतुरुपलब्धिविरोधादिति प्रकारान्तरेण व्याख्यातः ॥ इतरेतराश्रयत्वमिति ॥ प्रत्यक्षस्य भ्रान्तेऽनुमानप्रामाण्यं तस्मिंश्च सति अनुमानस्याप्रामाण्य-मित्यन्योन्याश्रयत्वं भवत्पक्षेऽपीति भाव इति प्रत्यक्षस्य भ्रान्तित्वमित्यन्योन्याश्रयत्वमित्यर्थः । न चैवमनुमानस्याप्रामाण्ये प्रत्यक्षस्याभ्रान्तित्वं तस्मिंश्च सति अनुमानस्याप्रामाण्यमित्यन्योन्या-श्रयत्वं, भवत्पक्षेऽपीति वाच्यम् । प्रत्यक्षस्य प्रबलतयानुमानविरोधपरिहारानपेक्षमेव प्रामाण्य-स्थितेस् तदसम्भवादिति भावः ॥ स्ववृत्तिविरोधेनेति ॥ स्वस्यैव क्रियात्वेन कर्मत्वेन वृत्ति-विरोधादित्यर्थः । ननु तार्किकादिमते स्ववृत्तिविरोधः न तु सिद्धान्ते । साक्षिणः स्वप्रकाश-त्वाङ्गीकारादित्यरुच्या दोषान्तरमाह– अज्ञाने व्यभिचारं चेति ॥ ज्ञानप्रागभावादौ ज्ञानावरणे संवृतौ च व्यभिचारः । न हि ज्ञानाभावादिरपि ज्ञानविरोधादिति भावः ॥ प्रकाशत्वाभिप्राय इति ॥ प्रकाशरूपत्वाभिप्राय इत्यर्थः । नीलादीनामप्रकाशरूपत्वाय सिद्धमिति भावः ।

वाक्यार्थविवरणम्

‘ज्ञानमेवैकमखिलज्ञेयाकारं प्रभासत’ इत्येतदनुसारेणाह ॥ नित्यमित्यादिना ॥ सूत्रे भावशब्दो विज्ञानवाचीति ज्ञेयम् ॥ अतीतेति ॥ विज्ञानमेव जगदाकारेणावभाति । जगच्च तत्राध्यस्तम् । न परमार्थतोऽस्तीत्येतदयुक्तम् । सदिति प्रतीयमानत्वादिति शून्येऽध्यस्तत्व-निराकरणन्यायेन विज्ञानाध्यस्तत्वपक्षोऽपि निराकर्तव्य इत्यर्थः ॥ सहोपलम्भनियमादिति ॥ विमतं ज्ञानव्यतिरेकेणासत् । ज्ञानव्यतिरेकेणानुपलभ्यमानत्वादित्यनुमानेनाह ॥ प्रकाशत इति ॥ कोऽर्थः प्रकाशविषयत्वं वा प्रकाशरूपत्वं वेति विकल्प्य आद्यं निराचष्टे ॥ प्रकाश इतीति ॥ ज्ञाने ज्ञानविषयत्वं क्रियात्वकर्मत्वयोरेकत्र विरोधान्न युक्तमित्यर्थः । अज्ञाने ज्ञानप्रागभावे तद्ध्वंसे चेत्यर्थः । द्वितीयं निराह ॥ प्रकाशत्वेति ॥ पक्षे नीलादौ प्रकाशरूपत्वानङ्गी-कारेणास्माकमसिद्धिरित्यर्थः ।

वाक्यार्थमञ्जरी

भावः ज्ञानात्मकं जगदिति न युक्तं तथाऽननुभवादित्यर्थः ॥ अतीताधिकरणन्यायेनेति ॥ सदिति दृष्टत्वादिति न्यायेनेत्यर्थः । ननु ययोः सहोपलम्भस्तयोरभेदो यथा घटरूपयोः सहोप-लभ्येते च नीलतज्ज्ञाने परस्परव्यतिरेकेणानुपलब्धेरित्यनुमानं मानमित्याशङ्क्याह ॥ न चेति ॥ इतरेतराश्रयत्वमिति ॥ प्रत्यक्षस्य भ्रान्तित्वे अनुमानप्रामाण्यं तस्मिंश्च सति प्रत्यक्षस्य भ्रान्तित्व- मित्यन्योन्याश्रयत्वमित्यर्थः ॥ स्ववृत्तिविरोधेनेति ॥ स्वस्यैव क्रियात्वेन कर्मत्वेन च वृत्ति-विरोधादित्यर्थः । एतच्च परमतेन सिद्धान्ते साक्षिणः स्वप्रकाशत्वाङ्गीकारादत एव दोषान्तरमाह ॥ अज्ञान इति ॥ ज्ञानप्रागभावादौ ज्ञानावरणसंवृतौ च व्यभिचारः । न हि ज्ञानाभावादिरपि ज्ञानं विरोधादिति भावः ॥ असिद्धिरिति ॥ ज्ञानस्वरूपत्वस्यासम्मतेरिति भावः ।


ॐ क्षणिकत्वाच्च ॐ

सूत्रभाष्यम्

॥ ॐ क्षणिकत्वाच्च ॐ ॥ ३१ ॥

ज्ञानं क्षणिकम् । अर्थानां च स्थायित्वमुक्तम् । अतश्च नैक्यम् ।

सत्तर्कदीपावली

जगच्छून्यवादं निराकृत्य जगद्विज्ञानवादमुपक्षिप्य दूषयति । ज्ञानार्थयोरभेदे अहं घट इति प्रतीतिः स्यात् । न त्वयं घट इति । अतो नार्थस्य ज्ञानाकारत्वं युज्यते अनुभवविरुद्धत्वात् । जगतः स्थायित्वेन साधितत्वात् । ज्ञानस्य क्षणिकत्वादपि न जगदाकारं ज्ञानमित्यर्थः ।

तत्त्वप्रदीपिका

न च क्षणिकस्थायिनोरैक्यम् ।

तत्त्वप्रकाशिका

युक्त्यन्तरेणापि जगतो विज्ञानात्मकत्वं पराकुर्वत्सूत्रमुपन्यस्य व्याचष्टे ॥ ॐ क्षणिकत्वाच्चेति ॐ ॥ न च ज्ञानेऽपि क्षणिकत्वं भ्रान्तमिति वाच्यम् । मानाभावात् ।

भावदीपः

सौत्रश्चशब्दः समुच्चये इति भावेनाह ॥ युक्त्यन्तरेणापीति ॥ विरुद्धधर्मवत्त्वरूपेणापीत्यर्थः ।

वाक्यार्थमुक्तावली

आशुतरविनाशित्वाच्च भावस्य ज्ञानस्य न जगद् भावो विज्ञानात्मकमिति सूत्रार्थः ।

तत्त्वसुबोधिनी

मानाभावादिति ॥ बाधकाभावादित्यर्थः ।

वाक्यार्थविवरणम्

मानेति ॥ बाधकरूपमानेत्यर्थः ।

वाक्यार्थमञ्जरी

ज्ञानस्य क्षणिकत्वात्पदार्थानां स्थायित्वाच्च नाभेद इत्यर्थः ।