ॐ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॐ
७. अथ समुदायाधिकरणम्
सूत्रभाष्यम्
परमाणुपुञ्जवादिमतं निराकरोति–
॥ ॐ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॐ ॥ १८ ॥
समुदायस्यैकहेतुकत्वं न युज्यते । उभयहेतुकेऽप्यन्योऽन्याश्रयात्तदप्राप्तिः । अन्यथा सर्वदा समुदायसत्त्वं स्यात् ।
सत्तर्कदीपावली
परमाण्वारम्भवादवत्परमाणुपुञ्जवादोऽप्यनुपपन्नः । तथा हि । परमाणुपुञ्जशब्दादिभेदः समुदाय-स्तावदेकपरमाणुहेतुकश्चेत्प््रालये समुदायस्याप्यविच्छेदः स्यात् । बहुपरमाणुहेतुकश्चेद्बहुसमुदाययो-र्भेदोऽङ्गीकृतः स्यात् । न च तथा सति बहुत्वैकत्वे समुदायस्य समुदायिभूतानां बहुत्वमिति समुदायहेतुकत्वं बहुत्वं किं न स्यादिति । अन्योन्याश्रयतया परमाणुपुञ्जवादोऽपास्तः स्यात् । तदाह ॥ परमाणुपुञ्जेत्यादिना ॥
तत्त्वप्रदीपिका
चतुर्विधेषु बौद्धेषु वैभाषिकाः सौत्रान्तिकाश्च बाह्यार्थवादिनः । ते तावदुभयेऽपि परमाणूनां पुञ्जविशेषं जगत्क्षणभङ्गिसङ्गिरन्ते । विज्ञानवेदनासंज्ञासंस्कारानन्यस्कन्धांश्च । तत्र प्रथमे प्रत्यक्ष-मेतत्प््राचक्षते । अपरे तु नितरां मूढतमाः प्रतिबिम्बेनानेन बुद्ध्यारोपितेन बिम्बादन्यदनुमेयमितीत्येष भेदः । तेषां परमाणुकारणनिरासप्रसङ्गसङ्गतं मतमधुना निरस्यति । समुदायउभयहेतुकेऽपि तदप्राप्तिः । न तावत्परमाणुसमुदायस्यैकहेतुकत्वम् । समुदायत्वाभावप्रसङ्गात् । द्व्यादिहेतुके समुदायेऽङ्गीक्रिय-माणेऽन्योन्याश्रयात्तस्यायुक्तिः, द्वित्वादिसिद्धौ समुदायसिद्धिः, तत्सिद्धौ द्वित्वादिसिद्धिरिति । द्व्यादिहेतुकत्वानङ्गीकारे द्वितीयानपेक्षत्वादेकस्यैव समुदायत्वमिति सर्वदा समुदायः स्यात् । अतः समुदाय एव न युज्यते द्वय्यामपि पदव्याम् । समुदायविशेषात्मना जगज्जन्म दूरापेतम् ।
तत्त्वप्रकाशिका
अधिकरणार्थं दर्शयति ॥ परमाणुपुञ्जेति ॥ द्विविधसमयिनां मध्ये हैतुकनिरासानन्तरं पाषण्डिनां निराकरणं प्राप्तम् । पाषण्डिनोऽपि द्विविधाः । अवैदिका वैदिकाश्च । तत्रावैदिका-नामतिविरोधिनां निराकरणं प्रथमप्राप्तम् । तत्र बौद्धजैनानां मध्ये बौद्धस्यैव प्राथमिकत्वादादौ तन्निराक्रिया युक्ता । बौद्धानां बहुविधत्वेऽपि परमाणुकारणताभ्युपगन्तृनिराकरणसङ्गत्या वैभाषिक-सौत्रान्तिकमतमत्र निषिध्यत इति भावः । अत्र विष्णोर्जगत्कारणत्वे बौद्धमतविरोधनिरासादस्ति शास्त्रादिसङ्गतिः । हरिर्जगत्कर्तेत्युक्तम् । तत्र बौद्धमतविरोधेनाभावशङ्का स्यादिति तद्दूषणीयमेव । ईश्वरस्य जगत्कारणत्वमेव विषयः । युक्तमयुक्तं वेति सन्देहः । समयविवादः सन्देहबीजम् । न युक्तमिति पूर्वपक्षः । रूपविज्ञानवेदनासंज्ञासंस्काररूपेणावस्थितं खलु जगत्परमार्थसत् तदशेषं परमाणुसमुदायमात्रं न त्ववयवी नाम कश्चिदस्ति । परमाणुसमुदाय एव घटादिबुद्ध्युपपत्तौ परमाणु-परिणामस्य तदारब्धस्य वाऽवयविनोऽभ्युपगमस्य व्यर्थत्वात् । विद्यमानं च सर्वं क्षणिकमेव एतदेव हि पदार्थानां सत्त्वं यत्कालतः क्षणिकत्वं देशतः परमाणुत्वम् । तच्चैतत्कार्यं कालकर्मनिमित्तेन भवत्यतः किमीश्वरेण । न च तदनभ्युपगमे मानविरोधः । आगमप्रामाण्यानभ्युपगमात् । अतो न लक्षणं युक्तमित्येवं प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ समुदाय इति ॥ न विष्णो-र्जगत्कारणत्वमयुक्तम् । बौद्धानामनुपपन्नभाषित्वेन तत्कल्पनाया दुष्टत्वात् । तथा हि । कालकर्मादि-निमित्तेन क्षणिकः परमाणुनिमित्तकः समुदायो भवति । न त्ववयवी कश्चिदस्तीति यदुक्तं तत्र प्रष्टव्यम् । किमयं समुदाय एकपरमाणुहेतुकोऽनेकपरमाणुहेतुको वेति । आद्यस्तावदनुपपन्नः । एकस्मात्समुदाय इत्यस्य व्याहतेः । द्वितीयोऽपि किं मिलितानेकहेतुको वा विरलानेकहेतुको वा । नाद्यः । मिलितानेकतः समुदायः समुदाये सति मिलितत्वमित्यन्योन्याश्रयतया समुदायानुपपत्तेः । नोत्तरः । अमिलितपरमाणूनां सदा सद्भावेन समुदायस्यापि सदातनत्वापत्त्या प्रलयाभ्युपगम-विरोधापातादिति भावः । अत्रातिपीडायामनवस्थापि द्रष्टव्या ।
गुर्वर्थदीपिका
यद्यपि ‘बुद्धो नाम्ना जिनसुत’ इति वचनाज्जिनः प्राथमिकः, बुद्धस्तु पश्चात्तनः । तथाऽपि शिशुरूपेण बुद्धेन वेदनिन्दात्मके पाषण्डमते प्राक्कृते तत्र किञ्चिदङ्गीकृत्य पुनर्जिनेन वेद-निन्दात्मकं मतान्तरं कृतमिति भावेनोक्तम् ॥ बौद्धस्यैव प्राथमिकत्वादिति ॥ बौद्धस्य बुद्धकृत-मतस्य । रूपविज्ञानवेदनासंज्ञासंस्काररूपेणावस्थितमित्यत्र रूपपदेन पृथिव्यप्तेजोवाय्वाख्य-भूतानि तत्तद्व्यवहारालम्बनपरमाणवश्च गृह्यन्ते । निर्विकल्पकं ज्ञानं विज्ञानम् । वेदना दुःखम् । सुखं तु दुःखाभाव एव । न ततोऽतिरिक्तम् । अतिरेकपक्षे तदपि दुःखशबलत्वाद्वेदनापदे-नोच्यते । सविकल्पकं ज्ञानं संज्ञा । संस्कारः समनन्तरप्रत्ययाख्या स्मृतिः । इदं चतुष्टय-मान्तरम् । आत्मा ज्ञानसन्ततिरेव न ततोऽतिरिक्त इति भावः । परमाणुसमुदाय एवेत्यस्य विवाहचतुर्थदिने गजाकारेण राशीभूताविकृततण्डुलवत्तत्तदर्थाकारेण पुञ्जीभूताविकृतपरमाणु-समुदाय एवेत्यर्थः । एतदेव हि पदार्थानां सत्त्वमित्यत्र पदार्थानां परमाणुसमुदायात्मकघटादि-पदार्थानाम् । अर्थक्रियाकारित्वं हि सत्त्वम् । तच्च क्षणे क्षणे स्वसदृशसंस्थानान्तरकरणेन विकुर्वद्रूपवत्वे सत्येव स्यात् । अतः क्षणिकत्वमेव सत्त्वमिति भावः । मिलितानेकहेतुक इत्यत्र सकृद्घटोत्पत्त्यनन्तरं पुनर्यावद्घटसत्त्वं घटाकारेण मिलितैस्तैरेव परमाणुभिः क्षणेक्षणे घट-समुदायात्मककार्योत्पत्तिपरम्परां वदता सृष्टेरैकविध्याय प्राचीनघटाकारसमुदायात्मककार्यमपि घटाकारेण मिलितपरमाणुभ्य एव वक्तव्यम् । मिलितत्वं च घटाद्याकारेण समीपस्थपरमाणु-समुदायत्वम् । अन्यथा विरलानेकहेतुकत्वाख्यद्वितीयकोटेरविशेषापातात् । एवं च कारणीभूत-मिलितत्वसम्पत्तिरेव सम्बन्धविशेषघटितपरमाणुसमुदाये सत्येव भवति । स च समुदाय उत्पत्स्यमानघटाकारसमुदायातिरिक्तो न परेण वक्तुं शक्यते । कार्यसमुदायातिरिक्तघटक-समुदायान्तरस्य परेणानङ्गीकारात् । स एव चेत् । न समुदाये सति मिलितत्वं मिलितत्वे सति समुदाय इति कथं नान्योन्याश्रय इति भावः । उत्पत्स्यमानादन्येन समुदायेन मिलितत्वं चेत्तस्यापि तथा तस्यापि तथेत्यनवस्थेत्याह ॥ अत्रातिपीडायामिति ॥ अप्रामाणिक-समुदायकल्पनेन प्रमेयस्य बहुपीडनादतिपीडायामित्युक्तम् ।
भावबोधः
एतदधिकरणस्य पूर्वाधिकरणेनानन्तरसङ्गतिमाह– बौद्धानामिति ॥ सौत्रान्तिकवैभाषिक-मतमिति । सौत्रान्तिकमते रूपादिप्रपञ्चस्यानुमेयत्वाङ्गीकारेण वैचित्र्यसत्त्वेऽप्यधिकरण-दूषणांशस्योभयमतसाधारण्येनोभयमतमप्यत्र निषिध्यत इति भावः ॥ युक्तमयुक्तं वेति ॥ अत्रेश्वरस्य जगत्कारणत्वं किं न युक्तम् उत युक्तमिति चिन्ता । तदर्थं वैभाषिकसौत्रान्तिकसमयः श्रुत्युक्ततदपबाधनक्षमो भवत्युत नेति । तदर्थं सौत्रान्तिकवैभाषिकौ किमुपपन्नभाषिणावुतानु-पपन्नभाषिणाविति । तदर्थं तत्परिकल्पितपदार्थक्षणिकत्वादिप्रक्रियायां साध्यसाधकभावाभावौ वर्तेते उत न वर्तेते इति ॥ रूपविज्ञानेति ॥ रूपरसगन्धस्पर्शशब्दात्मकाः परमाणवो रूपस्कन्धः । निर्विकल्पकं ज्ञानं विज्ञानस्कन्धः । वेदनापरपर्यायं दुःखं चैकस्कन्धः । सुखं दुःखाभाव एव । सुखमपि वेदनास्कन्ध इति केचित् । सविकल्पकज्ञानं संज्ञास्कन्धः । समनन्तरप्रत्ययः संस्कारस्कन्ध इति द्रष्टव्यम् । वैशेषिकादिमताभिप्रायेणाह– तदारब्धस्येति ॥ भाष्ये सौत्रापिशब्दसमुच्चेयप्रदर्शनाय समुदायस्यैकहेतुत्वं न युज्यत इत्युक्तम् । एकहेतु-कत्वमेकपरमाणुहेतुकत्वमित्यर्थः । उभयहेतुकेऽपीत्यत्रोभयशब्दो मिलितानेकपरमाणुपरः । अङ्गीकृते सतीति शेषः । तदप्राप्तिरित्यत्र तच्छब्दः समुदायपरामर्शकः । अन्यथेत्यस्य मिलितानेकहेतुकत्वानङ्गीकारे विरलानेकपरमाणुहेतुकत्वाङ्गीकार इत्यर्थ इति भाष्याक्षरार्थमभि-प्रेत्य तदभिप्रायमाह– किमयं समुदाय इत्यादिना ॥
ननु येभ्यो मिलितानेकपरमाणुभ्यो समुदायो, न तत्समुदायजन्याः । किं तु समुदित-परमाण्वन्तरादिति नान्योन्याश्रय इत्यत आह– अतिपीडायामिति ॥
भावदीपः
अत्रैतन्मतनिरासे परमाणुपुञ्जेति पदप्रयोगसूचितां सङ्गतिं वक्तुमाह ॥ द्विविधेति ॥ प्रागुक्तद्विविधेत्यर्थः । तामाह ॥ बौद्धानामिति ॥ वैभाषिकेति ॥ तन्मतयोरनतिभिन्नार्थत्वादिति भावः । आकाशे चेति सूत्रानुगुण्याय जगत्स्वरूपं व्यनक्ति ॥ रूपेति ॥ विषयेन्द्रियाद्यात्मना स्थिता रूपरसगन्धस्पर्शशब्दात्मकाः परमाणवो रूपस्कन्धः । निर्विकल्पकज्ञानं विज्ञानस्कन्धः । दुःखं वेदनास्कन्धः । सुखं च दुःखाभाव एव । सुखमपि वेदनास्कन्ध इत्येकदेशिनां मतम् । कुण्डली गौर्गच्छतीत्यादिसविकल्पकज्ञानं संज्ञास्कन्धः । तेषां वासनासंस्कारस्कन्धः । इत्येवं रूपेणावस्थितमित्यर्थः । असति प्रतिज्ञेत्यादिसूत्रोपयोगायाह ॥ परमार्थेति ॥ अर्थक्रियाकारि-रूपपारमार्थिकसत्यमित्यर्थः । आद्यसूत्रनिरस्यमाह ॥ तदशेषमिति ॥ वेदान्तिरीत्याऽऽह ॥ परिणामस्येति ॥ वैशेषिकरीत्याऽऽह ॥ तदारब्धस्येति ॥ द्वितीयादिसूत्रोपयोगायाऽऽह ॥ विद्यमानं चेति ॥ क्षणिकत्वे सत्त्वं न स्यादित्यत आह ॥ एतदेवेति ॥ ईश्वरवादस्य तद्विरोधं दर्शयितुमाह ॥ तच्चेति ॥ विप्रतिषेधाच्चासमञ्जसमित्याद्युक्तदोषोऽत्र मते नेत्याह ॥ न चेत्यादिना ॥ अत इति ॥ ईश्वरस्यैवानुपयोगादित्यर्थः । समुदायादिखण्डनस्य सङ्गतत्वद्योतना-याह ॥ न विष्णोरिति ॥ परमाणुनिमित्तकः समुदायो भवतीत्येतावदनुवादेनैव पूर्तौ कालकर्मे-त्याद्युक्तिः सूत्रेषु वक्ष्यमाणदूषणज्ञानसौकर्यायेति ध्येयम् । सूत्रभाष्ययोरुभयशब्दोऽनेकपरो न द्विमात्रपर इति भावेन अनेकपरमाणुहेतुको वेति विकल्पः । भाष्यं व्याचष्टे ॥ आद्य-स्तावदित्यादिना ॥ भाष्ये एतत्पक्षनिरासः सौत्रापिपदसूचित इति द्योतनाय तावदित्युक्तम् । भाष्ये समुदायशब्दप्रयोगादेव सूचितां युक्तिमाह ॥ एकस्मादिति ॥ सूत्रभाष्ययोरुभयशब्दः ‘उभादुदात्तो नित्यम्’ इति सूत्रादवयवार्थे निष्पन्नत्वान्मिलितानेकपरमाणुपर इत्यभिप्रेत्य विकल्पमुखेन भाष्यं व्याचष्टे ॥ किं मिलितेति ॥ एकदेशस्थानेकहेतुको वेत्यर्थः । अन्यथेत्यादि व्याचष्टे ॥ नोत्तर इत्यादिना ॥ अतिपीडायामिति ॥ अन्योन्याश्रयपरिहाराय मेलनस्य मेलना-न्तरेण सामीप्येन वा विशिष्टानेकहेतुकत्वे अनवस्थेत्यर्थः ।
अभिनवचन्द्रिका
रूपविज्ञानवेदनासंज्ञा संस्काररूपेणेति ॥ विषयेन्द्रियाद्यात्मना स्थिता रूपरसगन्ध-स्पर्शशब्दाद्यात्मकाः परमाणवो रूपस्कन्धः, अहमित्यभिमानारूढं निर्विकल्पकज्ञानं विज्ञान-स्कन्धः, दुःखं वेदनास्कन्धः, सुखन्तु दुःखाभाव एव । सुखमपि वेदनास्कन्ध इति केचित् । कुण्डली गौर्गच्छतीत्यादिसविकल्पकज्ञानं संज्ञास्कन्धः, रागद्वेषमोहादिरूपः समनन्तरप्रत्ययः संस्कारस्कन्धः । एवं पञ्चस्कन्धात्मना अवस्थितं परमार्थसदित्यर्थः ॥ यत्कालतः क्षणिकत्व-मिति ॥ व्याप्यव्यापकयोरभेदोपचारोऽयम् । ततश्च व्यापकाभावे व्याप्यायोगाद् विद्यमानस्य सर्वस्य क्षणिकत्वमभ्युपेयमिति भावः । एतेन साध्यावैशिष्ट्यात् सत्त्वेन परकीयं क्षणिकत्व-साधनमनुपपन्नमिति परास्तम् ॥ कालकर्मनिमित्तेनेति ॥ कालकर्मनिमित्तेनैव भवति न तु उपादानेनेति भावः । एतेन परमाणूनां क्षणिकत्वे उत्तरक्षणे पुनः परमाणूत्पत्तौ उपादानाभावात् पुनः परमाणूत्पत्तिरनुपपन्नेति परास्तम् । निरुपादानसृष्टेर् अभ्युपगतत्वेन उपादानाभावस्यादोषत्वात् ॥ किमयमिति ॥ परस्यानुपपन्नभाषित्वेन युक्तमेवायं ब्रवीतीति नियमाभावात् प्रश्नः ॥ मिलितानेकत इति ॥ यद्यपि न मेलनातिरिक्तः समुदायो दृश्यते इत्यात्माश्रय इत्यात्माश्रयो वक्तव्यस् तथापि समुदायव्यक्तिभेदमङ्गीकृत्य पूर्वस्मात्समुदायादुत्तरसमुदाय उत्तरस्माच्च पूर्वसमुदाय इत्यङ्गीकारेऽन्योन्याश्रयो बोध्यः । व्यक्तिबाहुल्याङ्गीकारे तु अनवस्थां वक्ष्यति ॥ सदा सद्भावे-नेति ॥ यद्यपि परमाणवः क्षणिकाः, तथापि तत्प्रवाहस्तु सदा वर्तत इति सदा सद्भावेनेत्युक्तम् ॥ अतिपीडायामिति ॥ यस्मात् समुदायाद्यः समुदाय उत्पद्यते न तस्मात् पूर्वसमुदायोत्पत्ति-रङ्गीक्रियते किन्तु समुदायान्तरात् सोऽप्येवं, सोऽप्येवमिति नाऽन्योन्याश्रय इत्यतिपीडायामित्यर्थः ।
इयमत्र सूत्रयोजना परमाणुसमुदायेन केवलम् एकपरमाणुहेतुकेऽङ्गीक्रियमाणे समुदायप्राप्तिः किन्तु उभयहेतुके समुदितानेकहेतुकेऽङ्गीक्रियमाणेऽपि तदप्राप्तिरिति ॥ भाष्ये अन्यथेति ॥ अन्यथा पूर्वोक्तमिलितानेकहेतुकत्वादन्यथा विरलानेकहेतुकत्वाङ्गीकारे, सर्वदा समुदायत्वं स्यादित्यर्थः ।
वाक्यार्थमुक्तावली
परमाणुपुञ्जस्यैव घटादिबुद्धिविषयत्वमिति वादः परमाणुपुञ्जवादः ॥ प्राथमिकत्वादिति ॥ प्रथमनिर्मितत्वात् प्रबलत्वाच्चेत्यर्थः ॥ बहुविधत्वेऽपीति ॥ वैभाषिकसौत्रान्तिकमाध्यमिक-योगाचारभेदैर्बहुविधत्वेऽपीत्यर्थः । अपिशब्दान्माध्यमिकादीनामतिविरोधित्वेऽपीति ग्राह्यम् । यद्यपि परमाणुपुञ्जरूपः क्षणिको बाह्यार्थो घटादिः सन् प्रत्यक्षश्चेति वदतः सौत्रान्तिकात् सोऽनुमेय इति वदन् वैभाषिकोऽतिविरोधी । ततोऽपि ज्ञानातिरेकेण बाह्यार्थ एव नास्तीति वदन् योगाचारोऽतितरां विरोधी । ततोऽपि सर्वशून्यवादी माध्यमिकोऽतितमां विरोधीति माध्यमिकयोगाचारवैभाषिकसौत्रान्तिकाः क्रमेण निराकार्याः । तथापि परमाण्वारम्भवादनिरासेन तत्पुञ्जवादोपस्थितेः । पुञ्जरूपबाह्यार्थसत्वे वा, द्वित्वेनैकीकृत्यावान्तरभेदमविवक्षित्वा वा, तार्किकं प्रत्युक्तमीश्वरस्य वैदिकत्वमयुक्तम् । वेदस्यैवाप्रमाणत्वादिति षष्ठाक्षेपेण प्रवृत्तयोर् वैभाषिकसौत्रान्तिकमतयोर्निरासः क्रियत इति भावः ॥ युक्तमयुक्तं वेति ॥ ईश्वरस्य जगत्कारणत्वं वैभाषिकादिपरिकल्पितपदार्थक्षणिकत्वादिप्रक्रिया विरोधादयुक्तमुत युक्तमिति चिन्ता । तदर्थं तत्प््राक्रिया प्रमाणवत्युत नेति । आकाशे चेति सूत्रानुगुण्याय जगत्स्वरूपं निरूपयति ॥ रूपेति ॥ विषयेन्द्रियात्मना स्थिता रूपरसगन्धस्पर्शशब्दात्मकाः पञ्च परमाणवो रूपस्कन्धः । अहमित्यभिमानारूढं निर्विकल्पकं ज्ञानं विज्ञानस्कन्धः । दुःखं वेदना स्कन्धः । सुखं तु दुःखाभाव एव । सुखमपि वेदनास्कन्ध इति केचित् । कुण्डली गौर्गच्छति इत्यादि सविकल्पकज्ञानं संज्ञास्कन्धः । समनन्तरप्रत्ययः संस्कारस्कन्धः । समनन्तरप्रत्ययो नाम तेषां वासनेति चन्द्रिकायाम् । स्मृतिरिति केचित् । रागद्वेषमोहादिरूपः समनन्तरप्रत्यय इत्यन्ये । तच्छास्त्रे पक्षत्रयस्याप्युक्तत्वाट् टीकानामविरोधः । असति प्रतिज्ञोपरोध इति सूत्रोप-योगमाह ॥ परमार्थेति ॥ अर्थक्रियाकारिरूपपारमर्थिकसत्य इत्यर्थः । आद्यसूत्रनिरस्यमाह ॥ तदशेषमिति ॥ वेदान्तरीत्याह ॥ तत्परिणामस्येति ॥ वैशेषिकादिरीत्याह ॥ तदारब्ध-स्येति ॥ द्वितीयादिसूत्रोपयोगमाह ॥ विद्यमानं चेति ॥ यत्कालत इति ॥ व्याप्यव्यापकयोर-भेदोपचारोऽयम् । ततश्च व्यापकाभावे व्याप्यायोगाद् विद्यमानस्य सर्वस्य क्षणिकत्वमभ्युपेयमिति भावः । एतेन साध्यावैशिष्ट्याद्विद्यमानं सर्वं क्षणिकमिति सत्वेन परकीयं क्षणिकत्वसाधनमनु-पपन्नमिति निरस्तम् । अर्थक्रियाकारित्वं हि सत्त्वम् । तच्च न जलाहरणादिना सम्भवति । तस्य कादाचित्कत्वात् । क्षणिकत्वे तु द्वितीयक्षणस्थपदार्थजनकत्वेन सम्भवति । न च स्थायित्वं युक्तम् । एकेनैव घटेन कुलालशाला परिपूर्तिप्रसङ्गात् । अतः सत्त्वेन क्षणिकत्वं युक्तमेव । सत्त्वस्य क्षणिकत्त्वेनेव परमाणुत्वेनापि व्याप्तिसद्भावात्तेन परमाणुत्वमप्यनुमेयमित्याह ॥ देशत इति ॥ महत्वेऽवयवित्वापत्यावयवानां क्रियया संयोगे सति तत्समवेततया तत्परिणामतया वा कार्येणोत्पत्तव्यम् । तत्कार्येणाप्येवमिति सजातीयार्थक्रियावैधुर्येण सत्त्वभङ्गापत्तेरिति भावः । नन्वेको महान् इत्यादि प्रत्यक्षप्रत्ययविरोधपरिहाराय समुदायस्य गोघटादिबुद्धिविषयत्वे परमाणुमेलकेनेश्वरेण भवितव्यम् । तथाऽवयव्यनभ्युपगमे परमाणूनां गोघटादिविलक्षणाकारता च न स्यादित्यत आह ॥ तच्चैतदिति ॥ आदिकालीनं कार्यमित्यर्थः । अन्यदा तु कुलालादि व्यापारादिनिमित्तान्तरमस्तीति भावः ॥ कालेति ॥ सिद्धान्तिनाप्यवश्यमङ्गीकार्येणेति शेषः । निमित्तेनेति वदता समुदायस्य परमाणुनिमित्तकत्वमेव न तु तदुपादानकत्वमित्युक्तम् भवति । यद्वक्ष्यति परमाणुनिमित्तक इति ॥ सूत्रेऽपिशब्दोऽनुक्तैकपरमाणुहेतुकेऽपीति समुच्चायक इत्यभि-प्रेत्य भाष्ये समुदायस्यैकहेतुत्वमित्युक्तम् । अत्राप्राप्तिर्नाम व्याहत्या तदनुपपत्तिः । उभयहेतुक इत्यत्रोभयशब्दो नैकपरः । तथा चोभयहेतुकेत्यस्य समुदितानेकपरमाणुहेतुके विरलानेकपरमाणु-हेतुकेऽपीत्यर्थद्वयं विवक्षितम् । तत्र आद्येऽन्योन्याश्रयात्तदप्राप्तिः । द्वितीये विरलानेकपरमाणूनां सदा सत्त्वात् समुदायोऽपि सदा स्यादिति तस्य समुदायस्य प्रलयाप्राप्तिरित्यर्थमभिप्रेत्योभयहेतु-केऽपीत्यादिभाष्यं प्रवृत्तमिति भावेन विकल्पमुखेन योजयति ॥ किमियमिति ॥ युक्तिमेव परो वक्तीति नियमाभावात् प्रश्नः ॥ व्याहतेरिति ॥ समुदायो नाम किं परमाणूनां संयोग, उतानेकत्त्वसङ्ख्या, अथ वृक्षाणामिवैकदेशावच्छेदेनावस्थानं, अथ तदारब्धं द्रव्यान्तरम् । पक्ष-चतुष्टयेऽपि व्याहतिरेव । एकस्मात् संयोगाद् अनेकानां सहावस्थानायोगात् । एकस्यानारम्भ-कत्वाच्चेति भावः ॥ मिलितानेकेति ॥ समुदितानेकहेतुको वा विरुद्धानेकहेतुको वेत्यर्थः ॥ मिलितत्वमिति ॥ समुदितत्वमित्यर्थः । मिलितानेकहेतुकः समुदायः । जाते हि समुदायेऽनेकेषां समुदितत्वमित्यन्योन्याश्रयत्वमित्यर्थः । ननु येभ्यो मिलितानेकपरमाण्वन्तरहेतुकः समुदायो नेत्यत आह ॥ अत्रातिपीडायामिति ॥
तत्त्वसुबोधिनी
एतदधिकरणस्य पूर्वाधिकरणेन सङ्गतिमाह ॥ द्विविधेति ॥ प्राथमिकत्वादिति ॥ बौद्ध-शास्त्रस्य प्रथमनिर्मितत्त्वेन तेषां प्राथमिकत्त्वादित्यर्थः । ननु बौद्धा वैभाषिकसौत्रान्तिक-माध्यमिकयोगाचारभेदेन चतुर्विधाः । तत्र माध्यमिकस्य सर्वशून्यवादित्वेन योगाचारस्य विज्ञानातिरिक्तपदार्था(नाम)भाववादित्वेन वैभाषिकस्य च घटादिपदार्थानाम् अनुमेयत्ववादित्वेन तेषां प्रबलत्वान् माध्यमिकादिक्रमेणैव निरासः कर्तव्यः । तथा च प्रथमतो वैभाषिकसौत्रान्तिक-निराकरणमयुक्तमत आह ॥ बौद्धानामिति ॥ तथा च पूर्वं परमाण्वारम्भवादेन तत्पुञ्ज-वादोपस्थितेरनन्तरसंगत्या, आदौ वैभाषिकसौत्रान्तिकनिरासः । तत्रापि सौत्रान्तिकमते रूपादिप्रपञ्चस्य अनुमात्वेन तयोर्वैचित्र्येऽपि परमाणुपुञ्जरूपबाह्यार्थ सत्त्ववादित्वेनैकीकृत्त्य अवान्तरभेदमविवक्षित्वा अत्र तन्निरास इति भावः ॥ रूपविज्ञानमिति ॥ विषयेन्द्रियाद्यात्मादि- नास्थिता रूपरसगन्धस्पर्शशब्दकाः । परमाणवो रूपस्कन्धो ऽहमित्यभिमानारूढं दण्डायमानं निर्विकल्पकं ज्ञानं विज्ञानस्कन्धः दुःखवेदनास्कन्धः सुखं तु दुःखाभाव एव सुखमपि वेदना-स्कन्ध इति केचित् । कुण्डली गौर्गच्छतीत्यादिसविकल्पकज्ञानं संज्ञास्कन्धः । रागद्वेषमोहादि-रूपः समनन्तरप्रत्ययः संस्कारस्कन्ध इति द्रष्टव्यम् । ननु परमाण्वारब्धो वा तत्परिणामरूपो वाऽवयवी नास्ति चेत् तर्हि घटादिबुद्धेर् निर्विषयत्वापत्तिरित्यत आह परमाण्विति ॥ तदारब्धस्येति ॥ वैभाषिकमतानुसारेण । ननु परमाणुपरिणाम एव किं न स्वीक्रियते इत्यत आह ॥ विद्यमानं चेति ॥ तथा च सर्वस्यापि क्षणिकत्वान् न परिणामवादाङ्गीकरणं युक्तमिति भावः । ननु क्षणिकत्वे पदार्थानां सत्त्वं कथमित्यत आह ॥ एतदेव हीति ॥ कालतः क्षणिकत्वमिति ॥ प्रतिक्षणविनाशित्वमित्यर्थः ॥ देशतः परमाणुत्वमिति ॥ अणुरूपे देशे सत्त्वमित्यर्थः । तथापि समुदायादिकार्यनिमित्त-त्वेनेश्वरोऽङ्गीकर्तव्य इत्यत आह ॥ तच्चैतदिति ॥ क्षणिकपरमाणुनिमित्तक इति । क्षणिका ये परमाणवस् तन्निमित्तक इत्यर्थः । भाष्ये सौत्रापिशब्दसमुच्चयप्रदर्शनाय समुदायस्यैकहेतुकत्वं न युज्यते इत्युक्तम् एकहेतुकत्वम् एकपरमाणुहेतुकत्वम् इत्यर्थः । उभयहेतुकेऽपीत्यत्रोभयशब्दः मिलितानेकपरमाणुपरः । अङ्गीकृते सतीति शेषः । तदप्राप्तिरित्यत्र तच्छब्दः समुदायपरामर्शकः । अन्यथेत्यस्य मिलितानेकहेतुकत्वानङ्गीकारे विरलानेकपरमाणुहेतुकत्वाङ्गीकारे इत्यर्थ इति भाष्याक्षरार्थमभिप्रेत्य तदभिप्रायमाह ॥ किमयमिति ॥ परमाणूनां सदा सद्भावेनेति ॥ न च विरलपरमाणूनाम् अपि क्षणिकत्वेन सदा सद्भावोऽयुक्त इति वाच्यम् । क्षणिकानामपि विग्रह-परमाणूनामपि वाहस्य सदासत्त्वेन तथोक्तमिति भावः । ननु एभ्यो मिलितानेकपरमाणुभ्यः समुदायो न ते तत्समुदायजन्याः किन्तु समुदितपरमाण्वान्तरादिति नान्योन्याश्रय इत्यत आह ॥ अत्रातिपीडायामिति ॥ समुदितपरमाण्वन्तरमपि परमाणुसमुदायान्तरादित्यनवस्थेति अर्थः ।
वाक्यार्थविवरणम्
प्राथमिकत्वादिति ॥ यथोक्तं तात्पर्यनिर्णये । ‘ततस्तु बुद्धोदितपक्षसंस्थो जिनोऽपि चक्रे मतमन्यदेव’ इति । अतो बौद्धस्यैव प्राधान्येन प्राथमिकत्वमित्यर्थः । वैभाषिकसौत्रान्तिक-माध्यमिकयोगाचारभेदेनेत्यर्थः ॥ सङ्गत्येति ॥ वैशेषिकैः परमाणुकारणत्वं जगतोऽङ्गीकृतम् । आभ्यां तु परमाणुपुञ्जरूपत्वमिति परमाण्वङ्गीकारवादित्वेन सङ्गतिरस्तीत्यर्थः । ‘पञ्चस्कन्धा-त्मना स्थितम्’ । एतदनुव्याख्यानं मनसि निधाय तन्मनस्स्थितिं दर्शयति ॥ रूपेत्यादिना ॥ अणूनां समुदायं चेत्येतदनुसारेणाह ॥ तदशेषमिति ॥ पञ्चस्कन्धात्मकं जगदित्यर्थः । अवयविनोऽभावे घटादिबुद्धीनां निरालम्बनतापात इत्यत आह ॥ परमाण्विति ॥ अस्मद्रीत्या परिणामस्येति । तार्किकरीत्याऽऽरब्धस्येत्युक्तम् । स्वरसक्षणिकं जगदित्यानुसारेणाह ॥ विद्य-मानं चेति ॥ सत्त्वयुक्तमित्यर्थः । चशब्दात् परमाणुपुञ्जरूपमिति ग्राह्यम् । तथा च यत् सत् तत्क्षणिकं परमाणुपुञ्जरूपं चेत्यर्थः । ननु विद्यमानरूपसत्त्वहेतुना क्षणिकत्वपरमाणुसमुदाया-त्मकत्वसाधनं कुत इत्यतस्तादात्म्याविनाभावनियामकस्य सत्त्वादित्याह ॥ एतदेव हीति ॥ बौद्धमते तादात्म्यतदुत्पत्तिभ्यामेवाविनाभावः प्रसिद्धः । प्रकृते च तदुत्पत्तेरयोगात्तादाम्ये-नैवाविनाभाव इत्याशयेन सत्त्वक्षणिकत्वयोस्तादात्म्यमुक्तमिति ध्येयमिति तु सम्प््रादायविदः । अन्ये तु अप्रयोजकताशङ्कापरिहाराय तदुभयमुपपादयन्ति ।
एतदेव हीति ॥ अत्र विना नोपपद्यत इति शेषः । तेनैवकारान्वयः । ततश्चेत्थं योज्यम् । यदेतत्पदार्थानां सत्त्वं तत्पदार्थान्तं कालतः क्षणिकत्वं विना नोपपद्यत एव । तथा यदेतत्पदार्थानां सत्त्वं तदेतत्पदार्थानां देशतः परमाणुत्वं स्वल्पदेशे विद्यमानत्वं परमाणुपुञ्ज-रूपत्वमिति यावत् ॥ तद्विना नोपपद्यत एवेति ॥ अत्रोभयत्राप्युपपादकं प्रसिद्धमिति हिशब्देनाचष्टे । तथा हि समर्थस्य आक्षेपायोगात् कुर्वद्रूपत्वाख्यार्थक्रियारूपसत्त्ववतां पदार्थानां स्थायित्वे एकस्मिन् क्षणे एकस्मादेव घटादनन्तघटोत्पत्तिप्राप्त्या कुलालशालापूर्तिप्रसङ्गात् । तत्परिहाराय तादृशसत्त्वसिद्धयेऽवश्यक्षणिकत्वमङ्गीकार्यम् । एवं सत्त्ववतां परमाणुघटादि-भावानामवयवावयविभावमङ्गीकृत्य परमाणुपुञ्जात्मकतानङ्गीकारेऽवयवी पटः किमवयवेषु तन्तुषु कार्त्स्न्येन वर्तत उतैकदेशेन । नाद्यः । पटस्यानेकत्वप्रसङ्गात् । न द्वितीयः । अवयवान् तन्तून् विहाय पटस्यैकदेशाभावात् । तथा च पट एकदेशेनावयविनि, तन्तौ एकदेशेन वर्तत इत्युक्त्या तन्तुः स्वयमेव स्वस्मिन्नस्तीत्युक्तं स्यात् । तच्चायुक्तम् । इत्येवम् अवयविनि बाधकसद्भावेन तस्य मिथ्यात्वात् सत्त्वानुपपत्तेरवश्यं परमाणुसमुदायात्मकत्वं युक्तम् । समुदायस्यैवायोगात् । समुदायो हि मेलकेन पुंसा भवति । न चास्मदादिस्तथेतीश्वरोऽङ्गीकार्य इत्याशङ्कां कालकर्म-निमित्तत इत्यनुसारेण परिहरति ॥ तच्चैतदिति ॥ ननु येभ्यो मिलितपरमाणुभ्यः समुदायो जायते ते मिलितानेकपरमाणवो न तत्समुदायजन्याः किं तु समुदितपरमाण्वन्तरादतो नान्यो-न्याश्रय इत्यत आह ॥ अत्रातिपीडायामिति ॥ परमाण्वन्तरेऽपि समुदायस्यैकपरमाणुहेतुकत्वा-सम्भवात् । अनेकपरमाणुहेतुकत्वेऽपि विरलानेकहेतुकत्वासम्भवेन मिलितानेकहेतुत्वे वाच्ये अन्योन्याश्रयापत्त्या तत्परिहाराय मिलितानेकपरमाणवो न तत्समुदायजन्याः, किं तु समुदित-परमाण्वन्तरादिति वक्तव्यम् । तस्मिन् परमाण्वन्तरेऽपि समुदायः किमेकपरमाणुहेतुकोऽनेक-परमाणुहेतुको वेत्यादिविकल्पपरम्पराप्रसरेण अनवस्था स्यादित्यर्थः ।
वाक्यार्थमञ्जरी
प्राथमिकत्वादिति ॥ बुद्धोक्तमतैकदेशमवलम्ब्य जिनेन मतान्तरकरणादिति भावः ॥ बहुविधत्वेऽपीति ॥ वैभाषिकसौत्रान्तिकमाध्यमिकयोगाचारभेदेनेत्यर्थः । ईश्वराभावं वक्तुमाह ॥ रूपविज्ञानेति ॥ शरीरेन्द्रियविषयात्मनावस्थिता रूपरसगन्धस्पर्शात्मकाः परमाणवो रूप-स्कन्धाः । निर्विकल्पकज्ञानं विज्ञानस्कन्धः दुःखं वेदनास्कन्धः । सुखं च दुःखाभाव एव । सविकल्पकं ज्ञानं संज्ञास्कन्धः । समनन्तरप्रत्ययः संस्कारस्कन्ध इति द्रष्टव्यम् । अस्मन्मताभि-प्रायेणाह ॥ परमाणुपरिमाणस्येति ॥ वैशेषिकमताभिप्रायेणाह ॥ तदारब्धस्येति ॥ यदिति ॥ पदार्थानां सत्त्वं नाम स्वसदृशकार्यजनकत्वरूपमर्थक्रियाकारित्वम् । तत्र यदि घटस्य स्थायित्वं तर्हि प्रतिक्षणं घटान्तरं समुत्पादयेत् । सोऽप्येवम् एवं चाल्पतरकाले कुलालशालापूर्त्तिः स्यात् । अतो घटान्तरमुत्पाद्य स्वयं नश्यतीत्यङ्गीकार्यम् । तथा घटव्याप्तत्वे तत्कार्यस्य सर्वत्रोपलब्धि-प्रसङ्गात्परिछिन्नत्वं चाङ्गीकार्यमिति भावः । समुदायः किमेकपरमाणुजन्य उतानेकपरमाणुजन्यः । आद्ये एकस्मात्समुदाय इति व्याहतमित्यपिशब्दसूचितदूषणम् । द्वितीये समुदाये उभयहेतु-केऽनेकपरमाणुजन्ये अङ्गीकृते सति तदप्राप्तिस् तस्य समुदायस्यानुपपत्तिः । अन्योन्याश्रया-दित्यर्थः । ननु येभ्यो मिलितानेकपरमाणुभ्यो समुदायो जन्यते न ते तत्समुदायजन्याः किन्तु समुदितपरमाण्वन्तरजन्या इति नान्योन्याश्रय इत्यत आह ॥ अत्रातिपीडायामिति ॥ समुदित परमाण्वन्तरस्यापि मिलितानेकपरमाण्वन्तरहेतुकत्वावश्यम्भावादिति भावः ।
ॐ इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ॐ
सूत्रभाष्यम्
॥ ॐ इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ॐ ॥ १९ ॥
सर्वदा विद्यमानोऽपि समुदायः परस्परापेक्षया व्यवह्रियत इति चेन्न । एकं कार्यमुत्पाद्य तस्य विनष्टत्वात्परस्परप्रत्ययस्तदपेक्षया व्यवहार इति न युज्यते । कारणे सति कार्यं भवत्येवेति हि तस्य नियमः ।
सत्तर्कदीपावली
समुदायो बहुत्वसापेक्षः विरलपरमाणुषु सन्ततिषु विद्यमानः समुदायः सृष्टिकाले परस्पर-सन्निहितैकैकपरमाण्वपेक्षया व्यवह्रियत इति नेतरेतराश्रयत्वमिति यद्युच्यते तदपि सर्वविरलपरमाणुभ्यः क्षणिकेभ्यो विरलपरमाणुषूत्पद्यमानेषु निबिडपरमाणुषु पुञ्जसम्भवात् । न कालकर्मवशादपि परमाणुपुञ्जसम्भवः न हि निष्कारणकः परमाणुपुञ्जव्यवहारः सम्भवति । तदाह । इतरेतरेत्यादिना ।
तत्त्वप्रदीपिका
अथापि स्यात् । नायं समुदायः कादाचित्कः । येनेतरेतराश्रयस्स्यात् । किन्तु नित्य एव । परमाणुसन्तानानां नित्यत्वात् । तथाऽपि पुरुषस्येदं चेदं चेति परस्परापेक्षया प्रतीयते । तथैव व्यवह्रियते च । एवं समुदायविषयोऽभिज्ञानादिव्यवहारः परं चापरं च प्रत्येति विषयीकरोति । अतः समुदायव्यवहारस्येतरेतरप्रत्ययत्वाद् द्व्यादिहेतुकत्वाविरोध इति चेन्न । एकं कार्यमुत्पाद्य तस्य क्षणिकस्य कारणस्य विनष्टत्वात्परस्परापेक्षः प्रत्ययस्तदपेक्षया व्यवहार इति च वक्तुमयुक्तेः । तथा हि, इदमिदमिति प्रथमतः पृथक्पृथक्प््रातीतानामिदं चेदं चेति परस्परापेक्षः समुदायविषयः प्रत्ययो जायते, पश्चाद्व्यवहारः । न च स्वरसभङ्गुराणां तेषां तावन्तं कालमवस्थातुमवसरः स्यात् । कारणे सति कार्यं भवत्येवेति हि तस्य क्षणिकवादिनो नियमः । तत्र प्रथमक्षण एव प्रथमकार्यमुत्पाद्य द्वितीयक्षणे यद्यवतिष्ठेत, तर्हि तदाऽपि कार्यान्तरोत्पत्तेरेकस्माद्घटाद्बहवो घटसन्ताना उपलभ्येरन् । सिद्धान्तभाष्यस्यान्योऽप्यर्थः । एकं सदृशं कार्यमुत्पाद्य तस्य विनष्टत्वान्न विसदृशकार्योत्पत्तिः । अतश्चासंयुक्तयोः परमाण्वोर् न संयुक्तावुत्पद्येयाताम् । न चानिन्द्रियसंयोगिनः कारणादिन्द्रियसंयोगि कार्यमुत्पद्येत । न चाज्ञाताद्विज्ञातम् । न चाव्यवहारपदाद्व्यवहारपदम् । नचेन्द्रियादप्यसंयोगिन-स्संयोगि । न च तादृशादात्मनोऽन्यादृशः स्यात् । ज्ञानमेव न आत्मेति चेन्न । तर्ह्यतथाज्ञाना-त्तथाज्ञानं कुत एतत् ? कारणे सति कार्यं भवत्येवेति हि तस्य नियमः । न पुनर्विशेषकार्यमपीति । सदृशात्सदृशान्तरोत्पत्तिनियमाङ्गीकारादिति भावः । अनियमे घटादपि पट उत्पद्येत । न चादृष्टात्फलादातृणो दातृण उत्पत्तिः । अतो न विशेषकार्योत्पत्तिः ।
तत्त्वप्रकाशिका
उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षेपांशं तावद् व्याचष्टे ॥ इतरेति ॥ यदुक्तं समुदायस्य विरलानेकहेतुकत्वे सदातनत्वं स्यादिति तदङ्गीक्रियत एव न चैवं प्रलयानुपपत्तिः । सदातनत्वेऽपि समुदायस्य वित्तिव्यवहाराभावेन प्रलयोपपत्तेः । न च विद्यमानत्वे व्यवहाराभावोऽपि कुत इति वाच्यम् । व्यवहारादेरिदं चेदं चेति परमाणुपरस्परापेक्षानिबन्धनत्वात् । परस्परापेक्षा च परमाणूनां सामीप्यापेक्षा । न चास्ति प्रलये तत्सामीप्यमतो नोक्तदोष इति भावः । परिहारांशं व्याचष्टे ॥ नेति ॥ वित्तिव्यवहारयोः कादाचित्कतया समुदायस्य सदातनत्वेऽपि न दोष इति न युक्तम् । तथा सति कदापि समुदाये वित्तिव्यवहाराभावापातात् । विरला हि परमाणवो मिलितपरमाणूनुत्पाद-यन्ति । ते च पुरुषेण दृश्यन्ते । ते चैकैकं कार्यमुत्पाद्य नश्यन्त्येव तेऽप्येवं तथा च कथं द्रष्टुः परस्परापेक्षा ततो व्यवहारादि कथं घटेत । न ह्यन्यत्र दर्शनमन्यत्र परस्परापेक्षाऽन्यत्र व्यवहारादीति युज्यते । पुरुषस्यापि तथात्वमिति भावः । अथ विरलपरमाणुभ्यो जाता मिलितपरमाणवः स्थायिनोऽतो युक्तो व्यवहार इत्यत आह ॥ कारणे सतीति ॥ यदि परमाणवः स्थायिनस्तर्हि ते प्रतिक्षणं कार्यमुत्पादयेयुः । कारणे सति कार्यं भवत्येवेति तन्नियमात् । तथा चाल्पतरकालेऽप्य-कस्माद् घटात्कुलालशालापूर्तिप्रसङ्ग इति भावः । यद्यप्यत्र क्षणिकत्वहानिरेव वाच्या तथापि सैव तदभ्युपगमकारणप्रदर्शनेनोक्ता वेदितव्या ।
गुर्वर्थदीपिका
तदङ्गीक्रियते एवेत्यत्र घटाकारेण विरलानेकसमुदायस्य सदातनत्वमित्यर्थः । न चास्ति प्रलये तत्सामीप्यमित्यत्र विरलपरमाणुभ्यस्समुदायजन्माङ्गीकारे कारणे सति कार्यं भवत्येवेति तेषामेव नियमेन कार्यावश्यम्भावाद्घटाकारेण दूरदूरस्थानेकपरमाणुसमुदाय एव सर्वदाऽस्ति न तु मिलितसमुदायः । कालकर्मवशात्तेषामेव परमाणूनां कदाचिदतिसाम्ये समुदायो दृश्यते व्यवह्रियते च । अन्यदा नेति भावः । घटाकारेणाविरतया मिलितपरमाणुसमुदाये वित्तिव्यवहाराविति पक्षेऽपि प्रथमोत्पन्नक्षणिकसमुदायात्मककार्ये परमाणूनां दर्शनमात्रं द्वितीयक्षणवृत्तिकार्येऽपेक्षा-बुद्धिस् तृतीयक्षणवृत्तिकार्ये व्यवहार इति किं केन सङ्गतमिति भावेनाह ॥ न ह्यन्यत्र दर्शनमिति ॥ अल्पतरकाल इत्यत्र घटिकार्धमात्र इत्यर्थः । सैव तदभ्युपगमेत्यत्र सैव क्षणिकत्व-हानिरेव । तदभ्युपगमे क्षणिकत्वाभ्युपगमे । कारणप्रदर्शनेन स्थायित्वे कुलालशालापूर्त्याख्य-कारणप्रदर्शनेनेत्यर्थः ।
भावबोधः
तदङ्गीक्रियत एवेति । नात्र समुदायो नाम परमाणूनां संयोगः । अनङ्गीकारात् । नापि द्रव्यान्तरम् । तस्यैवावयवित्वापातात् । किं त्वनेकसङ्ख्यारूप एव । स च विरलेष्वपि परमाणुषु सर्वदास्तीति भावः । व्यवहारादेरिदं चेदं चेति । अनेकत्वसङ्ख्याया अपेक्षाबुद्धिव्यङ्ग्यत्वेन तत्प््रातीतिव्यवहारयोरिदं चेदं चेति परस्परापेक्षाबुद्ध्यधीनत्वादित्यर्थः । अनेनेतरप्रत्यय अपेक्षा-बुद्धिर्यस्य व्यवहारादेः स इतरेतरप्रत्ययस्तस्य भावस्तत्त्वम् । षष्ठ्यर्थश्च जन्यजनकभाव इति सूत्राक्षरयोजना सूचिता । ‘तच्च सामीप्यहेतुकम्’ इत्यनुव्याख्यानं मनसि निधायाऽऽह– परस्परापेक्षा चेति ॥ विप्रकृष्टे इदं चेदं चेति अपेक्षाबुद्धेरदर्शनादिति भावः ॥ पुरुषस्यापि तथात्वमिति ॥ विषयवदात्मनोऽपि क्षणिकत्वात् परमाणुदर्शनमपेक्षाबुद्धिः समुदायव्यवहार इत्येतेषामेकविषयत्वमिवैकाधिकरणत्वमपि न युक्तमित्यर्थः ।
भावदीपः
तदङ्गीक्रियत एवेति ॥ अनेकत्वसङ्ख्याया एव समुदायत्वात्तस्य च विरलेष्वपि परमाणुषु सत्त्वेन सदातनत्वादिति भावः ॥ वित्तीति ॥ ज्ञप्तिव्यवहारयोरभावेनेत्यर्थः ॥ व्यवहारादेरिति ॥ अनेकत्वसङ्ख्याया अपेक्षाबुद्धिव्यङ्ग्यत्वेन तत्प््रातीतिव्यवहारयोश्च इदं चेदं चेत्यपेक्षाबुध्य-धीनत्वादित्यर्थः । इतरसहितमितरदितरेतरदितीतरेतरेति सौत्रविन्यासलब्धमाह ॥ सामीप्यापेक्षेति ॥ तच्च सामीप्यहेतुकमित्यनुभाष्योक्तेरिति भावः । नञोऽन्वयायाह ॥ वित्तिव्यवहारयोरिति ॥ असाङ्गत्यनिरासाय मध्ये हेतुमध्याहृत्य तदुपपादकत्वेन भाष्यं व्याख्यातुमाह ॥ तथा सतीति ॥ उत्पत्तिमात्रनिमित्तत्वादिति सूत्रशेषस्याणूनामेकैककार्योत्पत्तावेव निमित्तत्वाद् द्वितीयक्षणवृत्त्य-पेक्षाबुद्ध्यादावनिमित्तत्वादित्यर्थमुपेत्यैकं कार्यमित्यादिभाष्यं व्याचष्टे ॥ ते चैकैकं कार्यमिति ॥ नश्यन्त्येवेति ॥ क्षणिकत्वादिति भावः ॥ तेऽपीति ॥ मिलिताणुभ्यो जाता अन्येऽपीत्यर्थः । द्रष्टुर्दर्शनवतः पुंसः । यत्र दर्शनं तत्रैव दर्शनानन्तरभाविनी इदं चेदं चेति जायमानाऽपेक्षाबुद्धिः । तत्रैव तदनन्तरभाविनौ वित्तिव्यवहारौ च कथं भवेयुरित्यर्थः ॥ पुरुषस्यापीति ॥ विषयवदात्म-नोऽपि क्षणिकत्वमुपेत्य परमाणुदर्शनमपेक्षाबुद्धिः समुदायवित्तिव्यवहारौ इत्येतेषामेकविषयत्वमिव एकाधिकरणत्वमपि न युक्तमित्यर्थः ॥ तदभ्युपगम इति ॥ क्षणिकत्वस्याभ्युपगमे कारणे सति कार्यं भवत्येवेति नियमरूपकारणोपदर्शनेन क्षणिकत्वहानिरेवोक्तेत्यर्थः ।
अभिनवचन्द्रिका
किं कारणे विनष्ट इति ॥ अत्र यद्यपि किं कारणनाशकाले कार्यमुत्पद्यत इत्यपि पक्षो विकल्प्य दूषणीयः, तथापि कारणनाशोत्तरकाले जायमाने कार्ये कारणव्यापाराभाववत् कारणनाशकाले जायमाने कार्येऽपि कारणव्यापाराभावसाम्यात् प्रतिज्ञोपरोधो भवतीति तद्दूषणे-नैवाऽस्यापि दूषणं भवतीति पृथङ् न दूषितः । विद्यमाने वेति द्वितीयकल्पस्य कारणोत्तरक्षणे कारणे विद्यमाने कार्यमुत्पद्यते इति वा, कारणोत्पत्तिक्षण एव कार्यमुत्पद्यत इति वा, सम्भव-मालोच्य द्वयमपि निषेधति – न द्वितीय इति ॥ आद्याऽसम्भवे हेतुपरतया मूलं योजयति– एकस्मिन् क्षण इति ॥ अस्तु द्विक्षणावस्थायित्वं को दोषः, न च क्षणिकत्वहानिः; क्षणद्वयमेकक्षणत्वेन विवक्षित्वा क्षणिकत्वाभिधानादित्यतो दूषणमाह – क्षणिकस्य चेति ॥ ‘विनाशकारणाभावात्’ इत्यतः परं ‘अवस्थानप्रसङ्गात्’ इति ग्राह्यम् । ततश्चैवं योजना क्षणिकत्वेनाङ्गीकृतस्य द्विक्षणावस्थानाङ्गीकारे तदुत्तरत्र तृतीयादिक्षणेषु विनाशकारणमुद्गर-प्रहारादेरभावात्तृतीयादिक्षणेष्वप्यवस्थानमङ्गीकार्यम् । ततश्च पुनस्तस्मात् कार्योत्पत्तयः स्युः । ‘कारणे सति कार्यं भवत्येव’ इति नियमात् । तेभ्यः कार्येभ्यश्च तथा कार्योत्पत्तयः स्युरिति सर्वकार्याणां, कारणकार्याणां, कार्यकार्याणां च, यौगपद्यमेकस्मिन् कालेऽवस्थानं स्यादिति । कारणोत्पत्त्युत्तरकाले कार्यमित्यङ्गीकारे एकं घटमुत्पाद्य स्थितस्य कुलालस्य सायङ्काले कार्याणां कार्यकार्याणां चावस्थानात् शालापरिपूर्त्तिः स्यादिति भावः । द्वितीयासम्भवपरतयापि मूलांशं योजयति – तथेति ॥ अस्मिंस्तु पक्षे एकं घटमुत्पाद्य स्थितस्य कुलालस्य द्वितीयक्षणे अघटत्वप्रसङ्ग इति भावः । भाष्ये ‘निस्सन्तान’ इति । सूत्रे अल्पाच्तरं पूर्वं प्रयोज्यमित्यभिप्रेत्य, ससन्तानविनाशे परेण सङ्केतितः प्रतिसङ्ख्याविरोधशब्दः पूर्वनिर्दिष्टः; तावन्मात्रेण तस्य प्राधान्यं मा विज्ञायीति भावेन परेण निस्सन्तानविनाशे सङ्केतितोऽप्रतिसङ्ख्या विरोधशब्दः प्रथमं व्याख्यात इति बोध्यम् ।
वाक्यार्थमुक्तावली
तदङ्गीक्रियते एवेति ॥ मन्मतेऽनेकत्वसङ्ख्यारूपस्य समुदायस्य विरलानेकपरमाणुहेतुकत्वेन तादृशपरमाणूनां सदा सत्त्वात्समुदायस्य सदातनत्वमङ्गीक्रियत एवेति भावः ॥ व्यवहारादेरिति ॥ अनेकत्वसङ्ख्याया अपेक्षाबुद्धिव्यङ्ग्यत्वेन तत्प््रातीतिव्यवहारयोश्चेदं चेदं चेत्यपेक्षाबुद्धिजन्यत्वादिति भावः । इतरसहितमितरदितरेतरदितीतरेतर इति सौत्रविन्यासलब्धमाह ॥ सामीप्येति ॥ नेदिष्ठ-मन्तिकतमं स्यात् ‘दूरं विप्रकृष्टकम्’ इत्यमरः । विप्रकृष्टयोरिदं चेदञ्चेत्यपेक्षाबुद्ध्यदर्शनादित्यर्थः । एतेनेतरसहितमितरदितरेतरत् तस्य प्रत्ययोऽपेक्षाबुद्धिर्यस्य व्यवहारादेर्हेतुः स इतरेतरप्रत्ययस्तस्य भावस्तत्वं तस्मादित्यर्थः । तथा चानेकत्वसङ्ख्यारूपसमुदायव्यवहारादेरिदं चेदं चेति समीपस्थेतर-सहितेतरविषयकापेक्षाबुद्धिजन्यत्वात् प्रलये सामीप्यभावेन तद्धेतुकापेक्षाबुद्धिव्यवहारसमुदायबुद्धी-नामभावात्तदभावविवक्षया प्रलयोपपत्तिरिति तदप्राप्तिर्नेति सूत्रखण्डार्थ उक्तो भवति । सिद्धान्तांशेन चान्वयमाह ॥ वित्तिव्यवहारयोरिति ॥ असाङ्गत्यनिरासाय मध्ये हेतुमध्याहृत्य तदुपपादकत्वेन सौत्रहेतुविवरणपरं भाष्यं गमयति ॥ तथा सतीति ॥ कुतस्तदभावापत्तिरित्यतस्तन्मतं परिष्करोति ॥ विरला हीति ॥ मिलितपरमाणूनित्यनेकत्वसङ्ख्याविशिष्टपरमाणूनुत्पादयन्ति । ते च पुरुषेण दृष्यन्त इति हि त्वन्मतमित्यर्थः । ननु वेदनमेव पुमानिति सौगता मन्यन्ते तत्कथं पुरुषेण दृश्यन्त इत्यनूद्यत इति चेज् ज्ञानं हि द्विविधं भवति । प्रवृत्तिज्ञानमालयज्ञानं चेति । तत्रालयज्ञानं प्रवृत्तिज्ञानदुःखसंस्कारास्पदं पुमानित्युच्यते । प्रवृत्तिज्ञानं तु समुदायत्ववेदनमिति न विरोधः । ततश्च किमित्यत उत्पत्ति-मात्रनिमित्तत्वादिति सूत्रशेषस्याणूनामेकैककार्योत्पत्तावेव निमित्तत्वाद् द्वितीयक्षणवृत्यपेक्षा बुध्यादावनिमित्तत्वादित्यर्थमुपेत्यैकं कार्यमिति भाष्यं व्याचष्टे ॥ नश्यन्त्येवेति ॥ क्षणिकत्वा-देवेति भावः ॥ तेऽपीति ॥ मिलिताणुभ्यो जाता अन्येऽपीत्यर्थः ॥ पुरुषस्यापीति ॥ विषय-वदात्मनोऽपि क्षणिकत्वमुपेत्य परमाणुदर्शनमपेक्षाबुद्धिः समुदाये वित्तिव्यवहार इत्येतेषामेक-विषयत्वमिवैकाधिकरणत्वमपि न युक्तमित्यर्थः ॥ तदभ्युपगमकारणेति ॥ पराभ्युपगतक्षणिकत्व-हानिरित्युक्तपराभ्युपगमोपपादनाय तन्मत उपन्यस्तं स्थायित्वे कार्यकरत्वावश्यम्भावात् कुलाल-शालापरिपूर्तिः स्यादिति अभ्युपगमकारणमुक्तमित्यर्थः ।
तत्त्वसुबोधिनी
तदङ्गीक्रियत एवेति ॥ नात्र समुदायो न परमाणूनां संयोगो ऽनङ्गीकारात् । नापि द्रव्यान्तरम् । तस्यैवावयवित्त्वापातात् । किन्तु अनेकत्वसङ्क्यारूप एव स च मिलितेति वा विरलेष्वपि परमाणुषु सर्वदास्तीति भावः ॥ व्यवहारादिदं चेदं चेति ॥ अनेकत्वसङ्ख्याया अपेक्षाबुद्धिव्यङ्ग्यत्वेन तत्प््रातीतिव्यवहारयोरिदं चेदं चेत्यपेक्षाबुद्ध्यधीनत्वादित्यर्थः । अनेन इतरेतरप्रत्ययो ऽपेक्षा बुद्धिर् यस्य व्यवहारादेः स इतरेतरप्रत्ययस् तस्य भावस् तत्त्वम् । षष्ठ्यर्थश्च जन्यजनकभाव इति सूत्राक्षरयोजना सूचिता । सामीप्यपेक्षेति विप्रकृष्टे । इदं चेदं चेत्यपेक्षा बुद्धेरदर्शनादिति भावः ॥ तत इति ॥ परस्परापेक्षात इत्यर्थः । पुरुषस्यापि तथात्वमिति विषयवदात्मनोऽपि क्षणिकत्वेन परमाणुदर्शनमपेक्षाबुद्धिः समुदायव्यवहार इत्येतेषाम् एकविषयत्व-मिवैकैकाधिकरणत्वमपि न युक्तमित्यर्थः । ननु परमाणूनामस्थायित्वाङ्गीकारे क्षणिकत्वहानिरेव वक्तव्या, एतद्दूषणम् अनुपयुक्तमित्यत आह ॥ यद्यपीति ॥ तदभ्युपगमेति ॥ क्षणिकत्वाभ्यपगमे कारणप्रदर्शनेनेत्यर्थः । एकस्माद् घटाद् अल्पतरकाले कुलालशालापरिपूर्तिरिव क्षणिकत्वाङ्गी-कारे बीजमिति भावः ।
वाक्यार्थविवरणं
विद्यमानत्वे । सदातनस्य समुदायस्येति वर्तते ॥ वित्तिव्यवहारयोरिति ॥ वित्तिर्वेदन-मपेक्षाबुद्धिरिति यावत् । समुदायत्ववेदनतद्व्यवहारयोरित्यर्थः । यथोक्तं सुधायाम् । अनेक- परमाणव एव समुदायः । तदनेकत्वं च समुदायत्वम् । तन्मिलितेष्विव विरलेष्वपि विद्यते । किन्तु न समुदायत्ववेदनं भवति । इतरपरमाणुसहितेतरपरमाणुज्ञाने सति समुदायत्वज्ञानं भवति । अपेक्षा-बुद्धेरनेकत्वव्यञ्जकत्वात् । न चेतरेतरप्रत्ययो विरलपरमाणुषु सम्भवति । न हि मथुरापाटली-पुत्रस्थितयोरितरेतरप्रत्ययो दृष्ट इति ॥ मिलितपरमाणूनुत्पादयन्तीति ॥ तदेव तेषां समुदायत्वमिति भावः । यथोक्तं सुधायां विरलपरमाणुभ्यः सन्निकृष्टाःपरमाणवो जायन्ते तदेव तेषां समुदायत्वमिति समुदायरूपं कार्यं तु परमाणुदर्शनापेक्षाबुद्धिव्यवहाराणामेकविषयत्ववदेकाधिकरणत्वमपि न युक्तम् । कुत इति चेत्तत्राह ॥ पुरुषस्यापीति ॥ वेत्तुरात्मनो क्षणिकत्वमङ्गीकृतं यतोऽत इत्यर्थः । तदुक्तम् । ‘आत्मानं च क्षणस्थितम्’ इति । तथा च द्रष्टा अपेक्षाबुद्धिमान् व्यवहर्ता च भिन्न एवेति न तेषामेकाधिकरणत्वमिति भावः । अत्र मिलितपरमाणूनां स्थायित्वाङ्गीकारपक्षे अपसिद्धान्त एव वाच्य इत्यर्थः ॥ सैवेति ॥ क्षणिकत्वहानिरेवेत्यर्थः ॥ तदभ्युपगमेति ॥ स्थायित्वाङ्गीकारे अल्पतरकाले एकस्माद्घटात् कुलालशालापूर्तिरूपं बाधकमेव क्षणिकत्वाभ्युपगमे परस्य कारणम् । एवं च स्थायित्वाङ्गीकार एकस्मिन् क्षणे कुलालशालापूर्तिप्रसङ्गरूपबाधकोक्त्या क्षणिकत्व-हानिरेवोक्ता भवतीत्यर्थः ।
वाक्यार्थमञ्जरी
समुदायस्य सर्वदा सत्त्वेऽपि तत्प््रातीतिव्यवहारयोरितरेतरप्रत्ययत्वादिदं चेदंचेत्यपेक्षाबुद्ध्य-धीनत्वात्तदभावे तत्प््रातीत्याद्यभावेन लयाद्युपपत्तिरिति चेन्न । विरलपरमाणुजातमिलितपरमाणूनां तादृशसमुदायोत्पत्तिमात्रे निमित्तत्वादपेक्षाबुद्ध्यादौ निमित्तत्वाभावादित्यर्थः ॥ तदङ्गीक्रियत एवेति ॥ नात्र समुदायो नाम परमाणूनां संयोगः । अनङ्गीकारात् । नापि द्रव्यान्तरं तस्यैवा-वयवित्वात् । किंत्वनेकत्व सङ्ख्यारूप एव । स च विरलेष्वपि परमाणुषु सर्वदास्तीति भावः । वित्तिः प्रतीतिः । व्यवहारादेरिदञ्चेदं चेति । अनेकत्वसङ्ख्याया अपेक्षाबुद्धिव्यङ्ग्यत्वेन तत्प््रातीति व्यवहारयोरप्यपेक्षाबुद्ध्यधीनत्वादित्यर्थः । सामीप्यापेक्षेति ॥ विप्रकृष्टे इदं चेदं चेत्यपेक्षा-योगादिति भावः । घटेतेत्यनन्तरं कथमित्यनुवर्तते । कात्र कथन्तेत्यत आह ॥ न हीति ॥ त्रयाणामेकविषयत्वेनैव कार्यकारणभावादिति भावः । तथात्वं क्षणिकत्वं तथा चैकस्य पुरुषस्य दर्शनमन्यस्यापेक्षाबुद्धिरन्यस्य व्यवहार इति भिन्नाधिकरणत्वान्न तेषां कार्यकारणभाव इति भावः । तदुभ्युपगम सति । एतद्बाधकवशात्त्वया क्षणिकत्वमेवाङ्गीकार्यम् । स्थायित्वाङ्गीकारे च तद्धानिरित्येवमर्थादुक्तैवेत्यर्थः ।