०६ वैशेषिकाधिकरणम्

ॐ महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॐ

६. अथ वैशेषिकाधिकरणम्

सूत्रभाष्यम्

परमाण्वारम्भवादमपाकरोति–

॥ ॐ महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॐ ॥ ११ ॥

महत्वाद्दीर्घत्वाच्च यथा कार्यमुत्पद्यते, एवं ह्रस्वत्वात्पारिमाण्डल्याच्चोत्पद्येत । वाशब्दा-दन्यथैतयोरपि न स्यात्, विशेषकारणाभावात् ।

सत्तर्कदीपावली

वैशेषिकाभ्युपगतपरमाण्वारम्भापाकरणत्वेन महद्दीर्घवदित्येतत् सूत्रं व्याचष्टे ॥ महत्वा-दित्यादिना ॥

तत्त्वप्रदीपिका

अत्र परमाण्वारम्भवादिनो वदन्ति इच्छाज्ञानप्रयत्नसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागैर्गुणैस्समवेत ईश्वरोऽस्ति । तदिच्छाऽदृष्टकालनिमित्तैः परमाणवः पार्थिवाद्याश्चतुर्विधाः सृष्टिकाले द्विश एव संयुज्यमाना द्व्यणुकानि कार्याण्यारभन्ते । तानि च द्व्यणुकानि त्रिशस्त्रिश एव युक्तानि त्र्यणुकारम्भकानि । तानि चतुश्चतुर्योगेन चतुरणुकानां समवायिकारणानि । ततोऽनियत्यैव सर्वकार्यसम्भवः । कारणगता गुणाः कार्ये सदृशं गुणान्तरमारभन्ते । ततः शुक्लेभ्यस्तन्तुभ्यः शुक्लः पटो जायते, कृष्णायाश्च मृदः कृष्णो घटः, महद्भ्यो दीर्घेभ्यश्च त्र्यणुकेभ्यस्तादृशं चतुरणुकं, ततश्च तादृग्गुणः खण्डावयवीत्येवमेव कार्याणीति नियमः । अस्य च नियमस्य क्वापि लोपमालपन्ति, यथा द्व्यणुकगतादणुत्वाद्ध्रस्वत्वाच्च परिमाणाख्यगुणात्त्र्यणुकेऽणुत्वं ह्रस्वत्वं च नोत्पद्येते । विजातीयपरिमाणाक्रान्तेः । पारिमाण्डल्याच्च परमाणुसमवेतात्परिमाणाद्द्व्यणुके ह्रस्वत्वपरिमाणवति पारिमाण्डल्यं नोत्पद्यत इति । अत्र सूत्रमवतारयति– ॐ महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॐ ॥ त्र्यणुक-महत्त्वाद्दीर्घत्वाच्च यथा चतुरणुकादौ महत्त्वं दीर्घत्वं च कार्यमुत्पद्यते, एवं द्व्यणुकगताद्ध्रस्वत्वात्त्र्यणुके ह्रस्वत्वं कार्यमुत्पद्येत । तथा परमाणुगतात्पारिमाण्डल्याच्च द्व्यणुके पारिमाण्डल्यान्तरमुत्पद्येत । यदि ह्रस्वत्वात्पारिमाण्डल्याच्च तादृशं नोत्पद्यते तर्हि महत्त्वदीर्घत्वयोरपि सकाशात्तादृशं नोत्पद्येत । विशेषकारणाभावात् । कल्पनामात्रस्यासाधकत्वात् । यथा च महत्त्वं दीर्घत्वं चतुरणुकगतं महत्त्वाद्दीर्घत्वाच्चोत्पद्यते एवं महत्त्वं दीर्घत्वं च त्र्यणुकगतं महत्त्वाद्दीर्घत्वाच्चैव स्यात् । अन्यथा चतुरणुकगतमपि तद्द्वयमेतयोर्न स्यात् । विशेषकारणाभावात् । यथा वा महद्दीर्घं चतुरणुकं महतो दीर्घात्त्र्यणुकादुत्पद्यते, तथा ह्रस्वपरिमण्डलावप्यणुपरमाणू ह्रस्वपरिमण्डलाभ्याम् एव स्वकारणाभ्याम् उत्पद्येयाताम् । यदि तौह ह्रस्वपरिमण्डलाभ्यां नोत्पद्येते तर्हि चतुरणुकगतं महत्त्वं दीर्घत्वं च त्र्यणुकगतमहत्त्वदीर्घत्वयोरपि न स्यात् । अनुत्पत्तौ च परमाणूनां तद्वत्सर्वानुत्पत्तिं प्रसञ्जयिष्यति । धर्मधर्म्यभेदादुभयी चोक्तिर्न विरुध्यते । अथ मतं द्व्यणुकत्र्यणुकयोः परिमाणान्तराक्रान्तेर्न पारिमाण्डल्याणुत्वे तत्र कार्यजनके, द्वित्वसङ्ख्या त्रित्वसङ्ख्या चाणुत्वमहत्त्वकारणं, परमाणु-द्व्यणुकयोर्महत्त्वे प्रत्यक्षत्वप्रसङ्गः, त्र्यणुकादीनामणुत्वे चाप्रत्यक्षत्वप्रसङ्ग इति । चतुरणुकादाविव द्व्यणुकादावपि विजातीयपरिमाणाक्रान्तिर्न स्यात् । अन्यथा तत्रापि स्यात् । विशेषप्रमाणाभावात् । सङ्ख्यायाः परिमाणारम्भकत्वे पृथक्त्वादेरपि स्यात् । न चेन्न तस्यापि । परमाणोर्द्व्यणुकस्य न महत्त्वं, त्र्यणुकादीनां च मेर्वादिभ्यो नाणुत्वमिति लोकानुभवविरुद्धम् । न चैवमनभ्युपगमे प्रत्यक्षाप्रत्यक्ष-विपर्ययप्रसङ्गः । उक्तं हि–

‘प्रत्यक्षत्वतदन्यत्वे पुरुषापेक्षयाऽखिले ।

अणुत्वं च महत्त्वं च यतो वस्तुव्यपेक्षया’ इत्यनुव्याख्याने ।

यस्मान्नयरत्नवराकरात्कतिचिदिह मणयः परिगृह्यन्ते । न च स्वस्मादनणोः स्वस्य महत्त्वं युक्तम्, अमहतो वाऽणुत्वम् । अपि च महत्वाद्दीर्घत्त्वाच्च यथा यत्किञ्चित्कार्यमुत्पद्यत एवं ह्रस्वत्वा-त्पारिमाण्डल्याच्चोत्पद्येत । यदि तयोः किमपि नोत्पद्यते तदैतयोरपि न स्यात् । विशेषहेतुर्वा वाच्यः ।

तत्त्वप्रकाशिका

अधिकरणप्रतिपाद्यमाह ॥ परमाण्विति ॥ अत्र हरेः सर्वगुणपूर्णत्वे वैशेषिकादिमतविरोध-परिहारादस्ति शास्त्रादिसङ्गतिः । विष्णुरनन्तगुणपूर्ण इत्युक्तम् । तस्य च परमाण्वारम्भवाद-विरुद्धत्वेनाभावशङ्का स्यात् । अतोऽसौ पराकरणीय एव । ईश्वरस्यानन्तगुणत्वं विषयः । युक्तमयुक्तं वेति सन्देहः । मतविवादः सन्देहबीजम् । न युक्तमिति पूर्वः पक्षः । षट् खल्विमे भावपदार्था द्रव्यादयः । तत्र गुणाश्रयो द्रव्यं पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनोभेदेन नवविधम् । तत्राकाशादिपञ्चकं नित्यमेव । भूतचतुष्टयं तु परमाणुरूपं नित्यमन्यदनित्यमेव । कर्मान्यत्वे सति जातिमात्राश्रया गुणा रूपरसगन्धस्पर्शशब्दसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्व-द्रवत्वस्नेहसंस्कारबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्माः । ते चानित्याश्रिता अनित्या एव नित्यद्रव्ये द्विविधाश्च । संयोगविभागयोरसमवायिकारणं कर्म उत्क्षेपणमपक्षेपणमाकुञ्चनं प्रसारणं गमनमिति पञ्चविधमनित्यमेव । नित्यमेकमनेकसमवेतं सामान्यमनेकविधम् । नित्यः सम्बन्धः समवाय एक एव । नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः । एतत्त्रयं नित्यमेव । तत्रानित्यं कारणत्रितयजन्यम् । यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणं परमाण्वादिद्रव्यमेव । आदिसृष्टौ च परमाणवो द्व्यणुकादिक्रमेणावयविनमारभन्ते । समवायिकारणप्रत्यासन्नमधृतसामर्थ्यमसमवायिकारणम् । प्रत्यासत्तिर्द्वेधा । कार्यैकार्थप्रत्यासत्तिः कारणैकार्थप्रत्यासत्तिश्चेति । तत्र कार्यद्रव्यस्यावयवसंयोग एव कार्यैकार्थप्रत्यासत्त्यासमवायिकारणं भवति । कार्यगतगुणानां च कारणगतगुणाः कर्म च कारणैकार्थप्रत्यासत्त्यादिनासमवायिकारणम् । कार्यगतकर्मणश्च कारणगतगुणकर्मणी कार्यैकार्थ-प्रत्यासत्त्यासमवायिकारणम् । तत्र परिमाणं कारणगतं कार्यगतपरिमाणस्यासमवायिकारणं भवति । परमाणुद्व्यणुकगतं द्व्यणुकत्र्यणुकगतपरिमाणकारणं न भवति । किं तु सङ्ख्यादिनैव तज्जन्म । तदन्यत्कारणं निमित्तमीश्वरादृष्टकालादि । स चेश्वर आत्मविशेषः सङ्ख्यादिपञ्चगुणयुक्तः कर्तृत्वोपयोगिज्ञानेच्छाप्रयत्नशाली च । शिष्टषड्गुणायोग्य इति कथं तस्यानन्तगुणत्वं युक्तं स्यात् । अतो व्यर्थ एव पूर्वाध्याय इति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ महदिति ॥ युक्तमेव हरेरनन्तगुणपूर्णत्वम् । वैशेषिकादीनामनुपपन्नभाषित्वेन तत्कल्पनाया अप्रामाणिकत्वात् । यथा हि । यदुच्यते परिमाणं त्र्यणुकादिगतमसमवायिकारणं भवति न परमाण्वादिगतमिति तदसत् । यथा महत्त्वाद्दीर्घत्वाच्च त्र्यणुकादिगतात्कार्ये परिमाणमुत्पद्यते तथा ह्रस्वत्वाद् द्व्यणुकगतात् त्र्यणुकगतपरिमाणोत्पत्त्युपपत्तेः । परमाणुपरिमाणश्च पारिमाण्डल्याद् द्व्यणुकगतपरिमाणोत्पत्ति-सम्भवादिति भावः । त्र्यणुकादिपरिमाणस्यारम्भकत्वेऽप्यस्य तन्मास्त्वित्यत आह ॥ वाशब्दादिति ॥ इति सूचितमिति शेषः । यदि ह्रस्वत्वादेर्नारम्भकत्वं तर्हि महत्वदीर्घत्वयोरपि तन्न स्यात् । कारण-विशेषाभावादित्यर्थः । न तावदसमवायिकारणलक्षणभावाभावाभ्यां विशेषः । ह्रस्वत्वादावपि तद्भावात् । अवर्जनीयप्रत्यासत्तिरेवेति चेन्न । महत्वेऽपि साम्यात् । पारिमाण्डल्यादेरारम्भकत्वे सर्व-कार्याणामणुत्वप्रसङ्ग इति चेत् तत्किमिदमणुत्वं तच्छब्दवाच्यत्वं तदत्यन्तसदृशपरिमाणत्वं वा । आद्ये नास्ति हानिः । द्वितीये महत्त्वस्याप्यनारम्भकत्वं स्यात् । न हि त्र्यणुकादिपरिमाण-मत्यन्तसदृशं सङ्केतमात्रं त्वप्रामाणिकमिति । द्व्यणुकादिपरिमाणे कारणान्तराभावाच्च सङ्ख्यादे-र्महत्त्वारम्भकत्वप्रसङ्गात् । संयोगस्य च द्रव्यनिमित्तत्वमेव किं न स्यात् । भिन्नतया प्रतीत्यभावादिति चेन्न । भिन्नतया प्रतीत्यभावेऽप्यपेक्षाबुद्धेरात्मगतद्वित्वनिमित्तत्वात् । अभ्युपगम्य चेदमुदितम् । किं तन्तूनां यथाकथंचित्संयोगः पटस्य कारणं विवक्षितो वा । नाद्यः । अनभ्युपगमात् । द्वितीये कस्येति वाच्यम् । पटस्येति चेत् कस्तदा पटोऽवशिष्यते । अतोऽसमवायिकारणं नाम न किञ्चिदस्तीति सिद्धम् ।

गुर्वर्थदीपिका

नित्यद्रव्ये द्विविधाश्चेत्यत्र, पाकजत्वात्पार्थिवपरमाणूनां रूपादयोऽनित्याः । आप्य-परमाण्वादीनां तु रूपादयो नित्याः । संयोगविभागौ तु सर्वत्राऽनित्यौ । अपेक्षाबुद्धिजन्यत्वाद् द्वित्वादिसङ्ख्या अप्यनित्या इत्यर्थः । संयोगविभागयोरसमवायिकारणं कर्मेत्यत्र केवलसंयोग-जनकसंयोगे विभागजनकविभागे चातिव्याप्तिपरिहाराय संयोगविभागयोरित्युक्तम् । उभयकारणत्वं च कर्मण एवेत्यर्थः । पञ्चविधमनित्यमित्यत्र उत्क्षेपणापक्षेपणे सङ्गृह्णता शरादीनां तिर्यक् क्षेपणं न सङ्गृहीतमिति विभागे न्यूनतैवेति द्रष्टव्यमित्यर्थः । नित्यमेकमनेकसमवेतमित्यत्र नित्यं सामान्यमित्युक्ते परमाणुष्वतिव्याप्तिः । तत्परिहारार्थमेकमित्युक्तम् । नित्यमेकमित्युक्ते गगने । अतोऽनेकसमवेतमिति । अनेकसमवेतमित्येवोक्ते संयोगे । एकं समवेतमित्येवोक्ते पुनस्तत्रैव । अतस्तत्परिहारार्थं नित्यमिति । नित्यमनेकं समवेतमित्युक्तेऽन्त्यविशेषेष्वपि । अतस्तत्परि-हारार्थमेकमिति । अतः सर्वं विशेषणं सार्थकमित्यर्थः । अन्त्याविशेषा इत्यत्र व्यावर्तकान्तरा-भावेऽपि ये व्यावर्तकास्तेऽन्त्याः । तत्र अन्त्या इत्येवोक्ते कर्मत्वेऽतिव्याप्तिरतो द्रव्यवृत्तय इत्युक्तम् । तावत्येवोक्ते रूपादौ । अतोऽन्त्या इत्युक्तम् । द्रव्यवृत्तयोऽन्त्या विशेषा इत्युक्तेऽ-मूर्तव्यावर्तकमूर्तत्वे । अतो नित्येति । तथाऽपि भूतत्वे । अतः मात्रपदमप्यूह्यम् । यत्समवेतं कार्यमुत्पद्यते तदित्यत्र समवायस्य सम्बन्धतयोभयनिष्ठत्वेन कार्यसमवेतमपि कार्यमुत्पद्यत इति कारणलक्षणं कार्येऽतिव्याप्तमिति चेन्न समवेतपदेन समवायसम्बन्धेन तदाश्रितत्वस्य विवक्षित-त्वात् । कार्यस्य च कार्याश्रितत्वाभावादिति भावः । कारणैकार्थप्रत्यासत्त्यादिनेत्यत्राङ्गुली द्वयसंयोगासमवायिकारणे कर्मणि कार्यैकार्थप्रत्यासत्तिरादिपदेन गृहीतेत्यर्थः । कार्यैकार्थ-प्रत्त्यासत्तिर्नाम कार्येण सहैकार्थे समवेतत्वम् । तन्तुद्वयसंयोगस्यासमवायिकारणत्वे पट एव कार्यं तस्य च तन्तुद्वयसंयोगस्य च तन्तावेव समवेतत्वात्कार्यैकार्थप्रत्यासत्तिः । तन्तुरूपस्यासमवायि-कारणत्वे पटगतरूपं कार्यम् । तेन सहैकार्थप्रत्यासत्तेस्तन्तुरूपेऽभावात्कारणैकार्थप्रत्यासत्तिः । पटरूपकारणेन पटेन सह तन्तुरूपस्य तन्तौ प्रत्यासन्नत्वात्कारणैकार्थप्रत्यासन्नमित्यर्थः । कर्मणश्च कारणगतगुणकर्मणीत्यत्र कारणगतगुणाः । गुरुत्वमादिपतने हेतुः । उत्तरत्र पूर्व-पूर्वपतनक्रिया हेतुरिति तत्सिद्धान्तः । वस्तुगत्या आन्तं गुरुत्वादेव पतनं, क्लृप्तपरित्यागे कारणाभावादिति ज्ञेयम् । सङ्ख्यादिनेत्यत्रादिपदेन तूलपरिमाणासमवायिकारणभूतः प्रशिथिला-वयवसंयोगाख्यः प्रचयो गृह्यते । शिष्टषड्गुणेत्यत्र शिष्टा उक्तात्माष्टगुणेभ्योऽवशिष्टा ये जीवात्मनः सुखदुःखधर्माधर्मद्वेषसंस्काराख्याः षड्गुणास् तेषामयोग्य इत्यर्थः । अयोग्य इति वदतो दुःखमिश्रितत्वात्सुखमयोग्यं, दुःखमनिष्टरूपत्वात्स्वत एवायोग्यं, धर्मोऽनित्यसुखजनकत्वाद-योग्यः, अधर्मो दुःखजनकत्वादयोग्यः, द्वेषो दोषरूपत्वादयोग्यः, नित्यज्ञाने ज्ञाननाशोत्तर-कालीनसंस्कारोऽप्ययोग्य इति भावः । ‘महत्त्वाद्दीर्घत्वात्’ इति वदता भाष्यकारेण सौत्रमह-द्दीर्घशब्दौ भावप्रधानाविति सूचितम् । गुणगुणिनोरभेदसूचनाय सूत्रकृत्तु गुणिपदेनैवाह । महत्त्वेऽपि साम्यादित्यत्र महत्त्वं त्र्यणुकगतमहत्त्वं ततोऽपि सङ्ख्ययैवोत्तरपरिमाणोपपत्तौ महत्त्व-मवर्जनीयप्रत्यासत्त्या तिष्ठत्विति भावः । साम्यादिति वदता सौत्रो वाशब्द उपमार्थक इति सूचितम् । परितो मण्डलस्य वर्तुलस्य भावः पारिमाण्डल्यम् । आद्ये नास्ति हानिरिति वदता परममहत्परिमाणद्रव्यापेक्षया महीमहीधरादेस्तदपेक्षया घटादेस्तदपेक्षया तदवयवपरम्पराया-स्त्र्यणुकपर्यन्तमणुशब्देन व्यवह्रियमाणत्वादिति भावः । न हि त्र्यणुकादिपरिमाणमत्यन्त-सदृशमित्यत्र एकैकत्र्यणुकपरिमाणं त्र्यणुकचतुष्टयारब्धचतुरणुकपरिमाणेनात्यन्तसदृशमित्यर्थः । सङ्ख्यादेर्महत्त्वारम्भकत्वप्रसङ्गादित्यत्र द्व्यणुकत्रयारब्धत्र्यणुके एकैकत्र्यणुकान्महत्त्ववत्परमाणु-द्वयारब्धद्व्यणुके एकैकपरमाणुतो महत्त्वावश्यम्भावादिति भावः । आत्मगतद्वित्वेत्यत्र आत्म-द्वितयगतद्वित्वेत्यर्थः । कस्तदा पटोऽवशिष्यत इत्यस्योर्ध्वतया च पटाकारेणौतास्तन्तवः सम्यक् दीर्घाकारत्वादातानाः । तिर्यक्पटाकारेण प््र•ेतास्तन्तवस्तद्विरुद्धतानवत्वाद्विताना अयमेव पट इति सर्वैर्व्यवह्रियते । इतोऽतिरिक्तं पटं कः प्रत्येतीति भावः ।

भावबोधः

वैशेषिकादिमतविरोधपरिहारेति ॥ तथा च प्राधान्येनेश्वरस्य जगत्कर्तृत्वमङ्गीकुर्वतामस्माकं मते ‘प्रतिषेधाच्च’ इति निरीश्वरमतोक्तदोषानवकाश इति पूर्वपक्षोत्थानादनन्तरसङ्गतिरपीति भावः ॥ युक्तमयुक्तमिति ॥ अत्र विष्णोरनन्तगुणपूर्णत्वं किं युक्तमुतायुक्तमिति चिन्ता । तदर्थं वैशेषिकादिसमयः श्रुत्युक्ततद्बाधनक्षमो भवत्युत नेति । तदर्थं वैशेषिकादयः किमुपपन्नभाषिण उतानुपपन्नभाषिण इति । तदर्थं तत्परिकल्पितप्रक्रियायां साधकबाधकभावाभावौ वर्तेते उत नेति ॥ जातिमात्राश्रया इति ॥ गुणे गुणत्वसमवायस्य द्रव्यत्वकर्मत्वाद्यभावस्य च जातिमात्रा-श्रयत्वमसम्भवीति न वाच्यम्; संयोगसमवायान्यतरसम्बन्धेन यद्यत्रास्ति तत्प््रात्येव स आश्रय इत्युच्यते । समवायाभावयोस्तु संयोगसमवायान्यतरसम्बन्धेन न गुणवृत्तित्वम् । किं तु केवलविशेषणत्वेनैवेति भावः ॥ संयोगविभागयोरिति ॥ समुचितयोरिति शेषः । तेन न संयोग-विभागयोरतिव्याप्तिः । कर्म चेति ‘च’ शब्देनाश्रयगतगुणाश्च । आदिपदेन कार्यैकार्थप्रत्यासत्ति-ग्रहणम् । तथा च कार्यगतानां रूपरसगन्धस्पर्शपरिमाणैकत्वानेकत्वपृथक्त्वोत्तरसंयोगविभाग-गुरुत्वद्रवत्वस्नेहवेगानां कारणगता रूपादयः कारणैकार्थप्रत्यासत्त्या असमवायिकारणम् । संयोगविभागवेगानामाश्रयगतं कर्म । पार्थिवपरमाणुगतानां रूपरसगन्धस्पर्शानां पार्थिवतैजस-परमाणुगतद्रवत्वस्य च तद्गत एव तेजःसंयोगः । सर्वत्रैकत्वानेकत्वपृथक्त्वयोराश्रयगतैकत्वैक-पृथक्त्वानि । परत्वापरत्वयोराश्रयगतौ दिक्कालसंयोगौ । आत्मविशेषगुणानामात्मगतमन-स्संयोगः । शब्दस्याकाशगताः संयोगविभागशब्दाश्च कार्यैकार्थप्रत्यासत्त्या असमवायिकारण-मित्यर्थः । कर्मणश्च कारणगुणकर्मणी इति । कर्मसमवायिकारणगतगुणकर्मणी इत्यर्थः । तथा च कर्मण आश्रयगता गुरुत्वद्रवत्ववेगसंयोगाः कर्म च कार्यैकार्थप्रत्यासत्त्या असमवायिकारण-मित्यर्थः । द्वितीयादिपतनस्यन्दनादिकं तृतीयादिपतनस्यन्दनादिकं प्रत्यसमवायिकारणमिति मतावष्टम्भेन कर्मग्रहणं कृतम् । वस्तुतस्तु वैशेषिकमते तृतीयादिपतनस्यन्दनादिकं प्रति वेगस्यैवासमवायिकारणत्वम् । न द्वितीयादिपतनादेः । अत एव सुधायां कर्मण आश्रयगता गुरुत्वद्रवत्ववेगसंयोगा असमवायिकारणमित्येवोक्तम् ॥ परमाणुद्व्यणुकगतमिति ॥ उपलक्षणमेतत् । तूलपिण्डाद्यवयवगतपरिमाणं तूलपिण्डादिगतपरिमाणगतपरिमाणकारणं न भवतीत्यपि ग्राह्यम् । अत एव तत्कारणप्रचयसङ्ग्रहार्थं सङ्ख्यादिनैवेत्यादिनैवेत्यादिपदप्रयोगः ॥ शिष्टषड्गुणायोग्य इति ॥ नित्ययथार्थज्ञानस्येश्वरस्य मोहासम्भवे तत्प््राभवरागद्वेषयोरयोगेन तज्जन्यधर्माधर्मयोरभावात्तन्निमित्तक सुखदुःखयोर्नित्यज्ञानत्वादेव स्मरणलक्षणकल्पकाभावेन भावनायाश्चायोगात् शिष्टषड्गुणायोग्य इत्यर्थः ॥ यथा महत्त्वाद्दीर्घत्वाच्चेति ॥ ‘कारणबहुत्वात् कारणमहत्वात् प्रचयविशेषाच्च महत्’ इति कणादसूत्रानुसारेण सूत्रे महदित्यादिभावप्रधानो निर्देशः । तत्र तस्यैव’ इति लक्षणस्य प्रायिकत्वात् पञ्चम्यन्ताद्वतिरित्यभिप्रेत्य भाष्ये महत्त्वा-दित्याद्युक्तमिति भावः ॥ न तावदिति ॥ नापि बाधकभावाभावाभ्यां विशेष इति तावच्छब्दः । अत एव पारिमाण्डल्यादेरारम्भकत्व इति बाधकमाशङ्क्य परिह्रियते– अवर्जनीयप्रत्यासत्ति-रेवेति ॥ न तु सामर्थ्यावधारणमिति लक्षणाभाव एवेत्यर्थः । नास्ति नो हानिरिति त्र्यणुकादिसर्वकार्याणामापेक्षिकाणुत्वस्य सत्त्वेन तच्छब्दवाच्यत्वस्येष्टत्वादिति भावः ।

ननु परमाणुद्व्यणुकगतमेव परिमाणमणुशब्दवाच्यं न त्र्यणुकादिसर्वकार्यगतः कथमिष्टा-पत्तिरित्यत आह– सङ्केतमात्रमिति ॥ अवर्जनीयप्रत्यासत्तिर्नेत्यत्र हेत्वन्तरमाह– द्व्यणुकादि-परिमाण इति ॥ तथा चागत्या पारिमाण्डल्यादेरेव कारणत्वमिति न सामर्थ्यावधारणाभाव इति भावः ।

ननु सङ्ख्यादिनैव तज्जन्मेत्युक्तत्वात् कथं कारणान्तराभाव इत्यत आह– सङ्ख्यादेरिति ॥ त्र्यणुकादिबहुत्वसङ्ख्याप्रचययोश्चतुरणुकादिगतमहत्त्वारम्भकत्वप्रसङ्गादित्यर्थः । युतसिद्धतयेत्यर्थः ।

भावदीपः

इत्युक्तमिति ॥ पूर्वाध्याये उक्तमित्यर्थः ॥ न युक्तमितीति ॥ कुतो न युक्तमित्यतो द्रव्यत्वेन परिगणितात्मविशेषस्य तस्याष्टगुणमात्रयुक्तत्वादिति वक्तुं कानि द्रव्याणि के च गुणा इत्याकाङ्क्षायामनुव्याख्यानोक्तदिशा तदीयप्रक्रियामनुवदति ॥ षट्खल्विति ॥ एतदुक्तिः सर्व-सूत्रोपयोगित्वेन द्रव्यादय इत्यादिपदार्थो गुणकर्मसामान्यविशेषसमवाया इति लक्षणवाक्यै-र्विवरिष्यत इति भावः ॥ गुणाश्रय इति ॥ गुणात्यन्ताभावानधिकरण इत्यर्थः । तेनाद्यक्षणे नाव्याप्तिर्घटादाविति ध्येयम् । नित्यमेवेत्येवकारेण प्रवाहव्यवच्छेदेन स्वरूपस्यैव कूटस्थ-नित्यत्वमाह ॥ एवमग्रेऽपि ॥ अत्र नित्यानित्यविभागोक्तिः । नित्यमेव च भावात् । रूपादि-मत्त्वाच्चेत्येतत्सूत्रोपयोगित्वेन महदिति सूत्रोपलक्षितद्रव्यासमवायिकारणादिखण्डनाय चेति बोध्यम् ॥ जातिमात्राश्रया इति ॥ समवायवृत्त्येति योज्यम् । एतेन रूपत्वादिसमवायाश्रयो रूपादिरिति नासम्भवः । गुणस्वरूपाद्युक्तिरीश्वरस्याष्टगुणत्वाद्यवधारणार्था ॥ अनित्या एवेति ॥ गुणेषु नित्यानित्यविभागोक्तिर्महदितिसूत्रोपयोगित्वेन । संयोगजनके संयोगे विभागजनके च विभागेऽतिव्याप्तिनिरासाय संयोगविभागयोरिति द्वयोरप्युक्तिः । कर्मस्वरूपाद्युक्तिरुभयथापि न कर्मेतिसूत्रोपयोगित्वेनेति ज्ञेयम् । संयोगेऽतिव्याप्तिनिरासाय सामान्यलक्षणे नित्यमिति विशेषणम् । समवाये दोषनिरासाय समवेतमित्युक्तिः । आत्मादिनित्यवस्तुगतैकत्वानां जातित्व-निवृत्त्यर्थमेकमिति ॥ अनेकविधमिति ॥ परापरजातिभेदेनेति भावः । एतदुक्तिश्च नित्यमेव चेति सूत्रोपयोगित्वेन । समवायस्वरूपोक्तिरपि समवायसूत्रोपयोगाय । अत्या व्यावर्त-(कान्तर)कशून्याः । एतत्त्रयं सामान्यादित्रयम् । नित्यानित्यविभागोक्तेरुपयोगमाह ॥ तत्रा-नित्यमिति ॥ त्रितयेति ॥ समवाय्यसमवायिनिमित्तकारणरूपत्रितयेत्यर्थः । परमाणव इति बहुवचनं भूतचतुष्टयापेक्षया । प्रत्येकं तु परमाणुद्वयं द्वयमेव द्व्यणुकादिकार्यारम्भकमिति बोध्यम् । तन्तुरूपादौ पटासमवायित्वव्यावृत्त्यर्थमवधृतेत्यादि । निमित्तादावतिव्याप्तिनिरासाय पूर्वभागः । एवं सति तन्तुरूपादेः पटरूपादिं प्रत्यसमवायिकारणत्वं न स्यात् । पटरूपं प्रति समवायिकारणभूते पटे तन्तुरूपस्याप्रत्यासन्नत्वादित्यत आह ॥ प्रत्यासत्तिर्द्वेधेति ॥ असमवायिकारणस्य समवायिकारणे प्रत्यासत्तिर्वर्तनं द्वेधा । स्वकार्येण सहैकस्मिन्नर्थे समवायेन वर्तनं वा स्वकार्ये यत्कारणं तेन सहैकस्मिन्नर्थे वर्तनं चेत्यर्थः ॥ कारणैकार्थप्रत्यासत्त्यादिनेति ॥ कार्यगतरूपादिगुणानां कारणगतरूपादयो गुणाः कारणैकार्थप्रत्यासत्त्याऽसमवायिकारणानि । कर्म तु आदिपदोपात्तया कार्यैकार्थप्रत्यासत्त्याऽसमवायिकारणम् । संयोगादिकार्यं प्रति कारण-भूतघटादिगतकर्मणः स्वकार्येण संयोगादिना एकार्थे घटादौ प्रत्यासन्नत्वादिति बोध्यम् ॥ कार्यगतेति ॥ आम्रफलादिरूपकार्यगतकर्मणः कारणभूतं यदाम्रफलादिकं तद्गता गुरुत्वद्रवत्व-वेगसंयोगरूपा गुणास् तद्गतं पूर्वपूर्वपतनादिकर्म चादिपदोक्तया कार्यैकार्थप्रत्यासत्त्याऽ-समवायिकारणमित्यर्थः । कार्यगतकर्मणो ऽवयविगतकर्मणस् तत्कारणावयवगतकर्म च कारणैकार्थप्रत्यासत्त्याऽसमवायिकारणमित्यर्थः । यद्वा सुधारीत्या कार्यगतकर्मणः कर्म कारणद्रव्यगता गुरुत्वादयोर् गुणाः कार्यैकार्थप्रत्यासत्त्या कर्मकारणैकार्थप्रत्यासत्त्याऽसमवायि-कारणमित्यर्थः । कारणगतेत्यत्र कारणपदेन कर्मकारणस्य कर्मकारणकारणस्य च ग्रहः । गुणकर्मणी इत्यनयोः क्रमेणान्वयः । कर्मणश्च समवायिकारणस्थगुणा एवासमवायिकारण-मित्युक्तेः । महदिति सूत्रनिरस्यं दर्शयति ॥ तत्र परिमाणमिति ॥ सङ्ख्येति ॥ द्व्यणुकगतं परिमाणं परमाणुगतद्वित्वसङ्ख्यया त्र्यणुकगतं च द्व्यणुकगतबहुत्वसङ्खया जायत इत्यर्थः । आदिपदेन प्रचयग्रहणम् । तूलपिण्डादिस्थपरिमाणं प्रशिथिलावयवसंयोगरूपप्रचयजन्यमित्यर्थः । उभयथापीति सूत्रनिरस्यं दर्शयति ॥ एतदन्यदिति ॥ समवायिकारणासमवायिकारणाभ्या-मन्यदित्यर्थः । ईश्वरश्चेदस्ति तर्हि द्रव्यं नवविधमिति भज्यते इत्यतो वाऽष्टगुणत्वं निर्धारयितुं वाऽऽह ॥ स चेति ॥ शिष्टेति ॥ शिष्टेषु आत्मयोग्येषु चतुर्दशसु मध्ये सामान्यस्य सङ्ख्यादि-पञ्चकस्य ज्ञानादिषु नवगुणेषु कर्तृत्वार्थं ज्ञानेच्छाप्रयत्नानामावश्यकत्वे सङ्ख्यादिसामान्यगुण-पञ्चकातिरिक्तानां ज्ञानादिगुणत्रयातिरिक्तानां संस्कारसुखदुःखद्वेषधर्माधर्मरूपषड्गुणानामयोग्य इत्यर्थः । नित्यज्ञानस्य स्मरणहेतुसंस्काराभावादत एव मोहाभावेन तत्कार्यद्वेषधर्माधर्माणां तत्कार्यसुखादेश्चाभावादिति भावः । सूत्रभाष्ययोः क्रियमाणमापादनम् उक्तशङ्कानिरासकत्वाद-सङ्गतमाशङ्क्य परिष्कृत्य व्याचष्टे ॥ युक्तमेवेति ॥ महत्त्वादिति ॥ प्रतियोगिनि पञ्चमीनिर्देशात् पञ्चम्यन्ततया विग्रहः प्रदर्शितः । पूर्ववत्सन इत्यादाविव पञ्चम्यन्तादपि वतिप्रत्ययसिद्धेः पञ्चम-स्याद्यपादे तत्र तस्येवेत्यत्र मञ्जर्यामुक्तत्वात् । कारणबहुत्वात्कारणमहत्त्वात्प््राचयविशेषाच्च महदिति काणादसूत्रानुसारेण सूत्रे महदित्यादिनिर्देश इति भावः ॥ कारणविशेषाभावादिति ॥ ननु तल्लक्षणभावाभावौ वा । ‘सदृशस्य हि कार्यस्य नैव योगः कथञ्चन । अप्रत्यक्षत्वमेव स्याद्यतः कार्येष्वणुत्वत’ इत्यनुभाष्योक्तदिशा तत्सदृशपरिमाणत्वापत्तिरूपबाधकभावाभावौ वा विशेषकारणमित्यत आद्यं निराह ॥ न तावदिति ॥ अवधृतसामर्थ्यं नेति शङ्कते ॥ अवर्जनीयेति ॥ द्वितीयमाशङ्क्य निराह ॥ पारिमाण्डल्यादेरिति ॥ नास्ति हानिरिति ॥ सर्वपदार्थानामापेक्षिकाणुत्ववत्त्वेन तच्छब्दवाच्यत्वस्येष्टत्वात् । ‘अणुत्वं च महत्त्वं च यतो वस्तुव्यपेक्षया’ इत्यनुभाष्योक्तेरिति भावः ।

ननु परिमाणमणुमहद्दीर्घं ह्रस्वं चेति चतुर्विधमित्यङ्गीकारात् त्र्यणुकादिसर्वकार्यगतं महत् । परमाणुद्व्यणुकगतं तु अणुपरिमाणमित्युपेतत्वेन कथं द्व्यणुकादिगतमत्यन्तसदृशं नेत्यत आह ॥ सङ्केतमात्रं त्विति ॥ पारिमाण्डल्यादेरारम्भकत्वे बाधकरूपकारणविशेषं परिहृत्यानारम्भकत्वे बाधकमाह ॥ द्व्यणुकादिति ॥ एतेनान्यथा पारिमाण्डल्यादिना परिमाणरूपकार्यानुत्पत्तौ एतयोर्द्व्यणुकत्र्यणुकयोरपि न स्यात् परिमाणमिति शेषः । पारिमाण्डल्यादितोऽन्यस्य कारण-विशेषस्याभावादिति भाष्यस्यार्थान्तरं दर्शितम् । अत एवैताभ्यामिति वाच्ये एतयोरित्युक्तिः । नन्वस्तु परमाणुगतद्वित्वसङ्ख्यैव कारणान्तरमित्यत आह ॥ सङ्ख्यादेरिति ॥ परमाण्वादि-गतसङ्ख्यादेर्द्व्यणुकादिपरिमाणकारणत्वे चतुरणुकाद्यारम्भकानेकत्र्यणुकगतबहुत्वसङ्ख्याप्रचययो-श्चतुरणुकगतमहत्त्वारम्भकत्वप्रसङ्गादित्यर्थः । एतेन भाष्येऽन्यथा सङ्ख्यादिनैव द्व्यणुकादिगत-परिमाणोत्पत्त्यङ्गीकारे एतयोर्महत्त्वदीर्घत्वयोरपि चतुरणुकादिस्थपरिमाणकारणत्वं न स्यात् । किं तु त्र्यणुकादिगतसङ्ख्यादेरेव स्यात् । विशेषकारणाभावादित्यपि भाष्यार्थ उक्तो भवति । सूत्रोक्तं परिमाणाख्यगुणासमवायिकारणनिराकरणमुपलक्षणमिति भावेन द्रव्यासमवायिकारणमपि निराह ॥ संयोगस्य चेति ॥ यत्परमाण्वादिसंयोगो द्व्यणुकाद्यसमवायिकारणमिति वैशेषिकादीनां कल्पनं तन्न । तस्य द्रव्यनिमित्तत्वमेव किं न स्यात् । अनिमित्तत्वे मानाभावात् । निमित्तत्वे बाधकाभावाच्चेति भावः । निमित्तत्वाभावे मानमाशङ्कते ॥ भिन्नतयेति ॥ युतसिद्धतयेत्यर्थः ॥ अभ्युपगम्येति ॥ समवायिकारणद्रव्यसंयोगात्तत्कार्यस्य पटादेर्भेदमभ्युपगम्य समवायिकारण-संयोगस्य निमित्तत्वमस्तु इत्युक्तम् । वस्तुतस्तु समवायिकारणद्रव्यसंयोगादन्यत्कार्यमेव नास्ती-त्यर्थः । तदेव व्यनक्ति ॥ किं तन्तूनामिति ॥ विवक्षितो वेति ॥ तन्तूनां व्यतिषङ्गविशेषो वेत्यर्थः ॥ कस्तदा पट इति ॥ तन्तुभ्योऽन्यः पटः साक्षात्कस्य दृष्टिपथं गत इत्येकादशे गीतातात्पर्योक्तब्रह्मतर्कस्मृतेरिति भावः । एवं द्रव्यगुणयोरसमवायिकारणनिरासे सति कार्य-कारणयोरभेदादेव कर्मासमवायिकारणमपि निरस्तप्रायं मत्वाऽऽद्यसूत्रतात्पर्यार्थमुपसंहरति ॥ अत इति ॥ परिमाणलक्षणगुणासमवायिकारणे विशेषकल्पनस्य निर्बीजत्वात् । उपादानोपादेययोर-भेदेन द्रव्यासमवायिकारणस्य कर्मासमवायिकारणस्य चायोगादित्यर्थः ।

अभिनवचन्द्रिका

कार्यगतगुणानाञ्चेति ॥ आदिशब्देन कार्यैकार्थप्रत्यासत्तिर्गृह्यते । घटादिगतसंयोगादिकं प्रति घटादिगतं कर्म कार्यैकार्थप्रत्त्यासत्त्या कारणमित्यर्थः ॥ कर्मणश्चेति ॥ अत्र कर्मणश्च कारणगतगुणकर्मणी कार्यैकार्थप्रत्यासत्त्या असमवायिकारणमित्येव पाठः । तस्यार्थः फलस्या-द्यपतनरूपे कर्मणि गुरुत्वं द्वितीयपतनरूपे कर्मणि तु आद्यपतनरूपं कर्म, जलस्य स्यन्दन-क्रियायां द्रवत्वं, शरस्य गमनक्रियायां वेगश्चेति सर्वे कार्यैकार्थप्रत्यासत्त्या असमवायिकारणमिति ॥ परमाणुव्द्यणुकगतमिति ॥ यथासङ्ख्यं सम्बन्धः । उपलक्षणमेतत् । तूलपरिमाणं तूलपिण्ड-परिमाणासमवायिकारणं न भवतीत्यपि ग्राह्यम् ॥ किंत्विति ॥ आदिशब्देन प्रचयपरिग्रहः ॥ कारणविशेषाभावादिति ॥ प्रमाणाभावादित्यर्थः ।

ननु एषां परिमाणानाम् असमवायिकारणत्वतदभावाभ्यां वैलक्षण्ये कारणविशेषाभावोऽसिद्धः । तथा हि अस्ति तावन्महद्दीर्घपरिमाणयोरसमवायिकारणत्वानुमापकसमवायिकारणलक्षणम् । अवधारयन्ति खलु सास्नादिमत्त्वलक्षणेन गोत्वम् । न च ह्रस्वाणुपरिमाणयोस् तदस्ति । नापि प्रमाणान्तरमस्ति । अपि च पारिमाण्डल्यस्य कारणत्वे द्व्यणुकस्याप्यणुत्वप्रसङ्गः । ह्नस्वस्य परिमाणस्य कारणत्वे द्व्यणुकस्यापि ह्रस्वत्वप्रसङ्गः । न च महद्दीर्घपरिमाणयोः कारणत्वे बाधकं पश्यामः । अतो मन्यामहे साधकसद्भावाद् बाधकाभावाच्च महद्दीर्घपरिमाणयोर् असमवायिकारणत्वं, साधकाभावाद्वाधकसद्भावाच्च नाऽणुह्रस्वपरिमाणयोः कारणत्वमित्यत आह न तावदित्यादिना ॥ अवर्जनीया प्रत्यासत्तिर्नेत्यत्र हेत्वन्तरमाह द्व्यणुकादिपरिमाण इति ॥ न च सङ्ख्याया एव कारणत्वसम्भवात् कारणान्तराभावोऽसिद्ध इति वाच्यम् । तथा सति चतुरणुकादिपरिमाणेऽपि सङ्ख्याया एव कारणत्वसम्भवेन महत्त्वदीर्घत्वयोरपि कारणत्वाभाव-प्रसङ्गादिति भावः । इतः परं टीकायां श्रूयमाणं ‘सङ्ख्यादेहत्त्वारम्भकत्वप्रसङ्गात्’ इति वाक्यं न टीकावाक्यम् । किन्तु इममेवाभिप्रायं वक्तुं प्रवृत्तस्य कस्यचिद्व्याख्यातुर्वाक्यम् । अवश्यं चैतदेवं विज्ञेयम् । ‘सङ्ख्यादेर्महत्त्वारम्भकत्वप्रसङ्गात्’ इत्यस्य पूर्वोत्तरवाक्याभ्यामन्वयाभावाद् आपादकानुक्तेश्च, आदिशब्दवैयर्थ्याच्च । यदि सङ्ख्यायाः कारणत्वं स्यात्तर्हि सर्वत्रापि सङ्ख्याया एव कारणत्वप्रसङ्गेन महत्त्वदीर्घत्वयोरकारणत्वप्रसङ्गेन महत्त्वदीर्घत्वयोरकारणत्वप्रसङ्गादिति वक्तव्यत्वेन महत्त्वारम्भकत्वमात्रस्याऽनिष्टत्वाभावाच्च सङ्ख्यादेर्महत्त्वारम्भकत्वप्रसङ्गादित्युक्त्य-योगाच्चेति । तन्तुद्वयसंयोगादेर् असमवायिकारणत्वं निराकरोति – संयोगस्य चेति ॥ भिन्नतयेति ॥ पटासमवायिकारणाद् भिन्नतया प्रतीत्यभावादित्यर्थः । इदमुक्तं भवति । पटस्य समवायिकारणमिवासमवायिकारणमपि दृष्ट्वा तन्तुसंयोगो न समवायिकारणं नाप्य-समवायिकारणम् । अथ च कारणमिति निश्चये निमित्तकारणं स्यात् । न च तथा निश्चयोऽस्ति । असमवायिकारणान्तरदर्शनादिति ॥ भिन्नतया प्रतीत्यभावेऽपीति ॥ अपेक्षाबुद्धौ आवां द्वाविति प्रतीयमानद्वित्वसमवायिकारणप्रत्यासन्नत्वे सति कारणत्वदर्शनाद् असमवायिकारणाद् भेदेन प्रतीत्यभाव इति भावः ॥ अभ्युपगम्य चेदमुदितमिति ॥ ‘वस्तुतस्तु कारणमेव न भवति तथा हि’ इति वाक्यशेषो द्रष्टव्यः ॥ अनभ्युपगमादिति ॥ सिद्धान्त-विरुद्धत्वादित्यर्थः । एतेन नाङ्गीकृतं चेत् परेण संयोगमात्रस्य कारणत्वं तर्हि तन्निषेधवैयर्थ्यम् । अथाभ्युपगतं तर्हि अनभ्युपगमादित्ययुक्तमिति परास्तम् ।

वाक्यार्थमुक्तावली

वैशेषिकेति ॥ तथा च प्राधान्येनेश्वरस्य कर्तृत्वमङ्गीकुर्वतामस्माकं मते विप्रतिषेधाच्चेति निरीश्वरमतोक्तदोषानवकाश इति पूर्वपक्षोत्थानादन्तरसङ्गतिरपीति भावः ॥ परमाण्वारम्भवाद-विरुद्धत्वेनेति ॥ परमाणुः स्वस्मिन् समवायसम्बन्धेन सम्बद्धं द्व्यणुकादिकमारभते । तत्र कर्तेश्वरः कर्तृत्वोपयुक्तज्ञानेच्छाप्रयत्नशाली नातिरिक्तानन्दाद्यनन्तगुणक इति यो वादः स परमाण्वारम्भवादः । तद्विरुद्धत्वे गुणानामभावशङ्का स्यादित्यर्थः ॥ युक्तमिति ॥ विष्णोरनन्त-गुणत्वं वैशेषिकप्रक्रियाविरोधादयुक्तमुत युक्तमिति चिन्ता । तदर्थं तत्प््राक्रिया प्रमाणवत्युत अप्रमाणिकेति । ईश्वरस्यानन्तगुणत्वमयुक्तमित्यतो गुणानां चतुर्विंशतित्वाद्द्रव्यत्वेन परिगणितात्मविशेषस्येश्वरस्याष्टगुणमात्रत्वादिति वक्तुं तावत् पदार्थविभागमाह ॥ षडिति ॥ एतदुक्तिः सर्वसूत्रोपयोगित्वेन ॥ गुणाश्रय इति ॥ अत्र गुणाश्रयत्वं नाम गुणात्यन्ता-भावानधिकरणत्वम् । अतो न प्रथमक्षणे निर्गुणेषु घटादिष्वव्याप्तिः । अत्र नित्यानित्य-विभागोक्तिः ‘नित्यमेव च भावात्’ ‘रूपादिमत्वाच्च’ इति सूत्रोपयोगित्वेन महदिति सूत्रोपलक्षितद्रव्यासमवायिकारणखण्डनाय चेति ज्ञेयम् ॥ जातिमात्राश्रय इति ॥ समवाय-सम्बन्धेनेति योज्यम् । तेन गुणे गुणत्वसमवायस्य द्रव्यत्वाद्यभावस्य च स्वरूपसम्बन्धेन सत्वाज् जातिमात्राश्रयत्वमसम्भवीति निरस्तम् । गुणस्वरूपाद्युक्तिरीश्वरस्याष्टगुणत्वाद्यवधारणार्था । गुणेषु नित्यानित्यविभागोक्तिरपि महदिति सूत्रोपयोगित्वेन ॥ संयोगविभागयोरिति ॥ समुच्चितयोरिति शेषः । तेन संयोगजनके संयोगे विभागजनके विभागे च नातिव्याप्तिः । कर्मस्वरूपोक्तिः । ‘उभयथापि न कर्म’ इति सूत्रोपयोगित्वेन ॥ नित्यमेकमिति ॥ अत्राद्य-विशेषणाभावे घटपटसंयोगद्वित्वादौ अतिव्याप्तिः । द्वितीयाभावे सलिलाद्यनेकपरमाणुरूपेऽति-व्याप्तिः । तृतीयाभावे गगनादौ । समवेतमित्येवोक्ते शब्दे ॥ अतोऽनेकेति ॥ यद्यप्यत्रानेकानु-गतमित्येतावन्मात्रोक्तावपि गगनादावतिव्याप्तिर्नास्ति । तथापि समवायेऽतिव्याप्तिवारणाय समवेतमित्युक्तिः । अनेकेति परापरजातिविभागेनेति भावः । एतदुक्तिर् नित्यमेवेति सूत्रोप-योगित्वेन । समवायस्वरूपोक्तिरपि समवायसूत्रोपयोगाय । नित्यद्रव्योवृत्तय इति स्वरूपकथनम् । अन्त्या इति लक्षणम् । द्रव्यादिव्यावर्तकानामभावेऽपि ये व्यावर्तका भवन्ति तेऽन्त्याः । अन्त्यव्यावृत्तिहेतव इति यावत् । तेन दण्डादिद्रव्यस्य अदण्डादिभ्यः गुणस्य निर्गुणात् कर्मणश्च निष्क्रियाद् अपरसामान्यस्य द्रव्यत्वादेरद्रव्याद्व्यावृत्तिहेतुत्वेनातिव्याप्तिरिति निरस्तम् । दण्डादीनां दण्ड्यंतरादिभ्योऽव्यावर्तकत्वेन अनुवृत्तेरपि हेतुत्वेन केवलं व्यावृत्तिहेतुत्वाभावात् । नित्यद्रव्यवृत्तय इति नित्येष्वेव द्रव्येष्वेव वर्तन्ते ये ते विशेषा इति सुधारीत्या लक्षणान्तरं वा । तत्पदकृत्यचिन्तात्वस्मदाचार्यैः सुधाविवृत्तौ कृतानुसन्धेया । नित्यानित्यविभागोक्तेरुपयोगमाह ॥ तत्रानित्यमिति ॥ परमाणव इति ॥ भूतचतुष्टयापेक्षया प्रत्येकं तु परमाणुद्वयमेतद् द्व्यणुका-रम्भकमिति बोध्यम् । असमवायिकारणलक्षणे समवायिकारणमात्रप्रत्यासन्नत्वविवक्षायामात्मनः संयोगेऽतिव्याप्तिः । तन्मात्रप्रत्यासत्त्यविवक्षायां तुरीतन्तुसंयोगेऽतिव्याप्तिः । इति चेन्नैषदोषः । यतो नासमवायिकारणत्वमेकं किन्तु तत्तत्कार्यं प्रति भिन्नभिन्नमेव पारिभाषिकम् । तथा च तत्तल्लक्षणदोषपरिहाराय विशेषणं देयम् । न च गुणकर्मान्यतरत्वं लक्षणमिति युक्तम् । अन्त्यावयविरूपादावतिव्याप्तेः । नन्वेवं सति तन्तुरूपादेः पटादिरूपं प्रत्यसमवायिकारणत्वं न स्यात् । पटरूपं प्रति समवायिकारणभूते पटे तन्तुरूपस्याप्रत्यासन्नत्वाद् इत्यत आह ॥ प्रत्यासत्तिरिति ॥ कर्म चेति ॥ चशब्दादाश्रयगता गुणा गृह्यन्ते ॥ कारणैकार्थप्रत्यासत्या-दिनेति ॥ अत्रादिपदेन कार्यैकार्थप्रत्यासत्तिर् गृह्यते । तथा च पटादिगतरूपादिकं प्रति तन्त्वादिगतरूपादिकं कारणैकार्थप्रत्यासत्यासमवायिकारणम् । कर्म तु संयोगविभागौ प्रति कार्यैकार्थप्रत्त्यासत्त्यासमवायिकारणम् । संयोगादिकार्यं प्रति कारणभूतघटादिकर्मणः स्वकार्येण संयोगादिकार्यं प्रति कारणभूतघटादिकर्मणः स्वकार्येण संयोगादिना एकार्थे घटादौ प्रत्या-सन्नत्वात् । पार्थिवपरमाणुगतानां पाकजरूपादीनां तद्गत एव तेजःसंयोगः । सर्वत्रानेक-पृथक्त्वादीनामाश्रयगतैकत्वैकपृथक्त्वादीनि च कार्यैकार्थप्रत्यासत्त्या समवायिकारणमित्यर्थः । कर्मणश्च कारणगतगुणकर्मणी कार्यैकार्थप्रत्यासत्त्यासमवायिकारणमिति । फलादेराद्यपतनरूप-कर्मणः कर्मसमवायिकारणगतं गुरुत्वम् । जलस्थस्यन्दनक्रियायां द्रवत्वम् । शरस्य गमनक्रियायां वेगश्चेति कर्मणः कारणगतगुणाः कार्यैकार्थप्रत्यासत्त्यासमवायिकारणमित्यर्थः ।

कारणैकार्थप्रत्यासत्त्येति क्वचित्पाठः । तत्र कर्मणोऽसमवायिकारणं गुरुत्वं, तेन सहैकार्थ-प्रत्यासत्त्येति योज्यम् । द्वितीयादिपतनस्यन्दनादिकं कर्मजमिति मतानुसारेणेयमुक्तिः । तत्रापि वेगस्यैवासमवायिकारणत्वमिति मतानुसारेण सुधायां कर्मणः कर्मकारणकत्वानुक्तिरित्यविरोधः । परमाणुद्व्यणुकगतमिति यथासङ्ख्यं सम्बन्धः । उपलक्षणमेतत् । तूलपिण्डपरिमाणं तूलपरिमाणासमवायिकारणकं न भवतीत्यपि ग्राह्यम् । सङ्ख्यादिनेत्यादिपदेन प्रशिथिलावयव संयोगरूपप्रचयपरिग्रहः । तूलपरिमाणस्य तूलपिण्डप्रचयकार्यत्वात् ॥ शिष्ठेति ॥ आत्मयोग्येषु चतुर्दशगुणेषु मध्ये शिष्टसंस्कारादिषड्गुणायोग्य इत्यर्थः । नित्यज्ञानस्येश्वरस्य स्मरणहेतु-संस्काराभावात् । अत एव मोहाभावेन तत्कार्यसुखादेश्चाभावादिति भावः । सूत्रे ‘कारण-बहुत्वात् कारणमहत्वात् प्रचयविशेषाच्च महत्’ इति काणादसूत्रानुसारेण महदिति भावप्रधानो निर्देशः । तत्र तस्यैवेति लक्षणस्य प्रायिकत्वात् पञ्चम्यन्ताद्वतिः । अत एव ह्रस्व-परिमण्डलाभ्यामिति तत्प््रातियोगिनस् तथा निर्देशः । यद्वा षष्ट्यन्ताद्वतिः । विभक्तिविपरिणामेन वा सकाशादित्यध्याहारेण वा भाष्ये महत्वादित्युक्तमिति भावेन भाष्यस्य सूत्रारोहं दर्शयति ॥ यथेत्यादिना ॥ महद्दीर्घवद्वा इत्यतः परं परिमाणमुत्पद्यत इति शेषः । परिमण्डलाभ्यामित्यतःपरम् उत्पद्यत इति शेष इति भावेन परिमाणमुत्पद्यत इत्याद्युक्तम् ॥ इति सूचितमिति ॥ तद्वदेवेति वा अत्राप्युत्पद्यतैवेति वा अवधारणार्थवाशब्देनाविशेषसूचनादिति भावः । तदेव व्यनक्ति यदीति ॥ महत्वादेरेवारम्भकत्वं ह्रस्वत्वादेर्नेत्यत्र विशेषहेत्वदर्शनादिति भावः ।

ननु महत्वादेः परिमाणासमवायिकारणत्वसाधकमसमवायिकारणलक्षणमस्ति ह्रस्वत्वादेः परिमाणासमवायिकारणत्वे साधकं लक्षणं नास्ति । किञ्च महत्वादेरारम्भकत्वे बाधकं नास्ति । त्र्यणुकादिगतमहत्वादेश् चतुरणुकादौ सजातीयपरिमाणोत्पत्तिसम्भवात् । पारिमाण्डल्य ह्रस्व-त्वयोरारम्भकत्वे स्वसदृशकार्यारम्भकत्वनियमेन सर्वकार्याणामणुत्वादिप्रसङ्गेनाप्रत्यक्षत्वं बाधक-मस्ति । तथा च साधकबाधकभावाभावविशेषस्य विद्यमानत्वात् कथमविशेष इत्यतः साधक बाधकभावाभावविशेषं तावदपाकरोति ॥ न तावदिति ॥ अवधृतसामर्थ्येनेति शङ्कते ॥ अवर्जनीयेति ॥ द्वितीयमाशङ्क्य निराह ॥ पारिमाण्डल्यादेरिति ॥ नास्ति हानिरिति ॥ त्र्यणुकादिसर्वपदार्थानाम् आपेक्षिकाणुत्वेन तच्छब्दवाच्यत्वस्येष्टत्वात् । ‘अणुत्वं च महत्वं च यतो वस्तुव्यपेक्षया’ इति अणुभाष्योक्तेरिति भावः ।

ननु परमाणुद्व्यणुकादिगतमेव परिमाणमणुशब्दवाच्यं न तु त्र्यणुकादिगतमतः कथमिष्टा-पत्तिरित्यत आह ॥ सङ्केतेति ॥ न हीत्यत्रैकैकत्र्यणुकपरिमाणादेर् अत्यन्तसादृश्याभावो ज्ञेयः । एवं पारिमाण्डल्यादेरारम्भकत्वे बाधकं परिहृत्यानारम्भकत्वे बाधकमाह ॥ द्व्यणुकादीति ॥ भावबोधे तु अवर्जनीयाप्रत्यासत्तिर्नेत्यत्र हेत्वन्तरमाह द्व्यणुकादीत्यवधारितम् । एतेनान्यथा पारिमाण्डल्यादिना परिमाणरूपकार्यानुत्पत्तावेतयोर्द्व्यणुकत्र्यणुकयोरपि न स्यात् परिमाणमिति शेषः । पारिमाण्डल्यादितोऽन्यस्य कारणविशेषस्याभावादिति भाष्यस्य वृत्यन्तरं दर्शितम् । अत एवैताभ्यामिति भाष्ये वाच्ये एतयोरित्युक्तिः ।

ननु सङ्ख्यादिनैव तज्जन्मेत्युक्तत्वात्कथं कारणान्तराभाव इत्यत आह ॥ सङ्ख्यादेरिति ॥ आदिशब्देन प्रचयो गृह्यते । सङ्ख्यादिनैव तज्जन्मेत्यङ्गीकारे परमाणुसङ्ख्याया द्व्यणुके महत्वा-रम्भकत्वप्रसङ्गः । द्व्यणुकगतसङ्ख्यायास्तथात्वाभ्युपगमाद् विजातीयत्वाविशेषाच्च । एवं द्व्यणुकगतसङ्ख्यायास्त्र्यणुकगतमहत्वारम्भकत्वे तूलपिण्डगतप्रचयस्य तूलपरिमाणकारणत्वे च त्र्यणुकादिगतबहुत्वसङ्ख्याप्रचययोश्चतुरणुकगतमहत्वारम्भकत्वप्रसङ्गः । तथा च परिमाणस्य कारणत्ववादो दत्तजलाञ्जलिकः स्यादित्यर्थः । एतेनान्यथा सङ्ख्यादिनैतद्व्यणुकादिगतपरिमाणो-त्पत्त्यङ्गीकारे एतयोर्महत्वदीर्घत्वयोरपि चतुरणुकादिगतपरिमाणकारणत्वं न स्यात् । किन्तु त्र्यणुकादिगतसङ्ख्यादेरेव स्यात् । विशेषकारणाभावादित्यपि भाष्यार्थ उक्तो भवति । सूत्रोक्तं परिमाणाख्यगुणासमवायिकारणनिराकरणमुपलक्षणमिति भावेन द्रव्यासमवायिकारणमपि निराह ॥ संयोगस्येति ॥ अनिमित्तत्वे मानाभावान् निमित्तत्वे बाधकाभावाच्चेति भावः । निमितत्वा-भावे मानमाशंकते ॥ भिन्नतयेति ॥ युतसिद्धतयेत्यर्थः । लोके हि यन्निमित्तकारणं तुर्यादि तत्समवायिकारणतन्तुषु असमवेततया युतसिद्धमनुभूयते । तन्तुसंयोगश्च तन्तुगुणः समवायि-कारणतन्तुसमवेतः, युतसिद्धतया प्रतीत्यविषयः कथं निमित्तकारणं स्यादिति भावः । तन्तु-संयोगो न निमित्तं युतसिद्धतया प्रतीत्यविषयत्वात् । इति विवक्षितेऽनुमाने व्यभिचारमाह ॥ भिन्नतयेति ॥ अभ्युपगम्येति ॥ कारणत्वं संयोगस्याभ्युपगम्येदं निमित्तत्वमुक्तमित्यर्थः । तन्तु संयोगः कारणमेव न भवति, तथाहीति वाक्यशेषो बोध्यः ॥ विवक्षितो वेति ॥ विवक्षितो व्यतिषङ्गविशेषो वेत्यर्थः ॥ कस्तदेति ॥ तदा विवक्षिततन्तुसंयोगे सति कः पटो नामावशिष्यते । विवक्षितव्यतिषङ्गविशेष विशिष्टतन्त्वतिरिक्तपदाभावात् । तन्तुव्यतिषङ्गानन्तरं पटोत्पत्त्यभावेन संयोगस्य न कारणत्वमिति भावः । अत्र यद्वक्तव्यं तत्प््रामेयमुक्तावल्यामुक्तं सुधायां विशदम् ।

तत्त्वसुबोधिनी

वैशेषिकादीति ॥ निरीश्वरपक्षोक्तो दोषः नास्माकं स्वातन्त्र्येणेश्वरस्य जगत्कर्तृत्वाङ्गीकाराद् ईश्वरस्तु अष्टगुणक एव नानन्दादिगुणक इति पूर्वाक्षेपेणोत्थानादनन्तरसङ्गतिर् इति भावः । कुतो न युक्तमित्यत ईश्वरस्याष्टगुणत्वं वक्तुं क्रमेण पक्षार्थान् निरूपयति ॥ षडिति ॥ तत्र द्रव्य-लक्षणमाह ॥ तत्रेति ॥ आश्रयत्वमात्रस्य जात्यादावपि सत्त्वेनातिव्याप्तिं वारयितुं गुणपदम् । नन्वेवमपि प्रथमक्षणावच्छिन्नेति व्याप्तिरेवेति चेन्न, गुणात्यन्ताभावाविरोधित्वस्याविवक्षितत्वेना-दोषात् । लक्षणमुक्त्वा विभागमाह ॥ पृथिवीति ॥ नित्यानित्यत्वेन द्रव्यविभागमाह ॥ तत्रेति ॥ गुणलक्षणमाह ॥ कर्मान्यत्वे सतीति ॥ जात्याश्रया इत्युक्तौ कर्मण्यतिव्याप्तिः स्यात् तदर्थं कर्मान्यत्वे सतीति । जात्यादावतिप्रसङ्गं वारयितुं जात्याश्रय इति । एतावत्युक्ते द्रव्ये गतमतो मात्रेति ॥ न चैवमसम्भवः ॥ गुणत्वद्रव्यत्वाद्यभावस्य सत्त्वेन जातिमात्राश्रयत्वस्य विवक्षितत्वात् । गुणानां तु समवायसम्बन्धेन जात्यतिरिक्ताश्रयत्वस्याभावान्नासम्भवः । द्रव्यस्य तु समवायसम्बन्धेन जात्यातिरिक्तगुणाद्याश्रयत्वाभावान्नातिप्रसङ्गः । नित्यत्वानित्यत्वेन गुण-विभागमाह ॥ ते चेति ॥ कर्मविभागमाह ॥ संयोगविभागयोरिति ॥ विशेष्यमात्रं त्र्यणुक-गतपरिमाणादौ । अतः संयोगविभागयोरिति समग्रमपि संयोगविभागादौ गतम् । अत आद्येति विशेषणं द्रष्टव्यम् ॥ नित्यमिति ॥ नित्यत्वमात्रम् । गगने, अतः समवेतमिति । तावत्युक्ते विशेषे गतम् । अतः नैकेति ॥ तथाप्यनेकेषामनेकसमवेतत्त्वमस्त्येवेत्यत उक्तम् ॥ एकेति ॥ नित्य इति ॥ सम्बन्धमात्रं संयोगे अतः नित्येति ॥ नित्यत्वमात्रं गगने अतः सम्बन्धेति ॥ विशेषलक्षणमाह ॥ नित्येति ॥ नित्यद्रव्यवृत्तय इत्युक्ते परमाणुत्वादौ गतम् ॥ अतोऽन्त्या इति ॥ अन्तव्यावृत्तिहेतव इत्यर्थः ॥ कारणत्रितयजन्यमिति ॥ समवायि, असमवायि, निमित्तकारणजन्यमित्यर्थः । समवायिकारणलक्षणम् आह ॥ यत्समवेतमिति ॥ असमवायि-कारणलक्षणमाह ॥ समवायीति ॥ तन्तुत्वादिव्यावृत्त्यर्थम् अधृतेति ॥ निमित्तकारणव्यावृत्त्यर्थम् आद्यम् । प्रत्यासन्नमित्यस्य प्रत्यासत्तियुक्तमित्यर्थः । तत्र प्रत्यासत्तिं विभागेन दर्शयति ॥ प्रत्यासत्तिरिति ॥ कार्यद्रव्यस्येति ॥ घटादिरूपस्येत्यर्थः ॥ कार्येति ॥ कर्म चेत्यत्र चशब्देन पटरूपाश्रयगतगुणग्रहणम् ॥ अवयवसंयोगस् तन्तुद्वयसंयोगः ॥ कार्यैकार्थेति ॥ कार्येण पटेन सह एकस्मिन् अर्थे तन्तौ अवयवसंयोगस्य या प्रत्यासत्तिस् तया इत्यर्थः । आदिपदेन कार्यैकार्थप्रत्यासत्तिग्रहणम् । एवं च पटगतं कर्म, पटगतगुणाश्चादिपदोपात्तकार्यैकार्थप्रत्यासत्या समवायिकारणं पटगतसंयोगादीन् प्रतीत्यन्वयः । एवं च पटादिरूपकार्यगतगुणानां रूपरस-गन्धस्पर्शपरिमाणैकत्वैकउक्तोत्तरसंयोगविभागगुरुत्वद्रवत्वस्नेहसंस्कारवेगानां कारणीभूततन्त्वादि- गतरूपादयः कारणैकार्थप्रत्यासत्त्या स्वगतरूपादीन् प्रति कारणेन पटेन सह एकस्मिन्नर्थे तन्तौ या प्रत्यासत्तिस् तया समवायिकारणम् । कार्यभूतपटाद्याश्रयगतं, कर्म, तद्गतगुणाश्च, पटादिगत-संयोगविभागवेगादीन् प्रति कार्यैकार्थप्रत्यासत्त्या पटादिगतकर्मणः, कार्येण पटादिगतसंयोगादिना सह एकस्मिन्नर्थे पटे या प्रत्यासत्तिस् तया समवायिकारणमित्यर्थः । पार्थिवपरमाणुगतानां रूपरसगन्धस्पर्शानां पार्थिवतेजःपरमाणुगतद्रव्यत्वस्य तद्गत एव तेजःसंयोगः सर्वत्रानेकत्वानेक-पृथक्त्वयोराश्रयगतैकत्वैकपृथक्त्वानि परत्वापरत्वयोगाश्रयगतौ द्दिक्कालसंयोगौ आत्मविशेष-गुणानाम् आत्मगतमनःसंयोगः शब्दस्याकाशगतः संयोगविभागशब्दश्च कार्यैकार्थप्रत्यासत्त्या समवायिकारणमित्यर्थः ॥ कार्यगतकर्मणश्चेति ॥ पटादिकार्यगतकर्मसमवायिकारणपटादिगत-गुणकर्मणीत्यर्थः । अत्र कार्यैकार्थप्रत्यासत्त्येत्येव मूलपाठः । मूलकोशेषु तथा दर्शनात्, क्वचित् कारणैकार्थप्रत्यासत्त्यादिनेत्यपि पाठः । तत्राप्यतद्गुणसंविज्ञानबहुव्रीहिणा कार्यैकार्थप्रत्यासत्तिरेव विवक्षिता । तथा च पटादिगतकर्मणः पटादिरूपाश्रयगतगुरुत्वद्रवत्ववेगसंयोगाः कर्मकार्येण कर्मणा सहैकस्मिन्नर्थे पटादौ या प्रत्यासत्तिस् तया समवायिकारणमित्यर्थः । नन्वेवं सुधाविरोधः । तथा आश्रयगतगुरुत्वद्रवत्ववेगसंयोगानामेव कर्मासमवायिकारणत्वोक्तेरिति चेन्न, द्वितीयादि-पतनस्यन्दनादिकं प्रति तृतीयादिपतनस्यंदनादिकं प्रति असमवायिकारणमिति वैशेषिकैकदेश-मतावलम्बनेन कर्मग्रहणस्य टीकायाम् उक्तत्वात् । सुधायां तु तृतीयादिपतनस्यन्दनादिकं प्रत्यपि वेगस्यैवासमवायिकारणत्वान्न द्वितीयादिपतनादेरसमवायिकारणत्वमिति वैशेषिकमुख्यमताव-लम्बनेन प्रवृत्या विरोधाभावादिति भावः ॥ परमाणुद्व्यणुकगतमिति ॥ उपलक्षणमेतत् । तूलपिण्डाद्यवयवगतं परिमाणं तूलपिण्डादिगतपरिमाणासमवायिकारणं न भवति, किन्तु अवयवगतं प्रचय एवेति द्रष्टव्यम्, अत एव तत्कारणप्रपञ्चसङ्ग्रहार्थं सङ्ख्यादिनैवेत्यादिपदप्रयोगः । विशिष्टसद्गुणायोग्य इति कर्तृत्वार्थं ज्ञानेच्छाप्रयत्नानाम् आवश्यकत्वे तदितरगुणेषु नित्ययथार्थ-ज्ञानस्येश्वरस्य मोहासम्भवे तत्प््राभावरागद्वेषायोगेन तज्जन्यधर्माधर्मयोरभावेन तन्निमित्तसुखदुःखयोर् नित्यज्ञानत्वादेव स्मरणकल्पकाभावेन भावनाद्ययोगात् सङ्ख्यादिगुणपञ्चकव्यतिरिक्तषड्गुणायोग्य इत्यर्थः । यथा महत्वाद्दीर्घत्वाच्चेति कारणबहुत्वात् कारणमहत्वात् प्रचयविशेषाच्च महदिति काणादसूत्रानुसारेण सूत्रे महदिति निर्देशः । तत्र तस्यैवेति लक्षणस्य प्रायिकत्वात् पञ्चम्यन्ता-द्व्यतिरिक्तेत्यभिप्रेत्य भाष्ये महत्वादित्याद्युक्तमिति भावः । यद्वा महद्दीर्घवदिति षष्ठ्यर्थे वतिः । विभक्तिविपरिणामेन वा सकाशादित्यध्याहारेण वा महत्वामहत्वादित्युक्तमिति भाव इति सूचितमिति शेषः । अन्यथा महत्वदीर्घत्वयोरपि साधकत्वं न स्यादिति वाशब्देन सूचितमित्यर्थः ॥ न तावदिति ॥ नापि बाधकभावाभ्यामिति तावच्छब्दः । अत एव पारिमाण्डिल्या-देरारम्भकत्व इति बाधकमाशङ्क्य परिह्रियते ॥ तद्भावादिति ॥ असमवायिकारणलक्षण-सद्भावादित्यर्थः ॥ प्रत्यासत्तिरेवेति । तत् सामर्थ्यावधारणम् इति लक्षणाभाव एवेत्यर्थः ॥ साम्यादिति ॥ अवर्जनीयप्रत्यासत्तित्त्वसाम्यादित्यर्थः ॥ नास्ति(नो)हानिरिति ॥ त्र्यणुकादि-सर्वकार्याणामापेक्षितकारणत्वस्य सत्त्वेन तच्छब्दवाच्यत्वस्येष्टत्वाद् इति भावः ॥ ननु परमाणु-द्व्यणुकगतपरिमाणमेवाणु न त्र्यणुकादिगतमतः कथम् इष्टापत्तिरित्यत आह ॥ सङ्केतमात्रमिति ॥ अयं सङ्केतो प्रामाणिकः । द्व्यणुक अणुकेत्यादिकाणत्वस्य त्र्यणुकवद् द्व्यणुकेत्यापेक्षिक-महत्त्वस्य सम्भवादिति भावः । अवर्जनीया प्रत्यासत्तिर्नेत्यत्र हेत्वन्तरमाह ॥ द्व्यणुकादीति ॥ तथा चागत्या पारिमाण्डिल्यादेरेव कारणत्वमिति न सामर्थ्यावधारणाभाव इति भावः । ननु सङ्ख्यादिनैव तज्जन्येत्युक्तत्वात् कथं कारणान्तरा भाव इत्यत आह ॥ सङ्ख्यादेर्महत्वेति ॥ चतुरणुकारम्भकानेकत्र्यणुकगतबहुत्वसङ्ख्याप्रचययोश्चतुरणुकगतमहत्वारम्भकत्वप्रसङ्गादित्यर्थः । अवयवसंयोगो समवायिकारणमुच्यते तत्र तस्य निमित्तकारणत्वमेव किं न स्यादिति आह संयोगस्येति ॥ भिन्नतयेति ॥ युतसिद्धतयेत्यर्थः । संयोगस्य कारणत्वमभ्युपगम्य निमित्त-कारणत्वमेव किं न स्यादित्यापादितम् । इदानीं तु संयोगस्य कारणत्वमेव न सम्भवतीत्याह ॥ अभ्युपगम्येति ॥

वाक्यार्थविवरणं

गुणाश्रय इति ॥ गुणाश्रयत्वं च गुणात्यन्ताभावानधिकरणत्वं विवक्षितम् । अतो न प्रथमक्षणावच्छिन्नघटेऽव्याप्तिरिति ध्येयम् । कर्मण्यतिव्याप्तिपरिहाराय कर्मान्यत्वे सतीत्युक्तम् । सामान्येऽतिव्याप्तिवारणाय जात्याश्रयपदम् । द्रव्येऽतिव्याप्तिवारणाय मात्रपदम् । यद्यपि गुणस्य गुणत्वसमवायद्रव्यत्वाद्यभावाद्याश्रयत्वेन जातिमात्राश्रयत्वाभावेनासम्भव एव । तथापि समवाये न जातिमात्राश्रयत्वं विशेषणतासम्बन्धेनैवेति न दोष इति ध्येयम् ॥ संयोगविभागयोरिति ॥

ननु कार्यगतसंयोगं विभागं वा प्रति कारणगतसंयोगस्य विभागस्य वा असमवायि-कारणत्वमस्तीति संयोगासमवायिकारणत्वं विभागासमवायिकारणत्वं च संयोगे विभागे चातिव्याप्तमिति चेन्न । समुच्चितयोः संयोगविभागयोरसमवायिकारणत्वस्य विवक्षितत्वात् । एकस्मिन् संयोगे विभागे वा समुच्चितौ प्रति असमवायिकारणत्वाभावादिति ध्येयम् ॥ नित्य-मिति ॥ समवेतं सामान्यमित्युक्ते एकस्मिन् विशेषेऽतिव्याप्तिः ॥ तदर्थमनेकेति ॥ अनेक-समवेतत्वं विशेषेष्वतिव्याप्तमत एकमिति पदम् । तावत्युक्ते संयोगेऽतिव्याप्तिः । अतो नित्यपदम् । नित्यमेकमित्युक्ते गगने । अतोऽनेकसमवेतपदम् । अत्र यद्यपि अनेकानुगत-मात्रोक्त्यैव लक्षणसामंजस्ये समवेतपदं व्यर्थम् । अवृत्तित्वेन गगने अतिव्याप्तेरनुगतत्वोक्त्यैव परिहारात् । तथापि समवायेऽतिव्याप्तिपरिहारार्थं तदिति ध्येयम् । तथाप्येकपदं व्यर्थम् । न च विशेषेष्वतिव्याप्तिपरिहाराय तदिति वाच्यम् । तेष्वनेकसमवेतत्वाभावात् । अनेकसमवेतत्वं च स्वाश्रयप्रतियोगिकान्योन्याभाववत्समवेतत्वम् । न ह्येकस्मिन् विशेषे स्वाश्रयप्रतियोगिकान्योन्या-भाववति द्रव्यान्तरे समवेतत्वमस्तीति चेत् । अत एवैकत्वं न लक्षणशरीरान्तर्गतं किन्तु सामान्यं सर्वत्रानुगतव्यवहारहेतुत्वादेकमेव न विशेषवत् प्रतिव्यक्तिभिन्नमिति स्वरूपकथनार्थमेवेति संप्रदायविदः । अनयैवानुपपत्त्या केचिद् भावत्वे सति विशेषसमवायेतरन्निस्सामान्यं सामान्य-मिति कथयन्ति ॥ अनेकविधमिति ॥ परम् अपरं परापरं चेति त्रिविधमित्यर्थः ॥ नित्य इति ॥ संयोगेऽतिव्याप्तिवारणाय नित्यपदम् । गगने तद्वारणाय सम्बन्धपदमिति ध्येयम् । ननु नित्ये कालाकाशसंयोगेऽतिव्याप्तिः । संयोगस्यान्यतरकर्मादिकारणजन्यत्वनियमेन तत्र तदसम्भवेन अजन्यसंयोगानङ्गीकारादिति भावः ॥ अन्त्या इति ॥ पार्थिवपरमाण्वोः समगुण-क्रियाजातिमतोर्योगीश्वराणामस्मादयं भिन्न इति व्यावृत्तिबुद्धिर्यस्माज्जायते स विशेषः । तथा च अन्ते भवा अन्त्याः । अन्ते गुणादीनां व्यावर्तकाणामभावे भावान्तरव्यावर्तकतया विद्यमाना इत्यर्थः । एतावत एव लक्षणत्वोपपत्तौ नित्यद्रव्यवृत्तय इति स्वरूपसङ्कीर्तनमिति ध्येयम् ॥ यत्समवेतमिति ॥ स्वसमवेतकार्यजनकत्वस्य विवक्षितत्वान् न कश्चित् क्षुद्रोपद्रवः ॥ अवधृतेति ॥ सामर्थ्यावधारणमनन्यथासिद्धपूर्वभावित्वेन द्रष्टव्यम् । निमित्तकारणेऽतिव्याप्तिवारणाय समवायि-कारणप्रत्यासन्नेति ॥ तन्तुरूपेऽतिव्याप्तिपरिहारायावधृतेत्युक्तम् । तस्य च पटरूपजननोपक्षीण-त्वेनानन्यथासिद्धत्वाख्याऽवधृतसामर्थ्यवत्त्वाभावान्नातिव्याप्तिः ।

ननु द्रव्यासमवायिकारणे संयोगे समवायिकारणप्रत्यासन्नत्वसत्त्वेऽपि गुणासमवायिकारणे कारणगतगुणादौ समवायिकारणप्रत्त्यासन्नत्वाभावादव्याप्तिः । यदि च समवायिकारणं समवायिकारणसमवेतत्वं विवक्षितं, तदा सयोगेऽव्याप्तिरित्यत आह ॥ प्रत्यासत्तिश्चेति ॥ कार्येण सहैकार्थे प्रत्यासत्तिः । तथा च समवायिकारणतत्समवायिकारणयोरन्यतरसमवेतत्वमेव समवायिकारणप्रत्यासन्नत्वं विवक्षितम् । तच्च गुणासमवायिकारणे द्रव्याऽसमवायिकारणे चास्तीति नाव्याप्तिदोष इति द्रष्टव्यम् । कारणैकार्थप्रत्यासत्त्यादिनेत्यत्रादिपदेन कार्यैकार्थ-प्रत्यासत्तिग्रहणम् । तथा च कार्यगतानां रूपरसगन्धादिगुणानां कारणगतरूपादयः कारणैकार्थ-प्रत्यासत्त्याऽसमवायिकारणम् । तथा कार्यगतगुणानां संयोगविभागवेगानां कारणगतं कर्म कार्यैकार्थप्रत्यासत्त्याऽसमवायिकारणम् । यथा मल्लयोर्मेषयोर्वा संयोगो विभागश्च भवति । तत्र मल्लादिगतं कर्मैव कार्यैकार्थप्रत्यासत्त्याऽसमवायिकारणम् । कार्येण संयोगादिना सहैकार्थे मल्लादौ कर्मणः प्रत्त्यासन्नत्वात् । शरगतवेगसंस्कारस्य शरगतं कर्मैव कारणमित्यर्थः ॥ कर्मणश्च कारणगतगुणकर्मणी इति ॥ कर्मसमवायिकारणगतगुणकर्मणी इत्यर्थः । यथा फलगताधः पतनस्य पतनसमवायिकारणफलगतगुरुत्वरूपो गुणः कार्यैकार्थप्रत्यासत्त्याऽसमवायिकारणम् । कारणेन पतनेन सहैकार्थे फले प्रत्यासन्नत्वात् । तृतीयादिपतनरूपकर्मणस् तत्समवायिकारण-फलगतं द्वितीयादिपतनरूपं कर्म कार्यैकार्थप्रत्यासत्त्याऽसमवायिकारणम् । कार्येण तृतीयपतनेन सहैकार्थे फले द्वितीयपतनस्य प्रत्यासन्नत्वादित्यर्थः ॥ परमाणुद्व्यणुकगतमिति ॥ अणुत्वं हृस्वत्वं चेत्यर्थः । द्व्यणुकत्र्यणुकगतपरिमाणेति ॥ द्व्यणुके हृस्वत्वपरिमाणं त्र्यणुके तु महत्त्वं दीर्घत्वं चेति परिमाणद्वयमस्तीति ज्ञेयम् । एवं तर्हि द्व्यणुकत्र्यणुकगतपरिमाणानां किम-समवायिकारणमिति पृच्छति ॥ किं त्विति ॥ ‘वैरूप्यं तत्र कारणम्’ इत्यनुव्याख्यानं मनसि निधायोत्तरमाह ॥ सङ्ख्यादिनैवेति ॥ तज्जन्म द्व्यणुकनिष्ठहृस्वपरिमाणस्य जन्मसङ्ख्यया जन्म ईश्वरापेक्षाबुद्ध्युत्पन्ना या परमाण्वोर्द्वित्वसङ्ख्या तया । तथा तज्जन्मत्र्यणुकनिष्ठमहत्त्वदीर्घत्व-रूपरिमाणजन्म । ईश्वरापेक्षाबुध्युत्पन्ना या द्व्यणुकेषु त्रित्वसङ्ख्या तयेत्यर्थः । आदिपदेन तूलपिण्डपरिमाणजन्म प्रशिथिलावयवसंयोगरूपप्रचयेन भवतीति ध्येयम् ॥

तदन्यत् ॥ समवाय्यसमवायिकारणान्यदित्यर्थः ॥ आत्मविशेष इति ॥ आत्मनः क्षेत्रज्ञ-परमात्मभेदेन द्विविधत्वादीश्वरस्यात्मविशेषत्वं द्रष्टव्यम् ॥ शिष्टेति ॥ आत्मनिष्ठबुद्ध्यादिनव-विशेषगुणानां मध्येऽङ्गीकृतज्ञानेच्छाप्रयत्नैस्त्रिभिरवशिष्टाः सुखदुःखद्वेषधर्माधर्मभावनासंस्काररूपा ये षड्गुणास्तदयोग्यस्तद्वत्त्वायोग्य इत्यर्थः ॥ यथा महत्त्वादीत्यादि ॥ त्र्यणुकद्य्यणुकपरिमाणं स्वाश्रयसमवायिकारणपरिमाणजं कार्यपरिमाणत्वात् । चतुरणुकादिपरिमाणवत् । द्व्यणुकपरमाणु-परिमाणं परिमाणारम्भकं द्रव्यसमवायिकारणपरिमाणत्वात् । त्र्यणुकपरिमाणवत् । त्र्यणुक-

द्व्यणुके वा परिमाणारभ्यपरिमाणवती कार्यत्वात् । चतुरणुकादिवत् । द्व्यणुकपरमाणू परिमाणाऽसमवायिकारणपरिमाणवन्तौ द्रव्यसमवायिकारणत्वात् । त्र्यणुकवत् । इत्यनुमानान्यत्र सूचितानि द्रष्टव्यानि । न च प्रचयजन्यपरिमाणे व्यभिचारः । तस्यापि पक्षतुल्यत्वात् । प्रचय-कारणताया अप्यनिवारणेन बाधाभावात् । परिणामप्रचययोरुभयोरपि तत्र कारणतया क्लृप्त-शक्तित्वेन गौरवाभावादित्यादिसुधोक्तरीत्या द्रष्टव्यम् ॥ असमवायिकारणत्ववतीति ॥ चतुरणुकादिपरिमाण इति शेषः ॥ परमाण्वादिगतमिति ॥ द्व्यणुकादिपरिमाणे समवायि-कारणमित्यर्थः । उक्तानुमानेष्वप्रयोजकतामाशङ्कते ॥ त्र्यणुकादिपरिमाणस्येति ॥ आरम्भ-कत्वेऽपीति ॥ चतुरणुकादिपरिमाणारम्भकत्वेऽपीत्यर्थः ॥ अस्य ॥ परमाण्वादिपरिमाणस्य ॥ तत् ॥ द्व्यणुकादिपरिमाणारम्भकत्वम् ॥ कारणेति ॥ त्र्यणुकादिगतमहत्त्वादेरेव चतुरणुकादि-परिमाणारम्भकत्वं द्व्यणुकादिहृस्वत्वादेस्तु नेत्यत्र कारणविशेषाभावादित्यर्थः । कारणविशेष-मेवाशङ्कते ॥ न तावदिति ॥ अवर्जनीयेति ॥ हृस्वत्वस्य प्रत्यासत्तिरवर्जनीयेत्यर्थः । तथा चावश्यकल्प्यमाननियतपूर्ववृत्तिसङ्ख्ययैव त्र्यणुकादिपरिमाणाख्यकार्योत्पत्तौ तत्सहभूतत्वेन रास-भवत् हृस्वादेरन्यथायुतसिद्धत्वेनावधृतसामर्थ्याभावेनासमवायिकारणलक्षणाभाव एव विशेष इत्यर्थः । ‘सदृशस्य हि कार्यस्य नैव योगः कथञ्चन ।’ अप्रत्यक्षत्वमेव स्याद्यतः कार्येष्वणु-त्वतः’ इति अनुव्याख्यानानुसारेणानुमानेषु तर्कपराहतिमाशङ्कते ॥ पारिमाण्डल्यादेरिति ॥ तदत्यन्तसदृशेति ॥ परमाणुपरिमाणात्यन्तसदृशेत्यर्थः । ‘अणुत्वं च महत्त्वं च यतो वस्तुव्यपेक्षया’ इत्यनुव्याख्यानं मनसि कृत्वाऽऽह ॥ न नो हानिरिति ॥ अत्यन्तसदृश-मिति ॥ चतुरणुकादिगतमहत्त्वपरिमाणेनेति शेषः । कारणपरिमाणापेक्षया कार्ये परिमाणाति-शयस्यानुभवसिद्धत्वादिति भावः । अवर्जनीयप्रत्यासत्तिर्नेति दूषणान्तरमाह ॥ द्व्यणुकादीति ॥ तथाचानन्यगत्या पारिमाण्डिल्यादेरेव कारणत्वं वाच्यमित्यर्थः । न तु कारणान्तराभावोऽसिद्धः । सङ्ख्याया एव कारणान्तररूपायाः सत्त्वादित्याह ॥ सङ्ख्यादेरिति ॥ यथा परमाण्वादिगत-सङ्ख्ययैवोत्पत्तिरित्युच्यते तथाऽनयैव रीत्या त्र्यणुकादिगतबहुत्वसङ्ख्ययैव चतुरणुकादिमहत्त्वा-रम्भोपपत्तौ सर्वत्रैकरूप्यलाभेन परिमाणात् तदुत्पत्त्यङ्गीकारो युक्त इत्यर्थः ॥ द्रव्यनिमित्तत्व-मेवेति ॥ नासमवायिकारणत्वमित्येवार्थः ॥ भिन्नतयेति ॥ द्रव्यापेक्षयेति शेषः । अयुतसिद्ध-तयेत्यर्थः । असमवायिकारणत्वमिति शेषः । घटापेक्षया भिन्नतया प्रतीयमानस्य दण्डादेर्घटं प्रति निमित्तत्वं दृष्टम् । प्रकृते च तदभावादसमवायिकारणत्वमिति भावः । अयुतसिद्धतया प्रतीत्य-भावस्य नासमवायिकारणतासाधकत्वं व्यभिचारादित्याह ॥ भिन्नतयेति ॥ आत्मनोऽतीन्द्रिय-त्वेन तद्गतद्वित्वस्यापि तथात्वाद् द्वित्वरूपकार्यापेक्षयाऽपेक्षाबुद्धेर्भिन्नतया बहिरिन्द्रियप्रतीत्य-भावेऽपि निमित्तत्वस्यैव दर्शनाद् व्यभिचार इत्यर्थः ॥ अभ्युपगम्येति ॥ संयोगस्य पटं प्रति कारणत्वमभ्युपगम्येदं निमित्तत्वमुक्तम् । वस्तुतस्तु कारणत्वमेव नास्तीति भावः ॥ कारणम् ॥ असमवायिकारणम् ॥ विवक्षित इति ॥ व्यतिषङ्गविशेषविशिष्ट इत्यर्थः ॥ कस्येति ॥ व्यतिषङ्गविशेषविशिष्टस् तन्तुसंयोगः कस्यासमवायिकारणमिति प्रश्नस्योत्तरं वाच्यमित्यर्थः ॥ कस्तदेति ॥ तदा व्यतिषङ्गविशेषानन्तरम् । व्यतिषङ्गविशेषविशिष्टतन्तूनामेव पटत्वेन तयो-रत्यन्ताभेदान्न कार्यकारणभाव इति । न तस्यासमवायिकारणत्वमिति भावः ।

वाक्यार्थमञ्जरी

परमाण्वारम्भेति ॥ त्र्यणुकषष्ठभागस्य द्व्यणुकादिक्रमेण कार्यारम्भकत्वमेव न तु तदात्मना परिणामवादेत्यर्थः । ईश्वरस्याष्टगुणमात्रत्वं वक्तुम् उपोद्धातमाह ॥ षट्खल्वित्यादिना ॥ गुणा-श्रयेति ॥ गुणात्यन्ताभावानधिकरणमित्यर्थः । तेन प्रथमक्षणावच्छिन्नघटे नाव्याप्तिः । अन्यत्कार्यरूपम् ॥ कर्मान्यत्वेति ॥ अत्र कर्मसामान्यद्रव्यव्यावृत्तये क्रमेण विशेषणानि । ननु गुणे गुणत्वसमवायस्य द्रव्यत्वाद्यभावस्यापि सत्वेनासम्भवीदं लक्षणमिति चेन्न । संयोग-समवायान्यतरसम्बन्धेन यद्यत्रास्ति तत्प््रात्येव स आश्रय इत्यङ्गीकारात् । गुणस्याभावसमवायौ प्रति विशेषणविशेष्यभावेनाश्रयत्वेऽपि संयोगसमवायान्यतरसम्बन्धेनानाश्रयत्वादिति भावः ॥ संयोगविभागयोरिति ॥ न च संयोगविभागयोरतिव्याप्तिः । उभयासमवायिकारणत्वस्य विवक्षितत्वादिति भावः ॥ नित्यमिति ॥ अत्रसंयोगविशेषगगनसमवायव्यावृत्तये क्रमेण विशेषणानि । नन्वत्रानेकसमवेतत्वं नामानेकत्वसङ्ख्यावत्समवेतत्वं वा स्वाश्रयप्रतियोगिका-न्योन्याभाववत्समवेतत्वं वा । नाद्यः रूपत्वे अव्याप्तेः । तदाश्रये रूपे सङ्ख्याभावात् । न द्वितीय एकपदवैय्यर्थ्यात् । विशेषाणां प्रतिव्यक्तिनियतत्वेनैकैकस्य विशेषस्य स्वाश्रय-प्रतियोगिकान्योन्याभाववत्समवेतत्वाभावेन तत्राप्यव्याप्त्यभावात् । न च विशेषसमुदायेऽति-व्याप्तिः । समुदायिभिन्नसमुदायाभावात् । भावे वा तस्य समवेतत्वाभावेन तेनैव तद्व्यावृत्तेरिति चेदुच्यते नात्रैकत्वं लक्षणशरीरान्तर्गतम् । किन्तु सामान्यं सर्वत्रानुगतव्यवहारहेतुत्वादेकमेव न तु विशेषवत्प््रातिव्यक्तिभिन्नमिति स्वरूपकथनार्थमिति सम्प््रादायविदः । नन्वथापि कालाकाश-संयोगेऽतिव्याप्तिरिति चेन्न अनङ्गीकारात् । तयोरमूर्तत्वेन परस्परसंयोगाभावेनामूर्तत्वभङ्गा-भावाच्चेत्यर्थः ॥ अनेकविधमिति ॥ सत्ता द्रव्यत्वादिरूपेण परापरोभयविधरूपेत्यर्थः ॥ नित्य इति ॥ संयोगाकाशव्यावृत्तये क्रमेण विशेषणे ॥ अन्त्या इति ॥ अन्तेभवा इत्यर्थः । गुणादीनां व्यावर्तकाणामभावे स्वयं व्यावर्तकतया विद्यमाना इति यावत् । आद्यपरमाणुप्रभृतिषु समानगुणकर्मजातिमत्सु योगिनामयमस्माद्भिन्न इति व्यावृत्तिबुद्धिजनकस्यान्यस्याभावात्तदर्थं तन्मात्रवृत्तितया व्यावृत्तिबुद्धिजनका विशेषा अङ्गीक्रियन्ते । अत्रांत्या इत्येव लक्षणम् अन्यत्स्वरूपकथनमिति बोध्यम् । तत्र पदार्थेषु यद्यत्र स्वसमवेतकार्यजनकत्वमिति फलितोऽर्थः । द्रव्यमेव न गुणादिकं समवायिकारणम् ॥ आदिसृष्टाविति ॥ महेश्वरसिसृक्षया परमाणुषु क्रियोत्पद्यते । ततो द्वयोर्द्वयोरन्योन्यसंयोगेन द्व्यणुकोत्पत्तिस्त्रिभिर्द्व्यणुकैस्त्र्यणुकमित्यादिक्रमेण महापृथिव्याद्युत्पत्तिरित्यर्थः । प्रत्यासन्नं प्रत्यासत्तियुक्तम् ॥ अवधृतसामर्थ्यमिति ॥ अवधृतं सम्यङ्निश्चितं सामर्थ्यं कार्यजनने यस्य तत्तथोक्तम् । तदवधारणे हेतुश्चानन्यथा सिद्धत्वम् । अत्र तन्तुतन्तुत्वव्यावृत्तये क्रमेण विशेषणे ॥ कार्यैकार्थेति ॥ कार्येण सहैकत्र समवायिकारणेन सहैकत्र समवायश्चेत्यर्थः ॥ कार्यद्रव्यस्येति ॥ यथा तन्तुसंयोगः पटलक्षणकार्येण सहैकत्र तंतुषु समवेतः पटसमवायिकारणम् ॥ कार्यगतेति ॥ यथा तन्तुरूपं कार्येण पटेन सहैकत्र तंतुषु समवेतं पटरूपासमवायिकारणम् ॥ कर्म चेति ॥ यथा तंतुक्रियापटलक्षणकार्येण सहैकत्र तंतुषु समवेत-पटगतविभागकारणम् । अत्र चशब्देनाश्रयगतगुणानामादिशब्देन कार्यैकार्थप्रत्यासत्तेश्च ग्रहणम् । यथापार्थिवपरमाणुगतं रूपादिकं प्रति पार्थिवपरमाणुतेजःसंयोगस्वरूपादिलक्षणकार्येण सह परमाणुलक्षणैकार्थे समवेतत्वेन कारणत्वम् ॥ कारणगतगुणकर्मणीति ॥ कर्मसमवायि-कारणगतगुणकर्मणीत्यर्थः । यथा फलगतं गुरुत्वं तद्गतपतनं प्रति तल्लक्षणकार्येण सह फल-लक्षणैकार्थसमवेतमसमवायिकारणम् । यथा वा फलगतं द्वितीयपतनं तद्गततृतीयपतनासमवायि-कारणम् । इदं चैकदेशिमतेन । वस्तुतस्तु तृतीयादिपतनं प्रति वेगस्यैवासमवायिकारणत्वम् । अत एव सुधायां कर्मण आश्रयगता गुरुत्वद्रवत्वसंयोगा असमवायिकारणमित्येवोक्तम् ॥ सङ्ख्यादिनैवेति ॥ परमाणुगतद्वित्वेन द्व्यणुकपरिमाणं तद्गतत्रित्वेन त्र्यणुकपरिमाणम् आदि-पदेन वर्तुलपिण्डपरिमाणं कारणप्रचयसङ्ग्रहः । तत्राप्यवयवपरिमाणस्य हेतुत्वमिति भावः ॥ एत-दन्यदिति ॥ समवाय्वसमवायिभिन्नमित्यर्थः ॥ शिष्टषड्गुणायोग्य इति ॥ नित्ययथार्थ-ज्ञानस्येश्वरस्य मोहासम्भवे तत्प््राभवरागद्वेषयोरयोगेन तज्जन्यधर्माधर्मयोरभावात्तन्निमित्तसुख-दुःखयोर्नित्यज्ञानत्वादेव स्मरणलक्षणकल्पकाभावेन भावनाख्यसंस्कारस्य चायोगाच्छिष्टषड्गुणा-योग्य इत्यर्थः । यथा महत्वाद्दीर्घत्वाच्च परिमाणाच्च चतुरणकादिकार्यगतं परिमाणं जायते तथा च ह्रस्वत्वात्पारिमाण्डिल्याच्च परिमाणात्तत्कार्ये परिमाणमुत्पद्येत । अन्यथा महत्व-दीर्घत्वाभ्यामपि नोत्पद्येताविशेषादित्यर्थः ॥ न तावदिति ॥ नापि बाधकभावाभावाभ्यामिति तावच्छब्दः ॥ प्रत्यासत्तिरेवेति ॥ न तु सामर्थ्यावधारणमिति लक्षणाभाव एवेत्यर्थः । तत्र यं पुरस्कृत्य यस्य यं प्रति पूर्वभावोऽवगम्यते तत्तेनान्यथासिद्धमित्युक्तान्यथासिद्धिसत्वादिति भावः ॥ महत्वेऽपीति ॥ उक्तान्यथासिद्धेस्तत्रापि वक्तुं शक्यत्वादिति भावः । बाधकं शङ्कते ॥ पारिमाण्डल्यादेरिति ॥ नास्ति नो हानिरिति ॥ त्र्यणुकादिसर्वकार्याणामापेक्षिकाणुत्वसत्वेन तत्राणुशब्दवाच्यत्वस्येष्टत्वादिति भावः । ननु परमाणुगतपरिमाणमेव अणुपरिमाणं न त्र्यणुकादिसर्वकार्यगतमतः कथमिष्टापत्तिरित्यत आह ॥ सङ्केतमात्रमिति ॥ अवर्जनीय-प्रत्यासत्तिर्नेत्यत्र हेत्वन्तरमाह ॥ द्व्यणुकादीति ॥ तथाचानन्यगत्या पारिमाण्डल्यादेरेव कारणत्वमिति न सामर्थ्यावधारणाभाव इति भावः । ननु सङ्ख्यादिनैव तज्जन्मेत्युक्तत्वात्कथं कारणान्तराभाव इत्यत आह ॥ सङ्ख्यादेरिति ॥ त्र्यणुकादिगतबहुत्वसङ्ख्यादेश्चतुरणुकादि-महत्वारम्भकत्वप्रसङ्गादित्यर्थः । तथा च तत्रापि परिमाणस्यारम्भकत्वं न स्यादिति भावः । यद्वा द्व्यणुकगतसङ्ख्यादेश्चतुरणुकगतमहत्वारम्भकत्ववत्परमाणुगतसङ्ख्याया अपि द्व्यणुके महत्वारम्भकत्वप्रसङ्गादित्यर्थः ॥ भिन्नतयेति ॥ समवायिकारणाद्विविक्ततयेत्यर्थः । तथाविधस्यैव दण्डादेर्निमित्तकारणत्वादिति भावः ॥ भिन्नतयेति ॥ द्वित्वसमवायिकारणात्मनः सकाशादिति शेषः । अभ्युपगम्य संयोगस्य कारणत्वं विवक्षितव्यतिषङ्गविशेषविशिष्टः ॥ कस्तदेति ॥ व्यतिषङ्गविशेषविशिष्टतन्तूनामेव पटत्वादिति भावः ।


ॐ उभयथाऽपि न कर्मातस्तदभावः ॐ

सूत्रभाष्यम्

॥ ॐ उभयथाऽपि न कर्मातस्तदभावः ॐ ॥ १२ ॥

ईश्वरेच्छाया नित्यत्वे तद्भावेऽपि परमाणुकर्माभावान्नेदानीमपि तत् स्यात् । अनित्यत्वे तत्कारणाभावात् । अतः परमाणुचेष्टाभावात्तत्कार्याभावः । वैदिकेश्वरस्य तु वेदेनैव सर्वशक्ति-त्वोक्तेः सर्वमुपपद्यते । स्वत एव काले विशेषाङ्गीकृतेश्च ।

सत्तर्कदीपावली

परमाणुपरिमाणकारणकतया द्व्यणुकपरिमाणानुत्पत्तौ द्व्यणुकपरमाणुकरणकतया त्र्यणुक-परिमाणानिष्पत्तौ परमाणुकारकतया द्व्यणुकोत्पत्तिर् द्व्यणुककारणतया त्र्यणुकोत्पत्तिश्च न स्यात् । न हि द्रव्याणामेव कार्यकारणभावः न तु तत्परिणामानामित्येतद्दृष्टं क्वचित्र्यणुकादिष्वित्यभिप्रायः । उभयथाऽपि न कर्मेत्यादिना यत्परमते दूषणमुक्तं तत्स्वमतेऽपि किं न स्यादित्याशङ्क्य परिहरति ॥ वैदिकेश्वरस्येत्यादिना ॥ तत्तत्कालभेदेन या सृष्टिस्थित्यादिः सा परमते न स्यात् । अतीता-नागतादिकालभेदानङ्गीकारात् । औपाधिकभेदस्य सत्त्वासत्त्वाभ्यां निरूपयितुमशक्यत्वात् । किं कालेनानुपाधिना । कालानां परस्परं भेद इति प्रश्नस्य परिहर्तुम् अशक्यत्वाद्गुणादिषु शक्ति-विशेषानङ्गीकारात् । निर्विशेषेश्वरेच्छावशात् सृष्टिस्थित्यादिकार्यविशेषानुपपत्तिश्च स्यादित्यर्थः ।

तत्त्वप्रदीपिका

उभयथाऽपि न कर्मातस्तदभावः । इच्छादयोऽष्टौ गुणा हीश्वरस्य कल्प्यन्ते । सेच्छा किं नित्योतानित्या ? नित्या चेत्, तद्भावेऽपि प्रलयकाले परमाणूनां चलनकर्माभावान्नाभिमतकालेऽपि तत्स्यात् । येन संयुज्य कार्यमारभेरन् । अनित्या चेत्तत्सत्तायाः कारणं मृग्यम् । न च तत्कारणं युक्तम् । सर्वस्य तदिच्छाधीनत्वात् । अतः कारणाभावेनेच्छाभावात्तन्निमित्तपरमाणुचेष्टाभावा-त्तत्कार्याभावः । न चायं विकल्प ईश्वरवादिनां समस्समस्तानामिति मन्तव्यम् । यस्य वेदगम्य ईश्वरस् तत्पक्षे वेदेनैव तस्य सर्वशक्तित्वोक्तेस्तदा तदा तत्तदिच्छोपपद्यते । न चानित्यत्वापातः । तस्या एवैकस्यास्स्वरूपभूतायास्तत्तत्काले स्वाभाविकविशेषाङ्गीकृतेः । नौपाधिको भेदश्चाङ्गीकर्तव्य इत्यर्थः । औपाधिकभेदस्य सत्यत्व इच्छादेरनित्यत्वं बहुत्वं च । उपाधिभेदाद्भेदोपचारे सृष्टीच्छा संहारेच्छा घटज्ञानं पटज्ञानमित्यादि मिथ्या स्यात् । ततश्च सर्वज्ञत्वं सर्वस्य तदिच्छाधीनत्वं च नैव स्यात् । स्वतो विशेषाङ्गीकारे न कश्चिद्दोषः । वेदेनैव चायमिच्छादिः स्वाभाविकोऽङ्गीक्रियते– ‘सोऽभिध्या स जूतिः स प्रज्ञा’ ‘गुणक्रियादयो विष्णोः स्वरूपं नान्यदिष्यते’ ‘स्वाभाविकी ज्ञानबलक्रिया च’ इत्यादिना । इच्छाज्ञानवत्क्रियाया अपि नित्यत्वं विशेषादेवोपपद्यते । तैरपि नित्यप्रयत्नशब्देन नित्यक्रियाह्युच्यते ‘कृतिः प्रयत्न’ इति तल्लक्षणं ब्रुवाणैः । स्रष्टाऽस्मीतीच्छादिः कुतः संहर्ताऽस्मीतीच्छादिर्भवेद्विशेषादृते ।

ननु सृष्टीच्छा संहारकालेऽस्ति वा न वा । अस्ति चेत्कथं संहारः, नास्ति चेत्कथं नित्येच्छादिः स्यात् । उच्यते, नायं दोषः । तत्तत्कालवर्तित्वादिविशेषवदुपपत्तेः । पूर्वकालवर्त्येव हीश्वर उत्तरकालवर्ती । कर्तैव चाऽत्मा भोक्ता भवति । न चेश्वरत्वमपि निर्विशेषं दृश्यते । तत्त-दीशितव्यविषयत्वात् । स्वत एव काले भेदाङ्गीकृतेश्च सम्प््राति सृजामि पश्चात्संहरिष्यामीत्यादि विशेषेच्छादिकमुपपद्यते । औपाधिकभेदः कालेऽप्युक्तरीत्या निरस्तः । कश्चोपाधिः कालभेदकः । आदित्यगतिरपि नानवच्छिन्ना देशमात्रावच्छिन्ना वा कालावच्छेदिका । व्यभिचारादसम्भवाच्च । नापि कालभेदावच्छिन्ना । इतरेतराश्रयप्रसङ्गात् । अतः स्वत एव कालस्य भेदोऽङ्गीकर्तव्यः । अतश्च काले काले विशेषाङ्गीकृतेरिच्छादौ न कश्चिद्दोषः ।

तत्त्वप्रकाशिका

एवमसमवायिकारणं निरस्य निमित्तकारणनिरासाय सूत्रमुपन्यस्य व्याचष्टे ॥ उभयथेति ॥ सर्वकार्याणामीश्वरेच्छानिमित्तं चेत्तत्र प्रष्टव्यम् । किमीश्वरेच्छा नित्यानित्या वेति । नाद्यः । सत्यामपीश्वरेच्छायां प्रलये परमाणुचेष्टाभावे नान्यदापि तस्यास्तदभावापातात् । तथा च द्व्यणुकादि-कार्याभावः स्यात् । सति कारणे कार्यानुत्पादे तस्य कारणत्वायोगात् । न द्वितीयः । तथा सति तस्याः कार्यत्वेन निमित्तमपेक्षितं स्यात् । न च तदस्ति । तदुत्पत्तावीश्वरेच्छाया अनपेक्षायामन्यत्रापि तत्प््रासङ्गः । पूर्वेच्छानिमित्तमिति चेन्न । प्रमाणाभावात् । अतोऽनित्यत्वे तदभावेनेश्वरेच्छातः परमाणुकर्माभावान्न द्व्यणुकाद्युत्पत्तिः स्यात् । अतो द्वेधापि दुष्टत्वान्नेश्वरेच्छा निमित्तमिति भावः । अत्र परिमाणाभिधानसन्निधापितं द्व्यणुकादिकं तदिति परामृशति । ईश्वरेच्छाया नित्यत्वनिमित्तत्व-योरभ्युपगमात् । समं भवतामेतद्दूषणमित्यत आह ॥ वैदिकेति ॥ नायमस्मत्पक्षे दोषः । सत्या-मपीश्वरेच्छायां कार्यानुत्पादादेः सर्वस्येश्वराचिन्त्यशक्तित एवोपपत्तेः । सा च ‘परास्य शक्तिर्विविधैव श्रूयते’ इत्यादि श्रुतिसिद्धा । न च परपक्षे सममेतत् । तेनानुमानमात्रेणेश्वरमभ्युपगच्छता तस्यचिन्त्यशक्त्यनङ्गीकारादिति भावः । इतश्च नायं दोषोऽस्मत्पक्ष इत्याह ॥ स्वत एवेति ॥ नेश्वरेच्छामात्रं निमित्तं येन प्रलयेऽपि कार्योत्पत्तिप्रसङ्गः । किं तु कालोऽपि । न चास्ति प्रलये सोऽपीति वाच्यम् । कालविशेषस्य सृष्टिकालस्याभावात् । न चैतदन्यमतेऽपि समम् । अस्माभिः काले स्वाभाविकसृष्टिकालत्वादिविशेषाणामङ्गीकृतत्वेन तदुपपत्तेः । परेण पुनः सृष्ट्याद्युपाधित एव कालविशेषस्याङ्गीकृतत्वात् । सृष्टिमन्तरेण सृष्टिकालानुपपत्तिः । सृष्टिकालमन्तरेण तदनुपपत्ति-रित्यन्योन्याश्रयापातादिति भावः ।

ननु सत्यामपीश्वरेच्छायां सृष्टिकालाभावेन कार्योत्पादोपरमे सा मोघा स्यादिति चेत्तत्राप्याह ॥ स्वत एवेति ॥ नैष दोषः । तत्तत्काल एवेश्वरेच्छाया नित्याया अपि सृष्टिविषयत्वादि-विशेषाविर्भावाभ्युपगमात् । न चान्यमतेऽप्येतत्समानम् । अस्माभिस्तद्विशेषाणामनौपाधिकत्वाङ्गी-कारात् परेण सृष्ट्याद्युपाधिनिबन्धनत्वाभ्युपगमात् । तथा चोक्तदोष इति भावः । कालस्य निमित्तत्वमीश्वरेच्छानिमित्तत्वनिरासन्यायेन निरस्तमित्यभिप्रेत्य तद्दोषं वा स्वपक्षे परिहरति ॥ स्वत एवेति ॥ नायं दोषोऽस्मत्पक्षेऽस्माभिः काले सृष्टिकालत्वादिविशेषाङ्गीकारात् । तस्यैव निमित्तत्वात् । न चैवं परपक्षे । अस्माभिः कालविशेषाणां स्वाभाविकत्वोररीकारात् । परेण सृष्ट्याद्युपाधिनिबन्धनत्वाभ्युपगतेस्तत्र चोक्तं दूषणमिति भावः । अदृष्टस्य निमित्तत्वं वा पराकृत्य तं दोषं स्वपक्षे परिहरति ॥ स्वत एवेति ॥ नायमस्मत्पक्षे दोषो भवति । अस्माभिः सृष्ट्यादिकाले पूर्वं सत्ये वादृष्टे समुद्बोधविशेषाङ्गीकारात् । न चैतदन्यमते सम्भवति । अस्माभिः काले स्वाभाविकविशेषाङ्गीकारात् । परेण पुनः स्वतः काले सृष्टिकालत्वादिविशेषानङ्गीकारेण कदोद्बोध इत्यस्य परिहाराभावात् । उपाध्युक्तौ सोऽपि कदेत्यस्य परिहाराभावादिति भावः ।

गुर्वर्थदीपिका

सति कारण इत्यत्र कालादृष्टयोरपि सत्त्वात्सत्यां सामग््रयामित्यर्थः । प्रमाणाभावादित्यत्र नित्येच्छतया श्रुते परमात्मन्यनित्येच्छापरम्पराकल्पने प्रमाणाभावादित्यर्थः । अत्र परिमाणाभि-धानसन्निधापितमित्यत्र परिमाणपदेन पूर्वसूत्रोक्तह्रस्वत्वमहत्त्वादिकं गृह्यत इत्यर्थः । सर्वेश्वरा-चिन्त्यशक्तित एवोपपत्तेरित्यत्राचिन्त्यशक्तिपदेन नित्याया एवेच्छायास्सत एव सर्पस्य फणी-करणगारुडशक्तिवत् शक्तीकरणव्यक्तीकरणादिसामर्थ्यविशेष उच्यते ।

भावबोधः

द्व्यणुकादिगतरूपकार्यस्याप्रकृतत्वात् कथं तदभाव इति सौत्रस्तच्छब्दस्तत्कार्याभाव इति व्याख्यात इत्यत आह– परिमाणाभिधानसन्निधापितमिति ॥

भावदीपः

ईश्वरेच्छाया नित्यत्वादिना दूषणोक्तेः सङ्गत्यर्थमाह ॥ सर्वकार्याणामिति ॥ तद्भावेऽपीत्य-स्यार्थः ॥ सत्यामपीश्वरेच्छायामिति ॥ नेदानीमपीत्यादेरर्थः ॥ अन्यदापीति ॥ इष्टापत्ति-माशङ्क्य कार्याभाव इत्यग्रेतनमत्रापि योजयति ॥ तथा चेति ॥ अन्यदापि तस्यास् तदभाव इत्यत्र हेतुमाह ॥ सति कारण इति ॥ अनित्यत्व इत्यादि व्याचष्टे ॥ न द्वितीय इति ॥ अत इत्यस्य ईश्वरेच्छाया अभावादिति ईश्वरेच्छात इति चार्थद्वयमुपेत्यात इत्यादि व्याचष्टे ॥ अतो नित्यत्व इति ॥ तावता किं प्रकृत इत्यत आह ॥ अत इति ॥ तस्यैव विवरणम् ॥ द्वेधापि दुष्टत्वादिति ॥ तदभाव इति सूत्रस्थतच्छब्दस्याप्रकृतपरत्वशङ्कां निरस्यति ॥ अत्र परिमाणाभिधानेति ॥ तेन भाष्ये कार्याभाव इति व्याख्यानं युक्तमिति भावः । वैदिकपद-व्यावर्त्यमाह ॥ न च परपक्ष इति ॥ स्वत एवेति पदव्यावर्त्यमाह ॥ न चैतदन्यमतेऽपि सममिति । एवमग्रेऽपि ॥ उक्तदोष इति ॥ अन्योन्याश्रयरूपदोष इत्यर्थः ॥ निरस्तमिति ॥ नित्योऽनित्यो वेत्याद्युक्तविकल्पदोषैरिति भावः । एवमदृष्टस्येत्यत्रापि बोध्यः ।

अभिनवचन्द्रिका

एवमसमवायिकारणं निरस्येति ॥ नन्विदमत्रायुक्तं वर्तते, किमत्रायुक्तं वर्तते । असमवयि-कारणं निरस्येत्ययुक्तं वर्तते । तथा हि भाष्यकारेणासमवायिकारणस्यानिरस्तत्वान् निरस्येति क्त्वादेशल्यपा समानकर्तृकत्वाभिधायकेन भाष्यकृतैव निरस्तमित्यभिधानात् । अनिरस्तस्य निरस्तमित्यभिधाने कथं नायुक्तमिति चेत्, न‘वा शब्दात्, अन्यथा एतयोरपि न स्याद् विशेषकारणाभावात्’ इति भाष्येणासमवायिकारणस्य निरस्तत्वात् । ननु ‘अन्यथैतयोरपि न स्यादित्यनेन आपाद्यते तस्य च विपर्ययपर्यवसानेन असमवायिकारणं भाष्यकृताऽङ्गीकृतमिति प्रतीयते । तत्कथमुच्यते निराकृतमितीति चेत्, न, भाष्यकृता आपाद्यते एतयोरपि तदभावः साध्यते विशेषकारणाभावादिति हेत्वभिधानात् । इयमत्र भाष्ययोजना महद्दीर्घपरिमाणयोर् असमवायिकारणत्वमभ्युपगच्छता ह्रस्वपारिमाण्डिल्ययोरपि असमवायिकारणत्वमभ्युपेयम् । अन्यथा प्रमाणाभावान्न चेत्तदङ्गीक्रियते तर्हि प्रमाणाभावान्महद्दीर्घपरिमाणयोर् न तदङ्गीकार्यं वस्तुसिद्धेः प्रमाणाधीनत्वादिति ॥ निमित्तकारणनिरासायेति ॥ परमते निमित्तकारणा-सम्भवव्युत्पादनायेत्यर्थः । अत्र गुणसूत्रम् ॐ उभयथापि न कर्मातस्तदभावः ॐ इति ॥ अत्र नञ्ग्रहणं कर्मग्रहणं च किमर्थम्, उभयथापि तदभाव इत्येव किं नोच्यते । ईश्वरेच्छायाः कर्मनिमित्तत्ववद् द्व्यणुकादावपि निमित्तत्वेन ईश्वरेच्छानित्यत्वानित्यत्वाभ्यां द्व्यणुककार्या-सम्भवस्य व्युत्पादयितुं शक्यत्वात् । सूत्रं चैवं सति लघु स्यात् । अतश्शब्दस्याप्यग्राह्यत्वादिति चेत्, सत्यम् ईश्वरेच्छा कर्मणीव द्व्यणुकादावपि निमित्तम्, तथापि नेश्वरेच्छाया नित्यत्वे द्व्यणुकाभाव आपादयितुं शक्यते । द्व्यणुकस्य प्रत्युत्पन्नपरमाणुद्वयसंयोगजन्यत्वात् प्रलयकाले ईश्वरेच्छासद्भावेऽपि परमाणुसंयोगाभावाद् द्व्यणुकानुत्पादेऽपि सृष्टिकाले संयोगसद्भावेन ईश्वरेच्छातः परमाणुद्वयसंयोगोत्पत्त्या द्व्यणुकोत्पत्तिसम्भवात् । न हि सहकारिविरहे कारणं कार्योत्पादकं नेति, तत्समवधानेऽपि नोत्पादकमिति सम्भवति । परमाणुकर्म तु न प्रत्युत्पन्न-कारणजन्यमिति उभयथापि न कर्मोत्पादः सम्भवतीत्यापादयितुं शक्यमिति भावेन ‘उभयथापि न कर्म’ इत्युक्तम् । एवमपि ‘अतस्तदभाव’ इति व्यर्थमापाद्यत इति चेत्, न बाधकसद्भावा-दीश्वरेच्छायाः कर्मकारणत्वाभावेऽपि बाधकाभावाद् द्व्यणुकादिकार्यकारणत्वं स्यादेवेति न परमते निमित्तकारणासम्भव इत्याशङ्कापरिहाराय ‘अतस्तदभाव’ इत्यस्य वक्तव्यत्वात् । यदीश्वरेच्छा निमित्तकारणं स्यात्तर्हि पूर्वोक्तरीत्या कर्म न स्यात् । अस्ति चैतत् । तस्मान्न निमित्तमिति विपर्ययपर्यवसानार्थमपि तस्य वक्तव्यत्वाच्च ॥ किमिति ॥ प्राक्कल्पीयेश्वरेच्छा प्रलये वर्तते उत नास्तीत्यर्थः ॥ तथा सतीति ॥ प्राक्कल्पीयेश्वरेच्छाया विनाशे एतत्कल्पीयजगत्कार-णेश्वरेच्छायां कार्यत्वेनेत्यर्थः ॥ पूर्वेच्छेति ॥ प्राक्कल्पीयेच्छा विनष्टापि यागवद् एतदिच्छानिमित्त-मित्यर्थः ॥ प्रमाणाभावादिति ॥ प्रमाणबलेन विनष्टयागस्य कारणत्वेऽपि प्रमाणाभावान्न पूर्वेच्छा कारणमिति भावः ॥ अत्र परिमाणाभिधानसन्निधापितमिति ॥ परिमाणाभिधाने द्व्यणुकादीनां स्मृतत्वाद् बुद्धौ सन्निधापितमित्यर्थः ॥ न चैतदन्यमतेऽपि सममिति ॥ ईश्वरेच्छाया निमित्तत्वेऽपि’ उभयथापि न कर्म’ इति दूषणं नेत्येतत् परमतेऽपि सममिति न वाच्यमित्यर्थः । उभाभ्यामपि सृष्टिकालस्य सहकारितयाऽभ्युपगतत्वात् कुतः साम्याभाव इत्यतः सिद्धान्तवैषम्यं सूचयितुं स्वमतं तावदनुवदति – अस्माभिरिति ॥ एतेन अस्माभिः काल इति वाक्यं व्यर्थम् । परेणेत्युत्तरवाक्येनैव कृतत्वादिति परास्तम् । एवमुत्तरत्रापि द्रष्टव्यम् ।

वाक्यार्थमुक्तावली

भाष्ये तद्भावेऽपीत्यनन्तरं शेषमाह ॥ प्रलय इति ॥ नेदानीमित्यनन्तरमीश्वरेच्छाया इत्यनु-वृत्तिं सूचयति ॥ तस्या इति ॥ नेदानीमपि स्यादित्यनन्तरम् अतः परमाणुचेष्टाभावादिति वाक्यं योजयति ॥ तथा चेति ॥ अन्यदापि तस्यास्तदभाव इत्यत्र हेतुमाह ॥ सति कारण इति ॥ अनित्यत्वे तत्कारणाभावादित्येतद्व्याचष्टे ॥ न द्वितीय इति ॥ निमित्तमिति ॥ ईश्वरेच्छारूपमित्यर्थः ॥ न चैतदिति ॥ अनुत्पन्नत्वादिति भावः । नन्वीश्वरेच्छायामिच्छाति-रिक्तमेव कारणं नेच्छेत्यतः प्रकारान्तरेण व्याचष्टे ॥ तदुत्पत्ताविति ॥ एतेन भाष्ये तत्कारणा-भावान्नेदानीमपि स्यादिति सम्बन्धः । तत्र तदुत्पत्ताविश्वरेच्छारूपकारणाभावादिदानीमुत्पाद्ये कार्येऽपीश्वरेच्छा कारणं न स्यादित्यर्थ इत्युक्तं भवति । नन्वीश्वरेच्छा नैका । येनेच्छां प्रत्य-कारणत्वं स्यात् । किन्तु पूर्वपूर्वेच्छोत्तरोत्तरेच्छां प्रति कारणमित्याशङ्कते ॥ पूर्वेच्छेति ॥ इच्छा-व्यक्तिभेदे प्रमाणाभावात् । अनन्तानां कार्यकारणभावे प्रमाणाभावाद् अनवस्थाप्रसङ्गादिति भावः । एतेन तत्कारणाभावादित्येतत् तत्र पूर्वेच्छानिमित्तकत्वे कल्पकाभावादिति व्याख्यातम् । अनित्यत्वे तत्कारणाभावादतः परमाणुचेष्टेति विशिष्टवाक्यं योजयति । अतोऽनित्यत्वे इति ॥ तस्या इच्छायाः कारणाभावादित्यस्यार्थोऽत इति । तद्रूपकारणाभावदित्यस्यात्यर्थमाह ॥ तद-भावादेवेति ॥ अत इत्यस्यार्थ ईश्वरेच्छात इति ॥ तदभाव इति सूत्रस्थतच्छब्दस्या-प्रकृतपरत्वाशङ्कां निराकरोति ॥ परिमाणाभिधानेति ॥ परिमाणाभिधाने तद्गुणिनां द्व्यणुकादीनां बुद्धौ सन्निधापितत्वादित्यर्थः । नन्वीश्वरेच्छायाः कर्मनिमित्तत्ववद् द्व्यणुकादावपि निमित्तत्वाद् ईश्वरेच्छानित्यत्वानित्यत्वाभ्यां द्व्यणुकादिसकलकार्यासम्भवस्य वक्तुं शक्यत्वाद् उभयथापि तदभाव इति सूत्रयितव्यत्वेन कर्मात इति व्यर्थं, लघु चैवं सति सूत्रं स्यादिति चेन्न, ईश्वरेच्छाया नित्यत्वे सत्यामपीश्वरेच्छायां प्रलये द्व्यणुकाभावादन्यदापि तदभाव इत्यापादयितुं न शक्यते । द्व्यणुकस्य प्रत्युत्पन्नपरमाणुद्वयसंयोगजन्यत्वात् । प्रलये सत्यमपीश्वरेच्छायां संयोगाभावाद् द्व्यणुकानुत्पत्तावपि सृष्टिकाले संयोगसद्भावेन द्व्यणुकोत्पत्तिसम्भवात् । न हि सहकारिविरहिकार्य-मजनयन्न कारणमित्यस्येतराभावप्रसङ्गात् । तं प्रत्युत्तरं वक्तुं न कर्मात इत्युक्तम् । अयमत्रोत्तर-क्रमः । संयोगविरहात् कार्याभाव इति न युक्तम् । ईश्वरेच्छायां तस्याप्युपपत्तेः । न च तत्रापि परमाणुचेष्टा सहकारिवैधुर्यात्तदभाव इति वाच्यम् । ईश्वरेच्छयैव प्रलये तदुपपत्तेः । सत्या-मपीश्वरेच्छायां परमाणुचेष्टाभावेऽन्यदापि तस्यास्तदभावापातात् । कर्माभावे च संयोगाभावेन द्व्यणुकाद्यभाव इति । कार्यानुत्पादादेरित्यादिपदेन निमित्तकारणकालोत्पादकादृष्टोद्बोधादेर्ग्रहणम् ॥ अनुमानमात्रेणेति ॥ कार्यत्वाद्यनुमानमात्रेण केवलकर्तृतयेश्वरमभ्युपगच्छतेत्यर्थः ॥ इतश्चेति ॥ न केवलं घटकशिरोमणिनान्ततोऽप्यङ्गीकार्येण शक्तिविशेषेण नास्मत्पक्षे दोषः किन्तु बाह्यसहकारि वैकल्यात् प्रलये सृष्ट्यभाव इति च नास्मात्पक्षे दोष इत्याहेत्यर्थः ॥ सृष्ट्याद्युपाधित एवेति ॥ तेनाखण्डकालाङ्गीकारादिति भावः ॥ तत्तत्काल एवेति ॥ कालविशेषे स्रक्ष्यामीत्येवंरूपाया नित्याया अपीश्वरेच्छायाः सृष्टिकाले प्राप्ते इदानीं स्रक्ष्ये इति सृष्टिविषयत्वरूपविशेषाविर्भावाभ्युपगमादित्यर्थः । यथागामिनि सूर्योपरागेऽस्मै ब्राह्मणाय गामहं दास्य इतीच्छायां सत्यामप्युपरागकाल एव दास्य इतीच्छा पर्यवस्यति, तथैवेति भावः । ननु व्यर्थमेव कालविशेषेऽद्य स्रक्ष्य इत्यकारणव्यक्त्यङ्गीकरणम् । तत्तद्व्यक्त्यर्थमपि काल-विशेषस्य प्रयोजकत्वाङ्गीकारात् । कालविशेषाभावादेव कार्यानुत्पादोपपत्तेः । न च तर्हि इच्छाया मोघत्वमापद्यत इति वाच्यम् । ‘विशेषकाल एवैतत् सृष्ट्यादीच्छा सदातना’ । इत्त्यनुव्याख्यानोक्तरीत्या कालविशेषे स्रक्ष्यामीत्येवं कालविशेषगर्भत्वाद्भगवदिच्छाया मोघत्वाभावाद् इति चेत् सत्यमेवं तथापि सृष्टिकाले प्राप्ते इदानीं स्रक्ष्ये इति इच्छाव्यक्तेः प्रामाणिकत्वाद् वस्तुस्थितिरियं निदर्शिता । उक्तं च ‘असङ्ख्यातविशेषत्वाद् इच्छाया अपि सर्वशः’ इति । उक्तं च सुधायां’’ यद्यपि काल-भेदमात्रेण कृतसमाधानमेतत् । कालविशेषे स्रक्ष्यामीत्येवं रूपत्वाद्भगवदिच्छाया न मोघत्वमापद्यते तथापि वस्तुस्थितिरियं निदर्शितेत्यलम् ॥ ईश्वरेच्छेति ॥ कालो नित्यश्चेत् सर्वदा कार्यं स्यात् । अनित्यश्चेत् कालाख्यनिमित्ताभावादुत्पत्त्यभावः । स्वोत्पत्तौ काला-नपेक्षायामन्यत्रापि तद्वैय्यर्थ्यम् इत्त्येवंरूपेणेत्यर्थः ॥ उपाध्युक्ताविति ॥ सृष्टिलक्षणोपाधि सम्बन्धदशायामेवोद्बोध इत्युक्तावित्यर्थः । सूत्रार्थ उक्तप्रायः ।

तत्त्वसुबोधिनी

अन्यदापीति ॥ सृष्टिकालेऽपि ईश्वरेच्छान्तःपरमाणुकर्म न स्यादित्यर्थः । तथापि कुतो न कारणत्वमत आह ॥ सतीति ॥ नन्विच्छोत्पत्तौ निमित्तमिच्छान्तरं नापेक्षते इत्यत आह ॥ तदुत्पत्ताविति ॥ पूर्वेच्छायां प्रमाणाभावाद् इति ॥ एतदिच्छोत्पत्तौ पूर्वेच्छाकारणम् इत्यत्र प्रमाणं न इत्यर्थः । पूर्वं द्व्यणुकादिरूपकार्यस्याप्रकृतत्वात् कथं तदभाव इति सौत्रस् तच्छब्दस् तत्कार्याभाव इति व्याख्यात इत्यत आह ॥ परिमाणेति ॥ नन्वचिन्त्यशक्तौ प्रमाणाभावात् कथं तद्बलेन स्वपक्षे दोषाभावः कथ्यते इत्यत आह ॥ सा चेति ॥ अस्तु सोपाधिककालाङ्गीकारस् तथापि संहारकाले तदभावात् कथं तदानीं द्व्यणुकादिकार्यापादनमित्यत आह ॥ सृष्टिमन्तरेणेति ॥ तथा च कालसोपाधिकत्वाङ्गीकार एवायुक्तः । कुतस् तद्भावाभावाभ्यां समाधानमिति भावः ॥ अस्माभिरिति ॥ पूर्वम् अदृष्टे सत्येव सृष्टिकालोद्बोधाङ्गीकारादित्यर्थः । ननु यदोपाधिस्तदोद्बोध इत्ययमेव परिहार इति कथं तदभाव इत्यत आह ॥ उपाधीति ॥

वाक्यार्थविवरणम्

अन्यदा ॥ सृष्टिकालेऽपि ॥ ततः ॥ ईश्वरेच्छातः ॥ तदभावेति ॥ परमाणुचेष्टाभावेत्यर्थ ॥ द्व्यणुकादिकार्याभाव इति ॥ द्वयोःपरमाण्वोः क्रियया संयोगे सति द्व्यणुकमुत्पद्यत इत्यङ्गी-कारादिति भावः ॥ निमित्तम् ॥ ईश्वरेच्छोत्पत्तौ । ईश्वरेच्छोत्पत्तौ ईश्वरेच्छारूपनिमित्तापेक्षा नास्तीति चेत्तत्राह ॥ तदुत्पत्ताविति ॥ अन्यत्रापि ॥ परमाणुचेष्टोत्पत्तावपि तत्प््रासङ्गः । ईश्वरेच्छारूपनिमित्तकारणानपेक्षत्वप्रसङ्गः ॥ पूर्वेच्छेति ॥ सृष्टिकाले ईश्वरेच्छोत्पत्तौ तत्पूर्वतन-कालीनेच्छानिमित्तमित्यर्थः ॥ तदभावेन ॥ ईश्वरेच्छोत्पतौ निमित्ताभावेनेश्वरेच्छाया एवा-भावेनेत्यर्थः ।

सन्निधापितम् ॥ तदाश्रयतया बुद्धिसन्निहितमित्यर्थः ॥ तदिति ॥ सौत्रतच्छब्देनेत्यर्थः ॥ सोऽपीति ॥ कालोऽपीत्यर्थः । प्रलयस्यैव सत्त्वादिति भावः । ‘न हि कालविभेदोऽस्ति तत्पक्षे’ इत्यनुव्याख्यानं हृदि निधायाह ॥ न चैतदित्यादिना ॥ तदुपपत्तेरिति ॥ कालोऽपि कारणं, प्रलये तदभावात् कार्योत्पत्त्यभाव इत्यस्योपपत्तेरित्यर्थः ॥ उपाधित एवेति ॥ वस्तुतस्त्वखण्ड एवेति भावः । ततश्च को दोष इत्यत आह ॥ सृष्टिमिति ॥ उपरमे ॥ प्रलय इति शेषः । सेश्वरेच्छा ॥ मोघेति ॥ वृथेत्यर्थः । सृष्टिं करिष्यामीतीच्छामीश्वरः प्रलये करोति परं सृष्टिकालाभावात् सृष्टिर्न भवतीत्युक्ते इच्छाया पराधीनत्वप्राप्त्या वृथात्वापातादित्याशयः । ‘तत्कालसृष्टिमेवातो वांच्छतीशः सदैव हि । स्यात्कालः स तदैवेति कालस्य स्वगतत्वतः ॥’ इत्यनुव्याख्यानानुसारेणाह ॥ तत्काल एवेति ॥ तद्विशेषाणाम् ॥ सृष्टिविषयकत्वादि-विशेषाणाम् ॥ उक्तो दोष इति ॥ सृष्टौ सत्यामिच्छायास्तद्विषयकत्वसिद्धिः । तस्यां च सत्यां सृष्टिरितीतरेतराश्रय इत्यर्थः ॥ निरस्तमिति ॥ कालस्य नित्यत्वे प्रलये तद्भावेऽपि परमाणु-कर्माभावान्नेदानीमपि स्यात् । अनित्यत्वे तदुत्पत्तौ कालान्तराभावेन तदुत्पत्त्ययोगात् । ततः कालात् परमाणुचेष्टाभावेन द्व्यणुकादिकार्याभावेन द्वेधापि दुष्टत्वान्न कालोऽपि निमित्तमिति कालस्य निमित्तत्वं निरस्तमित्यर्थः ॥ तद्दोषमिति ॥ कालस्य नित्यत्वनिमित्तत्वयोरभ्युपगमात् समं भवतामेतद्दूषणमित्यर्थः । तस्यैव । कालविशेषरूपसृष्टिकालस्यैव । कालविशेषाणाम् । सृष्टिकालत्वादीनाम् ॥ उक्तमिति ॥ सृष्ट्याद्युपाधिप्राप्तौ सृष्टिकालप्राप्तिः । तत्प््र•प्तौ सृष्टिरित्य-न्योन्याश्रयरूपं दूषणमुक्तमित्यर्थः ॥ पराकृत्येति ॥ इच्छाकालयोर्निमित्तत्वनिराकरणन्याये-नेत्यर्थः । अदृष्टस्य नित्यत्वे प्रलये तद्भावे परमाणुकर्माभावान्नेदानीमपि स्यात् । अनित्यत्वे तदुत्पत्तौ अदृष्टान्तराभावेन तदुत्पत्त्ययोगात्ततोऽदृष्टात्परमाणुचेष्टाभावेन द्व्यणुकादिकार्याभाव इति द्वेधापि दुष्टत्वान्नादृष्टं निमित्तमित्यदृष्टस्य निमित्तत्वं पराकृतमित्यर्थः ॥ तद्दोषमिति ॥ नन्वदृष्टस्य नित्यत्वनिमित्तत्वयोरभ्युपगमात् समं भवतामेतद्दूषणमिति दोषमित्यर्थः ॥ पूर्वम् ॥ प्रलये सत्येवादृष्टे सृष्ट्यादिकाले प्राप्ते सति समुद्बोधविशेषस्य कार्योन्मुखत्वाख्यविशेषस्याङ्गी-कारादित्यन्वयः ॥ स्वाभाविकविशेषेति ॥ सृष्टिकालरूपेत्यर्थः । काल इत्यनन्तरं स्वत इति योज्यम् । स्वाभाविकेत्यर्थः । अदृष्टस्योद्बोधः कदेति प्रश्नस्य उपाध्युक्तौ सृष्ट्यादिरूपोपाधि-विशिष्टकालोक्तावित्यर्थः । सृष्टिकालोक्ताविति यावत् ॥ सोऽपि सृष्टिरूपोपाधिविशिष्ट-कालोऽपि । सृष्टिकाल इति यावत् ॥ परिहाराभावादिति । अदृष्टोद्बोधानन्तरमित्युच्यत इति चेत् तर्ह्यदृष्टोद्बोधे सति अदृष्टोद्बोध इत्यन्योन्याश्रय इति भावः ।

वाक्यार्थमञ्जरी

उभयथापीश्वरेच्छायानित्यत्वा नित्यत्वरूपप्रकारद्वयेऽपि परमाणुषु कर्म न सम्भवत्यतस्तदभावः । द्व्यणुकादिकार्याभाव इत्यर्थः । तस्याः सकाशाद् दूषणान्तरमाह ॥ सति कारण इति ॥ तस्य कारणत्वेनाभिमतस्य न च कारणान्तराभावात्कार्याभाव इति वाच्यम् । वक्ष्यमाणरीत्या कारणान्तरस्यैवाभावादिति भावः । अप्रसक्तत्वात्कथं तत्परामर्श इत्यत उक्तम् ॥ परिमाणाभि-दानेति ॥ ह्रस्वादिपरिमाणाश्रयतया तदपि प्रसक्तमिति भावः । यथा कथञ्चिद्विशेषलाभा-त्किमनेनानौपाधिकत्ववर्णनेनेत्यत आह ॥ सृष्टमिति ॥ उपाध्यभावे उपहितासम्भवादिति भावः ॥ आविर्भावेति ॥ शक्त्यात्मनाविद्यमानस्य तदाव्यक्त्यङ्गीकारादित्यर्थः । उक्तदोषो ऽन्योन्याश्रयः ॥ न्यायेति ॥ कालस्य नित्यत्वे प्रलयेऽपि कार्योत्पत्तिः । अनित्यत्वे तस्यापि जन्यत्वेन कालान्तरापेक्षेत्यादि न्यायेनेत्यर्थः । समुद्बोधविशेषः कार्योन्मुखत्वम् ।