०५ अन्यथानुमित्यधिकरणम्

ॐ अन्यथाऽनुमितौ च ज्ञशक्तिवियोगात् ॐ

५. अथ अन्यथानुमित्यधिकरणम्

सूत्रभाष्यम्

प्रकृत्युपसर्जनपुरुषकर्तृत्ववादमपाकरोति–

॥ ॐ अन्यथाऽनुमितौ च ज्ञशक्तिवियोगात् ॐ ॥ ९ ॥

शरीरसम्बन्धात्पुरुषः प्रवर्तत इत्यङ्गीकारेऽपि स्वतस्तस्यासामर्थ्याच्छरीरसम्बन्ध एवायुक्तः ।

सत्तर्कदीपावली

निरीश्वरसाङ्ख्यैकदेशपक्षयोरेकस्मिन्पक्षे दूषिते पक्षान्तरमनूद्य परिहरति ॥ प्रकृत्युपसर्जनेत्यादिना ॥ स्वशरीरप्रेरणे शरीरान्तराभावाच्छरीरवत एव पुरुषस्य कर्तृत्वमित्येतदप्ययुक्तमित्यर्थः ।

तत्त्वप्रदीपिका

साङ्ख्यैकदेशीयस्तु स्वयूथ्यदोषपरिजिहीर्षया विपर्यस्तं मतमपरोऽनुमिमीतेऽत आह– ॐ अन्यथाऽनुमितौ च ज्ञशक्तिवियोगात् ॐ । यथा शरीरसम्बन्धात्पुरुषः प्रवर्तते, एवं प्रकृतिसम्बन्धात्पुरुषः प्रवर्तत इत्यङ्गीकारे स्वतस्तस्य ज्ञस्य शरीरसम्बन्धेऽप्यसामर्थ्यात्स एवायुक्तः । कुतः पुनस्तदायत्ता प्रवृत्तिः ? एवमेव प्रकृतिसम्बन्धोऽपीति नैतदपि साधिष्ठम् ।

तत्त्वप्रकाशिका

अधिकरणार्थं दर्शयति ॥ प्रकृतीति ॥ अत्र विष्णोर्जगत्कारणत्वे निरीश्वरसाङ्ख्यैकदेश-विरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । ईश्वरस्य जगत्कारणत्वमुक्तम् । तस्य च समयविरुद्धत्वे लक्षणायुक्तेरसौ परिहरणीय एव । तदीश्वरस्याखिलकारणत्वं विषयः । युक्तमयुक्तं वेति संशयः । मतविगानं सन्देहबीजम् । न युक्तमिति पूर्वः पक्षः । प्रधानादेव जगदुत्पत्तिसम्भवेनेश्वरानुपयोगात् । न चाचेतनस्य तदनुपपत्तिदोषः । पुरुषयुक्तस्योपपत्तेः । न चाङ्गित्वानुपपत्तिः । प्रकृत्युपसर्जनपुरुषस्य कर्तृत्वाङ्गीकारात् । तथा च प्रयोगः । विमता प्रवृत्तिरचेतनोपसर्जनपुरुषाधीना प्रवृत्तित्वादश्मा-नयनादिप्रवृत्तिवदिति । न च दृष्टान्तदोषः । शरीरोपसर्जनपुरुषस्य प्रवृत्तिदर्शनात् । श्रुतेश्चावज्ञानात् । अतो न जगत्कारणत्वलक्षणं ब्रह्मणो युक्तमितिप्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ अन्यथेति ॥ चशब्देनाङ्गित्वानुपपत्तेः समाकर्षः । युक्तमीश्वरस्य जगत्कारणत्वम् । प्रकृत्युपसर्जनपुरुषस्य कर्तृत्वे मानाभावात् ।प्राचीनपक्षादन्यथानुमितमिति चेन्न । दृष्टान्ते साध्याभावात् । तथा हि । शरीरोप-सर्जनः पुरुषः प्रवर्तत इति पक्षे किं पुरुषस्य प्रवृत्तिशक्तिरस्ति न वा । यद्यस्ति तर्हि शरीरवैयर्थ्यम् । यदि न शक्तिस्तर्हि पुरुषाङ्गित्वमनुपपन्नं स्यात् । शरीरसम्बन्धार्थं केवलस्य पुरुषस्य शक्त्यभावात् । यदि तत्रास्ति शक्तिस्तर्ह्यन्यत्रापि स्यादित्यन्यतरवैयर्थ्यम् । शरीरसम्बन्धात्पूर्वमपि प्रकृतिसम्बद्धस्यास्ति शक्तिरिति चेत् तत्पूर्वमप्येवमित्यनवस्थापातात् । अनादिताश्रयणे निष्प््राकृतीनां मुक्तानां प्रवृत्ति-रुदाहर्तव्या । अतो यथा पुरुषस्य शरीरसम्बन्धक्रियायां न शरीरोपकृतस्य प्रवृत्तिर्नापि केवल-स्येतीश्वरोऽङ्गीकार्यः । तथाश्मानयनप्रवृत्तावपीति दृष्टान्ताभाव इति भावः ।

गुर्वर्थदीपिका

उदाहर्तव्या प्रकृत्युपसर्जनपुरुषप्रवृत्तिमतस्य बाधकत्वेनोदाहर्तव्या ।

भावबोधः

निरीश्वरसाङ्खयैकदेशान्तरविरोधेति ॥ प्रकृत्युपसर्जनपुरुषकर्तृत्ववादेन पूर्वोक्ताङ्गित्वानु-पपत्तिरिति पूर्वपक्षोत्थानात्पूर्वसूत्रोक्ताङ्गित्वानुपपत्त्या सिद्धान्तकरणाद्वानन्तरसङ्गतिरिति भावः ॥ युक्तमिति ॥ अत्रेश्वरस्य जगत्कारणत्वं किमयुक्तमुत युक्तमिति चिन्ता । तदर्थं प्रकृत्युपसर्जन-पुरुषकर्तृत्ववादिसमयः किं श्रुत्युक्तेश्वरजगत्कारणत्वापबाधनक्षमो भवत्युत नेति । तदर्थं तदुत्प््रोक्षितं विमता प्रवृत्तिरचेतनोपसर्जनपुरुषाधीना, प्रवृत्तित्वादश्मानयनादिप्रवृत्तिवदित्यनुमान-मानाभासमुत दृष्टान्तस्य साध्यविकलत्वेनाभासमिति । तदर्थं दृष्टान्ते साध्यसत्त्वे बाधकं नास्त्युतास्तीति । ‘न ऋते त्वत्क्रियते’ इति श्रुत्या दृष्टान्तेऽपीश्वराधीनत्वमेव न प्रकृत्युपसर्जन-जीवाधीनत्वमित्यत आह– श्रुतेश्चावज्ञानादिति ॥ शरीरसम्बन्ध एवायुक्त इति भाष्यं व्याचष्टे– तर्हि पुरुषस्याङ्गित्वमिति ॥ ज्ञस्य जीवस्य । शक्तिवियोगादितिविग्रहमभिप्रेत्य प्रवृत्तं तस्या-सामर्थ्यादिति भाष्यं व्याचष्टे– शरीरसम्बन्धार्थमिति ॥ तथा च शरीरसम्बन्धघटकतया ईश्वर-स्यावश्यमङ्गीकार्यत्वे जीवस्य वैयर्थ्यमिति भावः ॥ अन्यतरवैयर्थ्यमिति ॥ अशक्तत्वपक्षे जीववैयर्थ्यं शक्तत्वपक्षे शरीरवैयर्थ्यमित्यर्थः ।

भावदीपः

केवलाचेतनमतात्पुरुषोपसर्जनाचेतनमताच्चाधिका शङ्कोक्तिपरत्वेन शरीरेत्यादिभाष्यमवतार्य व्याचष्टे ॥ न चाचेतनस्येति ॥ न ऋत इतिप्रागुक्तश्रुतिविरोध इत्यत आह ॥ श्रुतेश्चेति ॥ हैतुकंमन्यत्वादिति भावः ॥ अत इति ॥ अनुपयुक्ततया ईश्वरस्यैवाभावादित्यर्थः । शरीरसम्बन्ध एवायुक्त इति भाष्यं सौत्रचशब्दादाकृष्टस्याङ्गित्वानुपपत्तेरित्यस्य व्याख्यानमिति भावेनाह ॥ चशब्देनेति ॥ शरीरेत्यादिभाष्यस्य व्याख्येयं दर्शयितुमन्यथानुमिताविति सूत्रांशं विवृणोति ॥प्राचीनेति ॥ विमतेत्यादिनोक्तरीत्यानुमितमित्यर्थः । ज्ञशक्तीत्याद्यंशस्य विवृतिपरं स्वतस्तस्या-सामर्थ्यादिति भाष्यं दृष्टान्ते साध्यवैकल्यसाधकत्वेन योजयितुमन्यथानुमितावित्यंशार्थोक्ति-परभाष्यमनुवदति ॥ शरीरोपसर्जन इति ॥ पक्षभेदेन भाष्यं योजयितुं विकल्पयति ॥ किमिति ॥ आद्यपक्षं बहिरेव निरस्यान्ते स्वत इत्यादिभाष्यं योजयति ॥ यदि न शक्ति-स्तर्हीति ॥ शक्त्यभावं द्रढयितुमाह ॥ यदि तत्रास्ति शक्तिरिति ॥ अन्यत्रापि । अश्मा-नयनादावित्यर्थः ॥ उदाहर्तव्येति ॥ अयुक्तत्वेनोदाहर्तव्येत्यर्थः ॥ अत इति ॥ शक्त्यभावे भावे चोभयथापि दोषादित्यर्थः ।

अभिनवचन्द्रिका

प्रधानादेवेति ॥ पुरुषेण सृष्ट्यादौ कर्तव्ये सहकारितया प्रधानाभ्युपगममात्रेणैव सृष्ट्यादे-रुपपत्तेरीश्वरो नियामकतयाऽभ्युपगन्तव्य इति भावः । एतेन प्रकृत्युपसर्जनपुरुषकर्तृत्ववादिना पुरुषस्यैव प्राधान्याङ्गीकारात् प्रधानादेवेत्युक्तिरयुक्तेति परास्तम् ॥ न च चेतनस्येति ॥ पुरुषसाहाय्यार्थं प्रवर्तमानस्य अचेतनस्य स्वतःप्रवृत्त्यनुपपत्तिरिति न वाच्यमित्यर्थः ॥ पुरुषयुक्त-स्येति ॥ स्वसाहाय्यार्थं पुरुषः प्रकृतिं नियमयतीति भावः । प्रधानस्य सहकारित्वे उभयोः समप्राधान्यं स्यादिति मन्यमानस्य शङ्कामनूद्य निराकरोति – न चाङ्गित्वेति ॥ शरीरोपसर्जनः पुरुष इति ॥ शरीरोपसर्जनः पुरुषः प्रवर्तत इति पक्षे केवलपुरुषस्य प्रवृत्तिशक्तिरस्ति, न वेत्यर्थः । नाद्य इति भावेनाह – यद्यस्तीति ॥ यदि शरीरं विनापि प्रवृत्तिशक्तिः स्यात्, तर्हि शरीरवैयर्थ्यं स्यात् । न च तद्युक्तमिति नाद्यः पक्षो युक्त इत्यर्थः । निरीश्वरवादिना द्वितीयं नाङ्गीकर्तुं शक्यमिति भावेनाह – यदि न शक्तिरिति ॥ एतेनाद्यपक्षनिषेधेन द्वितीयस्याङ्गीकृतत्वात्, वास्तवत्वाच्च, तन्निषेधो व्याहत इति परास्तम् । शरीररहितस्य कार्यान्तरे प्रवृत्तिसामर्थ्याभावेऽपि शरीरसम्बन्धाय प्रवृत्तौ केवलस्य सामर्थ्यमस्तीति नाङ्गित्वानुपपत्ति-रित्याशङ्क्य निषेधति – यदि तत्रास्तीति ॥ अन्यतरवैयर्थ्यादिति ॥ यदि शरीरसम्बन्धाय प्रवृत्तौ केवलस्य शक्तिरभ्युपगम्यते तर्हि अन्यत्रापि शिलानयनादावपि केवलस्यैव प्रवृत्तिः स्यात्, अविशेषादिति शरीरवैय्यर्थ्यम् । यदि अप्रामाणिकत्वान् नान्यत्र केवलस्य शक्तिः, तर्हि शरीरसम्बन्धाय केवलस्य प्रवृत्त्यभ्युपगमवैयर्थ्यम् । अप्रामाणिकत्वेनाऽङ्गित्वनिर्वाहकत्वाऽ-भावाद् इत्यन्यतरवैय्यर्थ्यमित्यर्थः । एतेन शरीरसम्बन्धार्थं केवलस्य शक्तिरस्तीति पक्षे शरीरवैयर्थ्यस्यैकस्यैव सद्भावाद् अन्यतरवैयर्थ्याभिधानमयुक्तमिति परास्तम् । शरीरसम्बन्धवैयर्थ्य-मिति क्वचित् पाठः ॥ प्रकृतिसम्बन्धस्येति ॥ स्थूलदेहसम्बन्धात् पूर्वं प्रकृतिरूपसूक्ष्मदेह-सम्बन्धसद्भावात् तद्विशिष्टस्य शक्तिरस्तीत्यर्थः ॥ तत्पूर्वमिति ॥ सूक्ष्मदेहसम्बन्धात् पूर्वं प्रवृत्तिसिद्धये देहान्तरमङ्गीकार्यं ततः पूर्वमेवमित्यनवस्थेत्यर्थः ॥ अनादिताश्रयण इति ॥ सूक्ष्मशरीरस्याऽनादित्वान्नानवस्थेत्यङ्गीकारे निष्प्रकृतीनां मुक्तानां प्रवृत्तिरुदाहर्तव्येत्यर्थः । अयं भावः प्रकृतिसम्बन्धस्य अनादित्ववादिनं प्रति यदि न शक्तिस्तर्हि पुरुषस्याङ्गित्वमनुपपन्नं स्यादिति द्वितीयपक्षदूषणं न वाच्यम् । किन्तु मुक्तानां प्रवृत्तिर्न स्यात् । तेषां निष्प्रकृतित्वेन प्रवृत्तिसामर्थ्याभावादित्येव दूषणमुदाहर्तव्यमिति । एतेन निष्प्रकृतीनां प्रवृत्तिरुदाहर्तव्येति असङ्गतम् । पूर्वोक्तानवस्थास्थापकत्वाभावेन उदाहरणकृत्यभावादिति परास्तम् ॥ अत इति ॥ पुरुषस्य मुक्तस्य लीलाविग्रहसम्बन्धक्रियायामित्यर्थः । एतेन पुरुषस्य शरीरसम्बन्धक्रियायां सूक्ष्मशरीरोपकृतस्य प्रवृत्त्यभ्युपगमेन शरीरोपकृतस्य प्रवृत्तिरित्ययुक्तमिति परास्तम् ॥ तथाऽश्मा-नयनादीति ॥ अश्मानयनादावपीश्वरस्यैव नियामकत्वेन दृष्टान्ताभावात् प्रकृत्युपसर्जनपुरुषकर्तृत्वे मानाभावः । ततश्च ‘युक्तमीश्वरस्य जगत्कारणत्वमिति भाव’ इति पूर्वेण सम्बन्धः ॥ दृष्टान्ताभाव इति पाठस्तु सुगमः । एतेन दृष्टान्ताभावादित्यस्यानन्वय इति परास्तम् ।

पूर्वपक्षस्तु– न हरेर्जगत्कारणत्वं युक्तम् । प्रधानोपसर्जनपुरुषादेव जगदुत्पत्तिसम्भवेन ईश्वरवैय्यर्थ्यात् । तथा च प्रयोगः ‘विमता प्रवृत्तिर् अचेतनोपसर्जनपुरुषाधीना प्रवृत्तित्वादश्मा-नयनादिप्रवृत्तिवत्’ इति । अतो न जगत्कारणत्वलक्षणं ब्रह्मणो युक्तमिति ।

सिद्धान्तस्तु– युक्तमीश्वरस्य जगत्कारणत्वं, प्रकृत्युपसर्जनपुरुषस्य कर्तृत्वे मानाभावात् । प्राचीनमतादन्यथानुमितमिति चेत्, न दृष्टान्ते साध्याभावात् । तथा हि केवलस्य पुरुषस्य प्रवृत्तिशक्तिरस्ति, न वा । आद्ये शरीरवैयर्थ्यम् । द्वितीये शरीरसम्बन्धाभावप्रसङ्गेनाऽश्मा नयनादिप्रवृत्तिर्न स्यात् । अस्ति चाऽसौ । अतः पुरुषस्य शरीरसम्बन्धघटको ऽश्मानयनादि-प्रवृत्तिशक्तिप्रद ईश्वरोऽङ्गीकार्य इति कथं न दृष्टान्तः साध्यविकलः । किञ्च सकलश्रुति-स्मृतिविरुद्धत्वात् सर्वमप्यनीश्वरमतमप्रमाणम् । अतो न साङ्ख्यादिमतविरोधेन लक्षणासम्भव इति सिद्धम् ।

वाक्यार्थमुक्तावली

निरीश्वरेति ॥ ईश्वरमनङ्गीकृत्य जीवप्रधानकप्रधानकारणत्ववादिसाङ्ख्यैकदेशिमतविरोध-निरासादित्यर्थः । अत एवाङ्गित्वानुपपत्त्याक्षेपेणोत्थानादनन्तरसङ्गतिः ॥ युक्तमिति ॥ विष्णो-र्जगत्कारणत्वं सयुक्तिकं प्रत्युपसर्जनपुरुषकर्तृत्ववादविरुद्धं न वेति चिन्ता । तदर्थं तदीयमनुमान-मनाभासमुत दृष्टान्ताभावादाभासमिति ॥ प्रधानादेवेति ॥ नत्वीश्वरादित्येवार्थः । ननु दृष्टान्तेऽपि ‘न ऋते त्वत्क्रियत’ इति श्रुत्या ईश्वराधीनत्वमेव प्रवृत्तेर्न तु तन्निरपेक्षेणेत्यत आह ॥ चशब्देनेति ॥ समाकृष्टस्य व्याख्यानं भाष्यमिति भावः । परिष्कारपूर्वं भाष्यार्थं वदन् भाष्यं सङ्गमयति ॥ युक्तमित्यादिना ॥ इति चेन्न दृष्टान्ते साध्याभावादिति ॥ एतेनान्यथानुमितौ च न पुरुषाश्मवदिति दृष्टान्त इत्यनुवर्तते इत्युक्तं भवति ।

ननु कथं दृष्टान्तो नास्ति । पुरुषप्रधानशरीरोपसर्जनाश्मानयनादिप्रवृत्तिदर्शनादित्यतः प्रवृत्तं शरीरसम्बन्धादित्यादिभाष्यं व्याचष्टे ॥ तथाहीत्यादिना ॥ विकल्पमुखेन भाष्यं योजयति ॥ यदि न शक्तिरिति ॥ कुतो न युक्तमित्यतोऽज्ञस्य जीवस्य शक्त्ययोगादिति विग्रहमभिप्रेत्य प्रवृत्तं स्वतस्तस्यासामर्थ्यादिति भाष्यं व्याचष्टे ॥ शरीरेति ॥ तथा च शरीरसम्बन्धार्थ-मवश्यमङ्गीकर्तव्येनेश्वरेणैव सर्वस्योपपत्तौ किमकिञ्चित्करेण जीवेनेति जीवस्यैव वैय्यर्थ्यमिति भावः । नन्वाद्यमभ्युपगच्छामः । न च शरीरवैय्यर्थ्यमिति वाच्यम् । तत्र शरीरसम्बन्धस्या-ध्यक्षत्वेन शरीररहितस्यासामर्थ्येऽपि शरीरसम्बन्धाय प्रवृत्तौ केवलस्य सामर्थ्योपपत्तेरित्यत आह ॥ यदीति ॥ अन्यत्र शिलानयनादावपि शरीरं त्ववर्जनीयसम्बन्धीति भावः ॥ इत्यन्यतरेति ॥ केवलस्य प्रवृत्तिसामर्थ्ये शरीरवैयर्थ्यम्, असामर्थ्ये जीववैयर्थ्यमित्यन्यतरवैयर्थ्यमित्यर्थः ॥ तत्पूर्व-मपीति ॥ अत्र प्रकृतिपदेन किं जन्यं गुणत्रयमुच्यत उत लिङ्गशरीरम् । आद्ये अनवस्था । तत्सम्बद्धस्यापि केवलस्य शक्त्यभावेन तदर्थं जन्यप्रकृतिशब्दितपदार्थान्तरसम्बन्धस्यापि वक्तव्यत्वादित्यर्थः । द्वितीयमाशङ्कते ॥ अनादितेति ॥ मुक्तानामिति ॥ प्रकृतिसम्बन्धाभावेन प्रकृतिशक्त्यभावादीश्वरेणैव प्रवृत्तिरित्यत्र मुक्तप्रवृत्तिरुदाहार्येत्यर्थः । सूत्रे न पुरुषाश्म-वदित्यनुवर्तते । चशब्दमहिम्ना अङ्गित्वानुपपत्तिरिति चानुकृष्यते । अन्यथाप्रागुक्तादन्यथा जीवस्यप्राधान्येन प्रकृतेर्गुणत्वेन शरीरोपसर्जनपुरुषस्याश्मानयनादिप्रवृत्त्यनुभवात्तद्दृष्टान्तेनानु-मितावपि यथा पुरुषशरीरसम्बन्धक्रियायां न शरीरोपकृतस्य शक्तिस् तथात्वे शरीरसम्बन्धार्थज्ञस्य जीवस्य स्वतःशक्तिवियोगादङ्गित्वानुपपत्तेः । नापि केवलस्य शरीरसम्बन्धक्रियावत् क्रियान्तरेऽपि शरीरं विनोपपत्तौ तद्वैय्यर्थ्येनाङ्गित्वानुपपत्तेः । तथाश्मानयानादिप्रवृत्तावपि । उभयथाङ्गि-त्वानुपपत्तौ ईश्वरोऽङ्गीकार्य इति न पुरुषाश्मवदिति दृष्टान्तो युक्त इति सूत्रार्थं हृदि निधायाह ॥ अतो यथेति ॥ पक्षद्वयेऽङ्गित्वानुपपत्तेरित्यर्थः ।

तत्त्वसुबोधिनी

निरीश्वरसाङ्ख्येति प्रकृत्युपसर्जनपुरुषकर्तृत्त्ववादेन पूर्वोक्ताङ्गित्वानुपपत्तिरिति पूर्वपक्षोत्थानात् पूर्वसूत्रोक्ताङ्गित्वानुपपत्त्या सिद्धान्तकरणाद्वानन्तरसङ्गतिरिति भावः । ननु प्रकृत्युपसर्जनकर्तृत्वे बाधकाभावेऽपि साधकाभावादयुक्तमेतदिति अत आह ॥ तथा चेति ॥ ‘न ऋते त्वत् क्रियते’ इति श्रुत्या दृष्टान्तोऽपि ईश्वराधीनत्वमेव न प्रकृत्युपसर्जनजीवाधीनत्वमित्यत आह ॥ श्रुतेश्चेति ॥ अवज्ञानात् । श्रुत्युक्तार्थाग्रहणादित्यर्थः । शरीरसम्बन्ध एवायुक्त इति भाष्यं व्याचष्टे ॥ तर्हि पुरुषस्येति ॥ अङ्गित्त्वानुपपत्तिः कुत इत्यत आह ॥ जीवस्य शक्तिवियोगादिति ॥ विग्रहमभिप्रेत्य प्रवृत्तं तस्यासामर्थ्यादिति भाष्यं व्याचष्टे ॥ शरीरसम्बन्धेति ॥ तथाच शरीर-सम्बन्धघटकतया ईश्वरस्यावश्यम् अङ्गीकार्यत्वे जीवस्य वैय्यर्थ्यम् इति भावः । तत्र शरीरसम्बन्धे ॥ अन्यत्राश्मादानादावपि ॥ अन्यतरवैयर्थ्यमिति ॥ अशक्तत्वपक्षे जीववैय्यर्थ्यं, शक्तत्वपक्षे शरीर-वैय्यर्थ्यम् इत्यर्थः । ननु पूर्वं प्रकृतिसम्बन्धे सत्येव शरीरसम्बन्धः क्रियते न चानवस्था अनादित्वा-श्रयणादित्यत आह ॥ अनादितेति ॥ मुक्तात्मप्रवृत्तावस्ति प्रवृत्तित्वं, नास्ति च प्रकृति-सम्बन्धाधिकमिति व्यभिचार इत्यर्थः ।

वाक्यार्थविवरणम्

पुरुषोपसर्जनाचेतनस्यैव कर्तृत्वमिति भ्रान्तः सन् शङ्कते ॥ न चेति ॥ अङ्गित्वानुपपत्तेरिति ॥ ज्ञशक्तिवियोगादितिहेतोः साध्यभूताया इति शेषः । समाकृष्टमेवाङ्गित्वानुपपत्तेरिति साध्यं भाष्ये शरीरसम्बन्ध एवायुक्त इति व्याख्यातमिति ध्येयम् ॥ स्वतः प्रवृत्तिशक्तिरस्तीति ॥ शरीररहितस्यैव यत्र कुत्रापि कार्ये प्रवृत्तिशक्तिरस्तीत्यर्थः ॥ शरीरेति ॥ तथा च तद्वदितरत्रापि अश्मानयनादिकार्ये स्वत एव प्रवृत्त्यापत्तेः शरीरं व्यर्थमिति शरीरोपसर्जनपुरुषाधीनत्वाभावेन साध्यवैकल्यमित्यर्थः ॥ यदि न शक्तिरिति ॥ कुत्रापि कार्ये शरीरसम्बन्धमन्तरा प्रवृत्तिशक्तिर्नास्तीत्यर्थः । अङ्गित्वम् । अङ्गभूतशरीरसम्बन्धः । कुत इत्यत आह ॥ शरीरेति ॥ केवलस्येति ॥ शरीरसम्बन्ध-रहितस्येत्यर्थः । तथा चाङ्गभूतशरीरसम्बन्धघटकत्वेनेश्वरस्याङ्गीकार्यतया तेनैव सर्वप्रवृत्त्युपपत्तौ जीवाङ्गीकारो व्यर्थ इति अश्मानयनादिप्रवृत्तौ शरीरोपसर्जनपुरुषकर्तृकत्वाभावात्पुनः साध्यवैकल्य-मेवेति भावः । शरीरसम्बन्धार्थं केवलस्य प्रवृत्तिरस्ति अश्मानयनादौ नास्तीति चेत्तत्राह ॥ यदि तत्रेति ॥ शरीरसम्बन्धरूपे व्यापारे यदि शरीरनिरपेक्षस्यैव जीवस्यास्ति प्रवृत्तिशक्तिरित्यर्थः ॥ अन्यत्रापि स्यादिति ॥ अश्मानयनादावपि तच्छरीरनिरपेक्षस्यैव प्रवृत्तिः स्यादित्यर्थः । ततः किमित्यत आह ॥ इत्यन्यतरवैय्यर्थ्यमिति ॥ यदि शरीरसम्बन्धरूपे व्यापारे शरीरनिरपेक्षस्य स्वतःप्रवृत्तिशक्तिरङ्गीक्रियते, तर्हि सर्वत्राप्येवं स्यादिति शरीरजीवयोर्मध्येऽन्यतरस्य शरीरस्य वैय्यर्थ्यम् । यदि जीवस्य शरीरसम्बन्धार्थं स्वतः शक्तिर्नास्ति तर्हि तद्घटकत्वेनेश्वरस्याङ्गीकार्यतया तेनैव सर्वप्रवृत्त्युपपत्तौ किं जीवेनेत्यन्यतरस्य जीवस्य वैय्यर्थ्यमिति दृष्टान्ते साध्यवैकल्यं दृढ-मित्याशयः । शरीरसम्बन्धं विना केवलस्य पुरुषस्य कुत्रापि प्रवृत्तिशक्तिर्नास्तीति द्वितीयपक्ष एवाङ्गीक्रियते ।

ननु अङ्गभूतशरीरसम्बन्धरूपाङ्गित्वानुपपत्तिरित्युक्तमिति चेत्तत्राह ॥ शरीरेति ॥ तत्सर्व-मपीति ॥ प्रकृतिसम्बन्धात्पूर्वमपि प्रकृत्यन्तरसम्बन्धस्याङ्गीकार्यत्वेनेत्यर्थः ॥ अनादितेति ॥ बीजाङ्कुरवत् शरीरसम्बन्धपरंपराया अप्यनादितामाश्रित्य सिद्धविषयतयाऽनवस्थाया दोषत्वा-नङ्गीकार इत्यर्थः ॥ उदाहर्तव्या ॥ ‘विमता प्रवृत्तिः प्रकृत्युपसर्जनपुरुषाधीना प्रवृत्तित्वात्’ इत्यनुमाने व्यभिचारस्थलत्वेनेति शेषः । तत्र साध्याभावमुपपादयितुं निष्प््राकृतीनामित्युक्तमिति ज्ञेयम् ।

वाक्यार्थमञ्जरी

दोषः साध्यवैकल्यम् । ‘न ऋते’ इति श्रुत्या तत्रापीश्वराधीनत्वमित्यत आह ॥ श्रुतेरिति ॥ प्रत्यक्षबाधादित्यर्थः ।प्रागुक्तादन्यथाजीवप््र•धान्येन प्रकृतेरुपसर्जनत्वेनानुमितौ च शरीरत्व-रूपाङ्गित्वानुपपत्तिः कुतः ज्ञशक्तिवियोगात् । ज्ञस्य जीवस्य शरीरसम्बन्धे शक्त्यभावादित्यर्थः ॥ अन्यतरेति ॥ अशक्तत्वपक्षे जीवस्य वैय्यर्थ्यं शक्तत्वपक्षे शरीरवैय्यर्थ्यमित्यर्थः ॥ पूर्वमप्येव-मिति ॥ प्रकृतिसम्बद्धस्य शरीरसम्बन्धो भवतीत्युक्ते तत्र प्रष्टव्यम् । किं केवलपुरुषस्य शरीरसम्बन्धे शक्तिरस्ति न वेति । आद्ये प्रकृतिसम्बन्धो व्यर्थः द्वितीये प्रकृतिसम्बन्धो न स्यात्तत्र प्रकृत्यन्तर-सम्बन्धस्वीकारे अनवस्थेति भावः । प्रकृतिसम्बन्धस्यानादित्वात्तदर्थं प्रकृत्यन्तरसम्बन्धापेक्षेत्यतो नानवस्थेत्यत आह ॥ अनादितेति ॥ उदाहर्तव्येति ॥