०४ पुरुषाश्माधिकरणम्

ॐ पुरुषाश्मवदिति चेत्तथाऽपि ॐ

४. अथ पुरुषाश्माधिकरणम्

सूत्रभाष्यम्

पुरुषोपसर्जनप्रकृतिकर्तृत्ववादमपाकरोति–

॥ ॐ पुरुषाश्मवदिति चेत्तथाऽपि ॐ ॥ ७ ॥

यथा चेतनसम्बन्धादचेतनमेव शरीरमश्मादिकमादाय गच्छति, एवमचेतनाऽपिप्रकृतिः पुरुषसम्बन्धात्प््रावर्तत इति चेन्न । ‘न ऋते त्वत्क्रियत’ इति तत्रापि तथात्वे दृष्टान्ताभावात् ।

सत्तर्कदीपावली

निरीश्वरसाङ्ख्यैकदेशमतमनूद्य दूषयति ॥ पुरुषेत्यादिना ॥ जगदुत्पत्तौ केवलप्रधानस्यप्रवृत्य-सम्भवेऽपि पुरुषसम्बन्धात्प््रावृत्तिर्युज्यते । चेतनसम्बन्धादचेतनस्यैव घटादिनिष्पत्तौप्रवृत्तिदर्शनादिति वाच्यम् । य आत्मानमन्तरो यमयतीत्यादिश्रुतौ जीवप्रवृत्तेर् भगवत्कारितत्वश्रवणेन तदप्रेरितप्रवृत्तौ दृष्टान्ताभावात् ।

तत्त्वप्रदीपिका

अचेतनमेवप्रवर्तत इतिप्रथमतःप्रत्यादिष्टम् । अचेतनमेव भूतचतुष्कं संयोगविशेषाच्चेतनीभूयप्रवर्तते मदिराद्रव्यवत् । तदपाये पुनरचेतनी भवतीत्यनन्तरमपोहितम् । सम्प््राति यद्यप्यचेतनमेव कर्तृ तथाऽपि तदङ्गभूतचेतनः कश्चिदस्तीत्येतन्मतमपास्यति । पुरुषाश्मवदिति चेत्तथाऽपि ।

तत्त्वप्रकाशिका

अधिकरणप्रतिपाद्यं दर्शयति ॥ पुरुषेति ॥ अत्र विष्णोः सर्वकर्तृत्वे निरीश्वरसाङ्ख्यैकदेशमता विरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । विष्णोर्जगत्कारणत्वमुक्तम् । तत्रैव मतविरोधेऽसम्भव-प्राप्तेरवश्यनिरसनीयं तद्भवति । ईश्वरस्य जगत्कारणत्वं विषयः । युक्तमयुक्तं वेति सन्देहः । समय-विप्रतिपत्तिः सन्देहबीजम् । पूर्वपक्षस्य सूत्र एवोक्तत्वात्तदुपन्यस्य पूर्वपक्षांशं तावद्व्याचष्टे ॥ पुरुषेति ॥ न हरेर्जगत्कारणत्वं युक्तम् ।प्रधानस्यैव कर्तृत्वेनेश्वरस्य वैयर्थ्यात् । अचेतनस्य स्वतःप्रवृत्तिर्दूषितेति चेन्न । केवलप्रधानस्य कारणत्वानुपपत्तावपि पुरुषोपसर्जनस्य तदुपपत्तेः । भवति चात्रप्रयोगः । विप्रतिपन्नाप्रवृत्तिः पुरुषोपसर्जना चेतननिमित्ता ।प्रवृत्तित्वादश्मानयनादिप्रवृत्तिवदिति । न च दृष्टान्ते विवदितव्यम् । पुरुषसम्बन्धे नाचेतनस्यैव शरीरस्याश्माद्यादानादिप्रवृत्तिदर्शनात् । अतो जगज्जन्मादिकारणत्वलक्षणमीश्वरस्यैवेत्येतद्दूरोत्सारितमिति भावः । सिद्धान्तांशं व्याचष्टे ॥ नेति ॥ युक्तमेव विष्णोः सर्वकर्तृत्वम् । पुरुषोपसर्जनप्रधानस्य जगत्कारणत्वेप्रमाणाभावात् । न चोक्त-मनुमानम् । ‘न ऋते त्वत्क्रियते किञ्चनारे’ इति श्रुतेः । तत्र शरीरप्रवृत्तावपि परमात्माधीनत्वे सिद्धे सति विप्रतिपन्नप्रवृत्तेः पुरुषोपसर्जनप्रधानाधीनत्वसाधने दृष्टान्ताभावादिति भावः ।

गुर्वर्थदीपिका

‘अचेतनापिप्रकृतिः पुरुषात्प््रावर्तत’ इत्यत्र पुरुषो नामप्रकृत्यभिमानी कश्चन महान् जीवविशेष इत्यर्थः ।

भावबोधः

निरीश्वरसाङ्खयैकदेशविरोधेति ॥ नन्वेवं तर्हि इदमधिकरणं द्वितीयं स्यादिति चेत्, सत्यम्, तथाप्यभ्यधिकाशङ्कानुसारेणेयमुक्तिः । तथा हि परमचेतनस्य भगवत एव सर्वकर्तृत्वं प्रागुक्तम् । तस्य केवलप्रकृतिकर्तृत्ववादः साक्षाद्विरोधीतिप्रकृतमपाकृतम् । तत्र मा भूत् केवलस्याचेतनस्यप्रधानस्य कर्तृत्वम्, ईश्वरानुगृहीतस्य तु भविष्यतीत्याशङ्का द्वितीयाधिकरणे निराकृता । मा भूदचेतनस्य कर्तृत्वम्, किं तु शरीरस्य चैतन्याश्रयस्य कर्तृत्वमस्त्वित्याशङ्कायां शरीरस्य चैतन्याश्रयताऽयोगात् पुनस्तदवस्थः कर्तृत्वायोग इति तृतीयेऽभिहितम् । इदानीं तु केवलस्या-चेतनस्य कर्तृत्वायोगेऽपि चेतनसन्निधानेन तदुपपत्तेः किमीश्वरेणेत्येवं शङ्का निराक्रियत इति सुधायामेवानन्तरसङ्गतिरुक्ता ज्ञातव्या ॥ युक्तं न वेति ॥ अत्रेश्वरस्य जगत्कारणत्वं न युक्तमुत युक्तमिति चिन्ता । तदर्थं पुरुषोपसर्जनप्रकृतिकर्तृत्वादिसमयः श्रुत्युक्ततदपबाधनक्षमो भवत्युत नेति । तदर्थं तदुत्प््रोक्षितविप्रतिपन्नाप्रवृत्तिः पुरुषोपसर्जनाऽचेतननिमित्ताप्रवृत्तित्वादश्माद्या-दानादिप्रवृत्तिवदित्यनुमानमनाभासमुत दृष्टान्तस्य साध्यविकलत्वेनाभासमिति । तदर्थं दृष्टान्तस्य साध्यविकलत्वेप्रमाणं नास्त्युतास्तीति ॥ पुरुषसम्बन्धेनेति ॥ अनेन सूत्रे पुरुषपदं जीव-सम्बन्धशरीरपरम् । अश्मपदं च लक्षणया तदादानादिप्रवृत्तिपरम् । तथा च पुरुषस्य जीव-सम्बन्धशरीरस्याश्मादानादिप्रवृत्तिवदिति सूत्रार्थ इत्युक्तं भवति । सूत्रे तथेत्यस्यावृत्तिः । अव्ययानामनेकार्थत्वादेकस्य ‘तत्रे’त्यर्थकत्वं द्वितीयस्य ‘व्यतिरेकानवस्थितेरित्युक्तपरामर्श-कत्वम् । तथा च तत्रापि पुरुषाश्मादावपि । तथा ईश्वरव्यतिरेकेणानवस्थितिः । ततश्च दृष्टान्ता-भाव इत्यभिप्रेत्यप्रवृत्तं तत्रापीत्यादिभाष्यं व्याचष्टे– तत्र शरीरप्रवृत्तावपीति ॥ अत्राद्ये– पराभिप्रेतमनुमानमाशङ्क्य तत्र श्रुत्यवष्टम्भेन दृष्टान्तस्य साध्यविकलत्वोक्तिः । हैतुकम्मन्यश्चायं श्रुतिं न गणयति इति द्वितीये युक्त्या साध्यविकलत्वोक्तिरिति सूत्रक्रमः ।

भावदीपः

अचेतनापिप्रकृतिःप्रवर्तत इति भाष्यसूचितहेतुमाह ॥प्रधानस्येति ॥ कर्तृत्वेनेति ॥ स्वतःप्रवृत्तिमत्त्वेनेत्यर्थः । एवं पुरुषसम्बन्धादिति भाष्यमधिकाशङ्कोक्तिपरत्वेन व्याचष्टे ॥ अचेतनस्येत्यादिना ॥ यथेत्यादिभाष्यमवतार्य व्याचष्टे ॥ न चेत्यादिना ॥ अत इति ॥ पुरुषोपसर्जनप्रकृतेरेव स्वतःप्रवृत्त्युपपत्या ईश्वरवैयर्थ्यादित्यर्थः । युक्तिप्राबल्यादेव च प्रागुक्त-श्रुत्यादिगुणभूतपुरुषविषयमिति भावः । तथात्वे दृष्टान्ताभावादिति भाष्यांशं दृष्टान्तपदंप्रमाणपरं मत्वा व्याचष्टे ॥ पुरुषेति ॥ तदंशस्यार्थान्तरमुपेत्य समग्रभाष्यं व्याचष्टे ॥ न ऋत इति ॥ सिद्धे सतीति शेषोक्तिः । तथात्वे इत्यस्यार्थान्तरं चाह ॥ पुरुषेत्यादि ॥

अभिनवचन्द्रिका

अस्यार्थो ऽश्मशब्देन सादृश्याद्देह उच्यते । ततश्च पुरुषाश्मवच् चेतनयुक्तशरीरवत्, अचेतनापि प्रकृतिः पुरुषसम्बन्धात् प्रवर्तत इति चेत्, न तत्रापि शरीरजन्यप्रवृत्तावपि, ईश्वरस्यैव प्रधानकारणत्वे श्रुतिसद्भावेन दृष्टान्तत्वायोगादिति । अत्र ‘देहवत्’ इति वक्तव्ये ‘अश्मवत्’ इति वचनं शरीरप्रवृत्तिविषयद्योतनार्थम् ॥ निरीश्वरसाङ्ख्यैकदेशविरोधपरिहारादिति ॥ नन्वस्य मतस्य सेश्वरसाङ्ख्यमतान्न विशेषं पश्यामः । तेन हि प्रधानस्य कारणत्वमङ्गीकृत्य, अनुग्राहक ईश्वरोऽङ्गीकृतः । अनेनापि प्रकृतेः कारणत्वमङ्गीकृत्य, तदुपसर्जनत्वेन पुरुषोऽङ्गीकृतः । न च नामवैलक्षण्यमात्रेण मतवैलक्षण्यं सम्भवति । तन्निराकरणमेवैतन्निराकरणमिति व्यर्थमिदमधि-करणमिति चेत्, उच्यते सेश्वरसाङ्ख्येन पर्जन्यवद् बाह्यानुग्राहकत्वमात्रमभ्युपगतम् । अनेन तु प्रकृतिकर्तृत्वान्तर्गतमेव पुरुषकारणत्वमभ्युपगतं ततोऽत्तिरिक्तमिति मतयोर्भेदः । चेतनसम्बन्धात् शरीरस्याऽश्मानयनादिकर्तृत्वदर्शनेनाभ्यधिकाशङ्कासद्भावात् तन्निराकरणार्थमधिकरणं चेदमर्थ-वदिति ॥ ईश्वरवैयर्थ्यादिति ॥ यस्तूपसर्जनतयाऽङ्गीक्रियते नासावीश्वरस् तल्लक्षणाभावादिति भावः ॥ लौकिकपरीक्षकव्यवहारो न स्यादिति ॥ लौकिकाश्च ते परीक्षकाश्चेति विग्रहः । युक्तवादिनो लौकिका इत्यर्थः । एतेन लौकिकाः परीक्षकाः, न वा । आद्ये पृथग्ग्रहणानुपपत्तिः । द्वितीये न तेन पुरुषस्याङ्गित्वसिद्धिः । पामरव्यवहारेणार्थसिध्द्ययोगात् । परीक्षका अपि तीर्थकराश्चेते किं साङ्ख्या उतान्ये । नाद्यस् तेषां व्यवहारस्य तथानुपलम्भात् । नापि द्वितीयस् तेषु परीक्षकत्वासम्मतेरिति परास्तम् । लौकिकानामेव प्रामाणिकत्वेन सर्वसंमतानां व्यवहारस्य विवक्षितत्वात् ।

पूर्वपक्षस्तु– न हरेर्जगत्कारणत्वं युक्तं, चेतनोपसर्जनशरीरस्याऽश्मानयनादिकर्तृत्वदर्शनेन पुरुषोपसर्जनप्रधानेनैव जगदुत्पत्तिसम्भवात् । अत ईश्वरस्यैवाभावाज् जगज्जन्मादिकारणत्वलक्षणं तस्येत्येतद्दूरोत्सारितमिति ।

सिद्धान्तस्तु– युक्तमेव हरेर्जगत्कारणत्वं, पुरुषोपसर्जनप्रकृतेर् जगत्कारणत्वसाधने दृष्टान्ताभावात् । न च शरीरमेव दृष्टान्त इति वाच्यम् ‘न ऋते त्वत्क्रियत’ इति श्रुत्या शरीरप्रवृत्तावपि परमात्माधीनत्वेन दृष्टान्तस्य साध्यविकलत्वात् । किञ्च यदि पुरुषोपसर्जनं शरीरमेव कर्तृ स्यात्तर्हि पुरुषो ऽङ्गी शरीरमङ्गमिति प्रामाणिकलौकिकव्यवहारो न स्यात् । अस्ति चासौ अतो नायं दृष्टान्तः । अतो मतान्तरविरोधाभावाद्युक्तं जगत्कारणत्वलक्षणं विष्णोरिति सिद्धम् ।

वाक्यार्थमुक्तावली

निरीश्वरेति ॥ साङ्ख्यमतं केवलाचेतनकर्तृकत्वचेतनसहिताचेतनकर्तृकत्वाभ्यां द्वेधा । तत्राद्यं निरीश्वरमाद्ये निरस्तम् । द्वितीयमपि साङ्ख्यमतं गुणभूतेश्वरानुगृहीतप्रधानकर्तृकत्वेन वा जीवसहितप्रधानकर्तृकत्वेन वा द्वेधा । तत्राद्यं फलतो निरीश्वरं द्वितीये निरस्तम् । जीवसहित-प्रधानकर्तृत्वमपि जीवस्योपसर्जनत्वप्राधान्याभ्यां द्वेधा । तत्र चेतनस्याचेतनंप्रत्युपसर्जनत्व-रूपाख्यनिरीश्वरैकदेशस्याद्यस्यातिविरोधित्वादत्र निरास इति भावः । नन्वेवमस्य मतस्याति-विरोधित्वेनेदं द्वितीयं स्यादिति चेन्न, तथाप्यभ्यधिकशङ्कानुसारेणेयमुक्तिः । तथाहि परमचेत-नस्य भगवत एव सर्वकर्तृत्वं प्रागुक्तम् । तस्य केवलप्रकृतिकर्तृत्ववादः साक्षाद्विरोधीतिप्रथम-मपाकृतः । तत्र मा भूत्केवलस्याचेतनस्य कर्तृत्वम् ईश्वरानुगृहीतस्य तु भविष्यतीति आशङ्का द्वितीयाधिकरणे निराकृता । माभूदचेतनस्य कर्तृत्वं किन्तु शरीरस्य चैतन्याश्रयस्य कर्तृत्व-मस्त्वित्याशङ्क्य शरीरस्य चैतन्याश्रयतायोगात्पुनस्तदवस्थः कर्तृत्वायोग इति तृतीये समाहितम् । इदानीं तु केवलस्याचेतनस्य कर्तृत्वायोगेऽपि चेतनसम्बन्धेन तदुपपत्तेः किमीश्वरे-णेत्याशङ्का निराक्रियत इति सुधायामेवानन्तरसङ्गतिरुक्ता ज्ञेया ॥ युक्तमिति ॥ विष्णो-र्जगत्कारणत्वं, विप्रतिपन्ना सृष्टिरिति वक्ष्यमाणनिरीश्वरसमयविरोधादयुक्तमुत युक्तमिति चिन्ता । तदर्थमनुमानमनाभासमुत दृष्टान्तस्य श्रुतियुक्तिपराहृतत्वादाभासमिति ॥ पुरुषोपसर्जनस्येति ॥ नन्वीश्वरोपसर्जनस्यप्रधानस्य कर्तृत्वं सेश्वरेणोक्तं पुरुषोपसर्जनस्याचेतनस्योच्यते को विशेष इति चेत् । दृष्टपुरुषस्यानुग्राहकत्वसम्भवेऽदृष्टेश्वरकल्पनावैयर्थ्यादित्याशयात् । किञ्च सेश्वरेणेश्वरस्य पर्जन्यवद्बाह्योपकारकत्वमात्रमुक्तमनेन तुप्रकृतिसंवलनेनेति भेदः ॥ पुरुषसम्बन्धेनेति ॥ अनेन सूत्रे रचनावदित्यस्ति । पुरुषपदेन जीवसम्बद्धः शरीरमुच्यते । अश्मपदं च लक्षणया तदा-दानादिप्रवृत्तिपरम् । तथा च पुरुषस्य जीवसंवलितशरीरस्याश्मानयनादिप्रवृत्तिवदानुमानंप्रधान-मप्युपसर्जनजीवसंवलनेन स्वतःप्रवृत्तिमदिति सूत्रखण्डार्थ इति भावः । तथापीत्यत्र नेत्यनुवर्तते । अव्ययानामनेकार्थत्वादेकस्य तत्रेत्यर्थकत्वम् । द्वितीयस्य व्यतिरेकानवस्थितेरित्युक्तपरामर्श-कत्वम् । तथा न मन्तव्यमिति साध्यप्रदर्शनपरत्वं च । तथा च तत्रापि पुरुषाश्मादावपि तथा तथात्वे श्रुतिबलेनेश्वरव्यतिरेकेणानवस्थाने सिद्धे दृष्टान्ताभावात्तथा न मन्तव्यं पुरुषाश्मवदिति न मन्तव्यमिति सिद्धान्तांशार्थं मत्वा व्याचष्टे ॥ युक्तमेवेत्यादिना ॥ तथात्व इत्यस्यार्थः ॥ परमात्मेति ॥ तथा न मन्तव्यमित्यस्य तात्पर्यं विप्रतिपन्नेति ॥

तत्त्वसुबोधिनी

अधुना जीवसहिताचेतनकर्तृत्वनिरासः । सोऽपि जीवस्योपसर्जनत्वप्राधान्याभ्यां द्वेधा । तत्र चेतनस्याचेतनंप्रति उपसर्जनत्वस्य आद्यस्य अतिविरुद्धत्वादादौ तन्निरास इत्याह ॥ अत्रेति ॥ तथाचेयमेवानन्तरसङ्गतिरिति भावः । न केवलं बाधकाभावः किन्तु साधकमप्यस्तीत्याह ॥ भवति चेति ॥ पुरुषसम्बन्धेनेति ॥ अनेन पुरुषशब्दः जीवसम्बन्धशरीरपर अश्मपदं च लक्षणया तदादानादिप्रवृत्तिपरमिति भावः । सूत्रस्थतथेत्यस्य तत्रेत्यर्थ उक्ते भाष्ये तत्रेत्यस्यार्थ-माह ॥ तत्र शरीरप्रवृत्तावपीति ॥ विप्रतिपन्नप्रवृत्तेरिति जगत्सर्जनादिप्रवृत्तेरित्यर्थः ।

वाक्यार्थमञ्जरी

अत्र तथेत्यस्यावृत्तिर् अव्ययानामनेकार्थत्वादेकस्य तत्रेत्यर्थकत्वम् । द्वितीयस्य व्यतिरेका-नवस्थितेरित्युक्तपरामर्शकत्वम् । तथा च यथा पुरुषस्य चेतनस्य सम्बन्धेन शरीरमश्मानयनादि-कर्तृ तद्वत्प््राधानं जीवसम्बन्धाज्जगत्कत्रिति चेत् । तत्रापि पुरुषाश्मादावपि तथा ईश्वर-व्यतिरेकेणानवस्थितिः । ततश्च दृष्टान्ताभाव इत्यर्थः ॥ पुरुषोपसर्जनेति ॥ पुरुषाख्यामुख्य-सहकारिसहितस्येत्यर्थः । निवृत्ता निष्पन्ना । हैतुकं मन्यमानः स्वात्मानं हैतुकं मन्यमानः ।