०३ अभ्युपगमाधिकरणम्

ॐ अभ्युपगमेऽप्यर्थाभावात् ॐ

३. अथ अभ्युपगमाधिकरणम्

सूत्रभाष्यं

लोकायतिकपक्षं निराकरोति–

॥ ॐ अभ्युपगमेऽप्यर्थाभावात् ॐ ॥ ६ ॥

यस्य धर्माधर्मौ न स्तस् तत्सिद्धान्ते किंप्रयोजनम् । अतः स्वव्याहतेरेवोपेक्ष्यः ।

सत्तर्कदीपावली

प्रत्यक्षैकप्रमाणवादिनो जगदनित्यं मन्यमानस्य लोकायतस्य शास्त्रं विषयप्रयोजनरहित-त्वादुपेक्षणीयम् । तथा हि । घटादेस्तावत्प््रात्यक्षसिद्धत्वेन ज्ञापनानुपयोगान्नासौ विषयः । धर्मादेरनङ्गीकारान्न सोऽपि विषयो वक्तुं शक्यते । धर्मार्थमधर्मनिवृत्त्यर्थं च लोकायासनिवृत्तेर् धर्माद्य-भाववादस्य लोकोपकारःप्रयोजनमिति न वाच्यम् । धर्माद्यभावज्ञाने परस्परहिंसादिनापकारस्यैव प्राप्तेः । न च लोकोपकारेण चार्वाकस्यप्रयोजनम् । अदृष्टाभावात् । अतो धर्माद्यभावं वदत स्वसमयस्यानर्थक्यमङ्गीकृतमेवेति नासौ समयीत्येतत्प््रातिपादयति ॥ लोकेत्यादिना ॥

तत्त्वप्रदीपिका

निरीश्वरनिरासप्रस्तावे तदनतिविप्रकृष्टत्वाल्लोकायतिकपक्षो निरस्यते । सेश्वरः कश्चित्साङ्ख्यत्व-सामान्यादन्तरा तं चामुं च निराकृतः । न च तदीश्वरस्येश्वरत्वम् । अनुग्रहमात्रशक्तिमत्वेनाऽ-स्वातन्त्र्यात् । अव्याप्तत्वाच्च केषाञ्चित्तद्यूथ्यानाम् । अतो निराकर्तव्योऽसौ । स्वतन्त्रं सर्वशक्तिं सर्वव्याप्तमीशं विदुषां न चानीश्वरवादिभ्य ईश्वरमनीश्वरं वदतामतिवैशिष्ट्यमस्ति । अश्रोत्रियत्वं च सपङ्क्तीनां व्यञ्जयितुरन्तराले बहिश्चरस्योपालम्भस्सभ्यानां सारस्यमाधत्ते । गुणोपसंहारपादे समयनिराकरणमनवसरदुःस्थं च ।

अभ्युपगमेऽप्यर्थाभावात् । यस्य धर्माधर्मौ तत्फलं च स्वर्गनिरयनिश्श्रेयसादि नास्तिप्रमाणा-भावात्तत्सिद्धान्ते शास्त्राभ्युपगत्यैव नप्रयोजनम् ।प्रत्यक्षैकप्रमाणप्रणयिनश्च न परप्रतिबोधनप्रयोजनं शास्त्रम् । अतश्च न धर्माद्यभावबोधनेन परोपकारःप्रयोजनं वाच्यम् । तेन च परोपकारो नप्रत्यक्षः । केन च तदभावमयमज्ञो व्यज्ञासीदनादृतान्यमानः । अनुपलब्धिमात्रादभावनिश्चयश्चातिप्रसङ्गी । न च लोकोपकारादपि तस्यप्रयोजनम् । अदृष्टाभावात् । सुखदुःखादेः स्वाभाविकत्वात् ।प्रत्युत हिंसादोषनिषेधनात्स्वस्यापि वधाद्यनर्थप्राप्तिः । अतः स्वव्याहतेरेवोपेक्ष्यः । स्वव्याहतिर्हि महतीयम्– अनुमानमागमश्च नप्रमाणं व्यभिचारादिति मद्वाक्यादवगन्तव्यमिति । निष्फलं मच्छास्त्रमिति तु महीयसी । स्ववधान्न दोष इति महिष्ठा । अतो न तदुत्तरे परेणप्रयतनीयमित्यर्थः ।

तत्त्वप्रकाशिका

अधिकरणार्थं दर्शयति ॥ लोकायतिकेति ॥ अत एवात्र विष्णोर्जगत्कारणत्वे चार्वाक-समयविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । हरिर्जगत्कर्तेत्युक्तम् । तत्र चार्वाकमतविरोधेनाभावा-पत्तेस्तन्निराकार्यमेव । तदीश्वरस्य जगत्कर्तृत्वं विषयः । युक्तं न वेति सन्देहः । विप्रतिपत्तिः सन्देहबीजम् । न युक्तमिति पूर्वः पक्षः । अन्तरेणापीश्वरं पूर्वपूर्वस्मादुत्तरोत्तरोत्पत्तिसम्भवात् । क्वचित्स्वभावादेव मदिरोत्पत्तिवदुपपत्तेश्च । न च साङ्ख्यंप्रतीव श्रुत्यादिबाधो वक्तुं युक्तः । तस्या-प्रामाण्यात् । न च धर्माद्यसिद्धिविरोधः । तदनभ्युपगमात् । न हि धर्माद्यनभ्युपगमे किंचिद्बाधकं पश्यामः । न ह्येतस्याभावापराधेन सत्यामपि बाह्यसामग्र्यां कार्यानुत्पादो दृष्टो येन जानीमोऽस्त्य-लौकिकं कारणमिति । अतोऽदृष्टस्य वस्तुनोऽभावान्नेश्वरस्य जगत्कारणत्वलक्षणं युक्तमिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ अभ्युपगमेऽपीति ॥ युक्तमेव विष्णोर्जगत्कारणत्वम् । यदुक्तमदृष्टार्थ एव नास्तीति कुतो जगदीश्वरः कुतस्तरां जगत्कारणत्वमिति । तत्रप्रष्टव्यम् । तत्सिद्धान्ते किंप्रयोजनमिति । अपेक्षितं खलु शास्त्रेऽधिकार्यादि । तत्र न तावद्धर्मस्वर्गापवर्गादि अनभ्युपगमात् । नापि दृष्टं धनादि तदभावात् । वार्तादिप्रयोजनत्वाच्च तस्य । न च धर्माद्यभाव-बोधनद्वारा लोकोपकारः । तदभावज्ञाने परस्परहिंसादिनापकारस्यैव प्राप्तेः । न चोपकारोऽपि स्वरूपतःप्रयोजनमिति तेनापिप्रयोजनं वाच्यम् । न तावददृष्टं तदभावात् । नापि दृष्टम् । न हि कुवर्त्मना गच्छन्तंप्रतिमार्गोपदेष्टाऽऽविपालो लौकिकैरदृष्टनिरपेक्षैरुपक्रियते । अतो न किंचित्समयस्यप्रयोजनम् । नापि विषयो ऽदृष्टाभावात् । नापि दृष्टः । अप्राप्ते शास्त्रमर्थवदिति न्यायात् । नापि धर्मादिभ्रान्तिनिरासाय तदभावः । तदुपायाभावात् । न हिप्रत्यक्षं धर्माद्यभावं गृह्णाति । अपरामर्शेऽदर्शनात् । परामर्शे दर्शनं तु नानुमानाद्भिद्यते । विषयप्रयोजनाभावे काऽधिकारिणंप्रत्याशा । माऽस्तु मत्सिद्धान्तेप्रयोजनादीति चेत्तर्हि यः सिद्धान्तोऽसौप्रयोजनादिमानिति नियमात् । अतः सिद्धान्तेऽपिप्रयोजनाद्यभावाद्यभ्युपगमे तस्य स्वव्याहतिः स्यात् । न ह्यभ्युपगमोऽप्रयोजनश्चेति युक्तम् । मे माता वन्ध्येतिवत् स्वव्याहतं च वदन् भवानुपेक्ष्य एव जायते न तु परिहाराय विषय इति भावः । अतश्चार्वाकसमयस्यानुपपन्नत्वेनाविरोधकत्वाद्युक्तं जगत्कारणत्वं ब्रह्मण इति सिद्धम् ।

गुर्वर्थदीपिका

पूर्वपूर्वस्मादिति महीमहीधरादेरुत्पत्तिकथनं क्वचित् स्वभावादेव मदिरोत्पत्तिवदिति जीवो-त्पत्तेः कथनम् । नारिकेलादिवृक्षान्तर्गतनीरस्यैव क्षुरधारया कुसुमाग्रच्छेदे सति तस्यैव नीरस्य मदिरात्मकरूपान्तरवद्रूपत्रययोगाख्यविशेषकारणेन देहस्यैव जीवत्वमिति चार्वाकैरुक्तत्वादिति भावः । नापि दृष्टं धनादीत्यत्र लोकोपकारे कृते सति लोकैर्दीयमानं धनधान्यादिकं दृष्टमित्यु-च्यते । तदभावादित्यस्य तस्य धनस्य शास्त्रसाध्यत्वाभावादित्यर्थः ॥ वार्तादीति ॥ कृष्यादि-र्वैश्यवृत्तिः । आदिपदेन चौर्यादिकं गृह्यते । उपक्रियत इत्यत्र उपकारः प््रिायवचनताम्बूल-दानादिः । अपरामर्शेऽदर्शनादित्यत्र अपरामर्शो घटादीनामिवेन्द्रियस्य सम्प््रायोगमात्रं, परामर्शस्तु, अस्ति चेदुपलभ्येत न चोपलभ्यते तस्मान्नास्तीति तर्कः । अभ्युपगच्छति विवक्षितंप्रमेय-मनेनेत्यभ्युपगमः शास्त्ररूपः सिद्धान्तः । आयाससाध्यबहुतरशास्त्ररचनाच्च,प्रयोजने सत्येव स्यान्नान्यथेति भावः । सौत्राऽपि पदसूचितं विषयाद्यभावं च सूचयति नापि विषय इति ।

भावबोधः

चार्वाकसमयेति ॥ तथा च मा भूदचेतनस्य कर्तृत्वम्, शरीरस्य चेतनत्वेन कर्तृत्वापत्ते-रीश्वरवैयर्थ्यात् । न च साङ्ख्यंप्रतीव श्रुत्यादिबाधो वक्तुं युक्तः । तस्याप्रामाण्याङ्गीकारा-दित्यभ्यधिकाशङ्कया पूर्वपक्षोत्थानादनन्तरसङ्गतिरपीति भावः ॥ युक्तं न वेति ॥ अत्रेश्वरस्य जगत्कर्तृत्वं किमयुक्तमुत युक्तमिति चिन्ता । तदर्थं चार्वाकसमयः श्रुत्युक्ततदपबाधनक्षमो भवत्युत नेति । तदर्थं तच्छास्त्रे विषयप्रयोजनादिकमस्त्युत नास्तीति । पूर्वपूर्वस्मादिति ॥ देहरूपचेतनादित्यर्थः ।प्रकारान्तरेणापि देहरूपचेतनोत्पत्युपपत्तिमाह– क्वचिदिति ॥ यथा क्रमुकचूर्णपूर्णादीनांप्रत्येकं मदजनकत्वाभावेऽपि समुदाये तज्जनकत्वम् । तथा पृथिव्यादिभूतानांप्रत्येकं चैतन्योत्पादकत्वाभावेऽपि समुदितभूतचतुष्टस्य स्वभावादेव चैतन्यजनकत्वोपपत्तेश्चेत्यर्थः । समुदितानामपि भूतानां न सर्वत्र चैतन्योत्पादकत्वमित्यभिप्रेत्य क्वचिदित्युक्तम् । तदभावादिति । श्रुतशास्त्रस्यापि धनाद्यभावदर्शनादित्यर्थः । सूत्रभाष्ययोरर्थप्रयोजनशब्दाभ्यां न केवलं फलमात्रं विवक्षितम्, किं तु विषयोऽपीत्याह– नापि विषय इति ॥ अपरामर्शे अदर्शनादिति । इन्द्रियसन्निकृष्टघटादिप्रतियोगिकाभावज्ञानस्येव धर्माद्यभावज्ञानस्य सदिति जायमानस्याऽ-दर्शनादित्यर्थः ।

ननु घटोऽस्ति न वेति परामर्शानन्तरं घटो नास्ति अनुपलभ्यमानत्वादिति घटाभावज्ञान-वदत्रापि धर्माभावज्ञानं स्यादित्यत आह– परामर्श इति ॥ अनुमानं तु त्वन्मते नप्रमाणमिति भावः । विरोधस्फोटकसौत्रादिपदव्याख्यानरूपं स्वव्याहतेरेवेति भाष्यं व्याचष्टे– अतः सिद्धान्तेऽपीति ॥ अनेन सौत्राभ्युपगमशब्दार्थोऽप्युक्त इति । ‘सिद्धान्त’ इति ‘मास्तुप्रयोजनम्’ इत्युक्त्योर्व्याहतिमुपपादयितुं तदर्थयोर्विरोधमाह– न ह्यभ्युपगम इति ॥

भावदीपः

अत एवेत्युक्तार्थम् । एवमग्रेऽपि । कथं तर्हिप्रथमोत्पत्तिरित्यत आह ॥ क्वचिदिति ॥ धान्यादितो यथा मदिरोत्पत्तिस्तथा पृथिव्यादिभूतस्वभावादेवेत्यर्थः । पूर्वोक्तदोषास्पृष्टतामाह ॥ न चेति ॥ ‘चार्वाकैरुच्यते मानमक्षजं नापरं क्वचित्’ इत्यनुभाष्योक्ततन्मतानुरोधेन हेतुमाह ॥ तस्येति ॥ यस्येत्यादिभाष्यसूचितमाह ॥ तदनभ्युपगमादिति ॥ कार्यानुत्पत्तिरेव बाधिकेत्यत आह ॥ न ह्येतस्येति ॥ अत इति ॥ दृष्टसामग््रयैव कार्योत्पत्तिसम्भवादित्यर्थः । किंप्रयोजनमिति भाष्यंप्रश्नार्थत्वेन व्याचष्टे ॥ तत्रप्रष्टव्यमिति ॥ किं शब्दस्याक्षेपार्थत्वं मत्वा यस्येत्यादिभाष्यतात्पर्यमाह ॥ न तावदिति ॥ भाष्येऽधर्मशब्दो धर्मादन्यतज्जन्यस्वर्गादिपर इति दर्शितम् । एतेनाभ्युपगमेऽपि त्वदीयसिद्धान्तेऽप्यर्थाभावाद् धर्मादिलक्षणादृष्टरूपप्रयोजनाभावा-भ्युपगमाददृष्टंप्रयोजनं नास्तीति सूत्रार्थो दर्शितः । आक्षेपार्थकभाष्यस्थकिंशब्देन सूचितं दृष्ट-फलाभावं च व्यनक्ति ॥ नापीत्यादिना ॥ वार्ता वाणिज्यम् । एतेनार्थाभावात् शास्त्रेण धनादिरूपदृष्टप्रयोजनाभावात् । अभ्युपगमे त्वदीयसिद्धान्ते दृष्टमपिप्रयोजनं नास्तीति सूत्रार्थो दर्शितः । न च तेन लोकोपकारः । धर्माद्यभावज्ञाने परस्परहिंसादिनाऽपकारस्यैव प्राप्तेरिति तत्त्वनिर्णयोक्तं हृदि कृत्वाह ॥ न चेति ॥ लोकोपकार इति ॥ इदानीं धर्मादिबुध्या कामोपभोगोपरुद्धानां लोकानां धर्माद्यभावबोधने यथेष्टंप्रवृत्तिसम्भवादुपकारःप्रयोजनं भवतीत्यर्थः ॥ परस्परहिंसेति ॥ धनवनिताद्यपहारार्थमिति भावः । एतेनाभ्युपगमेऽपि लोकोप-कारः फलमित्यङ्गीकारेऽपि अर्थाभावाच्छास्त्राल्लोकोपकाररूपप्रयोजनस्याभावात्प्रत्युतानर्थस्यैव भावात् । तत्सिद्धान्ते लोकोपकारोऽपि फलं न भवतीत्यपि सूत्रवृत्तिर्दर्शिता । न चोपकारेण तस्यप्रयोजनम् अदृष्टाभावादिति तत्त्वनिर्णयोक्त्यनुरोधेन लोकोपकारेणापि किंप्रयोजनमिति भाष्यार्थमुपेत्याह ॥ न चेति ॥ अदृष्टाभावेनैव दृष्टमपि नेत्याह ॥ नापि दृष्टमिति ॥

ननु कथं दृष्टं नास्ति । उपकारकर्तरि उपकृतो लोकःप्रत्युपकारं करिष्यति । यथा लोके अजाविपालाय तेनोपदिष्टमार्गो लोको द्रविणादि ददाति तद्वदित्यत आह ॥ न हीति ॥ सत्य-मेतदविपालो लौकिकैरुपक्रियत इति । तदुपकर्तुःप्रत्युपकाराददृष्टमस्तीत्यनुसन्धानस्य सत्त्वात् त्वया तु तदनुसन्धानमदृष्टाभावबोधनेन त्याजितमिति उपकृतोऽपि लोकः किमर्थंप्रत्युपकारं कुर्यादिति भावः । अयमप्यर्थः पूर्ववत्सूत्रारूढ ऊह्यः । भाष्येप्रयोजनपदेनप्रयुज्यतेप्रवर्त्यते अधिकारी येनेति व्युत्पत्या विषयपरोऽपीति भावेन तद्भाष्यं विषयाक्षेपपरतया व्याचष्टे ॥ नापीति ॥ अप्राप्त इति ॥ मानान्तरावेद्यस्यैव शास्त्रवेद्यत्वादित्यर्थः । एतेनार्थाभावाद् दृष्टादृष्ट-रूपविषयाभावादिति सूत्रार्थो दर्शितः ॥ अपरामर्श इति ॥ धर्मादिकं नास्तिप्रत्यक्षेणानुप-लम्भादित्यादिपरामर्शाभावे धर्माद्यभावस्याप्रतीतेः ॥ परामर्श इति ॥ परामर्शे धर्माद्यभावदर्शनं त्वित्यर्थः । परामर्शपदेनानुमितिकरणस्य दर्शनपदेनानुमितेश्च त्वयैवोक्तत्वादिति भावः । अतः स्वव्याहतेरेवेति भाष्यं विवरितुमाह ॥ मास्त्विति ॥ अत इति भाष्यस्थपदानुवादस् तस्यार्थः ॥ सिद्धान्तेऽपीत्यादि ॥ एतेनाभ्युपगमेऽप्यर्थाभावादिति सूत्रमर्थगत्या व्याख्यातं भवति । स्वव्याहतिमुपपादयति ॥ न हीति ॥ मत्सिद्धान्त इत्यनेन सप्रयोजनत्वाद्यविनाभूतसिद्धान्तत्व-मभ्युपगम्य मास्तुप्रयोजनादीत्यनेनाप्रयोजकत्वाद्युक्तिर्व्याहतेत्यर्थः । तेनानिष्टं कथं भवेदित्यनु-व्याख्यानसुधायां नञा निर्दिष्टमनित्यमित्युक्तदिशा वाक्यादौ नेति वक्तव्यमिति निषेधस्या-नित्यत्वान्मे मातेतिप्रयोगः साधुः । अत्र भाष्ये उपेक्ष्य इत्युक्त्या टीकायां न युक्तमित्युक्त्या सूत्रे पूर्वस्मान्नञनुवृत्तिः सूचिता ॥ अत इति ॥ स्वव्याहतत्वादित्यर्थः ।

अभिनवचन्द्रिका

पूर्वाचेतनादुत्तराचेतनोत्पत्तावपि देहे चैतन्योत्पत्तिः कथमित्यत आह– क्वचिदिति ॥ वृक्षान्तरस्य मदिरोत्पादकत्वाभावेऽपि वृक्षविशेषस्य स्वभावात्तज्जनकत्ववत्, घटादिरूपाचेतनेषु चैतन्योत्पादकत्वाभावेऽपि देहरूपाचेतनस्वभावादेव चैतन्योत्पत्तिरिति भावः ॥ अतोऽदृष्टस्येति ॥ अतीन्द्रियानङ्गीकारे बाधकाभावाददृष्टं वस्त्वेव नास्ति । ततश्च कुत ईश्वरः, कुतस्तमां तज्जगत्कारणत्वं स्यात् । न कुतोऽपीति ईश्वरस्योक्तं जगत्कारणत्वलक्षणं न युक्तमिति प्राप्ते सिद्धान्तयत् सूत्रमुपन्यस्य व्याचष्ट इत्यर्थः । तत्र ‘प्रष्टव्यम्’ इत्यारभ्य अधिकरणसमाप्तिपर्यन्तं टीकार्थोऽस्माभिर्न ज्ञात इति टीका न व्याख्यायते ।

पूर्वपक्षस्तु– न युक्तं विष्णोर्जगत्कारणत्वम्, अन्तरेणापीश्वरं पूर्वस्मात्पूर्वस्मादुत्तरोत्तरोत्पत्ति- सम्भवात् । चैतन्योत्पत्तेरपि मदिरोत्पत्तिवत् स्वभावादेवोपपत्तेः । न च श्रुत्यादिबाधो वक्तुं युक्तः । तस्याप्रामाण्यात् । न च तस्याप्रामाण्ये धर्माद्यसिद्धिप्रसङ्गः । अतीन्द्रियवस्तुनोऽ-भावेनेष्टत्वात् । अत ईश्वराभावान्नेश्वरस्य जगत्कारणत्वलक्षणं युक्तमिति ।

सिद्धान्तस्तु– युक्तमेव विष्णोर्जगत्कारणत्वं, चार्वाकसमयस्य विषयप्रयोजनादिशून्यत्वेना-प्रमाणत्वेन विरोधाभावात् । तथा हि न तावच्चार्वाकसमयस्यातीन्द्रियं विषयस् तदभावात् । नाप्यैन्द्रियिकं, तस्य प्रत्यक्षसिद्धत्वेन शास्त्रानपेक्षणात् । नापि स्वर्गापवर्गादिश्रोतृफलं तद-भावात् । नापि दृष्टं धनादि, तस्य कृष्यादिलघूपायसाध्यत्वात् । नापि प्रणेतुः प्रयोजनं पश्यामः, न च धर्माद्यभावप्रतिपादनद्वारा लोकोपकारः प्रयोजनमिति वाच्यम् । धर्माधर्माद्यभावज्ञाने परस्परहिंसादिना अपकारस्यैव प्राप्तेः । नापि उपकारः स्वतः प्रयोजनम्, सुखदुःखावाप्तिहा-निरूपत्वाभावात् । न वा तेनापि किञ्चित्साध्यं प्रयोजनं पश्यामः । एवंविधे अधिकारी दूरोत्सारितः । तदभावादेव सम्बन्धोऽपि । अतश् चार्वाकसमयस्याऽप्रामाणिकत्वाद्युक्तं जगत्कारणत्वं हरेरिति सिद्धम् ।

वाक्यार्थमुक्तावली

ननु लोकायतेनेश्वराद्यनङ्गीकारान्निरीश्वरसांख्यमतसन्निकृष्टत्वाद् द्वितीयाधिकरणे वा असाङ्ख्यत्वादतितुच्छत्वाच्च पञ्चमे वा तन्मतं निरसनीयम् । कुतः सेश्वरानन्तर्यम् ? न च वक्तव्यं, न च साङ्ख्यंप्रतीव श्रुत्यादिबाधो वक्तुं युक्त’ इति वक्ष्यमाणाभ्यधिकशङ्कयै-तदानन्तर्यमिति, सर्वसाङ्ख्यदूषणानन्तरमपि अस्या अभ्यधिकाशङ्कायाः कर्तुं युक्तत्वादिति । अत्रोच्यते । न ऋत इत्यादेर्गुणभूतेश्वरविषयत्वाद्व्यतिरेकानवस्थितेरितिप्रथमाधिकरणोक्तदोषो नेत्यभ्यधिकशङ्कया द्वितीये प्राप्ते मा भूत्केवलस्याचेतनस्य कर्तृत्वं मा च भूद् ईश्वरानुगृहीतस्या-चेतनस्य किन्तु शरीरस्य चैतन्याश्रयस्य कर्तृत्वमस्तु । न च साङ्ख्यंप्रतीव श्रुत्यादिबाधो वक्तुं युक्तस्तदप्रामाण्यादित्यभ्यधिकाशङ्कया प्राप्तस्याधिकरणस्य फलतो निरीश्वरसाङ्ख्यानन्तर्योपपत्तेः । अत एव आनन्तर्यसङ्गतिः ॥ युक्तमिति ॥ विष्णोर्जगत्कर्तृत्वं युक्तमुत चार्वाकसमयविरोधा-दयुक्तमिति चिन्ता । तदर्थं चार्वाकसमयस्य श्रुतिसिद्धान्तविरोधक्षमत्वमस्त्युत विषयादिशून्य-त्वान्नास्तीति ॥ पूर्वेति ॥ चैतन्याश्रयपित्रादिदेहात् पुत्रोत्पत्तिसम्भवादित्यर्थः । चैतन्यशक्ति-रहिताद् गोमयादेः कथं चैतन्यशक्तिकवृश्चिकाद्युत्पत्तिरित्यत आह– क्वचिदिति ॥ कारणे मद-शक्त्यभावेऽपि मदिरायां स्वभावादेव वृश्चिकवत् स्वभावादेव तृप्तिकादौ चैतन्योत्पति-र्मदिराद्युत्पत्तिवद्युज्यत इत्यर्थः । एकैकत्र भूते चैतन्यजनकशक्त्यभावेऽपि समुदिते तदुपपत्तेः । क्रमुकचूर्णपर्णानांप्रत्येकं मदजनकत्वाभावेऽपि समुदाये तद्दर्शनादिति भावः । सूत्रभाष्ययोरर्थ-प्रयोजनशब्दाभ्यां न केवलं फलमात्रं विवक्षितम् । किन्तु ‘अर्थोऽभिधेयो रैवस्तुप्रयोजननिवृत्तिषु’ इत्यभिधानात्प्रयुज्यते प्रेर्यतेप्रणेताप्रणयने श्रोता श्रवणे येन तत्प््रायोजनमिति व्युत्पत्तेश्च विषयोऽपि विवक्षितः । अधिकारिसम्बन्धयोरुपलक्षणमेतदिति भावेन किंप्रयोजनमिति भाष्यंप्रश्नार्थत्वेन व्याचष्टे ॥ तत्रप्रष्टव्यमिति ॥ अपेक्षितं खलु शास्त्रेऽधिकार्यादि । तत्र तावत् त्वत्सिद्धान्ते किंप्रयोजनम् ? विषयस्यादृष्टं दृष्टं वेतिप्रश्नार्थः । किंशब्दस्याक्षेपार्थत्वं मत्वा यस्येति भाष्यं तावत्प््रायोजनाक्षेपकत्वेन व्याख्याति ॥ न तावदिति ॥ भाष्ये धर्माधर्मौ न स्त इत्यतीन्द्रियाभावोक्त्या स्वर्गादिफलाभावोऽप्युक्तप्राय इति भावेन स्वर्गेत्याद्युक्तम् । धर्मस्य फल-साधनत्वात् फलत्वम् ॥ तदभावादिति ॥ शास्त्रश्रवणेऽपि धनाद्यदर्शनादिति भावः । न तावद्द्रष्टमिति ॥ एतेन यस्य धर्माद्यतीन्द्रियं नास्ति तत्सिद्धान्ते किमदृष्टप्रयोजनेनोपकारेणापीतिप्रकारान्तरेण व्याख्यातं भवति ॥ अदृष्टनिरपेक्षैरिति ॥ एतेन धर्माद्यतीन्द्रियाभावे तत्सिद्धान्तेऽ- दृष्टनिरपेक्षैर् आविपालस्य किंप्रयोजनं लभ्यत इतिप्रकारान्तरेण व्याख्यतम् । विषयाक्षेपकतया भाष्यं योजयति ॥ नापीति ॥ अप्राप्त इति ॥ मानान्तरावेद्ये विषये शास्त्रंप्रयोजनवदिति न्यायार्थः ॥ अपरामर्श इति ॥ इन्द्रियसन्निकृष्टघटादिप्रतियोगिकाभावस्येव धर्माद्यभावज्ञानस्य झडिति जायमानस्यादर्शनादित्यर्थः ।

ननु घटोऽस्ति न वेति परामर्शान्तरं घटो नास्त्यनुपलभ्यमानत्वादिति घटाभावज्ञानवदत्रापि धर्माभावज्ञानं स्यादित्यत आह ॥ परामर्श इति ॥ अनुमानं तु त्वन्मते नप्रमाणमिति भावः । विरोधस्फोरकसौत्रापि पदव्याख्यानरूपं स्वव्याहतेरेवेति भाष्यं व्याचष्टे । अनेनाभ्युपगमपदं सिद्धान्तान्तरपरमित्युक्तं भवति । अर्थाभावाभ्युपगमादित्यनेनाभ्युपगमेऽपीतिप्रकारान्तरेण व्याख्यातं बोध्यम् । तच्च स्वव्याहत्युपपादकं सूत्रेऽपिपदं विरोधस्फोरकं समुच्चायकं च । अनपेक्षत्वादिति पूर्वसूत्रांशः । अनपेक्षित एवेत्यनुवर्तते । अभ्युपगम इति चात्र विपरिणम्यते । ततश्च न केवलमस्मदुपपादनेन किन्त्वभ्युपगमेऽपि स्वाङ्गीकारेणाप्यभ्युपगमे सिद्धान्तेऽप्यर्था-भावाद् विषयप्रयोजनाभावादस्मदुपपादनमन्तरेण त्वयैव सिद्धान्तेऽपिप्रयोजनाद्यभावाभ्युपगमा-दभ्युपगमः स्वसिद्धान्तः स्वव्याहतेरनपेक्षित उपेक्षणीय एवेति सूत्रार्थः ।

तत्त्वसुबोधिनी

मा भूत् केवलमीश्वरगुणकं वाप्रधानं जडत्वात् कर्तृ, तथापि ईश्वरो न कर्ता देहस्यैव चेतनाचेतनत्वेन कर्तृत्त्वाद् ईश्वरस्य व्यर्थत्वात्, न च सांख्यंप्रति इव श्रुत्यादिविरोधस् तस्या-प्रमाणत्वादित्याक्षेपेणोत्थानात् । तथा च वस्तुतोऽचेतनस्य देहस्यैव कर्तृत्वाङ्गीकारेण साङ्ख्यमताकृष्टत्वात्तथा उक्तः । सूत्रे वक्ष्यमाणपुरुषाश्मदृष्टान्तनिर्वाहकनिरासविषयत्वाच् चानन्तरसङ्गतिसद्भावेन मध्ये चार्वाकस्य निरास इत्याह ॥ चार्वाकेति ॥ पूर्वपूर्वस्मादिति ॥ देहरूपचेतनादित्यर्थः ।प्रकारान्तरेणापि देहरूपचेतनोत्पत्त्युपपत्तिमाह ॥ क्वचिदिति ॥ यथा क्रमुकपर्णचूर्णानांप्रत्येकं मदजनकत्वाभावेऽपि समुदाये तज्जनकत्वं तथा पृथिव्यादिभूतानां चैतन्योत्पादकत्वाभावेऽपि समुदितभूतचतुष्टयस्य स्वभावादेव चैतन्यजनकत्वोपपत्तेरित्यर्थः । समुदितानामपि भूतानां न सर्वचैतन्योत्पादकत्वमित्यभिप्रेत्य क्वचिदित्युक्तम् । ननु बाधक-सद्भावाद् धर्मादिकम् अङ्गीकर्तव्यमत आह ॥ न हीति ॥

ननु धर्माद्यभावे दृष्टान्ताभावात् कार्यानुत्पाद एव बाधक इत्यत आह ॥ न ह्येतस्येति ॥ तदभावादिति ॥ तस्य धनादेरेतच्छास्त्रसम्बन्धाभावादित्यर्थः । श्रुतशास्त्रस्यापि धनाद्यभाव-दर्शनादिति भावः ॥ वार्तादीति ॥ धनस्य कृषिगोरक्षणादिरूपप्रवृत्तिसाध्यत्वाच्च नैतत्प्रयोजनत्वमिति भावः ॥ तदभावज्ञाने इति ॥ धर्माधर्माभावज्ञाने इत्यर्थः ॥ न चोपकारोऽपीति ॥ सुखदुःखाभावेतरत्वादिति भावः । सूत्रभाष्ययोरर्थप्रयोजनशब्दाभ्यां न केवलं फलमात्रं विवक्षितं किन्तु विषयोऽपीत्याह ॥ नापीति ॥ कुतो नेत्यत आह ॥ अप्राप्त इति ॥ केनापिप्रमाणेन अप्राप्त इत्यर्थः । दृष्टविषयस्य तुप्रत्यक्षेणैव प्राप्तेरिति भावः ।

ननु धर्माद्यभाव एव विषयः । न च तत्प््रादर्शनं व्यर्थम्, धर्माद्यभावरूपप्रयोजनवत्वेनैव वैय्यर्थ्याभावादित्याशङ्क्य निषेधति (नापीति) न चेति ॥ तदुपायाभावादिति ॥ धर्माधर्माद्य-भावप्रतिपादनोपायाभावादित्यर्थः ।प्रत्यक्षमेव तत्रोपाय इत्यत आह ॥ न हीति ॥ अपरा-मर्शेऽदर्शनादिति ॥ इन्द्रियसन्निकृष्टघटादिप्रतियोगिकाभावज्ञानस्येव धर्मादिकं नास्ति,प्रत्यक्षेणानुपलम्भादित्यादिपरामर्शाभावे धर्माद्यभावस्याप्रतीतेरित्यर्थः । ननु घटोऽस्ति न वेति परामर्शानन्तरं घटो नास्त्यनुपलभ्यमानत्वादिति घटाभावज्ञानवदत्रापि परामर्शेन धर्माभावज्ञानं स्यादित्यत आह ॥ परामर्शे इति ॥ परामर्शेनेत्यनेनानुमितिकरणस्य, दर्शनशब्देनानुमितेश्च त्वयैव वक्तव्यत्वादित्यर्थः । अनुमानं तु त्वन्मतेनप्रमाणमिति भावः । विषयाद्यभावेन नाधिकार्यपि न समयस्य सम्भवति । विषयजिज्ञासयोःप्रयोजनकामस्यैवाधिकारित्वादिति आह ॥ विषयेति ॥ विरोधस्फोरकसौत्रापिपदव्याख्यानरूपं स्वव्याहतिरेवेति भाष्यं व्याचष्टे ॥ अतः सिद्धान्तेऽपीति ॥ स्वव्याहतिमुपपादयति ॥ न ह्यभ्युपगम इति ॥ मत्सिद्धान्त इत्यनेना-प्रयोजनवत्वोक्तिर् व्याहतेत्यर्थः । अत्र भाष्ये अपेक्ष्य इत्यनेन टीकायां न युक्तमित्यनेन च पूर्व-सूत्रान्नञोऽनुवृत्तिर्दर्शिता । अनेन च त्वदीयशास्त्रस्य सिद्धान्तत्वानभ्युपगमेति सिद्धमस्मदिष्टम् । अभ्युपगमेति तद्व्यापकयोर् विषयप्रयोजनयोर् अभावाभ्युपगमाद्व्याप्त इति सूत्राक्षरयोजना सूचिता ।

वाक्यार्थविवरणं

ननु सकलपदार्थोत्पत्तिनिमित्तादृष्टापरपर्यायधर्माद्यभावे कार्यानुत्पाद एव बाधक इत्यत आह ॥ न हीति ॥ एतस्य ॥ धर्मादेः । नन्वसङ्गतप्रश्नोऽयमित्यत आह ॥ अपेक्षितं हीति ॥ यो हि यमर्थमर्थयमानो यं विषयं जिज्ञासते तस्यैवाधिकारित्वेनाधिकारिणः शास्त्रप्रवृत्त्यर्थंप्रयोजनादि-प्रश्नो युक्त इत्यर्थः । आदिपदेन सम्बन्धस्य नियोज्ययजमानादेर्वा ग्रहणम् । फलश्रुतिप्रेर्यो हि नियोज्य इत्येवं नियोज्यत्वादेरपिप्रयोजनादिघटितत्वादित्याशयः ॥ तदभावादिति ॥ अधिगत-शास्त्रस्यापि धनाद्यभावेन तस्य शास्त्रप्रयोजनत्वायोगादिति भावः ॥ वार्तेति ॥ कुसीदमुच्यते । आदिपदेन कृष्यादि । तथा च न धनादिप्रयोजनस्य शास्त्रेण जन्यजनकभावादिसम्बन्धो युक्त इति भावः । एवं श्रोतृप्रयोजनाभावमुक्त्वाप्रणेतृप्रयोजनं च निराह ॥ न चेति ॥ नापीत्यर्थः । शास्त्रप्रणेतुः फलमिति शेषः ॥ स्वत इति ॥ सुखदुःखावाप्तिहान्योरन्यतरत्वाभावादिति भावः ॥ दृष्टमिति ॥ उपकारजन्यजनानुरागप्रभवं संपदादिकमित्यर्थः । नेदमपिप्रयोजनं तस्याप्यदृष्टाय-तत्वे तदभावेऽस्याप्यभावादित्याह ॥ न हीति ॥ अदृष्टनिरपेक्षैरिति ॥ कृतघ्नतानिमित्त-प्रत्यवायानुसन्धानशून्यैरित्यर्थः । अदृष्टं च त्वन्मते नास्तीति भावः । यथोक्तमन्यत्र । कृतघ्नता-निमित्तप्रत्यवायानुसन्धाने सत्येवमेतत् । तत्त्वयैव धर्माद्यभावंप्रतिपादयता त्याजितमिति । तद्भावः । धर्माद्यभावः ॥ तदुपायेति ॥ धर्माद्यभावबोधनोपायेत्यर्थः ॥प्रत्याशेति ॥ उक्तरीत्याऽधिकारित्वस्य विषयादिघटितत्वादित्यर्थः ॥ अधिकारिणामिति ॥ बहुवचनमाद्यर्थे । तेन नियोज्यादिग्रहणम् । सम्बन्धस्य वा सम्बन्धिनामभावे तदयोगादिति ध्येयम् ।

वाक्यार्थमञ्जरी

पूर्वपूर्वस्मादिति ॥ देहरूपचेतनादित्यर्थः ।प्रकारान्तरेणापि देहरूपचेतनोत्पत्युपपत्तिमाह ॥ क्वचिदिति ॥ यथाक्रमुकचूर्णपर्णादीनांप्रत्येकं मदजनकत्वाभावेऽपि समुदाये तज्जनकत्वं तथा पृथिव्यादिभूतानांप्रत्येकं चैतन्योत्पादकत्वाभावेऽपि समुचितभूतचतुष्टयस्य स्वभावादेव चैतन्य-जनकत्वोपपत्तेश्चेति भावः । समुचितानामपि भूतानां न सर्वत्र चैतन्योत्पादकत्वमित्यभिप्रेत्य क्वचिदित्युक्तम् ॥ श्रुत्यादीति ॥ यतो वेत्यादीत्यर्थः । एवमग्रेऽपि । ननु धर्मादेः सकल-जगन्निमित्तकारणत्वे न तदभावे कार्यमात्रविलोपप्रसङ्ग इत्यत आह ॥ न हीति ॥ अभ्युप-गमेऽपि सिद्धान्तेऽपि अर्थाभावाद् विषयप्रयोजनयोरभावाद् व्याहतमेतन्मतमित्यर्थः ॥ तदभावा-दिति ॥ श्रुतशास्त्रस्यापि धनाद्यभावदर्शनादित्यर्थः । वार्ता वाणिज्यम् ॥ लोकोपकार इति ॥ तथात्वे निरंकुशकामोपभोगप्रवृत्तेरिति भावः । हिंसादिना प्राप्तेन निमित्तेन । शास्त्रप्रवृत्तेः प्राग-धर्मादिशङ्कया मर्यादाभूत् । शास्त्रेण तदभावज्ञाने च परस्परधनवनिताद्यपहारेण परस्परहिंसादिकं स्यात् । तथाचापकार एवानेन कृतः स्यात् । न हि कपर्दिकालाभाय लक्षलाभं नाशयन्नुपकारी भवतीति भावः । अभ्युपेत्याह ॥ न चेति ॥ सुखदुःखप्राप्तिनिवृत्योरन्यतराभावादितिभावः । दृष्टं जनानुरागप्रभवं धनादि तदप्यदृष्टायत्तमित्याह न हीति ॥ अदृष्टेति ॥ कृतघ्नतानिमित्तप्रत्य-वायेत्यर्थः । अप्राप्तेप्रमाणान्तरेण ॥ अपरामर्श इति ॥ इन्द्रियसन्निकृष्टघटादिप्रतियोगिका-भावज्ञानस्येव धर्माद्यभावज्ञानस्य झटिति जायमानस्यादर्शनादित्यर्थः । ननु घटोऽस्ति न वेति विमर्शानन्तरं घटो नास्ति अनुपलभ्यमानत्वादिति घटाभावज्ञानवदत्रापि धर्माद्यभावज्ञानं स्यादित्यत आह ॥ परामर्शेति ॥ अनुमानं तु त्वन्मते नप्रमाणमिति भावः ॥ केति ॥ यो हि यमर्थमर्थयमानो यं विषयं जिज्ञासते तस्यैव तत्राधिकारित्वादिति भावः ॥ सिद्धान्त इति ॥ मास्तुप्रयोजनमित्युक्त्योर्व्याहतिमुपपादयितुं तदर्थयोर्विरोधमाह ॥ न हीति ॥ सप्रयोजन-स्यैवाभ्युपगमसिद्धान्तत्वादिति भावः ।

॥ इति अभ्युपगमाधिकरणम् ॥ ३ ॥