ॐ अन्यत्राभावाच्च न तृणादिवत् ॐ
२. अथ अन्यत्राभावाधिकरणम्
सूत्रभाष्यं
सेश्वरसाङ्ख्यमतं निराकरोति । यथा पृथिव्या एव पर्जन्यानुगृहीतं तृणादिकमुत्पद्यते, एवं प्रधानादीश्वरानुगृहीतं जगदित्यतो ब्रवीति–
॥ ॐ अन्यत्राभावाच्च न तृणादिवत् ॐ ॥ ५ ॥
‘यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा ।
अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः
ब्रह्मण्येवेदमाविरासीद् ब्रह्मणि स्थितं ब्रह्मणि लयमभ्युपैति ।
ब्रह्मैवाधस्ताद् ब्रह्मैवोपरिष्ठाद् ब्रह्म मध्यतो ब्रह्म सर्वतः’ ॥
‘ब्रह्मैवेदं सर्वम्’ (बृ.उ.४-५-१) इत्यादिश्रुतिभ्योऽन्यत्र जगतोऽभावात्तृणादीनां पर्जन्य-वन्नानुग्राहकत्वमात्रमीश्वरस्य ।
‘स एव भूयो निजवीर्यचोदितां स्वजीवमायां प्रकृतिं सिसृक्षतीम् ।
अनामरूपात्मनि रूपनामनी विधित्समानोऽनुससार शास्तिकृत्’ इति भागवते ।
‘द्रव्यं कर्म च कालश्च’ इत्यादि च । चशब्देन प्रकृतिसत्तादिप्रदत्वं चाङ्गीकृतम् ।
सत्तर्कदीपावली
अन्यत्रेत्यादिना ॥ ब्रह्मन्निव इति ब्रह्मणीति ग्राह्यम् । अग्निव्याप्तायःपिण्डे अयमग्निरितिवद् ब्रह्मव्याप्तं जगद् ब्रह्मैवेदं सर्वमिति श्रुत्योच्यते । सर्वान्तर्यामित्वेनात्र सर्वगत्वं नारायणस्य विवक्षितं नाकाशस्येव सर्वत्र स्थितिमात्रम् । सर्वान्तर्यामित्वादीश्वरस्य प्रकृत्यादिसत्ताप्रदत्वं तत्तच्छक्त्युद्बोधकत्व-मन्यत्राभावाच्चेति सूत्रगतेन चशब्देन सूचितम् । पुराणवाक्याभ्यामित्युच्यते ‘स एव भूयो निजवीर्य-चोदितम्’ इत्यनेन प्रकृतिशक्त्युद्बोधकत्वमुच्यते । ‘द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया’ इत्यनेन प्रकृत्यादिसत्ताप्रदत्वमुच्यते । द्रव्यशब्देन पूर्वप्रकृता प्रकृतिरुच्यते । एवं नित्यानित्यजगन्नियन्तृत्वावगमात् परमेश्वरस्य तृणादिकस्य कार्यस्य पर्जन्यवन्नानु-ग्राहकत्वमात्रमित्यर्थः ।
तत्त्वप्रदीपिका
निरीश्वरे निराकृते साङ्ख्ये साङ्ख्य एव सेश्वरो ब्रूते । यदि न केवलादचेतनादुत्पत्तिरुपपत्तिमती, अस्तु तर्हि तृणादौ पर्जन्यवज्जगज्जन्मनीश्वरस्यानुग्राहकत्वमात्रमिति । अतो ब्रूते– ॐ अन्यत्राभावाच्च न तृणादिवत् ॐ । ‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः’ । तत्सर्वं देशतः कालतो गुणत-श्शक्तितश्च व्याप्य स्थितः । अन्तर्बहिश्च तद्देशे तद्रहितदेशे च व्याप्तस्तत्काले तद्रहिते काले च तद्भूतैस्तदभूतैर्गुणैः शक्तिभिश्च युक्तः । ‘ब्रह्मैवेदं सर्वम्’ इति सर्वस्य तदधीनत्वात् । ‘तदधीनत्वा-दर्थवत्’ इत्यादेः । ‘सर्वं समाप्नोषि ततोऽसि सर्वः’ इत्यादेश्च । ब्रह्मणोऽन्यत्र जगतः सृष्ट्यादेस् तच्छक्तेश्चाभावान्नानुग्राहकत्वमात्रं तस्य । किन्तु जगदुत्पादकत्वादिकमुपादानादिशक्तिप्रदत्वं चास्तीति ।
तत्त्वप्रकाशिका
अधिकरणार्थं दर्शयति ॥ सेश्वरेति ॥ अत एवात्र विष्णोः स्वतन्त्रकर्तृत्वे सेश्वरसाङ्ख्य-समयविरोधनिरासादस्ति शास्त्रादिसङ्गतिः । स्वातन्त्र्येण जगत्कर्तेश्वर इति निगदितम् । तस्य च साङ्ख्यसमयविरोधे लक्षणानुपपत्तिः स्यादित्यवश्यं निरसनीयः । तद्धरेः स्वातन्त्र्येण जगत्कारणत्वं विषयः । युक्तमयुक्तं वेति संशयः । मतविमतिः सन्देहबीजम् । पूर्वपक्षयति ॥ यथेति ॥ नेश्वरस्य स्वतन्त्रकर्तृत्वं युक्तम् । प्रधानादेव जगदुत्पत्तेः सम्भवात् । न चाचेतनस्य स्वतः प्रवृत्यनुपपत्ति-रित्युक्तमेवेति वाच्यम् । प्रधानादेव जगदुत्पत्तावीश्वरस्यानुग्राहकत्वाभ्युपगमात् । तथा खलु पृथिव्येव तृणादिकार्याणां प्रधानं कारणं पर्जन्यानुग्रहेण चोत्पादयति । तथा प्रधानस्यैव प्राधान्यमीश्वर-स्त्वनुग्राहकमात्रमिति न तस्य स्वातन्त्र्येण जगत्कारणत्वलक्षणं युक्तमिति भावः । सिद्धान्तयत्सूत्र-मवतार्य व्याचष्टे ॥ अत इति ॥ युक्तमेव विष्णोर्जगत्कारणत्वं स्वातन्त्र्येण न तु यथा तृणादीनां पर्जन्योऽनुग्राहकस्तथानुग्राहकत्वमात्रम् । सर्वपदार्थानां सत्तादिप्रदानाय सर्वगतत्वोक्तेरीश्वर-प्रारणामन्तरेण कस्यापि वस्तुनः सत्त्वस्यैवाभावात् । न हि यदधीनं यस्य सत्तादि तत्तस्यानुग्राहक-मात्रमिति भावः । ब्रह्मैवेदं सर्वमिति तदधीना सत्तेत्युच्यते । न केवलं कार्यस्येश्वराधीनत्वान्नानु-ग्राहकत्वमात्रं तस्य किं तु सर्वकारणत्वेनाभ्युपगतप्रकृतिसत्तादेरपि तदधीनत्वम् । अतश्च विष्णोरेव स्वातन्त्र्यमिति सप्रमाणकं सूत्राक्षरार्थमाह ॥ स इति ॥ स एवेति हर्यधीनोद्बोधत्वं प्रकृतेरुच्यते द्रव्यमिति तदधीनसत्त्वम् । स्वजीवमायां स्वाधीनां जीवबन्धिकाम् । सिसृक्षतीं सर्जनोन्मुखीम् । आत्मनि आत्माधारत्वेन । चशब्देन सूचितमिति शेषः । अतः सेश्वरसाङ्ख्यमतस्याप्रामाणिकत्वेना-विरोधाद्युक्तं हरेर्जगत्कारणत्वलक्षणमिति सिद्धम् ।
गुर्वर्थदीपिका
अनुग्राहकमात्रमित्यस्य स्वशक्त्यैव जगदाकारेण परिणमतः प्रधानस्य दूरे स्थित्वा पिण्डी-करणाय जलदानादिना किञ्चिदुपकारमात्रमित्यर्थः । आत्मनि आत्माधारत्वेनेत्यत्र आन्तं स्वमहिमप्रतिपादकनामरहितत्वात् प्राकृतरूपरहितत्वाच्चानामरूपेति विशेषणमुपस्कर्तव्यम् । ‘रूपनामनी विधित्समानोऽनुससार’ इत्यत्र प्रस्तुतरूपराहित्यस्यैव वक्तव्यत्वाद्रूपपदेन प्राकृत-रूपमुक्त्वा तद्राहित्यमेवोच्यते । करिष्यमाणनामरूपयोः प्रागपि सत्त्वे करणायोगात् प्रागभाव-सूचनाय चेदं विशेषणम् । नाम्नो नित्यत्वेऽपि जगति तत्सम्बन्धकरणात्कार्यत्वं नाम्नाम् । नित्य-सम्बन्धवति भगवत्येतादृशनामाभावाद्वाऽनामत्वमिति ज्ञेयम् । सूचितमिति शेष इति वदतो ‘अङ्गीकृतम्’ इत्यत्रेति शब्दाध्याहारोऽप्यभिमतः । सेश्वरसाङ्ख्योऽपीश्वरे परमैश्वर्या-नङ्गीकारादैश्वर्यरहितेश्वरस्य च वन्ध्यापुत्रवदभावान्निरीश्वरसाङ्ख्यवत् प्रकृतिमात्रकर्तृत्ववादीति भावेन तदनन्तरमेव तन्निरासायाप्यधिकरणारम्भ इति ज्ञेयम् ।
भावबोधः
सेश्वरसाङ्ख्यसमयेति ॥ तथा च न निरीश्वरपक्षोक्तदोषोऽत्रेति पूर्वपक्षोत्थानादनन्तर-सङ्गतिरपीति भावः ॥ युक्तमिति ॥ अत्र हरेः स्वातन्त्र्येण जगत्कर्तृत्वं किमयुक्तमुत युक्तमिति चिन्ता । तदर्थं सेश्वरसाङ्ख्यसमयः श्रुत्युक्ततदपबाधनक्षमो भवत्युत नेति । तदर्थं तत्परिकल्पित- मीश्वरस्य पर्जन्यवत् प्रकृत्यनुग्राहकमात्रत्वं सम्भवत्युत न सम्भवतीति । तदर्थमीश्वरस्य प्रकृति-पर्जन्यादिसर्वसत्तादिप्रदत्वरूपप्राधान्ये प्रमाणं नास्त्युतास्तीति ॥ सर्वपदार्थानामिति ॥ तथा च तदुदाहरणं न प्रकृतानुपयुक्तमिति भावः । श्रुतेरभेदप्रतिपादकत्वभ्रमं वारयितुमाह– तदधीनसत्ते-त्युच्यत इति ॥ स एवेत्यादिभाष्यं सौत्र ‘च’ शब्दव्याख्यानमित्याह– न केवलमित्यादिना ॥ नानुग्राहकत्वमात्रमिति ॥ निषेधार्थकनञ्समासोऽयम् । अनुग्राहकत्वाभावमात्रमित्यर्थः । तथा च न केवलम् ‘अन्यत्राभावात्’ इत्यनेनोक्तं कार्यस्येश्वराधीनत्वमेव सेश्वरसाङ्ख्योक्तप्रमाण-सिद्धसौत्रचशब्दसूचितं सर्वहेतुभूतप्रकृतिसत्तादेरीश्वराधीनत्वमपि विरोधीत्यर्थः । स्वजीवेत्यत्र कर्मधारयत्वे तत्प््रातिपाद्याभेदस्य बाधितत्वेन षष्ठीतत्पुरुष इत्यभिप्रात्याऽऽह– स्वाधीनेति ॥ चशब्देन सूचितमिति शेष इति । सत्तादिप्रदत्वाच्च प्रामाणिकैरङ्गीकृतमिति चशब्देन सूचित-मित्यर्थः । इत्यन्यत्राऽभावाधिकरणम् ।
भावदीपः
अत एवेत्युक्तं व्यनक्ति ॥ अत्रेति ॥ कर्तृत्वस्य परसंमतत्वात्स्वतन्त्रेत्युक्तम् । पूर्वोक्त-दोषास्पृष्टतोक्तिपरतया भाष्यमवतार्य व्याचष्टे ॥ न चेति ॥ भाष्ये तृणादिवदिति सूत्रांशानुरोधेन दृष्टान्ते दार्ष्टान्तिके च कार्यमात्रे पर्जन्याद्यनुग्रहोक्तावपि कारणेऽपि तदनुग्रहो ध्येयः सौत्रचशब्द-व्यावृत्त्यर्थत्वात्तस्येति भावेन कार्यकारणयोरुभयत्रानुग्रहान्वयाय पर्जन्यानुगृहीतानामित्युक्त्वा पर्जन्यानुग्रहेणेति ईश्वरस्तदनुग्राहकमात्रमिति चोक्तम् । आकाङ्क्षितं पूरयन् व्युत्क्रमेण भाष्यं व्याचष्टे ॥ युक्तमेवेति ॥ तृणादीनामित्यादेरर्थो न त्वित्यादि । यच्च किञ्चिदित्यादि सर्वगतत्व-श्रुत्युक्तेः प्रकृतोपयोगायोक्तम् ॥ सर्वपदार्थानां सत्तादिप्रदानायेति ॥ एतल्लाभोऽग्रे व्यक्तः । श्रुतिभ्य इत्यस्य भावार्थः ॥ सर्वगतत्वोक्तेरिति ॥ अन्यत्रेत्यादेर् अन्यत्रान्याधीनत्वेन राज्ञि राष्ट्रमितिवत् । ईश्वरप्रारणामन्तरेणेत्यादिरर्थः ॥ तदधीना सत्तेति ॥ ‘यदधीना यस्य सत्ता तत्तदित्येव भण्यत’ इत्युक्तेरिति भावः । स एवेत्यादिभाष्यं सौत्रचशब्दव्याख्यानमित्याह ॥ न केवलमिति ॥ तत्ताप्रदत्वं चेति चशब्दार्थव्यक्तिरियं भाष्यपदमेवानुवदति ॥ नानुग्राहकत्व-मात्रमिति ॥ नसमासेन समस्तमेतत्पदम् । अनुग्राहकत्वमात्रविरोधीत्यर्थः ॥ तदधीनत्वमिति ॥ नानुग्राहकत्वमात्रमित्यनुषङ्गः ॥ सूत्राक्षरेति ॥ च शब्दरूपेत्यर्थः । तथा च न केवलमन्यत्रा-भावादित्यनेनोक्तं कार्यस्येश्वराधीनत्वमेवेश्वरसाङ्ख्योक्तस्यानुग्राहकत्वमात्रस्य विरोधि किं तु स एवेत्यादिप्रमाणसिद्धं सौत्रचशब्दसूचितं सर्वहेतुभूतप्रकृतिसत्तादेरीश्वराधीनत्वमपि विरोधीत्यर्थः ॥ सूचितमितीति ॥ तथा च प्रकृतिसत्तादिप्रदत्वं चाङ्गीकृतं सूत्रकृतेति सौत्रचशब्देन सूचितमित्यर्थ इति भावः ॥ अत इति ॥ सर्वस्येशाधीनत्वावेदकश्रुतिस्मृतिविरोधादित्यर्थः ।
अभिनवचन्द्रिका
अधिकरणार्थमिति ॥ पादादौ ‘पादस्यैकार्थत्वादधिकरणभेदः किं निबन्धन’ इति शङ्कोत्पन्ना । सा च पूर्वाधिकरणप्रतिपाद्यप्रदर्शनेन प्रथमाधिकरणविषये निवृत्तापि, द्वितीया-द्यधिकरणविषयेऽनुवर्तते एवेति तामेव शङ्कां द्वितीयाधिकरणविषये परिहर्तुम् एतदधिकरणार्थं दर्शयतीत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् । कार्यसत्तादेरीश्वराधीनत्वेऽपि ईश्वरोऽनुग्राहक एव न कारणमिति किं न स्यादित्यत आह– न हीति ॥ असतः सत्तासम्बन्धस्यैवोत्पत्तित्वेन कार्यसत्तायाः परमेश्वराधीनत्वमङ्गीकृत्य कारणत्वं नेति वचनं ‘माता वन्ध्या’ इतिवद्व्याहतमिति भावः । नन्वीश्वरस्य जगत्कारणत्वप्रतिपादनमयुक्तम्, ‘ब्रह्मैवेदं सर्वम्’ इति तस्य जगदात्म-कत्वाभिधानादित्यत आह– ब्रह्मैवेदमिति ॥ तदधीना सर्वसत्तेति हेतोर्ब्रह्मैवेदं सर्वमित्युच्यते न तु तत्तादात्म्याभिप्रायेणेति भावः । ‘स एव भूयो निजवीर्यचोदिताम्’ इत्यादि भाष्यमसङ्गतम् । परस्परमन्वयविधुरत्वादित्याशङ्कापरिहाराय भाष्यमवतारयति – न केवलमिति ॥ न केवलं कार्यस्येश्वराधीनत्वादित्यतः परं ‘नानुग्राहकत्वमात्रम्’ इति प्रक्षिप्तम् । ‘ईश्वराधीनत्वात्’ इति प्रञ्चमी च प्रक्षिप्ता । ततश्चैवं टीकावाक्यपाठः । ‘न केवलं कार्यस्येश्वराधीनत्वं किन्तु सर्वकारणत्वेनाभ्युपगतप्रकृतिसत्तादेरपि तदधीनत्वम् । अतश्च विष्णोरेव स्वातन्त्र्यमिति सप्रमाणकं सूत्राक्षरार्थमाह’ इति । अवश्यं चैतदेवं विज्ञेयं नानुग्राहकत्वमात्रमित्यर्थस्य उदाहरिष्यमाणप्रमाणद्वयेन ‘चशब्देन’ इति भाष्येण चाभावात् । कार्यस्येश्वराधीनत्वादिति हेतोर् नानुग्राहकत्वमित्यनेनैव ‘किं तु सर्वकारणत्वेनाभ्युपगतप्रकृतिसत्तादेरपि तदधीनत्वम्’ इत्यनेनाप्यन्वयाभावाच्च । अस्य ‘अतश्च विष्णोरेव स्वातन्त्र्यम्’ इत्युत्तरग्रन्थेनान्वयात् ॥ सूत्राक्षरार्थमिति ॥ सूत्रचशब्दार्थमित्यर्थः ॥ आत्मनि आत्माधारत्वेनेति ॥ ‘अनामरूपात्मनि’ इत्यत्रत्यात्मनीतिशब्दस्य व्याख्यानमात्माधारत्वेनेति ।
पूर्वपक्षस्तु – नेश्वरस्य स्वातन्त्र्येण कर्तृत्वं युक्तम् । परमेश्वरानुगृहीतप्रधानादेव पर्जन्यानु-गृहीतपृथिव्या अङ्कुरोत्पत्तिवज् जगदुत्पत्तिसम्भवात् । अतो नेश्वरस्य स्वातन्त्र्येण जगत्कारणत्व-लक्षणं युक्तमिति ।
सिद्धान्तस्तु– युक्तमेव विष्णोर्जगत्कारणत्वं स्वातन्त्र्येण तत्प्रेरणामन्तरेण कस्यापि वस्तुनोऽभावात् । मूलकारणभूतायाः प्रकृतेरपि तदधीनसत्ताकत्वाच्च । अतः सेश्वरसाङ्ख्यमतस्या-प्रामाणिकत्वेनाऽविरोधकत्वाद्युक्तं हरेर्जगत्कारणत्वलक्षणमिति सिद्धम् ।
वाक्यार्थमुक्तावली
सेश्वरेति ॥ न ऋते इत्यादिश्रुतेर्गुणभूतेश्वरविषयत्वसम्भवाद् व्यतिरेकानवस्थितेरित्य-धिकरणोक्तदोषो नेत्याक्षेपेण प्रवृत्तेरनन्तरसङ्गतिः । इदं च मतं सेश्वरमपि साङ्ख्यमतत्वादीश्वरस्य स्वातन्त्र्यास्वीकारेण फलतो निरीश्वरवादान्तर्भूतत्वान् न सेश्वरवैशेषिकादिपरीक्षायां निरस्तम् ॥ युक्तमिति ॥ अत्र विष्णोः स्वातन्त्र्येण जगत्कारणत्वम् अयुक्तमुत युक्तमिति चिन्ता । तदर्थ-मीश्वरस्य पर्जन्यवदनुग्राहकत्वमात्रमुत प्रकृतिसत्तादिप्रदत्वमस्तीति ॥ प्रधानादेव जगदुत्पत्तौ ईश्वरस्यानुग्राहकत्वाभ्युपगमादिति ॥ अत्रानुग्राहकत्वं नाम फलोपकार्यङ्गत्वमेव न तु साधनोप-कारित्वम् । अत एव भाष्ये पर्जन्यानुगृहीतं तृणादीश्वरानुगृहीतं जगदित्युक्तम् । अन्यथा पर्जन्यानुगृहीताया इत्यवक्ष्यत् । टीकायां च यथा तृणादीनां पर्जन्योऽनुग्राहक इति वक्ष्यति ।
यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा ।
अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ॥
इति श्रुतौ सर्वगतत्वोक्तेः प्रकृतोपयोगमाह ॥ सत्तादिप्रदानायेति ॥ स एवेत्यादिभाष्यं सौत्र चशब्दव्याख्यानमित्याह ॥ न केवलमित्यादिना ॥ नानुग्राहकत्वाभावमात्रमित्यर्थः । प्रकृति सत्तादेरपीत्यादिपदेन तच्छक्त्युद्बोधः ॥ सूत्राक्षरेति ॥ चशब्दरूपसूत्राक्षरमाहेत्यर्थः । तथा च न केवलमन्यत्राभावादित्यनेनोक्तं कार्यस्येश्वराधीनत्वमेव सेश्वरसाङ्ख्योक्तस्यानुग्राहकत्वमात्रस्य विरोधि, किन्तु स एवेत्यादिभाष्योक्तप्रमाणसिद्धं सौत्रचशब्दसमुच्चितं सर्वकारणप्रकृतिसत्ता-देरीश्वराधीनत्वमपि विरोधीत्यर्थः ॥ स्वाधीनामिति ॥ स्वा च सा जीवमाया चेति विग्रह इति भावः । जडस्य सिसृक्षाभावादाह ॥ सर्जनेति ॥ अनामरूपात्मनीत्यस्य रूपनामनीत्यनेन व्याघातनिरासाय सप्तम्यर्थमाह ॥ आत्माधारत्वेनेति ॥ चशब्देनेत्यतः परं सूचितमिति शेष इत्यर्थ इति भावः । तथा च इत्यादि च प्रमाणजातं चशब्देन सूचितम् । प्रकृतिसत्तादिप्रदत्वं च प्रामाणिकैरङ्गीकृतमिति भाष्यार्थ इति ज्ञेयम् । चन्द्रिकाभावबोधयोस्तु ॥ सूचितमिति शेष इति ॥ सत्तादिप्रदत्वं च प्रामाणिकैरङ्गीकृतमिति सौत्रचशब्देन सूचितमित्यर्थ इत्युक्तम् । अनन्तभट्टीये तु इत्यादिनाङ्गीकृतं सत्तादिप्रदत्वं चशब्देन सूचितमित्यर्थ उक्तः । ततश्च अन्यत्र ईशादन्याधारत्वेन जगतोऽभावात्तत्प््रोरणं विना कस्यापि कार्यस्याभावाच्चशब्दात् प्रकृत्यादि-कारणसत्तादेरपि ईशायत्तत्वस्य प्रमितत्वाच्च तृणादीनां पर्जन्य इव नेशोऽनुग्राहकमात्रम् । किन्तु स्वतन्त्र एवेति सूत्रार्थः ।
तत्त्वसुबोधिनी
ननु निरीश्वरजीवसहितप्रधानकर्तृत्ववादिमतद्वयं सेश्वरादाद्येऽतिविरोधित्वात्तन्निरसनीयमिति चेन्न । सेश्वरसांख्यमतस्य न तृप्त इत्यादिश्रुतेर्गुणभूतेश्वरविषयत्वसम्भवाद् व्यतिरेकानवस्थितेरिति प्रथमाधिकरणोक्तदोषेणेत्याक्षेपेण प्रवृत्तेराक्षेपिकसङ्गतिसत्त्वात् । अत्र तन्निरास इत्याह– सेश्वर-साङ्ख्यसमयेति ॥ कुतोऽनुग्राहकत्वाभाव इत्यत आह ॥ ईश्वरेति ॥ ईश्वरप्रारणाभावे वस्तुनः कुतो न सत्त्वमित्यत उक्तम् ॥ सर्वगतत्वोक्तेरिति ॥ ननु सर्वगतत्वकथनं स्वरूपकथनमित्यतः सर्वपदार्थानां सत्तादिप्रदानायेत्युक्तम् । न हि यच्च किञ्चिदित्यादिश्रुतौ सर्वगतत्वं वस्तुस्थिति-कथनार्थमुक्तं किन्तु सत्तादिप्रदानायोक्तम् । तथा च ईश्वरप्रारणाभावे वस्तुनः सत्वस्यैवासम्भवान्न तस्य पर्जन्यवदनुग्राहकत्वमिति भावः । तथा च तदुदाहरणम् प्रकृतानुपयुक्तमिति भावः । अस्तु सत्तादेर्भगवदधीनत्वं तथाप्यनुग्राहकत्वमात्रमेवास्तु इत्यत आह ॥ न हीति ॥ श्रुतेर-भेदप्रतिपादकत्वभ्रमं निवारयितुम् आह– तदधीनेति ॥ स एवेत्यादिभाष्यं सौत्रचशब्दव्याख्यानम् इत्याह– न केवलमित्यादिना ॥ नानुग्राहकत्वमात्रमिति निषेधार्थकसमासोऽयम् । अनुग्राह-कत्वाभावमात्रमित्यर्थः । तथा च न केवलमन्यत्राभावादित्यनेनोक्तं कार्यस्य ईश्वराधीनत्वमेव, सेश्वरसाङ्ख्योक्तस्यानुग्राहकत्वमात्रस्य विरोधि, किन्तु स एवेत्यादिभाष्योक्तप्रमाणसिद्धं सौत्रच-शब्दसूचितसर्वहेतुभूतप्रकृतसत्तादेरीश्वराधीनत्वमपि विरोधि इत्यर्थः । स्वजीवेत्यत्र कर्मधारयस्य तत्प््रातिपाद्याभेदस्य बाधितत्वेनासम्भवात् षष्ठीतत्पुरुष इत्यभिपे्रत्याह स्वाधीनेति ॥ ‘चशब्देन सूचितमिति शेषः’ इति । सत्ताप्रदत्वं च प्रामाणिकैरङ्गीकृतमिति चशब्देन सूचितमित्यर्थः ।
वाक्यार्थविवरणम्
इत्युच्यत इति । ‘यदधीना यस्य सत्ता तत्तदेवेति भण्यते’ इति प्रमाणादिति भावः ॥ सूत्राक्षरेति ॥ सूत्रगतचशब्देत्यर्थः ॥ स एवेति ॥ श्लोके ‘स्वजीवमायां सिसृक्षतीम्’ इत्यनेनेति शेषः । द्रव्यम् । प्रकृतिः । आत्मनि । स्वस्मिन् । रूपनामनी इति प्रतीतिनिरासायाह ॥ आत्माधारत्वेनेति ॥
वाक्यार्थमञ्जरी
तर्हि प्रधानस्य प्राधान्यं न स्यादित्यत आह ॥ यथेति ॥ अन्यत्र ईशादन्याधारत्वे न जगतो अभावात्तत्प््रोरणां विना कस्यापि कार्यस्य सत्वाभावादिति यावत् । तं विना प्रकृत्यादि-कारणसत्वाभावाच्च तृणादीनां पर्जन्य इव नेश्वरोऽनुग्राहकमात्रं किं तु सर्वस्वतन्त्र एवेत्यर्थः ॥ सर्वपदार्थानामिति ॥ तथा च तदुदाहरणं न प्रकृतानुपयोगीति भावः । अभेदप्रतिपादकत्वभ्रमं वारयति ॥ तदधीनसत्तेति ॥ द्रव्यं प्रकृतिः ॥ चशब्देन सूचितमिति ॥ कारणसत्तादिप्रदत्वं च प्रामाणिकैरङ्गीकृतमिति चशब्देन सूचितमित्यर्थः ।
॥ इति अन्यत्राभावाधिकरणम् ॥ २ ॥