०१ रचनानुपपत्त्यधिकरणम्

ॐ रचनानुपपत्तेश्च नानुमानम् ॐ

अथ द्वितीयः पादः

१. रचनानुपपत्त्यधिकरणम्

सूत्रभाष्यम्

‘इतरेषां चानुपलब्धेः’ (ब्र.सू.२-१-२) इति सामान्यतो निराकरणं समयानां कृतम् । विशेषतो निराकरोत्यस्मिन्पादे ।

अचेतनप्रवृत्तिमतंप्रथमतो निराकरोति–

॥ ॐ रचनानुपपत्तेश्च नानुमानम् ॐ ॥ १ ॥

अचेतनस्य स्वतःप्रवृत्त्यनुपपत्तेर्नानुमानपरिकल्पितंप्रधानं जगत्कर्तृ । चशब्देनप्रमाणाभावं दर्शयति ।

सत्तर्कदीपावली

जगज्जन्मादिकर्तरि नारायणे सर्ववेदप्रतिपादिते पूर्वोद्भावितस्मृत्यादिविरोधान् पूर्वपादे परिहृत्या अस्मिन्पादे विशेषतः परपक्षनिराकरणं क्रियते । सामान्यतस्तस्मिन्निराकरणम् इतरेषां चानुप-लब्धेरित्यत्र कृतं पशुपतिकपिलकणादादिग्रन्थोक्तार्थानां केषाञ्चिद्योगानुपलम्भबाधितत्वोक्त्या तद्ग्रन्थानाम् अनाप्तोक्तत्वसिद्धेस्तदाह ॥ इतरेषामित्यादिना ॥ तत्र तावन्निरीश्वरसाङ्ख्यमतं निराकरोति ॥ रचनेत्यादिना ॥

तत्त्वप्रदीपिका

प्रथमपादस्य युक्त्यविरोधप्रदर्शनपरत्वात्समयानां च सकलानां युक्त्यवष्टम्भकत्वात्तत्रैव समस्त-समयनिरसनसौलभ्यमुपलभ्यते । तच्च ‘इतरेषां चानुपलब्धेः’ इति कृतम् । ततश्च तेनास्य पादस्य पौनरुक्त्यमित्येतामाशङ्कामपाचिकीर्षताप्रपञ्च्यप्रपञ्चकभावात्मिका सङ्गतिरिह सङ्गीर्यते भगवता भाष्य-कारेण इतरेषां चानुपलब्धेरित्यादिना । तत्तदुदितदृष्टफलानुपलम्भयुक्त्या सामान्यतो निराकृताः समयाः । इह तु समूलतूलमुच्छिद्यन्तेप्रत्येकं मूलफलप्रमाणप्रत्याख्यानेन ।

तत्र साङ्ख्या मन्यन्ते । अचेतनं स्वतन्त्रंप्रधानं जगदाकारेण परिणमते । सुखदुःखमोहात्मकं चेदमुपलक्ष्यते स्त्रीपिण्डादिदृष्टान्तेन । ततस्तत्कारणेनापि त्रिगुणात्मकेन भवितव्यम् । तथा चायंप्रयोगः । विमतमचेतनकर्तृकं कार्यत्वात् । यत्र क्वचन कदाचिदचेतनं किञ्चित्स्वत एव कार्यकरं सम्पद्येतेति स्यादेव दृष्टान्तः । अपि च विमतं सुखदुःखमोहात्मककारणपूर्वकं सुखदुःखमोहात्म-कत्वात् । यद्यदात्मकं तत्तदात्मककारणपूर्वकं यथा घट इति । एतन्मतंप्रथमतो निराकरोति ।प्रधानविरोधित्वादस्य । अचेतनप्रवृत्तिवादिनां निर्विशङ्कं केवलाचेतनप्रवृत्तिं वदतःप्रधानत्वात् । स्वतन्त्रचेतनवादिनस्स्वतन्त्राचेतनवादिनि विरोधस्य चाऽत्यन्तिकत्वात् ।

ॐ रचनानुपपतेश्च नाऽनुमानम् ॐ । ‘आनुमानम्’ अनुमानपरिकल्पितं न जगत्कर्तृ । स्वतन्त्रप्रवृत्तिर्हि रचना नाम । सा च विचित्रविष्टपविषया विशिष्टचेतने सम्बोभूयमाना नैवाचेतनस्य स्यात् । चशब्देनप्रमाणाभावं दर्शयति । अचेतनं न स्वतन्त्रंप्रवर्तते, अचेतनत्वाद्घटवदिति विपर्ययेणानुमातुं शक्यत्वात् । साध्यविकलश्च परदृष्टान्तः । द्वितीयो हेतुरसिद्धः । आगमवागप्यखिलकर्तारं परमविगानेनावगमयतीति पुरस्तादेवोदीरितम् । यथा कर्तृत्वे तथा भोक्तृत्वमोचकत्वादौ चप्रमाणाभावं दर्शयति । तत्पक्षेप्रमाणाभावमेव च दर्शयति । स्वत एव ह्यप्रामाण्यं चासौ मन्यतेप्रमाणानाम् ।

तत्त्वप्रकाशिका

एतत्पादप्रतिपाद्यं दर्शयति ॥ इतरेषामिति ॥ सर्वविरोधानां युक्तिमूलत्वेन तद्विरोधस्य प्राबल्या-त्प््राथमपादे स निराकृतः । इतरविरोधत्रयेऽनादिकालानुवृत्तसमयविरोधस्यैवप्रबलत्वाच्छ्रुतिसमन्वयसिद्धे ब्रह्मणो जगत्कारणत्वे समयविरोधं परिहर्तुं तानस्मिन् पादे निराकरोति भगवान्सूत्रकारः । न च वाच्यमितरेषां चानुपलब्धेरिति कपिलकणादादिसमयानामुक्तानुपलब्ध्याऽनाप्तोक्तत्वेन निराकृतत्वाद् व्यर्थोऽयं पाद इति । तत्र सामान्यतो निराकृतानामत्र विशेषतो निराकरणात् । न ह्यनादिकालानु-वृत्तानांप्रतीतिसुन्दराणां तेषां सामान्यतो निराकरणेऽधिकारिणो निःशङ्काप्रवृत्तिर्भवतीति भावः । आद्याधिकरणार्थं दर्शयति ॥ अचेतनेति ॥ समया द्विविधाः । हैतुकपाषण्डभेदात् । वेदवादिनांप्रथमपादे निराकृतत्वात् । ‘अक्षपादकणादौ च साङ्ख्ययोगौ च हैतुकाः । बौद्धपाशुपताद्यास्तु पाषण्डा इति कीर्तिताः’ । तत्र पाषण्डेभ्योऽपि हैतुकाःप्रबलाः । युक्तिमत्त्वात् । तेषु च साङ्ख्यचार्वाक-समयस्यैवातिविरोधित्वम् । ईश्वरनिरपेक्षाचेतनप्रवृत्तिवादित्वात् । तत्र चार्वाकसमयस्याति-विरोधित्वेऽप्यतितुच्छत्वेनप्रथमं निषेध्यतायोगादादौ साङ्ख्यसमयो निराकर्तव्यः । स च द्विविधः । निरीश्वरः सेश्वरश्च । तत्र निरीश्वरस्यैवातिविरोधित्वम् । अतो निरीश्वरसाङ्ख्यमतमेवादौ निराकरोतीति भावः । अत एवात्र हरेर्जगत्कारणत्वे निरीश्वरसाङ्ख्यमतविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । विष्णुः सर्वकर्तेत्युक्तम् । तत्र च साङ्ख्यमतविरोधे लक्षणासम्भवप्रसङ्गादसौ निराकर्तव्य एव । अतो विष्णोः सर्वकर्तृत्वं विषयः । युक्तं न वेति सन्देहः । समयविवादः सन्देह-बीजम् । न युक्तमिति पूर्वः पक्षः ।प्रकृतेरेव महदादिकारणत्वात् । भवितव्यं खलु कार्येण स्वसदृशकारणवतैव । अन्यथाऽतिप्रसङ्गात् । न हीश्वरस्य महदादिसारूप्यमीश्वरवादिभिरभ्युपेयते । न चप्रकृतिप्रारकत्वेनेश्वरोऽङ्गीकर्तव्यः । केवलप्रकृतेरेव कर्तृत्वाभ्युपगमात् । न चान्यदीश्वराङ्गीकारेप्रयोजनं पश्यामः । अतःप्रकृतेरेवाशेषकर्तृत्वान्नेश्वरस्य कर्तृत्वं वास्तीत्युक्तमयुक्तमिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ रचनेति ॥ न कार्यं स्वसदृशकारणवत् कार्यत्वादित्यनुमानेन कारणतया कल्पितंप्रधानं जगत्कर्तृ । स्वतःप्रवृत्तिमदेव हि कर्तृ भवति । न चप्रधानस्य स्वतःप्रवृत्तिर्युक्ता अचेतनत्वाद् घटवत् । अतो युक्तं विष्णोर्जगत्कारणत्वमिति भावः । प्रामाणिकंप्रधानस्य जगत्कारणत्वं न युक्त्या निराकर्तुं शक्यमित्यत आह ॥ चशब्देनेति ॥ प्राचीनमनुमानं तु कारणत्वमात्रसाधकं नप्रकृतोपयोगि । स्वतःप्रवृत्तिसाधकं तुप्रमाणं नास्त्येवेति भावः ।

गुर्वर्थदीपिका

चेतननिरपेक्षपात्रस्थाचेतनपयस एव रात्रौ दध्याकारेण परिणामदर्शनाज्जगदुपादानप्रकृतेरेव कर्तृत्वमिति भावेनाह केवलप्रकृतेरिति ॥ ‘न कार्यम्’ इत्यत्रोक्तनञो जगत्कर्तृ नेति सम्बन्धः । कारणत्वमात्रसाधकमित्यत्रप्रकृतेरिति शेषः । सर्वं कारणं स्वसदृशमिति तु घटादावप्यभावाद् दृष्टान्तविकलम् । मातुः पुमपत्येन सता वक्तुमशक्यं च । यत्किञ्चित्कारणस्य स्वसदृशत्वसाधनेप्रकृत्याख्यस्य स्वसदृशोपादानस्यास्माभिरप्यङ्गीकृतत्वात् सिद्धसाधनम् । तेन च मृदादिवत्कर्तृ-त्वासिद्धेःप्रकृतानुपयुक्तं चेत्यर्थः ।

भावबोधः

इतरविरोधत्रये अनादिकालानुवृत्तसमयविरोधस्येति ॥ अपौरुषेयवेदापेक्षया समयानां दौर्बल्यशङ्कानिरासायोक्तम्– अनादिकालानुवृत्तेति ॥ अत एव सुधायाम् ।

‘अनादिकालतो वृत्ताः समया हिप्रवाहतः’

इत्यनुव्याख्यानमेवं व्याख्यातम् । ‘नन्वेवमुभयोरपि अनादिकालानुवृत्तत्वेन साम्यात् समय-विरोधस्य कथं प्राबल्यमिति चेत्, न समयपदेनैव समूलस्यात्यन्तभ्रमहेतुत्त्वेन तत्वज्ञानादि-विरोधित्वस्य च श्रुतिविरोधापेक्षया तद्विरोधस्य प्राबल्यहेतोः सूचितत्वात्’ इति । तत्र सामान्यतो निराकृतानामिति ॥ अनेन पूर्वपादेनास्य पादस्यप्रपञ्च्यप्रपञ्चकभावलक्षणा सङ्गतिरित्युक्तं भवति । वैदिकसमयस्यापि तृतीयस्य सत्त्वात् कथं द्वैविध्यमित्यत आह– वेद-वादिनामिति ॥ वेदावष्टम्भेन पूर्वपक्षं कुर्वताम्, ‘असदिति चेत्’ इत्यादौप्रथमपादे निराकृतत्वा-दित्यर्थः । यद्यप्यत्रप्रतिक्षेप्यवैशेषिकादीनां वेदप्रामाण्यवादित्वेन वैदिकत्वमस्त्येव । तथापि न वेदप्रामाण्यवादित्वं वैदिकत्वम्, किं तु तत्प््राधानत्वं वैशेषिकादीनां तु हेतुप्रधानत्वमेवेति न वैदिकत्वमिति भावः ॥ युक्तिमत्त्वादिति ॥ यद्यपि चार्वाकमते युक्तिर्नप्रमाणम्; तथापि लोकव्यवहारोच्छेदभिया धूमादिज्ञानानन्तरं वह्न्यादिज्ञानं सम्भावनारूपम् । संवादेन च तस्य प्रामाण्याभिमान इत्यङ्गीकृतत्वेन तस्यापि युक्तिमत्त्वादिति भावः ॥ युक्तं न वेतीति ॥ अत्र विष्णोः सर्वकर्तृत्वं किं न युक्तमुत युक्तमिति चिन्ता । तदर्थं निरीश्वरसाङ्ख्यसमयः श्रुत्युक्तजग-त्कर्तृत्वबाधनक्षमो भवत्युत नेति । तदर्थं महदादिकं स्वसदृशकारणजन्यं कार्यत्वादिति तत्परि-कल्पितमनुमानं किमनाभासमुतप्रधानम्, न स्वतःप्रवृत्तिमदचेतनत्वादित्याद्यनुमानबाधितत्वेना-भासमिति । तदर्थमचेतनत्वहेतोः पयोऽम्ब्वयस्कान्तादौ व्यभिचारोऽस्त्युत नास्तीति । तदर्थं पयोऽम्ब्वादेश्चेतनाधीनप्रवृत्तिमत्त्वेप्रमाणं नास्त्युतास्तीति ॥ अनुमानेन कारणतया कल्पित-मिति ॥ अनेन सूत्रे आनुमानमिति पदविभागमभिप्रात्यानुपरिकल्पितमिति भाष्येऽभिहितमित्युक्तं भवति ।

भावदीपः

वक्ष्यमाणभाष्येणैव पदार्थज्ञानसम्भवादादौ तत्प््रादर्शनं व्यर्थमित्यतः सङ्गत्यर्थत्वेन सार्थक्य-मुपेत्य तथैव व्याचष्टे ॥ सर्वेति ॥ न विलक्षणत्वनयसिद्धनित्यनिर्दोषभाववेदविरोधतोऽपि साङ्ख्यादिसमयानां कुत आदौ निरास इत्यत आह ॥ अनादीति ॥ ‘अनादिकालतो वृत्ताः समया हिप्रवाहतः । न चोच्छेदोऽस्ति कस्यापीत्याद्यनुभाष्योक्तेः’ इति भावः । उक्ताहाने-स्तन्निरासो व्यर्थ इत्यत आह ॥ श्रुतीति ॥ कर्माकाङ्क्षां पूरयति ॥ तानिति ॥ विशेषतो निराकृतिर्व्यर्थेत्यत आह ॥ न हीति ॥प्रथमतो निराकृतावचेतनपदसूचितं हेतुं वक्तुमाह ॥ समया इति ॥ ननु वेदवादरतो न स्यान्न पाषण्डी न हैतुकीति समयत्रैविध्यस्य एकादश-स्कन्धोक्तेः कथं द्वैविध्यमित्यतोऽत्रपादे निराकार्यत्वाशयेनेति भावेनाह ॥ वेदवादिनामिति ॥ वेदेन सह वादो यो वेदवाद इतीरितः । तर्केण वेदस्यान्यार्थकल्पनं तद्विदो विदुरित्येकादशस्कन्ध- तात्पर्योक्तलक्षणवेदवादिनामित्यर्थः । हैतुकादयः के इत्याकाङ्क्षायां द्वितीये गीतातात्पर्योक्त-नारदीयस्मृत्या दर्शयति ॥ अक्षपादेति ॥ साङ्ख्यचार्वाकेति ॥ चार्वाकस्याहैतुकत्वेऽपि अचेतन-प्रवृत्तिवादित्वसाम्यात्साङ्ख्यमते तन्निरास इति भावः ॥ निरीश्वरेति ॥ यद्यपि द्वितीयनयनिरस्यं साङ्ख्यमतं सेश्वरं तथापि तेनेश्वरस्य स्वातन्त्र्यास्वीकारेण निरीश्वरवादप्रायत्वादीश्वरनिरपेक्षे-त्युक्तम् ॥ अतिविरोधित्वेऽपीति ॥ अदृष्टमात्रानभ्युपगमादिति भावः ॥ अतिविरोधित्वमिति ॥ ईश्वराख्यविशेषस्यैवानभ्युपगमादिति भावः ॥ अत एवेति ॥ तन्मतस्यातिविरोधित्वेन तन्निराकरणस्यावश्यकत्वादेवेत्यर्थः । चिन्तायाः पूर्वसङ्गतिसाफल्ये वक्ति ॥ विष्णुरिति ॥ अतः सङ्गतिफलयोर्भावादित्यर्थः ॥ समयेति ॥ सांख्यवैष्णवसमयविवाद इत्यर्थः । अत्र न्यायविवरणे उक्तविरोधिनस्तत्तत्समयसिद्धाः पूर्वपक्षन्यायास्तद्विरोधिनोऽन्य इतिप्रसिद्धमेवेत्युक्त्या एतत्पादीय- न्यायविवरणाभावात् ।

वत्सविवृद्धिनिमित्तं क्षीरस्य यथाप्रवृत्तिरज्ञस्य ।

पुरुषस्य विमोक्षनिमित्तं तथाप्रवृत्तिःप्रधानस्य ॥

इति साङ्ख्यकारिकाविवरणपरेणाचेतनस्य कर्तृत्वं स्वातन्त्र्येण निगद्यत इत्यनुव्याख्याने नोक्ततन्मतानुरोधेनानुमानपरिकल्पितंप्रधानं जगत्कर्तृ इति भाष्यं विवृण्वन्पूर्वपक्षमाह ॥प्रकृते-रिति ॥ अत्रानुमानमाह ॥ भवितव्यमिति ॥ अनेन महदादिकं स्वसदृशकारणकं कार्यत्वाद् घटवदित्यनुमानमुक्तं ध्येयम् । वृश्चिकताण्डुलीयकादावपि तद्देहस्य स्वसदृशकारणकत्वमस्त्येवेति भावः । विपक्षे बाधकमाह ॥ अन्यथेति ॥ अतिप्रसङ्गादिति ॥ तन्त्वादिनापि घटाद्युत्पत्ति-प्रसङ्गादित्यर्थः । सिद्धसाधनतां निराह ॥ न हीति ॥ नन्वीश्वराभावे कस्यापिप्रवृत्त्ययोगेनप्रकृतेः कारणत्वमेव न स्यादिति तर्कपराहतिरिति भावेनाशङ्क्य निराह ॥ न चेति ॥ कर्तृत्वेति ॥ स्वत एवप्रवृत्तिमत्त्वरूपकर्तृत्वाभ्युपगमादित्यर्थः ॥ अत इति ॥ ईश्वराङ्गीकारस्य निष्फलत्वादित्यर्थः । आकाङ्क्षाक्रमेण भाष्यं व्याचष्टे ॥ न कार्यमिति ॥ उक्तसाध्ये भाष्योक्त-हेतोरप्रयोजकत्वनिरासाय व्यतिरेकव्याप्तिमाह ॥ स्वतःप्रवृत्तिमदेवेति ॥ स्वतन्त्रः कर्तेति स्मरणादिति भावः । भाष्यस्थहेतोः पक्षधर्मतामाह ॥ न चेति ॥ अचेतनस्येति हेतुगर्भं मत्वाऽह ॥ अचेतनत्वादिति ॥ अत इति ॥प्रकृतेरेव कर्तृत्वमित्यस्यायोगादित्यर्थः । कार्यत्वमेव मानमित्यत आह ॥ प्राचीनमिति ॥ नास्त्येवेति ॥ दृष्टान्ताभावात् पयोऽम्ब्वादेस्तु निरसिष्यमाणत्वादिति भावः । एतेनानुमानं न मानं विवक्षितार्थसाधकतया अनुमानरचनाया अनुपपत्तेरिति सूत्रस्यार्थान्तरमुक्तं भवति ।

अभिनवचन्द्रिका

एतत्पादर्थमिति ॥ ‘अध्यायस्यैकार्थत्वात् पादभेदः किंनिबन्धन इत्यत’ इति वर्तते । तस्य ‘एतत्पादार्थं दर्शयति’ इत्यनेन सम्बन्धः ॥ आद्याधिकरणार्थमिति ॥ ‘पादस्यैकार्थत्वा-दधिकरणभेदः किं निबन्धन इत्यत’ इति शेषः ॥ साङ्ख्ययोगाविति ॥ उपलक्षणमेतत् । चार्वाक इत्यपि ग्राह्यम् । यद्यपि चार्वाकः प्रत्यक्षमात्रप्रामाण्यवादित्वान्न हैतुकः, तथापि पररीति-मवलम्ब्य स्वशास्त्रे बहुयुक्त्युपन्यासात् सोऽपि हैतुकेषु सङ्ग्राह्य इति बोध्यम् ॥ अत एवेति ॥ अस्यैव विवरणं हरेर्जगत्कारणत्वे निरीश्वरसाङ्ख्यमतविरोधपरिहारादिति ॥ प्रकृतेरेव महदादि-कारणत्वादिति ॥ कर्तृविरहितायाः प्रकृतेर् महदादिकारणत्वादित्यर्थः । कर्तृविरहितायाः प्रकृतेः कारणत्वं वक्तुं कारणत्वमात्रसाधकमनुमानं तावदाह– भवितव्यं खल्विति ॥ कार्यस्य स्वसदृशकारणकत्वनियमेऽपि ईश्वर एव कारणमस्त्वित्यत आह– न हीति ॥ न चेति ॥ प्रेरकत्वमिह कार्योन्मुखीकरणम् ॥ केवलप्रकृतेरेवेति ॥ केवलायाः प्रकृतेः कार्योन्मुखत्वस्य समयकर्तृभिरभ्युपगमादित्यर्थः ॥ अशेषकर्तृत्वादिति ॥ अशेषकार्योन्मुखत्वादित्यर्थः । एतेन ज्ञानादिमत्त्वरूपत्वादचेतनस्य कर्तृत्वाभिधानमयुक्तमिति परास्तम् ॥ जगत्कर्त्रिति ॥ स्वत एव कार्योन्मुखमित्यर्थः ॥ कर्तृ भवतीति ॥ स्वतः कार्योन्मुखं भवतीत्यर्थः । कर्तैव खलु स्वतःप्रवृत्तिमत्त्वात् स्वतःकार्योन्मुखः, अन्यत्तु उपादानादिकं प्रयत्नविधुरत्वात् कर्त्रधीनतया कार्योन्मुखमिति भावः ।

वाक्यार्थमुक्तावली

एतत्पादार्थमिति ॥ अध्यायस्यैकार्थत्वाद् भेदः किं निबन्धन इत्यत एतत्पादार्थं दर्शयतीत्यर्थः । अपौरुषेयवेदापेक्षया समयानां दौर्बल्यशङ्कां निराह ॥ अनादीति ॥ तदुक्त-मनुव्याख्याने– ‘अनादिकालतो वृत्ताः समया हिप्रवाहत’ इति । उभयोरप्यनादित्वसाम्येऽपि अज्ञानदशायामेव वेदविरोधस्फुरणात् । समयविरोधस्य विमर्शदशायामपि प्राप्तेः । बहुजन-परिगृहीतत्वात् प्राज्ञैः कपिलादिभिःप्रवर्तितत्वाच्च प्राबल्यम् ॥ विशेषत इति ॥ सामयिकत-त्तत्प््रामेयेषु दृढयुक्तिविरोधस्य विशिष्योक्त्याप्रपञ्च्यतेऽस्मिन्पादे इति पूर्वपादेनप्रपञ्च्यप्रपञ्चक-भावलक्षणा सङ्गतिरुक्ता भवति । भाष्येप्रथमत इत्यस्यप्रथमभागे केषुचिदधिकरणेष्विति भ्रमं वारयति ॥ आद्य इति ॥ पादस्यैकार्थत्वाद् अधिकरणभेदः किंनिबन्धन इत्यत इति पूरणीयम् । ननु ‘वेदेन सह वादो यो वेदवाद इतीरितः । तर्केण वेदस्यान्यार्थकल्पनं तद्विदो विदुः’ ॥ इत्युक्तलक्षणा वेदवादिनोऽपि ‘वेदवादरतो न स्यान्न पाषण्डी न हैतुकी’ इति पाषण्डादि-वन्निषिद्धत्वात् त्रिविधा इति वक्तव्यं, कथं समयद्वैविध्यमित्यत आह ॥ वेदवादिनामिति ॥ ‘भोक्त्रापत्तेः’ इत्यादिना निराकृतत्वादित्यर्थः ॥ तेषु च साङ्ख्यचार्वाकसमयस्येति ॥ यद्यपि चार्वाकमते युक्तिर्नप्रमाणं तथापि लोकव्यवहारभिया धूमादिज्ञानानन्तरं वह्न्यादिज्ञानं सम्भावनारूपं जायते, संवादेन च प्रामाण्याभिमान इति तैरङ्गीकृतत्वेन पररीतिमवलम्ब्य स्वग्रन्थे बहुयुक्त्युपन्यासाच्च हैतुकत्वं बोध्यम् ॥ ईश्वरनिरपेक्षेति ॥ यद्यपि सेश्वरोऽप्यस्ति साङ्ख्यः । तथापि तेनेश्वरस्यास्वातन्त्र्याङ्गीकारेण निरीश्वरवादप्रायत्वादीश्वरनिरपेक्षेत्युक्तम् ॥ अतितुच्छ-त्वेनेति ॥प्रत्यक्षैकप्रमाणबाधित्वादिति भावः ॥ अत एवेति ॥ एवमधिकरणोपाधेर्भाष्ये उक्तत्वादेवेत्यर्थः । सर्वधर्मोपपत्तेरिति गुणपूर्तिव्युत्पादनमयुक्तम् । धर्मिण ईश्वरस्यैवाभावात् । इत्याक्षेपादनन्तरसङ्गतिरिति भावः ॥ युक्तमिति ॥

अत्र विष्णोः सर्वकर्तृत्वरूपं कार्यं स्वसदृशकारणवत् कारणत्वात् (कार्यत्वात्) इति सामयिकानुमानविरोधादयुक्तमुत युक्तमिति चिन्ता । तदर्थमनुमानं विपक्षे तर्कसाहाय्यादना-भासमुत चेतनत्वानुमानबाधितत्वादाभासमिति । तदर्थं चेतनत्वहेतोः पश्वादौ व्यभिचारोऽस्ति न वेति । अनुमानमिति सूत्रपदनिरसनीयपूर्वपक्षमाह ॥ भवितव्यमिति ॥ अनेन महदादि-स्वसदृशकारणकं कार्यत्वाद् घटवदिति अनुमानमुक्तम् बोध्यम् । वृश्चिकताण्डुलीयकादावपि तद्देहस्य स्वसदृशकारणकत्वमस्त्येवेति भावः । विपक्षे बाधकमाह ॥ अन्यथेति ॥ गर्दभात् पर्वतोत्पत्तिः स्यादिति भावः । ननु वस्तुत्वेनेश्वरस्य कार्यसारूप्यमस्त्येवेति सिद्धसाधनतेति चेन्न, आत्यन्तिकसादृश्यस्य विवक्षितत्वात् । न च तत्प््रालयेऽस्तीत्याह ॥ न हीति ॥ नन्वीश्वराभावे कस्यापिप्रवृत्यभावेनप्रकृतेः कार्योन्मुखीभावायोगात् कारणत्वमेव न स्यादिति तर्कपराहति-रित्यत आह ॥ न चेति ॥ स्वत एवप्रवृत्तिमत्वरूपकर्तृत्व इत्यर्थः ।

अत्र सूत्रे आनुमानमनुमानमिति च पदच्छेदः । जगत्कर्त्रिति शेषः । रचनेति स्वतःप्रवृत्तिरुच्यते ॥ अनुपपत्तेरिति ॥ उपपत्तिविरुद्धत्वादित्यर्थः । उपपत्तिश्चाचेतनत्वमितिप्रवृत्तं भाष्यं व्याचष्टे ॥ न कार्यमिति ॥ ननु परेण जडस्य कर्तृत्वं न ज्ञानेच्छाप्रयत्नरूपमङ्गीकारार्हम् । किन्तु स्वतःप्रवृत्तिरूपम् । तत्कथं स्वतःप्रवृत्यनुपपत्या कर्तृत्वाभावसाधनं साध्यावैशिष्ट्यप्रसङ्गाद् इत्यत आह ॥ स्वतःप्रवृत्तिमदेवेति ॥ स्वतन्त्रः कर्तेति स्मरणादिति हिशब्दार्थः । नास्माभिः स्वतःप्रवृत्यभावेन कर्तृत्वाभावंप्रसाध्यासिद्धिवारणायाचेतनत्वेन स्वतःप्रवृत्यभावसाधनं क्रियते । किन्तु स्वतःप्रवृत्तिर्हि कर्तृत्वम् ।प्रधानस्य च परेण सिषाधयिषितायाः कर्तृत्वरूपाया रचनायाः स्वतःप्रवृत्तेरचेतनत्वानुमाने विरोधेनानुपपत्तेर्नानुमानपरिकल्पितंप्रधानं जगत्कर्त्रिति साक्षादेव अचेतनत्वेन स्वतःप्रवृत्यपरपर्यायकर्तृत्वायोग उच्यत इति भावः । एतेनाकर्तृत्वं साध्यं स्वतःप्रवृत्यभावो हेतुः । तदसिद्धिवारणायाचेतनत्वादिति हेतुः, स्वतःप्रवृत्तिमदेव हीति टीकावाक्यम् आद्यानुमानस्य व्यतिरेकव्याप्तिप्रदर्शनपरमिति केषाञ्चिद् व्याख्यानं निरस्तम् ॥ प्रामाणिक-मिति ॥ साङ्ख्याचार्यवचनेन, ऋषिंप्रसूतं कपिलमित्याद्यागमावगतयोगिप्रत्यक्षेणाजामेका-मित्यादिश्रुत्या कार्यत्वादित्यनुमानेन च प्राप्तमित्यर्थः । साङ्ख्याचार्यवचनस्येतरेषाञ्चानुपलब्धे-रित्यनाप्तमूलकत्वात् । ऋषिंप्रसूतमित्यादेर् ईश्वरावतारकपिलपरत्वात् । श्रुतेरन्यार्थत्वादिति भावः । तथा च न केवलंप्रधानस्य कर्तृत्वरूपस्वतःप्रवृत्तेरुपपत्तिविरुद्धत्वात् किन्त्वप्रामाणिक-त्वाच्च नानुमानकल्पितं जगत्कर्त्रिति सूत्रार्थ उक्तो भवति ।

ननु महदादिकं सजातीयकारणकं कार्यत्वादित्याद्यानुमानस्य सत्वात् कथंप्रमाणाभाव इत्यत आह ॥ प्राचीनमिति ॥ स्वतःप्रवृत्तीति ॥ पराभिलषितकर्तृत्वेत्यर्थः । एतेन नानुमानंप्रमाणं तस्य स्वतःप्रवृत्यनुपपादकत्वेनप्रकृतानुपयोगित्वादिति वृत्यन्तरमुक्तं ज्ञेयम् ।

तत्त्वसुबोधिनी

पूर्वपादप्रतिपाद्यकथनपूर्वकम् एतत्पादप्रतिपाद्यमाह ॥ सर्वेति ॥ इतरविरोधत्रय इति ॥ अपौरुषेयवेदापेक्षया समयानां दौर्बल्यशङ्कानिरासायोक्तमनादिकालानुवृत्तेति ॥ अत्रप्रवाहतोऽ-नादित्वं समयानाम् अभिप्रातम् ।प्रवाहत इत्यन्योक्तेरित्यवधेयम् । न चैवमनादिकालानुवृत्तत्त्व-स्योभयत्राप्यविशेषात् कथं समयविरोधस्य वेदविरोधात् प्राबल्यमिति वाच्यम् । समयपदेनैव समूलत्वस्यात्यन्तश्रमहेतुत्वेन तत्त्वज्ञानातिविरोधित्वं श्रुतिविरोधापेक्षया तद्विरोधस्य प्राबल्यहेतोः सूचितत्वादिति ॥ तत्र सामान्यत इति ॥ अनेन पूर्वपादेनास्य पादस्यप्रपञ्च्यप्रपञ्च्यक-भावलक्षणा सङ्गतिरित्युक्तम् भवति । ननु सामान्यनिराकरणेनैवालम्, किं विशेषनिराकरणे-नेत्यत आह ॥ न हीति ॥ ननुप्रथमतः निरीश्वरवादिनां समयनिराकरणे किं निमित्तमित्यतस् तद्वक्तुं समयद्वैविध्यमाह ॥ समया इति ॥

ननु वैदिकसमयस्यापि तृतीयस्य सत्त्वात् कथं द्वैविध्यमित्यत आह ॥ वेदवादिनामिति ॥ वेदावष्टम्भेन पूर्वपक्षं कुर्वताम् असदिति चेदित्यादौप्रथमपादे निराकृतत्त्वादित्यर्थः ॥ हैतुकपा-षण्डान् सङ्ग्रहश्लोकेनाह ॥ अक्षपादेति ॥ बौद्धपाशुपतौ आद्यौ येषां चार्वाकादीनामिति विग्रहः । नन्वाद्याधिकरणषट्के पाषण्डनिरास एव किन्न क्रियते इत्यत आह ॥ तत्रेति ॥ यद्यप्यत्रप्रतिक्षेपवैशेषिकादीनां वेदप्रामाण्यवादित्वेन वैदिकत्वम् अस्त्येव, तथापि न वेदप्रामाण्यवादित्वं किन्तु तत्प््राधानत्वम् । वैशेषिकादीनां तु हेतुप्रधानत्वमेवेति न वैदिकत्त्वमिति भावः । प्राबल्ये हेतुमाह ॥ युक्तिमत्वात् ॥ तेष्विति ॥ हैतुकपाषण्डेष्वित्यर्थः । अतिविरोधित्वे हेतुमाह ॥ ईश्वरेति ॥ चार्वाकस्य चेतनमात्रनिरपेक्षदेहप्रवृत्तिवादित्वेन न तत्रासिद्धिरिति भावः । तर्हि चार्वाकसमय एवप्रथमतः किं न निराक्रियते इत्यत आह ॥ तत्रेति ॥ उपलक्षणमेतत् । इतरेषां चानुपलब्धेरिति न्यायसञ्चारविषयत्वेनेत्यपि दृष्टव्यम् । साङ्ख्यसमयो हि केवला-चेतनकर्तृकत्वचेतनसहिताचेतनकर्तृकत्वाभ्यां द्वेधा । द्वितीयोऽपि गुणभूतेश्वरानुगृहीतप्रधान-कर्तृकत्वेन जीवसहितप्रधानकर्तृकत्वेन चेति द्विधा इत्याशयेन विभागमाह ॥ स च द्विविध इति ॥ तत्र केवलाचेतनकर्तृकत्वमते स्वतन्त्रचेतनकर्तृकत्वस्यात्यन्तविरोधिचेतनरूपविशेषस्यैवा-नङ्गीकारात् । अत आद्येऽधिकरणे । तथा च सर्वधर्मोपपत्तिरित्युक्तं पूर्णगुणत्वं नेश्वरस्य युक्तं तस्यैवाभावाद् इत्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः ॥ अत एवेति ॥ केवलाचेतन-प्रवृत्तिमत्त्वस्य निराक्रियमाणत्वादेवेत्यर्थः । नप्रकृतेर्महदादिकारणत्वं साधकाभावादित्यत आह ॥ भवितव्यं चेति ॥ कार्यं स्वसदृशकारणवत् कार्यत्वाद् घटवद् इत्यनुमानमेव साधकमिति भावः ॥ अन्यथेति ॥ कार्यस्य स्वसदृशकारणवत्त्वानङ्गीकारे मृत्पिण्डस्य पटकारणत्वं स्याद् इत्यतिप्रसङ्गादित्यर्थः । नन्वीश्वरस्यापि अस्ति महदादिसारूप्यमत आह ॥ न हीति ॥ अनुमानेनेति ॥ एवं च सूत्रे अनुमानमिति पदविभागे अनुमानपदकल्पितमिति व्याख्यातम् । कुतो न जगत्कर्तृत्वंप्रधानस्येत्यत आह ॥ स्वत इति ॥ प्रामाणिकमिति महदादिकं सकारणकं कार्यत्वात्, महदादिकं, स्वतन्त्रजडजन्यम् इत्यादिप्रमाणसिद्धमित्यर्थः ॥ नप्रकृतोपयोगीति ॥ सिद्धसाधनत्वादिति भावः । नास्त्येवेति ॥ दृष्टान्ताभावादिति भावः ॥

वाक्यार्थविवरणम्

अन्यथेति ॥ कार्यस्य स्वसदृशकारणजन्यत्वानङ्गीकारे रासभादपि घटोत्पत्तिः स्या-दित्यर्थः । ‘स्वतन्त्रवृत्ती रचना सा चैवाऽचेतने कुतः । इत्यनुव्याख्यानं हृदि निधायाह ॥ नप्रधानस्येति ॥ कारणत्वमात्रेति ॥ तथा चप्रधानस्योपादानकारणत्व-मङ्गीकुर्वतामस्माकमिष्टमेवेत्याशयः ॥प्रकृतेति ॥ स्वातन्त्र्येणप्रवृत्तिसाधकं न भवतीति भावः ।

वाक्यार्थमञ्जरी

इदानीं समयविरोधनिराकरणे निमित्तमाह ॥ सर्वविरोधानामिति ॥ इदानींतनसमयानां कथमपौरुषेयश्रुतिसिद्धजगत्कर्तृत्वविरोधित्वमित्यत उक्तम् ॥ अनादीति ॥प्रवाहतो अना-दीत्यर्थः । वैदिकसमयस्य तृतीयस्य सत्वात्कथं द्वैविध्यमित्यत आह ॥ वेदवादिनामिति ॥ वेदावष्टम्भेन पूर्वपक्षं कुर्वताम् असदित्यादौप्रथमपादे निराकृतत्वादिति भावः । अक्षपादेति नारदीयस्मृतिस् तेषु हैतुकेषु ॥ अतिप्रसङ्गेति ॥ रक्ततन्तुना शुक्लपटोत्पत्तिरूपेत्यर्थः । साङ्ख्यानुमानपरिकल्पितंप्रधानं न कर्तृ कुतः रचनानुपपत्तेर् जडस्य रचयितृत्वानुपपत्तेस् तत्र मानाभावाच्चेत्यर्थः ॥ कारणत्वमात्रसाधकमिति ॥ उपादानत्वेनाप्युपपत्तेरिति भावः ।


ॐप्रवृत्तेश्च ॐ

सूत्रभाष्यम्

॥ ॐप्रवृत्तेश्च ॐ ॥ २ ॥

चेतनस्य स्वतःप्रवृत्तिदर्शनाच्च ।

सत्तर्कदीपावली

न च कर्तृविशेषाप्रारितात्प््राधानाज् जगद्रचनानुमातुं शक्यते । दृष्टान्ताभावात् । गृहरचनावत् कर्तृविशेषाज्जगद्रचनानुमातुं शक्यते ।

तत्त्वप्रदीपिका

चेतनस्यापि निर्विकारस्य नप्रवृत्तिरित्यत आह– ॐप्रवृत्तेश्च ॐ ॥ योऽहमनुभविता स एष कार्यमारभ इति चेतनस्यैवप्रवृत्तिदर्शनाच्च नाचेतनं जगत्कर्तृ । न च दर्शनं भ्रान्तिः । विपरीतप्रमाणाभावात् । स्यादेतत्, चेतनेप्रवृत्तिर्न दृश्यते । अचेतनादेव कर्तृणो विवेकाग्रह-निबन्धनश्चेतने कर्ताऽस्मीति व्यवहारः । इदं रजतमिति व्यवहारवत् । न हि शुक्तिकामाददानोऽपि रजतार्थी शुक्तिकां रजतमवैति । चक्षुस्सम्प्रयुक्ताया शुक्तिकाया इदमिति सामान्यतःप्रतीयमानाया दोषादगृह्यमाणविशेषायास्सादृश्याद्रजतमिति स्मर्यमाणाद्रजताद्भेदं न गृह्णाति परम् । अत इदं रजतमिति व्यवहरति, उपादत्ते च तां रजतार्थी । न च भेदस्य वस्तुस्वरूपत्वेन तद्ग्रहेऽग्रहासम्भव इति वाच्यम् । स्वरूपस्यापि तस्य दोषाद्ग्रहणप्रतिबन्धात् । यच्चाभेदग्रहकारणमपरे मन्यन्ते तद्भेदा-ग्रहकारणं ब्रूमः । न च विना भेदग्रहादभेदग्रहस्तेषामपीति लध्वीयं कल्पनेति । तदप्यनुपासितगुरुभि-रेवोत्प््रोक्षितमवभाति । हन्तेयं शुक्तिरियन्तं कालं रजतमितिप्रत्यभादिति बाधोत्तरकालं परामर्शदर्श-नात् । तत्कालेऽपि नेदं रजतमिति परोपदेशे रजतमित्येवप्रतिभातीत्यनुभवात् । अनुभवस्य भ्रमत्व-कल्पने भ्रमाङ्गीकारो भ्रमे भ्रमत्वकल्पनमिति दोषद्वयापातः । संसर्गप्रत्ययेऽनुत्पन्नेऽप्युत्पन्नाभिमाना-द्व्यवहार इति वदतां को दोष इति चेत्कोऽयमभिमानो नाम ? न तावद्भ्रम इति युक्तम् । औत्तरिक-प्रमाणप्रवृत्तेरसामञ्जस्यप्रसङ्गात् । नेदं रजतमिति ह्यौत्तरिकःप्रत्ययो न पुनरिदं रजतमिति ज्ञानं नाऽसीदिति ।प्रत्युतेदं रजतमिति ज्ञानमासीदेव मम, न चेदं तथेति भवति । ततश्चोत्पन्नेऽनुत्पन्नाभि-मानादन्यथा व्यवहारस्तेषामेव परीक्षकवराकाणाम् । अथानुत्पन्नेऽपि ज्ञान उत्पन्नविवेकाग्रहादन्यथा ज्ञानमुदपादीति व्यवहारः, न पुनस्तादृशःप्रत्यय इति मतं; तदपि न युक्तम् । यदिदं रजतमिति व्यवहारवदन्यथाज्ञानमासीदिति व्यवहारोऽप्ययथार्थः स्यात् । नेदं रजतमितिवन्नान्यथाख्याति-रजतनिष्ठेति बाधः स्यात् । नैव चासावस्ति । अन्यथाख्यातिरासीदेवेति सर्वो लोकःप्रत्येतीत्य-वादिष्म । सर्वथा बाधरहितस्याप्ययथार्थत्वे सर्वत्रानाश्वासप्रसङ्गः । ननु वलयकरणाद्ययोगनिबन्धनो रजतादिवस्तुष्वापाततो बाधोदयःप्रतीतिषु स्वपरपक्षयोः साधारणार्थक्रियासु विवेकिनामेव युक्तितो बाध इति, तदप्यसारम् । नेयं भ्रान्तिः सैवेति विवेकग्रहणात्मकाद्बाधादबाधं श्रेयांसं वित्त । अनुत्पन्नेऽप्युत्पन्नविवेकाग्रहं व्यवहारहेतुं व्याहरतां विवेकाग्रहपरम्परा लक्ष्यते । बाध्यत्वादियमन्यथा-ख्यातिरिति निश्चिनोमीति व्यवहारस्यापि विवेकाग्रहमूलत्वात् । एकमन्यथामानं कल्पनागौरवभया-त्परिजिहीर्षन्तः परिकल्पयन्त्यपरिमितानि ग्रहणस्मरणान्यन्यथाव्यवहारांश्चेति काऽत्र लघुकल्पना भवताम् ? अरजते रजतविवेकाग्रहवदनन्यथाख्यातावन्यथाख्यातिविवेकाग्रह इष्यते चेत्तदन्यथाख्यातिरपि स्वशिरसासबहुमानमुदुह्यते सद्वादिभिः । तथाऽप्यन्यथाख्यातिप्रतीतिर्ना-न्यथाख्यातिरिति चेदस्तु तर्हि रजतप्रतीतिरेवान्यथाख्यातिरिति । इयमिदं रजतमितिप्रतीतिर्भ्रान्तिरिति वदन्ति च सकललौकिकपरीक्षकाः । तस्य च मूलं विवक्षमाणा भ्रान्त्यभ्रान्त्योर्भवन्त्योर्भेदाग्रह-माग्रहीष्ट । अहो दुर्दर्शनाभियोगपरिपाकविजृम्भिता भ्रान्तिरख्यातिवादिनां, यत्स्वयमूढामवि-योगिनीमिमां न जानीथेत्यलमनेन भ्रान्त्यपलापोद्यमेन सैकतावनिगृहनिर्माणवदतिदुष्करविषयेण । अपि च विवक्षितरजतव्यवहर्ता व्यवहारं सम्यञ्चमसम्यञ्चं वा मन्यते, आद्ये भ्रमाभ्युपगतिः । द्वितीये नैव व्यवहरेत् । अथ द्वेधाऽपि न निश्चिनोति समीचो भेदाग्रहात्सम्यञ्चं वक्ति । अभेदाग्रहादसम्यञ्चं किमिति न वदेत् । न च भेदाग्रहादेव सर्वत्र व्यवहार इति वाच्यम् । अवैत्येवेदं रजतमित्यादि । अन्यथा किमित्याददीयेति सर्वत्रानुभवादित्यास्तामस्य मतस्यामितदोषपञ्जरस्यानञ्जस्यप्रसञ्जनम् । अतस्सूक्तं चेतनस्यप्रवृत्तिदर्शनाच्चेति ।

तत्त्वप्रकाशिका

एवंप्रधानस्य कारणत्वमचेतनत्वादिना निराकृत्य युक्त्यन्तरेणापि तन्निराकुर्वत्सूत्रमुपन्यस्य व्याचष्टे ॥प्रवृत्तेश्चेति ॥ महदादिसृष्टिश्चेतनेच्छानुसारिणी सृष्टित्वात्पटसृष्टिवदित्यनुमानविरुद्धत्वाच्च नाचेतनस्य कारणत्वं सम्भवति । न च वाच्यं पटादिसृष्टावपि न चेतनस्य व्यापार इति । अहं करोमीति चेतनस्यप्रवृत्तिदर्शनादिति भावः । न चेदं व्यवहारमात्रमिति वाच्यम् । बाधकाभावात् । अन्यथा विशिष्टज्ञानमात्रलोपप्रसङ्गात् ।प्रकृतेः कर्तृत्वं बाधकमिति चेन्न । परस्पराश्रयप्रसङ्गात् ।प्रतिपादयिष्यति चैतदिति ।

गुर्वर्थदीपिका

अहं करोमीति सार्वजनीनप्रतीतेर्व्यवहारमात्रत्वेऽयं घट इत्यादिप्रतीतेरपि व्यवहारमात्रत्वप्रसङ्ग इत्याह– अन्यथेति ॥

भावबोधः

‘चेतनेच्छानुसारेण यदा दृष्टः पटोद्भवः । एतादृशत्वमन्यस्य वस्तुत्वात् केन वार्यते’ ।

इत्यनुव्याख्यानानुसारेण भाष्याभिप्रायमाह– महदादीति ॥ परस्पराश्रयप्रसङ्गादिति ॥प्रकृतेः कर्तृत्वसिद्धौ ‘अहं करोमि’ इत्यादेर्व्यवहारमात्रत्वसिद्धिः । तत्सिद्धौ दृष्टान्तस्य साध्य-विकलत्वे नानुमानस्याविरोधत्वेप्रकृतेः कर्तृत्वसिद्धिरिति परस्पराश्रयप्रसङ्गादित्यर्थः । ईश्वरेच्छानुसारित्वस्य घटादिसृष्टावपि सत्त्वेन न दृष्टान्तः साध्यविकल इति भावेनाह–प्रतिपादयिष्यते चैतदिति ॥ उत्तरसूत्रद्वयेनेत्यर्थः ।

भावदीपः

अचेतनत्वादिनेति ॥प्रमाणाभाव आदिपदार्थः ॥ युक्त्यन्तरेणेति ॥ चेतनकर्तृत्व-साधकयुक्त्या चेत्यर्थः । भाष्यं दृष्टान्ते साध्यवैकल्यनिरासकमिति व्याकरिष्यन् ‘चेतनेच्छानुसारेण यदा दृष्टः पटोद्भवः । एतादृशत्वमन्यस्य वस्तुत्वात्केन वार्यत’ इत्यनुभाष्योक्तमनुमानमाह ॥ महदादीति ॥ दर्शनपदोक्तितात्पर्यं व्यनक्ति ॥ न चेत्यादिना ॥ दर्शनादनुभवादित्यर्थः । अनुभवासिद्धिमाशङ्क्य निराह ॥ न चेदमिति ॥ अहं करोमीत्येतदित्यर्थः । व्यवहारो ऽसंसर्गाग्रहाद्युक्त इति भावः ॥ परस्परेति ॥प्रकृतेः कर्तृत्वे सिद्धे अहं करोमीत्यस्य व्यवहार-मात्रत्वेनानुमानविरोधासम्भवः । सिद्धे च तस्मिन्प्रकृतेः कर्तृत्वसिद्धिरिति परस्पराश्रयेत्यर्थः । नन्वहं करोमीत्यादिप्रतीतेर्भ्रमत्वमुपेत्य घटादावपीश एव कर्ता न जीव इतिप्रत्यपाद्यधस्तादुपसंहार दर्शनादित्यत्र । तथा च कथमेतदित्यत आह ॥प्रतिपादयिष्यति चैतदिति ॥ स्वातन्त्र्यधीरेव भ्रान्तिर्न तु कर्तृत्वधीरपि तथा चैतत्कर्तृत्वंप्रत्यक्षोपपत्तिश्रुतिभिर्जीवस्य पारमार्थिकमेवेतिप्रतिपाद-यिष्यते कर्ता शास्त्रार्थवत्त्वादित्यत्रोपरितनपाद इत्यर्थः । तत्त्वप्रदीपे तु निर्विकारस्य चेतनस्यापिप्रवृत्त्यनुपपत्तिरित्याशङ्क्यानुभवसिद्धत्वान्नानुपपत्तिरित्यर्थतयैतद्भाष्यं व्याख्यातम् ।

अभिनवचन्द्रिका

युक्त्यन्तरेणापीति ॥ यद्यपि सूत्रे युक्तिर्नोच्यते, तथापि ‘प्रवृत्तेः’ इति घटादौ चेतनस्य प्रवृत्त्युक्त्या दृष्टान्तस्य सूचितत्वादनुमानं लब्धमिति भावेन युक्त्यन्तरेणेत्युक्तमिति द्रष्टव्यम् । ननु ‘चेतनस्य स्वतःप्रवृत्तिदर्शनाच्च’ इति भाष्यमयुक्तम्, अनुपयुक्तत्वात् । ‘प्रवृत्तेश्च’ इति सूत्रव्याख्यानत्वाभावाच्चेत्यत आह – महदादिसृष्टिश्चेति ॥ सूत्रं दृष्टान्तसूचनेन अनुमान-सूचकम् । भाष्यं तु – सूत्रस्य दृष्टान्तसूचकत्वसिद्धये शेषपूरणेन व्याख्यानरूपमित्यदोषः । अहं करोमीति नाऽनुभवः, किन्तु माणवकस्य सिंहोऽहमितिवन् मानसो व्यवहार एव । तथा च दृष्टान्ते न साध्यवैकल्यपरिहार इत्याशङ्क्य निषेधति – न चेति ॥ विशिष्टज्ञानमात्रेति ॥ अहं दुःखीत्याद्यपि न ज्ञानं किन्तु व्यवहारमात्रमेव स्यादिति भावः ॥ प्रतिपादयिष्यते चैतदितीति ॥ जीवकर्तृत्वम् ‘कर्ता शास्त्रार्थवत्त्वात्’ इत्यनेन प्रतिपादयिष्यत इत्यर्थः । पयोऽम्बुवदिति प्रतीकग्रहणानन्तरं टीकायां श्रूयमाणम् ‘अपिपदं चेतनप्रवृत्तेराकर्षार्थम्’ इति वाक्यं न टीकावाक्यं, किन्तु प्रक्षिप्तम् । तथा हि ‘शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यत’ इति नियमात् पदाकर्ष एवेति वाच्यम् । पूर्वोत्तरसूत्रयोश् चेतनप्रवृत्तिपदाभावेनाकर्षायोगात् । चेतनप्रवृत्ते-रित्यस्याकर्षार्थमिति पाठप्रसङ्गाच्च । ‘एतेन ह वाव पयो मण्डं भवति’ इत्यादि तत्रापि ईश्वरनिमित्तप्रवृत्तिश्रुतेः’ इति भाष्ये अचेतनत्वहेतोर्व्यभिचाराधिकरणतया ये उदाहृते पयोऽम्बुनी तत्रापीत्यपिशब्दस्य व्याख्यातत्वाच्चेति ।

वाक्यार्थमुक्तावली

अचेतनत्वादिनेत्यादिपदेनप्रमाणाभावो गृह्यते । सूत्रे चेतनस्येति योग्यतयान्वेति । नानुमानमित्यस्ति । दर्शनादिति शेषः । पटादिसृष्टौ चेतनस्यप्रवृत्तेरनुभवाच्च नानुमानं जगत्कर्त्रिति सूत्रभाष्यमभिप्रात्य ‘चेतनेच्छानुसारेण यदा दृष्टः पटोद्भवः । एतादृशत्वमन्यस्य वस्तुत्वात्केन वार्यते’ । इत्यनुभाष्योक्तमनुमानमाह ॥ महदादीति ॥ तत्र साध्यवैकल्यपरिहार-कतया भाष्यं योजयति ॥ न चेति ॥ ननु पटादिसृष्टावप्यन्तःकरणस्यैव कतृत्वं नात्मनः । अहं करोमीति विशिष्टं ज्ञानमेव नास्ति किन्तु व्यवहारमात्रम् । न च तस्य विशिष्टज्ञानपूर्वकत्वमत एवागतमिति वाच्यम् । अहमिति ज्ञानस्य करोमीति ज्ञानस्य च भेदग्रहादसंसर्गाग्रहाद्वा व्यवहारोपपत्तेरित्याशयेनाशङ्क्य निराकरोति ॥ न चेति ॥ अन्यथा बाधकं विना व्यवहार-मात्रकल्पने ॥ परस्पराश्रयेति ॥प्रकृतेः कर्तृत्वसिद्धौ अहं करोमीत्यादेर्व्यवहारमात्रत्वसिद्धिः । तत्सिद्धौ दृष्टान्तस्य साध्यविकलत्वेनानुमानस्य विरोधकत्वेप्रकृतेः कर्तृत्वसिद्धिरिति परस्परा-श्रयत्वप्रसङ्गादित्यर्थः । ईश्वरेच्छानुसारित्वस्य पटादिसृष्ट्यादावपि सत्वेन दृष्टान्तः साध्यविकलो नेति भावेनाह ॥प्रतिपादयिष्यते चैतदिति ॥ उत्तरसूत्रद्वयेनेत्यर्थ इति भावबोधे । यद्वा उपसंहारसूत्रे घटादावपीश एव कर्ता न जीव इतिप्रत्यवादि तथा चाहं करोमि इतिप्रवृत्यनुभवस् तत्र कथमित्यत आह ॥प्रतिपादयिष्यत इति ॥ जीवस्यापि कर्तृत्वंप्रत्यक्षादिबलात् कर्ता शास्त्रार्थवत्वादित्यधिकरणेप्रतिपादयिष्यत इत्यर्थः ।

तत्त्वसुबोधिनी

अन्यथेति ॥ बाधकाभावेऽपि व्यवहारमात्रत्वकल्पने इत्यर्थः । घटोऽयमित्यादिविशिष्ट-ज्ञानमात्रस्य लोपः स्यात् । उपचरितत्वकल्पनस्य तत्रापि सम्भवादिति भावः ॥ परस्पराश्रय-प्रसङ्गादिति ॥प्रकृतेः कर्तृत्वसिद्धौ अहं करोमीत्यादेर् व्यवहारमात्रत्वसिद्धिः । तत्सिद्धौ दृष्टान्तस्य साध्यविकलत्वेन अनुमानस्याविरोधकत्वेनप्रकृतेः कर्तृत्वसिद्धिर् इति परस्पराश्रय-प्रसङ्गादित्यर्थः । नन्वेवं त्वन्मतेऽपिप्रकृते कर्तृत्वाभावसिद्धौ बाधकाभावादहं करोमीत्यादेर् व्यवहारमात्रत्वाभावसिद्धिस् तत्सिद्धौ चप्रकृतेः कर्तृत्वाभावसिद्धिर् इत्यन्योन्याश्रयः सम एवेत्यत आह ॥प्रतिपादयिष्यते चैतदिति ॥ कर्ता शास्त्रार्थवत्त्वादित्यादिविशेष ईश्वरेच्छानुसारित्वस्य पटादिसृष्टावपि सत्त्वेन न दृष्टान्तः साध्यविकल इति भावेनाह । उपपादयिष्यते चैतदिति ॥ उत्तरसूत्रद्वयेनेत्यर्थ इत्यप्याहुः ।

वाक्यार्थविवरणं

व्यवहारमात्रमिति ॥ चित्रलिखितसिंहे सिंह इति व्यवहारमात्रं, न ज्ञानमित्यर्थः ॥ अन्यथा ॥ बाधकाभावेऽपि व्यवहारमात्रत्वाङ्गीकारे । विशिष्टज्ञानम् । अयं घट इत्यादि ॥ परस्परेति ॥प्रकृतेः कर्तृत्वसिद्धौ तद्विरोधादहङ्करोमीत्यस्य व्यवहारमात्रत्वसिद्धिः । तत्सिद्धौ च दृष्टान्तस्य साध्यविकलत्वेनानुमानविरोधाभावेनप्रकृतेः कर्तृत्वसिद्धिरित्यन्योन्याश्रयप्रसङ्गादित्यर्थः ।

वाक्यार्थमञ्जरी

पटादिसृष्टौ चेतनप्रवृत्तेर्दर्शनाच्च नप्रधानं कर्त्रित्यर्थः ॥ व्यवहारमात्रमिति ॥ नत्वात्मनि कर्तृत्वावगाह्यनुभव इत्यर्थः ॥ अन्यथेति ॥ अहं दुःखीत्येतदपि व्यवहारमात्रमिति वक्तुं शक्य-त्वादिति भावः ॥ परस्पराश्रयेति ॥प्रकृतेः कर्तृत्वसिद्धौ अहं करोमीत्यादेर्व्यवहारमात्रत्व सिद्धिस्तत्सिद्धौ दृष्टान्तस्य साध्यविकलत्वेनानुमानस्याविरोधकत्वेनप्रकृतेः कर्तृत्वसिद्धिरित्य-न्योन्याश्रयप्रसङ्गादित्यर्थः । ईश्वरेच्छानुसारित्वस्य घटादिसृष्टावपि सत्त्वेन न दृष्टान्तः साध्य-विकल इति भावेनाह ॥प्रतिपादयिष्यत इति ॥ उत्तरसूत्रद्वयेनेत्यर्थः ।